- १ॐ महासेनमहोंशेनजाताय नमः
- २ॐ श्रीरमणाय नमः
- ३ॐ गुरवे नमः
- ४ॐ अखण्डसंविदाकाराय नमः
- ५ॐ महौजसे नमः
- ६ॐ कारणोद्भवाय नमः
- ७ॐ जगद्धितावताराय नमः
- ८ॐ श्री भूमिनाथस्थलोत्थिताय नमः
- ९ॐ पराशरकुलोत्तंसाय नमः
- १०ॐ सुन्दरार्यतपःफलाय नमः
- ११ॐ कमनीयसुचारित्राय नमः
- १२ॐ सहायाम्बासहायवते नमः
- १३ॐ शोणाचलमहोलीनमानसाय नमः
- १४ॐ स्वर्णहस्तकाय नमः
- १५ॐ श्रीमद्द्वादशान्तमहास्थले लब्धविद्योदयाय नमः
- १६ॐ महाशक्तिनिपातेनप्रबुद्धाय नमः
- १७ॐ परमार्थविदे नमः
- १८ॐ तीव्राय नमः
- १९ॐ पितृपदान्वेषिणे नमः
- २०ॐ इन्दुमौलिनापितृमते नमः
- २१ॐ पितुरादेशतः शोणशैलम्प्राप्ताय नमः
- २२ॐ तपोमयाय नमः
- २३ॐ उदासीनाय नमः
- २४ॐ महायोगिने नमः
- २५ॐ महोन्त्साहाय नमः
- २६ॐ कुशाग्रधिये नमः
- २७ॐ शान्तसङ्कल्पसंरम्भाय नमः
- २८ॐ सुसन्दृशे नमः
- २९ॐ सवित्रे नमः
- ३०ॐ स्थिराय नमः
- ३१ॐ तपःक्षपितसर्वाङ्गाय नमः
- ३२ॐ फुल्लाम्बुजविलोचनाय नमः
- ३३ॐ चन्द्रिकासितहासश्रीमण्डितानन मण्डलाय नमः
- ३४ॐ चूतवाट्यांसमासीनाय नमः
- ३५ॐ चूर्णिताखिलविभ्रमाय नमः
- ३६ॐ वेदवेदान्ततत्त्वज्ञाय नमः
- ३७ॐ चिन्मुद्रिणे नमः
- ३८ॐ त्रिगुणातिगाय नमः
- ३९ॐ विरूपाक्षगुहावासाय नमः
- ४०ॐ विराजदचलाकृतये नमः
- ४१ॐ उद्दीप्तनयनाय नमः
- ४२ॐ पूर्णाय नमः
- ४३ॐ रचिताचलताण्डवाय नमः
- ४४ॐ गम्भीराय नमः
- ४५ॐ परमाचार्याय नमः
- ४६ॐ सुप्रसन्नाय नमः
- ४७ॐ अभयप्रदाय नमः
- ४८ॐ दक्षिणास्यनिभाय नमः
- ४९ॐ धीराय नमः
- ५०ॐ दक्षिणाभिमुखाय नमः
- ५१ॐ स्वराजे नमः
- ५२ॐ महर्षये नमः
- ५३ॐ भगवते नमः
- ५४ॐ ईड्याय नमः
- ५५ॐ भूमविद्याविशारदाय नमः
- ५६ॐ विमलाय नमः
- ५७ॐ दीर्घदर्शिने नमः
- ५८ॐ आप्ताय नमः
- ५९ॐ ऋजुमार्गप्रदर्शकाय नमः
- ६०ॐ समदृशे नमः
- ६१ॐ सत्यदृशे नमः
- ६२ॐ सत्याय नमः
- ६३ॐ प्रशान्ताय नमः
- ६४ॐ अमितविक्रमाय नमः
- ६५ॐ सुकुमाराय नमः
- ६६ॐ सदानन्दाय नमः
- ६७ॐ मृदुभाषिणे नमः
- ६८ॐ दयार्णवाय नमः
- ६९ॐ श्रीशोणाचलहृद्भूतस्कन्दाश्रम निकेतनाय नमः
- ७०ॐ सद्दर्शनोपदेष्ट्रे नमः
- ७१ॐ सद्भक्तवृन्दपरीवृताय नमः
- ७२ॐ गणेशमुनिभृङ्गेनसेविताङ्घ्रिसरोरुहाय नमः
- ७३ॐ गीतोपदेशसारादिग्रन्थसंछिन्नसंशयाय नमः
- ७४ॐ वर्णाश्रममतातीताय नमः
- ७५ॐ रसज्ञाय नमः
- ७६ॐ सौम्याय नमः
- ७७ॐ आत्मवते नमः
- ७८ॐ सर्वावनिमतस्थानमाराध्याय नमः
- ७९ॐ सर्वसद्गुणिने नमः
- ८०ॐ आत्मारामाय नमः
- ८१ॐ महाभागाय नमः
- ८२ॐ मातृमुक्तिविधायकाय नमः
- ८३ॐ विनताय नमः
- ८४ॐ विनुताय नमः
- ८५ॐ विप्राय नमः
- ८६ॐ मुनीन्द्राय नमः
- ८७ॐ पावकोज्ज्वलाय नमः
- ८८ॐ दर्शनादघसंहारिणे नमः
- ८९ॐ मौनेन स्वात्मबोधकाय नमः
- ९०ॐ हृच्छान्तिकरसान्निध्याय नमः
- ९१ॐ स्मरणाद्बन्धमोचकाय नमः
- ९२ॐ अन्तस्तिमिरचण्डांशवे नमः
- ९३ॐ संसारार्णवतारकाय नमः
- ९४ॐ शोणाद्रीशस्तुतिद्रष्ट्रे नमः
- ९५ॐ हार्दविद्याप्रकाशकाय नमः
- ९६ॐ अविच्युतनिजप्रज्ञाय नमः
- ९७ॐ नैसर्गिकमहातपसे नमः
- ९८ॐ कमण्डलुधराय नमः
- ९९ॐ शुभ्रकौपीनवसनाय नमः
- १००ॐ गुहाय नमः
- १०१ॐ दण्डपाणये नमः
- १०२ॐ कृपापूर्णाय नमः
- १०३ॐ भवरोगभिषग्वराय नमः
- १०४ॐ स्कन्दाय नमः
- १०५ॐ देवतमाय नमः
- १०६ॐ अमर्त्याय नमः
- १०७ॐ सेनान्ये नमः
- १०८ॐ पुरुषोत्तमाय नमः
इति श्रीविश्वनाथस्वामीरचितं श्रीरमणाष्टोत्तरशतनामावली समाप्ता ।