मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

यतिपञ्चकम्

3

सम्प्रदायतः श्रीशङ्करकृता

वेदान्तवाक्येषु सदा रमन्तो

भिक्षान्नमात्रेण च तुष्टिमन्तः ।

विशोकवन्तः करणैकवन्तः

कौपीनवन्तः खलु भाग्यवन्तः ॥

॥१॥

मूलं तरोः केवलमाश्रयन्तः

पाणिद्वयं भोक्तुममत्रयन्तः ।

कन्थामिव श्रीमपि कुत्सयन्तः

कौपीनवन्तः खलु भाग्यवन्तः ॥

॥२॥

देहादिभावं परिमार्जयन्त

आत्मानमात्मन्यवलोकयन्तः ।

नान्तं न मध्यं न बहिः स्मरन्तः

कौपीनवन्तः खलु भाग्यवन्तः ॥

॥३॥

स्वानन्दभावे परितुष्टिमन्तः

संशान्तसर्वेन्द्रियदृष्टिमन्तः ।

अहर्निशं ब्रह्मणि ये रमन्तः

कौपीनवन्तः खलु भाग्यवन्तः ॥

॥४॥

पञ्चाक्षरं पावनमुच्चरन्तः

पतिं पशूनां हृदि भावयन्तः ।

भिक्षाशना दिक्षु परिभ्रमन्तः

कौपीनवन्तः खलु भाग्यवन्तः ॥

॥५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ यतिपञ्चक सम्पूर्णम्