ब्रह्माण्डपुराणम्
श्रीवसिष्ठ उवाच
भगवन् केन विधिना नामभिर्वेङ्कटेश्वरम् ।
पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः ॥
॥१॥पृच्छामि तानि नामानि गुण योगपराणि किम् ।
मुख्यवृत्तीनि किं ब्रूहि लक्षकाण्यथवा हरेः ॥
॥२॥नारद उवाच
नामान्यनन्तानि हरेः गुणयोगानि कानि चित् ।
मुख्य वृत्तीनि चान्यानि लक्षकाण्यपराणि च ॥
॥३॥परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् ।
आदिमध्यान्तरहितः त्वव्यक्तोऽनन्तरूपभृत् ॥
॥४॥चन्द्रार्क वह्निवाय्वाद्या ग्रहर्क्षाणि नभो दिशः ।
अन्वयव्यतिरेकाभ्यां सन्ति नो सन्ति यन्मतेः ॥
॥५॥तस्य देवस्य नाम्नां हि पारं गन्तुं हि कः क्षमः ।
तथाऽपि चाभिधानानि वेङ्कटेशस्य कानिचित् ॥
॥६॥ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुव्रत ।
यदुच्चारणमात्रेण विमुक्ताघः परं व्रजेत् ॥
॥७॥वेङ्कटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विधिः ।
छन्दोऽनुष्ठुप् तथा देवः श्रीवत्साङ्को रमापतिः ॥
॥८॥बीजभूतस्तथोंकारो ह्रीं क्लीं शक्तिश्च कीलकम् ।
ॐ नमो वेङ्कटेशायेत्यादिर्मन्त्रोऽत्र कथ्यते ॥
॥९॥ब्रह्माण्डगर्भः कवचमस्त्रं चक्रगदाधरः ।
विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः ॥
॥१०॥ध्यानम्
भास्वच्छंद्रमसौ यदीयनयने भार्या यदीया रमा
यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा
नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान्
तातो यो मदनस्य यो दुरितहा तं वेङ्कटेशं भजे ॥
॥११॥ऊर्ध्वै हस्तौ यदीयौ सुररिपुदळने बिभ्रतौ शङ्खचक्रे
सेव्यावङ्घ्री स्वकीयावभिदधदधरो दक्षिणो यस्य पाणिः ।
तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः
श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतस्तं भजे वेङ्कटेशम् ॥
॥१२॥इति ध्यायन् वेङ्कटेशं श्रीवत्साङ्कं रमापतिम् ।
वेङ्कटेशो विरूपाक्ष इत्यारभ्य जपेत्क्रमात् ॥
॥१३॥ॐ वेङ्कटेशो विरूपाक्षो विश्वेशो विश्वभावनः ।
विश्वसृङ् विश्वसंहर्ता विश्वप्राणो विराड्वपुः ॥
॥१४॥शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः ।
शेषस्तुत्यः शेषशायी विशेषज्ञो विभुः स्वभूः ॥
॥१५॥विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सविष्णुः सहिष्णुकः ।
भ्राजिष्णुश्च ग्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः ॥
॥१६॥कालयन्ता कालगोप्ता कालः कालान्तकोऽखिलः ।
कालगम्यः कालकण्ठवन्द्यः कालकलेश्वरः ॥
॥१७॥शम्भुः स्वयम्भूरम्भोजनाभिस्तम्भितवारिधिः ।
अम्भोधिनन्दिनीजानिः शोणाम्भोजपदप्रभः ॥
॥१८॥कम्बुग्रीवः शम्बरारिरूपः शम्बरजेक्षणः ।
बिम्बाधरो बिम्बरूपी प्रतिबिम्बक्रियातिगः ॥
॥१९॥गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः
दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः ॥
॥२०॥परेशः परमात्मा च परञ्ज्योतिः परा गतिः ।
परं पदं वियद्वासाः पारम्पर्यशुभप्रदः ॥
॥२१॥ब्रह्माण्डगर्भो ब्रह्मण्यो ब्रह्मसृढ्ब्रह्मबोधितः ।
ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्यपरायणः ॥
॥२२॥सत्यव्रतार्थसन्तुष्टस्सत्यरूपी झषाङ्गवान् ।
सोमकप्राणहारी चानीताम्नायोऽब्धिसञ्चरः ॥
॥२३॥देवासुरवरस्तुत्यः पतन्मन्दरधारकः ।
धन्वन्तरिः कच्छपाङ्गः पयोनिधिविमन्थकः ॥
॥२४॥अमरामृतसन्धाता धृतसम्मोहिनीवपुः ।
हरमोहकमायावी रक्षःसन्दोहभञ्जनः ॥
॥२५॥हिरण्याक्षविदारी च यज्ञो यज्ञ विभावनः ।
यज्ञीयोर्वीसगुद्धर्ता लीलाक्रोडः प्रतापवान् ॥
॥२६॥दण्डकासुरविध्वंसी वक्रदंष्ट्र क्षमाधरः ।
गन्धर्वशापहरणः पुण्यगन्धो विचक्षणः ॥
॥२७॥करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः ।
श्वेतघोणी घूर्णितभ्रूर्घुर्घुरध्वनिविभ्रमः ॥
॥२८॥द्राघीयान् नीलकेशी च जाग्रदम्बुजलोचनः ।
घृणावान् घृणिसम्मोहो महाकालाग्निदीधितिः ॥
॥२९॥ज्वालाकरालवदनो महोल्काकुलवीक्षणः ।
सटानिर्भिण्णमेघौघो दंष्ट्रारुग्व्याप्तदिक्तटः ॥
॥३०॥उच्छ्वासाकृष्टभूतेशो निःश्वासत्यक्तविश्वसृट् ।
अन्तर्भ्रमज्जगद्गर्भोऽनन्तो ब्रह्मकपालहृत् ॥
॥३१॥उग्रो वीरो महाविष्णुर्ज्वलनः सर्वतोमुखः ।
नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः ॥
॥३२॥सभास्तम्भोद्भवो भीमः शीरोमाली महेश्वरः ।
द्वादशादित्यचूडालः कल्पधूमसटाच्छविः ॥
॥३३॥हिरण्यकोरस्थलभिन्ननखः सिंहमुखोऽनघः ।
प्रह्लादवरदो धीमान् भक्तसङ्घ प्रतिष्ठितः ॥
॥३४॥ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः ।
लक्ष्मीनृसिंहो देवेशो ज्वालाजिह्वान्त्रमालिकः ॥
॥३५॥खड्गी खेटी महेष्वासी कपाली मुसली हली ।
पाशी शूली महाबाहुर्ज्वरघ्नो रोगलुण्ठकः ॥
॥३६॥मौञ्जीयुक् छात्रको दण्डी कृष्णाजिनधरो वटुः ।
अधीतवेदो वेदान्तोद्धारको ब्रह्मनैष्ठिकः ॥
॥३७॥अहीनशयनप्रीतः आदितेयोऽनघो हरिः ।
संवित्प्रियस्सामवेद्यो बलिवेश्मप्रतिष्ठितः ॥
॥३८॥बलिक्षालितपादाब्जो विन्द्यावलिविमानितः ।
त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः ॥
॥३९॥धृतत्रिविक्रमः साङ्घ्रिनखभिन्नाण्डखर्परः ।
पज्जातवाहिनीधारापवित्रितजगत्त्रयः ॥
॥४०॥विधिसम्मानितः पुण्यो दैत्ययोद्धा जयोर्जितः ।
सुरराज्यप्रदः शुक्रमदहृत् सुगतीश्वरः ॥
॥४१॥जामदग्न्यः कुठारी च कार्तवीर्यविदारणः ।
रेणुकायाश्शिरोहारी दुष्टक्षत्रियमर्दनः ॥
॥४२॥वर्चस्वी दानशीलश्च धनुष्मान् ब्रह्मवित्तमः ।
अत्युदग्रः समग्रश्च न्यग्रोधो दुष्टनिग्रहः ॥
॥४३॥रविवंशसमुद्भूतो राघवो भरताग्रजः ।
कौसल्यातनयो रामो विश्वामित्र प्रियङ्करः ॥
॥४४॥ताटकारिः सुबाहुघ्नो बलातिबलमन्त्रवान् ।
अहल्याशापविच्छेदी प्रविष्टजनकालयः ॥
॥४५॥स्वयंवरसभासंस्थ ईशचापप्रभञ्जनः ।
जानकीपरिणेता च जनकाधीशसंस्तुतः ॥
॥४६॥जमदग्नितनूजातयोद्धाऽयोध्याधिपाग्रणीः ।
पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः ॥
॥४७॥ससीतश्चित्रकूटस्थो भरताहितराज्यकः ।
काकदर्पप्रहर्ता च दण्डकारण्यवासकः ॥
॥४८॥पञ्चवट्यां विहारी च स्वधर्मपरिपोषकः ।
विराधहाऽगस्त्यमुख्यमुनिसम्मानितः ॥
॥४९॥इन्द्रचापधरः खड्गधरश्चाक्षयसायकः ।
खरान्तको दूषणारिस्त्रिशिरस्करिपुर्वृषः ॥
॥५०॥ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः ।
जटावान् पर्णशालास्थो मारीचबलमर्दकः ॥
॥५१॥पक्षिराट्कृतसंवादो रवितेजा महाबलः ।
शबर्यानीतफलभुग्धनूमत्परितोषितः ॥
॥५२॥सुग्रीवाभयदो दैत्यकायक्षेपणभासुरः ।
सप्ततालसमुच्छेत्ता वालिहृत्कपिसंवृतः ॥
॥५३॥वायुसूनुकृतासेवस्त्यक्तपम्पः कुशासनः ।
उदन्वत्तीरगः शूरो विभीषणवरप्रदः ॥
॥५४॥सेतुकृद्दैत्यहा प्राप्तलङ्कोऽलङ्कारवान् स्वयम् ।
अतिकायशिरश्छेत्ता कुम्भकर्णविभेदनः ॥
॥५५॥दशकण्ठशिरोध्वंसी जांबवत्प्रमुखावृतः ।
जानकीशः सुराध्यक्षः साकेतेशः पुरातनः ॥
॥५६॥पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः ।
लक्ष्मीसरःकेळिलोलो लक्ष्मीशो लोकरक्षकः ॥
॥५७॥देवकीगर्भसंभूतो यशोदेक्षणलालितः ।
वसुदेवकृतस्तोत्रो नन्दगोपमनोहरः ॥
॥५८॥चतुर्भुजः कोमलाङ्गो गदावान्नीलकुन्तलः ।
पूतनाप्राणसंहर्ता तृणावर्तविनाशनः ॥
॥५९॥गर्गारोपितनामाङ्को वासुदेवो ह्याधोक्षजः ।
गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः ॥
॥६०॥वैयाघ्रनखभूषश्च वत्सजिद्वत्सवर्धनः ।
क्षीरसाराशनरतो दधिभाण्डप्रमर्दनः ॥
॥६१॥नवनीतापहर्ता च नीलनीरदभासुरः ।
अभीरदृष्टदौर्जन्यो नीलपद्मनिभाननः ॥
॥६२॥मातृदर्शितविश्वास्यः उलूखलनिबन्धनः ।
नलकूबरशापान्तो गोधूलिच्छुरिताङ्गकः ॥
॥६३॥गोसङ्घरक्षकः श्रीशो वृन्दारण्यनिवासकः ।
वत्सान्तको बकद्वेषी दैत्याम्बुदमहानिलः ॥
॥६४॥महाजगरचण्डाग्निः शकटप्राणकण्टकः ।
इन्द्रसेव्यः पुण्यगात्रः खरजिञ्वण्डदीधितिः ॥
॥६५॥तालपक्वफलाशी च काळीयफणिदर्पहा ।
नागपत्नीस्तुतिप्रीतः प्रलम्बासुरखण्डनः ॥
॥६६॥दावाग्निबलसंहारी फलहारी गदाग्रजः ।
गोपाङ्गनाचेलचोरः पाथोलीलाविशारदः ॥
॥६७॥वंशीगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः ।
मुनिपत्न्याहृताहारो मुनिश्रेष्ठो मुनिप्रियः ॥
॥६८॥गोवर्द्धनाद्रिसन्धर्ता सङ्क्रन्दनतमोऽपहः ।
सदुद्यानविलासी च रासक्रीडापरायणः ॥
॥६९॥वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तमः ।
अक्रूरस्तुतिसम्प्रीतः कुब्जायौवनदायकः ॥
॥७०॥मुष्टिकोरःप्रहारी च चाणूरोदरदारणः ।
मल्लयुद्धाग्रगण्यश्च पितृबन्धनमोचकः ॥
॥७१॥मत्तमातङ्गपञ्चास्यः कंसग्रीवानिकृन्तनः ।
उग्रसेनप्रतिष्टाता रत्नसिंहासनस्थितः ॥
॥७२॥कालनेमिखलद्वेषी मुचुकुन्दवरप्रदः ।
साल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥
॥७३॥रुक्मगर्वापहारी च रुक्मिणीनयनोत्सवः ।
प्रद्युम्नजनकः कामी प्रद्युम्नो द्वारकाधिपः ॥
॥७४॥मण्याहर्ता महामायो जाम्बवत्कृतसङ्गरः ।
जाम्बूनदाम्बरधरो गम्यो जाम्बवतीविभुः ॥
॥७५॥कालिन्दीप्रथितारामकेलिर्गुञ्जावतंसकः ।
मन्दारसुमनोभास्वान् शचीशाभीष्टदायकः ॥
॥७६॥सत्राजिन्मानसोल्लासी सत्याजानिः शुभावहः ।
शतधन्वहरः सिद्धः पाण्डवप्रियकोत्सवः ॥
॥७७॥भद्रप्रियः सुभद्राया भ्राता नाग्नाजितीविभुः ।
किरीटकुण्डलधरः कल्पपल्लवलालितः ॥
॥७८॥भैष्मीप्रणयभाषावान् मित्रविन्दाधिपोऽभयः ।
स्वमूर्तिकेलिसम्प्रीतो लक्ष्मणोदारमानसः ॥
॥७९॥प्राग्ज्योतिषाधिपध्वंसी तत्सैन्यान्तकरोऽमृतः ।
भूमिस्तुतो भूरिभोगो भूषणाम्बरसंयुतः ॥
॥८०॥बहुरामाकृताह्लादो गन्धमाल्यानुलेपनः ।
नारदादृष्टचरितो देवेशो विश्वराड् गुरुः ॥
॥८१॥बाणबाहुविदारश्च तापज्वरविनाशकः ।
उषोद्धर्षयिताऽव्यक्तः शिववाक्तुष्टमानसः ॥
॥८२॥महेशज्वरसंस्तुत्यः शीतज्वरभयान्तकः ।
नृगराजोद्धारकश्च पौण्ड्रकादिवधोद्यतः ॥
॥८३॥विविधारिच्छलोद्विग्नब्राह्मणेषु दयापरः ।
जरासन्धबलद्वेषी केशिदैत्यभयङ्करः ॥
॥८४॥चक्री चैद्यान्तकः सभ्यो राजबन्धविमोचकः ।
राजसूयहविर्भोक्ता स्निग्धाङ्गः शुभलक्षणः ॥
॥८५॥धानाभक्षणसम्प्रीतः कुचेलाभीष्टदायकः ।
सत्त्वादिगुणगम्भीरो द्रौपदीमानरक्षकः ॥
॥८६॥भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः ।
दन्तवक्त्रशिरश्छेत्ता कृष्णः कृष्णासखः स्वराट् ॥
॥८७॥वैजयन्तीप्रमोदी च बर्हिबर्हविभूषणः ।
पार्थकौरवसन्धानकारी दुःशासनान्तकः ॥
॥८८॥बुद्दो विशुद्धः सर्वज्ञः क्रतुहिंसाविनिन्दकः ।
त्रिपुरस्त्रीमानभङ्गः सर्वशास्त्रविशारदः ॥
॥८९॥निर्विकारो निर्ममश्च निराभासो निरामयः ।
जगन्मोहकधर्मी च दिग्वस्त्रो दिक्पतीश्वरः ॥
॥९०॥कल्की म्लेच्छप्रहर्ता च दुष्टनिग्रहकारकः ।
धर्मप्रतिष्टाकारी च चातुर्वर्ण्यविभागकृत् ॥
॥९१॥युगान्तको युगाक्रान्तो युगकृद्युगभासकः ।
कामारिः कामकारी च निष्कामः कामितार्थदः ॥
॥९२॥भर्गो वरेण्यं सवितुः शार्ङ्गी वैकुण्ठमन्दिरः ।
हयग्रीवः कैटभारिः ग्राहघ्नो गजरक्षकः ॥
॥९३॥सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः ।
कपर्दी कामहारी च कला काष्टा स्मृतिर्धृतिः ॥
॥९४॥अनादिरप्रमेयौज्ञाः प्रधानः सन्निरूपकः ।
निर्लोपो निःस्पृहोऽसङ्गो निर्भयो नीतिपारगः ॥
॥९५॥निष्पेष्यो निष्क्रियः शान्तो निष्प्रपञ्चो निधिर्नयः
कर्म्यकर्मी विकर्मी च कर्मेप्सुः कर्मभावनः ॥
॥९६॥कर्माङ्गः कर्मविन्यासो महाकर्मी महाव्रती ।
कर्मभुक्कर्मफलदः कर्मेशः कर्मनिग्रहः ॥
॥९७॥नरो नारायणो दान्तः कपिलः कामदः शुचिः ।
तप्ता जप्ताऽक्षमालावान् गन्ता नेता लयो गतिः ॥
॥९८॥शिष्टो द्रष्टा रिपुद्वेष्टा रोष्टा वेष्टा महानटः ।
रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यधीः शुभः ॥
॥९९॥मन्त्री मन्त्रो मन्त्रगम्यो मन्त्रकृत् परमन्त्रहृत् ।
मन्त्रभृन्मन्त्रफलदो मन्त्रेशो मन्त्रविग्रहः ॥
॥१००॥मन्त्राङ्गो मन्त्रविन्यासो महामन्त्रो महाक्रमः ।
स्थिरधीः स्थिरविज्ञानः स्थिरप्रज्ञः स्थिरासनः ॥
॥१०१॥स्थिरयोगः स्थिराधारः स्थिरमार्गः स्थिरागमः।
निश्श्रेयसो निरीहोऽग्निर्निरवद्यो निरञ्जनः ॥
॥१०२॥निर्वैरो निरहङ्कारो निर्दम्भो निरसूयकः ।
अनन्तोऽनन्तबाहूरुरनन्ताङ्घ्रिरनन्तदृक् ॥
॥१०३॥अनन्तवक्त्रोऽनन्ताङ्गोऽनन्तरूपो ह्यनन्तकृत् ।
ऊर्ध्वरेता ऊर्ध्वलिङ्गो ह्यूर्ध्वमूर्ध्वोर्ध्वशाखकः ॥
॥१०४॥ऊर्ध्व ऊर्ध्वाध्वरक्षी च ह्यूर्ध्वज्वालो निराकुलः ।
बीजं बीजप्रदो नित्यो निदानं निष्कृतिः कृती ॥
॥१०५॥महानणीयन् गरिमा सुषमा चित्रमालिकः ।
नभस्स्पृङ्नभसो ज्योतिर्नभस्वान्निर्नभा नभः ॥
॥१०६॥अभुर्विभुः प्रभुः शम्भुर्महीयान भूर्भुवाकृतिः ।
महानन्दो महाशूरो महोराशिर्महोत्सवः ॥
॥१०७॥महाक्रोधो महाज्वालो महाशान्तो महागुणः ।
सत्यव्रतः सत्यपरः सत्यसन्धः सतांगतिः ॥
॥१०८॥सत्येशः सत्यसङ्कल्पः सत्यचारित्रलक्षणः ।
अन्तश्चरो ह्यन्तरात्मा परमात्मा चिदात्मकः ॥
॥१०९॥रोचनो रोचमानश्च साक्षी शौरिर्जनार्दनः ।
मुकुन्दो नन्दनिष्पन्दः स्वर्णबिन्दुः पुरन्दरः ॥
॥११०॥अरिन्दमः सुमन्दश्च कुन्दमन्दारहासवान् ।
स्यन्दनारूढचण्डाङ्गो ह्यानन्दी नन्दनन्दनः ॥
॥१११॥अनसूयानन्दनोऽत्रिनेत्रानन्दः सुनन्दवान् ।
शङ्खवान्पङ्कजकरः कुङ्कुमाङ्को जयाङ्कुशः ॥
॥११२॥अम्भोजमकरन्दाढ्यो निष्पङ्कोऽगरुपङ्किलः ।
इन्द्रश्चन्द्ररथश्चन्द्रोऽतिचन्द्रश्चन्द्रभासकः ॥
॥११३॥उपेन्द्र इन्द्रराजश्च वागिन्द्रश्चन्द्रलोचन ।
प्रत्यक् पराक् परंधाम परमार्थः परात्परः ॥
॥११४॥अपारवाक् पारगामी पारावारः परावरः ।
सहस्वानर्थदाता च सहनः साहसी जयी ॥
॥११५॥तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः ।
ऐश्वर्योद्भूतिकृद्भूतिरैश्वर्याङ्गकलापवान् ॥
॥११६॥अम्भोधिशायी भगवान् सर्वज्ञस्सामपारगः ।
महायोगी महाधीरो महाभोगी महाप्रभुः ॥
॥११७॥महावीरो महातुष्टिर्महापुष्टिर्महागुणः ।
महादेवो महाबाहुर्महाधर्मो महेश्वरः ॥
॥११८॥समीपगो दूरगामी स्वर्गमार्गनिरर्गलः ।
नगो नगधरो नागो नागेशो नागपालकः ॥
॥११९॥हिरण्मयः स्वर्णरेता हिरण्यार्चिर्हिरण्यदः ।
गुणगण्यः शरण्यश्च पुण्यकीर्तिः पुराणगः ॥
॥१२०॥जन्मभृज्जन्यसन्नद्धो दिव्यपञ्चायुधो वशी ।
दौर्जन्यभङ्गः पर्जन्यः सौजन्यनिलयोऽलयः ॥
॥१२१॥जलन्धरान्तको भस्मदैत्यनाशी महामनाः ।
श्रेष्टश्श्रविष्ठो द्राघिष्ठो गरिष्ठो गरुडध्वजः ॥
॥१२२॥ज्येष्ठो द्रढिष्ठो वर्षिष्ठो द्राघियान् प्रणवः फणी ।
सम्प्रदायकरः स्वामी सुरेशो माधवो मधुः ॥
॥१२३॥निर्निमेषो विधिर्वेधा बलवान् जीवनं बली ।
स्मर्ता श्रोता विकर्ता च ध्याता नेता समोऽसमः ॥
॥१२४॥होता पोता महावक्ता रन्त मन्ता खलान्तकः ।
दाता ग्राहयिता माता नियन्ताऽनन्त वैभवः ॥
॥१२५॥गोप्ता गोपयिता हन्ता धर्मजागरिता धवः ।
कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ आत्मवित् ॥
॥१२६॥क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुत् ।
भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायकः ॥
॥१२७॥शक्तियुङ्जौक्तिकस्रग्वी सूक्तिराम्नायसूक्तिगः ।
धनञ्जयो धनाध्यक्षो धनिको धनदाधिपः ॥
॥१२८॥महाधनो महामानी दुर्योधनविमानितः ।
रत्नाकरो रत्नरोची रत्नगर्भाश्रयः शुचिः ॥
॥१२९॥रत्नसानुनिधिर्मौळिरत्नाभा रत्नकङ्कणः ।
अन्तर्लक्ष्योऽन्तरम्यासी चान्तर्ध्येयो जितासनः ॥
॥१३०॥अन्तरङ्गो दयावांश्च ह्यांतर्मायो महार्णवः ।
सरससिद्धरसिकः सिद्धिः साध्यः सदागतिः ॥
॥१३१॥आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः ।
अष्टश्रीरष्टभागोऽष्टककुब्व्याप्तयशो त्रती ॥
॥१३२॥अष्टापदः सुवर्णाभो ह्यष्टमूर्तिस्त्रिमूर्तिमान् ।
अस्वप्नः स्वप्नगः स्वप्नः सुस्वप्नफलदायकः ॥
॥१३३॥दुःस्वप्नध्वंसको ध्वस्तदुर्निमित्तः शिवङ्करः ।
सुवर्णवर्णस्सम्भाव्यो वर्णितो वर्णसम्मुखः ॥
॥१३४॥सुवर्णमुखरीतीरशिवध्यातपदाम्बुजः ।
दाक्षायणीवचस्तुष्टो दूर्वासोदृष्टिगोचरः ॥
॥१३५॥अम्बरीषव्रतप्रीतो महाकृत्तिविभञ्जनः ।
महाभिचारकध्वंसी कालसर्पभयान्तकः ॥
॥१३६॥सुदर्शनः कालमेघश्यामश्श्रीमन्त्रभावितः ।
हेमाम्बुजसरःस्नायी श्रीमनोभाविताकृतिः ॥
॥१३७॥श्रीप्रदताम्बुजस्रग्वी श्रीकेलिः श्रीनिधिर्भवः ।
श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः ॥
॥१३८॥संतृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदर्शकः ।
अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः ॥
॥१३९॥कपिलार्चिः कपिलवान् सुस्नाताघविपाटनः ।
वृषाकपिः कपिस्वामिमनोऽन्तःस्थितविग्रहः ॥
॥१४०॥वह्निप्रियोऽर्थसंभाव्यो जनलोकविधायकः ।
वह्निप्रभो वह्नितेजाः शुभाभीष्टप्रदो यमी ॥
॥१४१॥वारुणक्षेत्रनिलयो वरुणो वारणार्चितः ।
वायुस्थानकृतावासो वायुगो वायुसंभृतः ॥
॥१४२॥यमान्तकोऽभिजननो यमलोकनिवारणः ।
यमिनामग्रगण्यश्च संयमी यमभावितः ॥
॥१४३॥इन्द्रोद्यानसमीपस्थ इन्द्रदृग्विषयः प्रभुः ।
यक्षराट् सरसीवासो ह्यक्षय्यनिधिकोशकृत् ॥
॥१४४॥स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः ।
वराहाद्यष्टतीर्थाभिसेविताङ्घ्रिसरोरुहः ॥
॥१४५॥पाण्डुतीर्थभिषिक्ताङ्गो युधिष्ठिरवरप्रदः ।
भीमान्तःकरणारूढः श्वेतवाहनसख्यवान् ॥
॥१४६॥नकुलाभयदो माद्रीसहदेवाभिवन्दितः ।
कृष्णाशपथसन्धाता कुन्तीस्तुतिरतो दमी ॥
॥१४७॥नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः ।
दर्शिताव्यक्तरूपश्च वीणानादप्रमोदितः ॥
॥१४८॥षट्कोटितीर्थचर्यावान् देवतीर्थकृताश्रमः ।
बिल्वामलजलस्नायी सरस्वत्यम्बुसेवितः ॥
॥१४९॥तुम्बुरूदक संस्पर्शजनचित्ततमोऽपहः ।
मत्स्यवामनकूर्मादितीर्थराजः पुराणभृत् ॥
॥१५०॥चक्रध्येयपदाम्भोजः शङ्खपूजितपादुकः ।
रामतीर्थविहारी च बलभद्रप्रतिष्टितः ॥
॥१५१॥जामदग्न्यसरस्तीर्थजलसेचनतर्पितः ।
पापापहारिकीलालसुस्नाताघविनाशनः ॥
॥१५२॥नभोगङ्गाभिषिक्तश्च नागतीर्थाभिषेकवान् ।
कुमारधारातीर्थस्थो वटुवेषः सुमेखलः ॥
॥१५३॥वृद्धस्य सुकुमारत्वप्रदः सौन्दर्यवान् सुखी ।
प्रियंवदो महाकुक्षिरिक्ष्वाकुकुलनन्दनः ॥
॥१५४॥नीलगोक्षीरधाराभूर्वराहाचलनायकः ।
भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः ॥
॥१५५॥अञ्जनाकृतपूजावान् आञ्जनेयकरार्चितः ।
अञ्जनाद्रिनिवासश्च मुञ्जकेशः पुरन्दरः ॥
॥१५६॥किन्नरद्वयसम्बन्धिबन्धमोक्षप्रदायकः ।
वैखानसमखारम्भो वृषज्ञेयो वृषाचलः ॥
॥१५७॥वृषकायप्रभेत्ता च क्रीडनाचारसंभ्रमः ।
सौवर्चलेयविन्यस्तराज्यो नारायण प्रियः ॥
॥१५८॥दुर्मेधोभञ्जकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः ।
भद्रासुरशिरश्चेता भद्रक्षेत्री सुभद्रवान् ॥
॥१५९॥मृगयाऽक्षीणसन्नाहः शङ्खराजन्यतुष्टिदः ।
स्थाणुस्थो वैनतेयाङ्गभावितो ह्यशरीरवान् ॥
॥१६०॥भोगीन्द्रभोगसंस्थानो ब्रह्मादिगणसेवितः ।
सहस्रार्कच्छटाभास्वद्यिमानन्तःस्थितो गुणी ॥
॥१६१॥विष्वक्सेनकृतस्तोत्रः सनन्दनवरीवृताः ।
जाह्नव्यादिनदीसेव्यः सुरेशाद्यभिवन्दितः ॥
॥१६२॥सुराङ्गनानृत्यपरो गन्धर्वोद्गायनप्रियः ।
राकेन्दुसङ्काशनखः कोमलाङ्घ्रसरोरुहः ॥
॥१६३॥कच्छपप्रपदः कुन्दगुल्पकः स्वच्छकूर्परः ।
मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलः ॥
॥१६४॥प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभङ्करः ।
अनन्तपद्मजस्थाननाभिर्मौक्तिकमालिकः ॥
॥१६५॥मन्दारचाम्पेयमाली रत्नाभरणसंभृतः ।
लम्बयज्ञोपवीती च चन्द्रश्रीखण्डलेपवान् ॥
॥१६६॥वरदोऽभयदश्चक्री शङ्खी कौस्तुभदीप्तिमान् ।
श्रीवत्साङ्कितवक्षस्को लक्ष्मीसंश्रितहृत्तटः ॥
॥१६७॥नीलोत्पल निभाकारः शोणाम्भोजसमाननः ।
कोटीमन्मथलावण्यचन्द्रिकास्मितपूरितः ॥
॥१६८॥सुधास्वच्छोर्ध्वपुण्ड्रश्च कस्तूरीतिलकाञ्चितः ।
पुण्डरीकेक्षणः स्वच्छो मौलिशोभाविराजितः ॥
॥१६९॥पद्मस्थः पद्मनाभश्च सोममण्डलगो बुधः ।
वह्निमंडलगः सूर्यः सूर्यमण्डलसंस्थितः ॥
॥१७०॥श्रीपतिर्भूमिजानिश्च विमलाद्यभिसंवृतः ।
जगत्कुटुम्बजनिता रक्षकः कामितप्रदः ॥
॥१७१॥अवस्थात्रययन्ता च विश्वतेजस्स्वरूपवान् ।
ज्ञप्तिर्ज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः ॥
॥१७२॥ब्रह्माण्डान्तर्बहिर्व्याप्तो वेङ्कटाद्रिगदाधरः ।
॥१७३॥वेङ्कटाद्रिगदाधर ॐ नमः इति ॥
एवं श्रीवेङ्कटेशस्य कीर्तितं परमाद्भुतम् ॥
॥१७४॥नाम्नां सहस्रं संश्राव्यं पवित्रं पुण्यवर्द्धनम् ।
श्रवणात्सर्वदोषघ्नं रोगघ्नं मृत्युनाशनम् ॥
॥१७५॥दारिद्र्यभेदनं धर्म्यं सर्वैश्वर्यफलप्रदम् ।
कालाहिविषविच्छेदिज्वरापस्मारभञ्जनम् ॥
॥१७६॥शत्रुक्षयकरं राजग्रहपीडानिवारणम् ।
ब्रह्मराक्षसकूष्मांडभेतालभयभंजनम् ॥
॥१७७॥विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् ।
अनन्तकल्पजीवी स्यादायुष्कामो महायशाः ॥
॥१७८॥पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्तनः ।
सङ्ग्रामे शत्रुविजयी सभायां प्रतिवादिजित् ॥
॥१७९॥दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् ।
वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ ॥
॥१८०॥कह्लारपूजनान्मासात् द्वितीय इव यक्षराट् ।
नीलोत्पलार्चनात्सर्वराजपूज्यः सदा भवेत् ॥
॥१८१॥हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः ।
वाञ्छितार्थ तदा दत्वा वैकुण्ठं च प्रयच्छति ॥
॥१८२॥त्रिसन्ध्यं यो जपेन्नित्यं संपूज्य विधिना विभुम् ।
त्रिवारं पञ्चवारं वा प्रत्यहं क्रमशो यमी ॥
॥१८३॥मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेन्द्रता ।
त्रिमासान्महदैश्वर्यं ततस्संभाषणं भवेत् ॥
॥१८४॥मासं पठन्न्यूनकर्ममूर्तिं च समवाप्नुयात् ।
मार्गभ्रष्टश्च सन्मार्गं गतस्वः स्वं स्वकीयकम् ॥
॥१८५॥चाञ्चल्यचित्तोऽचाञ्चल्यं मनस्स्वास्थ्यं च गच्छति ।
आयुरारोग्यमैश्वर्यं ज्ञानं मोक्षं च विन्दति ॥
॥१८६॥सर्वान्कामानवाप्नोति शाश्वतं च पदं तथा ।
सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं न संशयः ॥
॥१८७॥इति श्रीब्रह्माण्डपुराणे वसिष्ठनारदसंवादे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटेशसहस्रनामस्तोत्राध्यायः समाप्तः