- १ॐ बगलायै नमः
- २ॐ विष्णुवनितायै नमः
- ३ॐ विष्णुशङ्करभामिन्यै नमः
- ४ॐ बहुलायै नमः
- ५ॐ देवमात्रे नमः
- ६ॐ महाविष्णुप्रस्वै नमः
- ७ॐ महामत्स्यायै नमः
- ८ॐ महाकूर्मायै नमः
- ९ॐ महावाराहरूपिण्यै नमः
- १०ॐ नरसिंहप्रियायै नमः
- ११ॐ रम्यायै नमः
- १२ॐ वामनायै नमः
- १३ॐ वटुरूपिण्यै नमः
- १४ॐ जामदग्न्यस्वरूपायै नमः
- १५ॐ रामायै नमः
- १६ॐ रामप्रपूजितायै नमः
- १७ॐ कृष्णायै नमः
- १८ॐ कपर्दिन्यै नमः
- १९ॐ कृत्यायै नमः
- २०ॐ कलहायै नमः
- २१ॐ विकारिण्यै नमः
- २२ॐ बुद्धिरूपायै नमः
- २३ॐ बुद्धभार्यायै नमः
- २४ॐ बौद्धपाषण्डखण्डिन्यै नमः
- २५ॐ कल्किरूपायै नमः
- २६ॐ कलिहरायै नमः
- २७ॐ कलिदुर्गतिनाशिन्यै नमः
- २८ॐ कोटिसूर्यप्रतीकाशायै नमः
- २९ॐ कोटिकन्दर्पमोहिन्यै नमः
- ३०ॐ केवलायै नमः
- ३१ॐ कठिनायै नमः
- ३२ॐ काल्यै नमः
- ३३ॐ कलायै नमः
- ३४ॐ कैवल्यदायिन्यै नमः
- ३५ॐ केशव्यै नमः
- ३६ॐ केशवाराध्यायै नमः
- ३७ॐ किशोर्यै नमः
- ३८ॐ केशवस्तुतायै नमः
- ३९ॐ रुद्ररूपायै नमः
- ४०ॐ रुद्रमूर्त्यै नमः
- ४१ॐ रुद्राण्यै नमः
- ४२ॐ रुद्रदेवतायै नमः
- ४३ॐ नक्षत्ररूपायै नमः
- ४४ॐ नक्षत्रायै नमः
- ४५ॐ नक्षत्रेशप्रपूजितायै नमः
- ४६ॐ नक्षत्रेशप्रियायै नमः
- ४७ॐ नित्यायै नमः
- ४८ॐ नक्षत्रपतिवन्दितायै नमः
- ४९ॐ नागिन्यै नमः
- ५०ॐ नागजनन्यै नमः
- ५१ॐ नागराजप्रवन्दितायै नमः
- ५२ॐ नागेश्वर्यै नमः
- ५३ॐ नागकन्यायै नमः
- ५४ॐ नागर्यै नमः
- ५५ॐ नगात्मजायै नमः
- ५६ॐ नगाधिराजतनयायै नमः
- ५७ॐ नगराजप्रपूजितायै नमः
- ५८ॐ नवीनायै नमः
- ५९ॐ नीरदायै नमः
- ६०ॐ पीतायै नमः
- ६१ॐ श्यामायै नमः
- ६२ॐ सौन्दर्यकारिण्यै नमः
- ६३ॐ रक्तायै नमः
- ६४ॐ नीलायै नमः
- ६५ॐ घनायै नमः
- ६६ॐ शुभ्रायै नमः
- ६७ॐ श्वेतायै नमः
- ६८ॐ सौभाग्यदायिन्यै नमः
- ६९ॐ सुन्दर्यै नमः
- ७०ॐ सौभगायै नमः
- ७१ॐ सौम्यायै नमः
- ७२ॐ स्वर्णाभायै नमः
- ७३ॐ स्वर्गतिप्रदायै नमः
- ७४ॐ रिपुत्रासकर्यै नमः
- ७५ॐ रेखायै नमः
- ७६ॐ शत्रुसंहारकारिण्यै नमः
- ७७ॐ भामिन्यै नमः
- ७८ॐ मायायै नमः
- ७९ॐ स्तम्भिन्यै नमः
- ८०ॐ मोहिन्यै नमः
- ८१ॐ शुभायै नमः
- ८२ॐ रागद्वेषकर्यै नमः
- ८३ॐ रात्र्यै नमः
- ८४ॐ रौरवध्वंसकारिण्यै नमः
- ८५ॐ यक्षिण्यै नमः
- ८६ॐ सिद्धनिवहायै नमः
- ८७ॐ सिद्धेशायै नमः
- ८८ॐ सिद्धिरूपिण्यै नमः
- ८९ॐ लङ्कापतिध्वंसकर्यै नमः
- ९०ॐ लङ्केशरिपुवन्दितायै नमः
- ९१ॐ लङ्कानाथकुलहरायै नमः
- ९२ॐ महारावणहारिण्यै नमः
- ९३ॐ देवदानवसिद्धौघपूजितायै नमः
- ९४ॐ परमेश्वर्यै नमः
- ९५ॐ पराणुरूपायै नमः
- ९६ॐ परमायै नमः
- ९७ॐ परतन्त्रविनाशिन्यै नमः
- ९८ॐ वरदायै नमः
- ९९ॐ वरदाराध्यायै नमः
- १००ॐ वरदानपरायणायै नमः
- १०१ॐ वरदेशप्रियायै नमः
- १०२ॐ वीरायै नमः
- १०३ॐ वीरभूषणभूषितायै नमः
- १०४ॐ वसुदायै नमः
- १०५ॐ बहुदायै नमः
- १०६ॐ वाण्यै नमः
- १०७ॐ ब्रह्मरूपायै नमः
- १०८ॐ वराननायै नमः
- १०९ॐ बलदायै नमः
- ११०ॐ पीतवसनायै नमः
- १११ॐ पीतभूषणभूषितायै नमः
- ११२ॐ पीतपुष्पप्रियायै नमः
- ११३ॐ पीतहारायै नमः
- ११४ॐ पीतस्वरूपिण्यै नमः