मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

धन्वन्तरि अष्टोत्तरशत नाम स्तोत्रम्

3

पारम्परिकम्

ध्यानम्

शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः

सूक्ष्मस्वच्छातिहृद्यांशुक-परिविलसन्मौलिमम्भोजनेत्रम् ।

कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारूपीताम्बराढ्यं

वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥

॥१॥

स्तोत्रम्

धन्वन्तरिः सुधापूर्णकलशाढ्यकरो हरिः ।

जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥

॥२॥

निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः ।

आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥

॥३॥

निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः ।

नीलकुञ्चितकेशान्तः परमाद्भुतरूपधृत् ॥

॥४॥

कटाक्षवीक्षणाश्वस्तवासुकिः सिंहविक्रमः ।

स्मर्तृहृद्रोगहरणो महाविष्ण्वंशसम्भवः ॥

॥५॥

प्रेक्षणीयोत्पलश्याम आयुर्वेदाधिदैवतम् ।

भेषजग्रहणानेहस्स्मरणीयपदाम्बुजः ॥

॥६॥

नवयौवनसम्पन्नः किरीटान्वितमस्तकः ।

नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलिः ॥

॥७॥

दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽम्बुजेक्षणः ।

चतुर्भुजः शङ्खधरश्चक्रहस्तो वरप्रदः ॥

॥८॥

सुधापात्रोपरिलसदाम्रपत्रलसत्करः ।

शतपद्याढ्यहस्तश्च कस्तूरीतिलकाञ्चितः ॥

॥९॥

सुकपोलः सुनासश्च सुन्दरभ्रूलताञ्चितः ।

स्वङ्गुलीतलशोभाढ्यो गूढजत्रुर्महाहनुः ॥

॥१०॥

दिव्याङ्गदलसद्बाहुः केयूरपरिशोभितः ।

विचित्ररत्नखचितवलयद्वयशोभितः ॥

॥११॥

समोल्लसत्सुजातांसश्चाङ्गुलीयविभूषितः ।

सुधागन्धरसास्वादमिलद्भृङ्गमनोहरः ॥

॥१२॥

लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलः ।

लक्ष्मीशोभितवक्षस्को वनमालाविराजितः ॥

॥१३॥

नवरत्नमणीकॢप्तहारशोभितकन्धरः ।

हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखः ॥

॥१४॥

विरजोऽम्बरसंवीतो विशालोराः पृथुश्रवाः ।

निम्ननाभिः सूक्ष्ममध्यः स्थूलजङ्घो निरञ्जनः ॥

॥१५॥

सुलक्षणपदाङ्गुष्ठः सर्वसामुद्रिकान्वितः ।

अलक्तकारक्तपादो मूर्तिमद्वार्धिपूजितः ॥

॥१६॥

सुधार्थान्योन्यसंयुध्यद् देवदैतेयसान्त्वनः ।

कोटिमन्मथसङ्काशः सर्वावयवसुन्दरः ॥

॥१७॥

अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुतः ।

पुष्पवर्षणसंयुक्तगन्धर्वकुलसेवितः ॥

॥१८॥

शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृतः ।

विष्वक्सेनादियुक्पार्श्वः सनकादिमुनिस्तुतः ॥

॥१९॥

साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षितः ।

साशङ्कसम्भ्रमदितिदनुवंश्यसमीडितः ॥

॥२०॥

नमनोन्मुखदेवादिमौलीरत्नलसत्पदः ।

दिव्यतेजःपुञ्जरूपः सर्वदेवहितोत्सुकः ॥

॥२१॥

स्वनिर्गमक्षुब्धदुग्धवाराशिर्दुन्दुभिस्वनः ।

गन्धर्वगीतापदानश्रवणोत्कमहामनाः ॥

॥२२॥

निष्किञ्चनजनप्रीतो भवसम्प्राप्तरोगहृत् ।

अन्तर्हितसुधापात्रो महात्मा मायिकाग्रणीः ॥

॥२३॥

क्षणार्धमोहिनीरूपः सर्वस्त्रीशुभलक्षणः ।

मदमत्तेभगमनः सर्वलोकविमोहनः ॥

॥२४॥

स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलिः ।

रत्नदर्वीलसद्धस्तो देवदैत्यविभागकृत् ॥

॥२५॥

सङ्ख्यातदेवतान्यासो दैत्यदानववञ्चकः ।

देवामृतप्रदाता च परिवेषणहृष्टधीः ॥

॥२६॥

उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्कितविभाजकः ।

पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहरः ॥

॥२७॥

राहुकेतुग्रहस्थानपश्चाद्गतिविधायकः ।

अमृतालाभनिर्विण्णयुध्यद् देवारिसूदनः ॥

॥२८॥

गरुत्मद्वाहनारूढः सर्वेशस्तोत्रसंयुतः ।

स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजितः ॥

॥२९॥

मोहिनीदर्शनायातस्थाणुचित्तविमोहकः ।

शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुतः ॥

॥३०॥

वेदान्तवेद्यमहिमा सर्वलोकैकरक्षकः ।

राजराजप्रपूज्याङ्घ्रिश्चिन्तितार्थप्रदायकः ॥

॥३१॥

धन्वन्तरेर्भगवतो नाम्नामष्टोत्तरं शतम् ।

यः पठेत्सततं भक्त्या नीरोगः सुखभाग्भवेत् ॥

॥३२॥

इति बृहद्ब्रह्मानन्दोपनिषदान्तर्गतं श्री-धन्वन्तर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्