मत्स्यपुराणान्तर्गतम्
क्षीरोदमथनोद्भूतं दिव्य-गन्धानुलेपनम् ।
सुधा-कलश-हस्तं तं वन्दे धन्वन्तरिं हरिम् ॥
॥१॥नमो लोक-त्र्याध्यक्ष तेजसा जित-भास्कर ।
नमो विष्णो नमो जिष्णो नमस्ते कैटभार्दन ॥
॥२॥नमः सर्ग-क्रिया-कर्त्रे जगत् पालयते नमः ।
नमः स्मृतार्ति-नाशाय नमः पुष्कर मालिने ॥
॥३॥दिव्यौषधि-स्वरूपाय सुधा-कलश-पाणये ।
शङ्ख-चक्र-गदा-पद्म-धारिणे वनमालिने ॥
॥४॥देवेन्द्रादि-सुरेड्याय नमः क्षीराब्धि-जन्मने ।
निर्गुणाय विशेषाय हरये ब्रह्म-रूपिणे ॥
॥५॥जगत् प्रतिष्ठितं यत्र जगतां यो न दृश्यते ।
नमः सूक्ष्मातिसूक्ष्माय तस्मै देवाय शङ्खिने ॥
॥६॥यं न पश्यन्ति पश्यन्तं जगदप्यखिलं नराः ।
अपश्यद्भिर्जगद् यश्च दृश्यते हृदि संस्थितः ॥
॥७॥यस्मिन् वनानि पर्वता नद्यश्चैवाखिलं जगत् ।
तस्मै नमोऽस्तु जगताम् आधाराय नमो नमः ॥
॥८॥आद्य-प्रजापतिर्यश्च यः पितॄणां परः पतिः ।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥
॥९॥यः प्रवृत्तौ निवृत्तौ च इज्यते कर्मभिः स्वकैः ।
स्वर्गापवर्ग-फल-दो नमस्तस्मै गदा-भृते ॥
॥१०॥यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति ।
नमस्तस्मै विशुद्धाय पराय हरि-मेधसे ॥
॥११॥यं बुद्ध्वा सर्वभूतानि देव-देवेशमव्ययम् ।
न पुनर्जन्म-मरणे प्राप्नुवन्ति नमामि तम् ॥
॥१२॥यो यज्ञे यज्ञ-परमैरिज्यते यज्ञ-संज्ञितः ।
तं यज्ञ-पुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥
॥१३॥गीयते सर्व-वेदेषु वेद-विद्भिर्विदां गतिः ।
यस्तस्मै वेद-वेद्याय विष्णवे जिष्णवे नमः ॥
॥१४॥यो विश्वं समुत्पन्नं यस्मिंश्च लयमेष्यति ।
विश्वोद्भव-प्रतिष्ठाय नमस्तस्मै महात्मने ॥
॥१५॥ब्रह्मादि-स्तम्ब-पर्यन्तं येन विश्वमिदं ततम् ।
माया जालं समुत्तर्त्तं तमुपेन्द्रं नमाम्यहम् ॥
॥१६॥विषाद-तोष-रोषाद्यैर्योऽजस्रं सुख-दुःखजम् ।
नृत्यत्यखिल-भूत-स्थस्तमुपेन्द्रं नमाम्यहम् ॥
॥१७॥यमाराध्य विशुद्धेन कर्मणा मनसा गिरा ।
तरन्त्यविद्याम् अखिलाम् आदि-वैद्यं नमाम्यहम् ॥
॥१८॥यः स्थितो विश्व-रूपेण बिभर्ति ह्यखिलौषधीः ।
तं रत्न-कलशोद्भासि-हस्तं धन्वन्तरिं नुमः ॥
॥१९॥विश्वं विश्व-पतिं विष्णुं तं नमामि प्रजापतिम् ।
मूर्त्या चासुरमय्या तु तद्विधान् विनिहन्ति यः ॥
॥२०॥रात्रि-रूपं सूर्य-रूपं भजेत्तं सान्ध्य-रूपिणम् ।
हन्ति विद्या-प्रदानेन यो वा अज्ञान-जं तमः ॥
॥२१॥यस्तु भेषज-रूपेण जगदाप्याययेत् सदा
यस्याक्षिणी चन्द्र-सूर्यौ सर्व-लोक-शुभङ्करः
पश्यतः कर्म सततं तं च धन्वन्तरिं नुमः ॥
॥२२॥यस्मिन् सर्वेश्वरे वश्यं जगत् स्थावर-जङ्गमम् ।
आभाति तमजं विष्णुं नमामि प्रभुमव्ययम् ॥
॥२३॥इति मत्स्य-पुराणान्तर्गतं धन्वन्तरि-स्तोत्रं सम्पूर्णम्