चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयानघः
कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम्
॥१॥स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम्
॥२॥शुभाशुभफलं कर्म मनोवाग्देहसंभवम्
कर्मजा गतयो नॄणामुत्तमाधममध्यमः
॥३॥तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः
दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम्
॥४॥परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्
वितथाभिनिवेशश्च त्रिविधं कर्म मानसम्
॥५॥पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः
असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्
॥६॥अदत्तानामुपादानं हिंसा चैवाविधानतः
परदारोपसेवा च शारीरं त्रिविधं स्मृतम्
॥७॥मानसं मनसैवायमुपभुङ्क्ते शुभाशुभम्
वाचा वाचा कृतं कर्म कायेनैव च कायिकम्
॥८॥शरीरजैः कर्मदोषैर्याति स्थावरतां नरः
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्
॥९॥वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते
॥१०॥त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः
कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति
॥११॥योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः
॥१२॥जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम्
येन वेदयते सर्वं सुखं दुःखं च जन्मसु
॥१३॥तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः
॥१४॥असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः
उच्चावचानि भूतानि सततं चेष्टयन्ति याः
॥१५॥पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम्
शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम्
॥१६॥तेनानुभूय ता यामीः शरीरेणेह यातनाः
तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः
॥१७॥सोऽनुभूयासुखोदर्कान्दोषान्विषयसङ्गजान्
व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ
॥१८॥तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह
याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम्
॥१९॥यद्याचरति धर्मं स प्रायशोऽधर्ममल्पशः
तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते
॥२०॥यदि तु प्रायशोऽधर्मं सेवते धर्ममल्पशः
तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः
॥२१॥यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः
तान्येव पञ्च भूतानि पुनरप्येति भागशः
॥२२॥एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा
धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः
॥२३॥सत्त्वं रजस्तमश्चैव त्रीन्विद्यादात्मनो गुणान्
यैर्व्याप्येमान्स्थितो भावान्महान्सर्वानशेषतः
॥२४॥यो यदैषां गुणो देहे साकल्येनातिरिच्यते
स तदा तद्गुणप्रायं तं करोति शरीरिणम्
॥२५॥सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्
एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः
॥२६॥तत्र यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत्
प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत्
॥२७॥यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः
तद्रजो प्रतीपं विद्यात्सततं हारि देहिनाम्
॥२८॥यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्
॥२९॥त्रयाणामपि चैतेषां गुणानां यः फलोदयः
अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः
॥३०॥वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः
धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम्
॥३१॥आरम्भरुचिताधैर्यमसत्कार्यपरिग्रहः
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम्
॥३२॥लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता
याचिष्णुता प्रमादश्च तामसं गुणलक्षणम्
॥३३॥त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम्
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम्
॥३४॥यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति
तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम्
॥३५॥येनास्मिन्कर्मना लोके ख्यातिमिच्छति पुष्कलाम्
न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम्
॥३६॥यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन्
येन तुष्यति चात्मास्य तत्सत्त्वगुणलक्षणम्
॥३७॥तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम्
॥३८॥येन यस्तु गुणेनैषां संसरान्प्रतिपद्यते
तान्समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम्
॥३९॥देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः
तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः
॥४०॥त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः
॥४१॥स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः
पशवश्च मृगाश्चैव जघन्या तामसी गतिः
॥४२॥हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः
सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः
॥४३॥चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः
रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः
॥४४॥झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः
द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः
॥४५॥राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः
वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः
॥४६॥गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये
तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः
॥४७॥तापसा यतयो विप्रा ये च वैमानिका गणाः
नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः
॥४८॥यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः
पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः
॥४९॥ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च
उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः
॥५०॥एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः
त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः
॥५१॥इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च
पापान्संयान्ति संसारानविद्वांसो नराधमाः
॥५२॥यां यां योनिं तु जीवोऽयं येन येनेह कर्मणा
क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत
॥५३॥बहून्वर्षगणान्घोरान्नरकान्प्राप्य तत्क्षयात्
संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान्
॥५४॥श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणां
चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति
॥५५॥कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम्
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत्
॥५६॥लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम्
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः
॥५७॥तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः
॥५८॥हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः
परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः
॥५९॥संयोगं पतितैर्गत्वा परस्यैव च योषितम्
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः
॥६०॥मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः
विविधाणि च रत्नानि जायते हेमकर्तृषु
॥६१॥धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः
मधु दंशः पयः काको रसं श्वा नकुलो घृतम्
॥६२॥मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि
॥६३॥कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम्
॥६४॥छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं तु बर्हिणः
श्वावित्कृतान्नं विविधमकृतान्नं तु शल्यकः
॥६५॥बको भवति हृत्वाग्निं गृहकारी ह्युपस्करम्
रक्तानि हृत्वा वासांसि जायते जीवजीवकः
॥६६॥वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः
स्त्रीमृक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः
॥६७॥यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः
॥६८॥स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः
॥६९॥स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि
पापान्संसृत्य संसारान्प्रेष्यतां यान्ति शत्रुषु
॥७०॥वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः
॥७१॥मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक्
चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः
॥७२॥यथा यथा निषेवन्ते विषयान्विषयात्मकाः
तथा तथा कुशलता तेषां तेषूपजायते
॥७३॥तेऽभ्यासात्कर्मणां तेषां पापानामल्पबुद्धयः
संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु
॥७४॥तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम्
असिपत्रवनादीनि बन्धनछेदनानि च
॥७५॥विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम्
करम्भवालुकातापान्कुम्भीपाकांश्च दारुणान्
॥७६॥संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः
शीतातपाभिघातांश्च विविधानि भयानि च
॥७७॥असकृद्गर्भवासेषु वासं जन्म च दारुणम्
बन्धनानि च काष्ठानि परप्रेष्यत्वमेव च
॥७८॥बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः
द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम्
॥७९॥जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम्
क्लेशांश्च विविधांस्तांस्तान्मृत्युमेव च दुर्जयम्
॥८०॥यादृशेन तु भावेन यद्यत्कर्म निषेवते
तादृशेन शरीरेण तत्तत्फलमुपाश्नुते
॥८१॥एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः
नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत
॥८२॥वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः
अहिंसा गुरुसेवा च निःश्रेयसकरं परम्
॥८३॥सर्वेषामपि चैतेषां शुभानामिह कर्मणाम्
किं चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति
॥८४॥सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम्
तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः
॥८५॥षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चेह च
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम्
॥८६॥वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः
अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ
॥८७॥सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्
॥८८॥इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते
निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते
॥८९॥प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम्
निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै
॥९०॥सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति
॥९१॥यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्
॥९२॥एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा
॥९३॥पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम्
अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः
॥९४॥या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः
॥९५॥उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित्
तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च
॥९६॥चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक्
भूतं भव्यं भविष्यं च सर्वं वेदात्प्रसिध्यति
॥९७॥शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः
॥९८॥बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम्
तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम्
॥९९॥सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति
॥१००॥यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान्
तथा दहति वेदज्ञः कर्मजं दोषमात्मनः
॥१०१॥वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन्
इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते
॥१०२॥अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः
॥१०३॥तपो विद्या च विप्रस्य निःश्रेयसकरं परम्
तपसा किल्बिषं हन्ति विद्ययामृतमश्नुते
॥१०४॥प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम्
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता
॥१०५॥आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः
॥१०६॥नैःश्रेयसमिदं कर्म यथोदितमशेषतः
मानवस्यास्य शास्त्रस्य रहस्यमुपदिश्यते
॥१०७॥अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत्
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः
॥१०८॥धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः
॥१०९॥दशावरा वा परिषद्यं धर्मं परिकल्पयेत्
त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत्
॥११०॥त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः
त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा
॥१११॥ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये
॥११२॥एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः
स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः
॥११३॥अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्
सहस्रशः समेतानां परिषत्त्वं न विद्यते
॥११४॥यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः
तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति
॥११५॥एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम्
अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम्
॥११६॥एवं स भगवान्देवो लोकानां हितकाम्यया
धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान्
॥११७॥सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः
सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः
॥११८॥आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम्
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम्
॥११९॥खं संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम्
पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु
॥१२०॥मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम्
वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम्
॥१२१॥प्रशासितारं सर्वेषामणीयांसमणोरपि
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम्
॥१२२॥एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्
इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम्
॥१२३॥एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः
जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत्
॥१२४॥एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना
स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम्
॥१२५॥इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्द्विजः
भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम्
॥१२६॥