मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिव अष्टोत्तरशत नाम स्तोत्रम्

3

शाक्तप्रमोदः

न्यासः

अस्य शिवाष्टोत्तरशतनामस्तोत्रस्य विष्णुर्ऋषिः, अनुष्टुप् छन्दः, शिवः परमेश्वरो देवता, शिवप्रसादसिद्ध्यर्थे जपे विनियोगः।

ध्यानम्

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।

पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

॥१॥

स्तोत्रम्

शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ।

वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥

॥२॥

शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।

शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥

॥३॥

भवः शर्वस्त्रिलोकीशः शितिकण्ठः शिवाप्रियः ।

उग्रः कपाली कामारिरन्धकासुरसूदनः ॥

॥४॥

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।

भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥

॥५॥

कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।

वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥

॥६॥

सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ।

सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥

॥७॥

हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः ।

विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥

॥८॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।

भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥

॥९॥

कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः ।

मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥

॥१०॥

व्योमकेशो महासेनजनकश्चारुविक्रमः ।

रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥

॥११॥

अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः ।

शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥

॥१२॥

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ।

पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥

॥१३॥

भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् ।

अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥

॥१४॥

फलश्रुतिः

इमानि दिव्यनामानि जप्यन्ते सर्वदा मया ।

नामकल्पलतेयं मे सर्वाभीष्टप्रदायिनि ॥

॥१५॥

नामान्येतानि सुभगे शिवदानि न संशयः ।

वेदसर्वस्वभूतानि नामान्येतानि वस्तुतः ॥

॥१६॥

एतानि यानि नामानि तानि सर्वार्थदान्यतः ।

जप्यन्ते सादरं नित्यं मया नियमपूर्वकम् ॥

॥१७॥

वेदेषु शिवनामानि श्रेष्ठान्यघहराणि च ।

सन्त्यनन्तानि सुभगे वेदेषु विविधेष्वपि ॥

॥१८॥

तेभ्यो नामानि सङ्गृह्य कुमाराय महेश्वरः ।

अष्टोत्तरसहस्रं तु नाम्नामुपदिशत् पुरा ॥

॥१९॥

इति शिवरहस्ये सप्तमेंऽशे त्रयोदशेऽध्याये नामकल्पलता नाम शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्