मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ललितापञ्चरत्नम्

3

श्रीशङ्करभगवत्पादकृतम्

प्रातः स्मरामि ललितावदनारविन्दं

बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।

आकर्णदीर्घनयनं मणिकुण्डलाढ्यं

मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥

॥१॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं

रत्नाङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।

माणिक्यहेमवलयाङ्गदशोभमानां

पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥

॥२॥

प्रातर्नमामि ललिताचरणारविन्दं

भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।

पद्मासनादिसुरनायकपूजनीयं

पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥

॥३॥

प्रातः स्तुवे परशिवां ललितां भवानीं

त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।

विश्वस्य सृष्टिविलयस्थितिहेतुभूतां

विश्वेश्वरीं निगमवाङ्मनसातिदूराम् ॥

॥४॥

प्रातर्वदामि ललिते तव पुण्यनाम

कामेश्वरीति कमलेति महेश्वरीति ।

श्रीशाम्भवीति जगतां जननी परेति

वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥

॥५॥

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः

सौभाग्यदं सुललितं पठति प्रभाते ।

तस्मै ददाति ललिता झटिति प्रसन्ना

विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥

॥६॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-ललितापञ्चरत्नं सम्पूर्णम्