- १ॐ वाराणस्यां विशालाक्ष्यै नमः
- २ॐ नैमिषे लिङ्गधारिण्यै नमः
- ३ॐ प्रयागे ललितादेव्यै नमः
- ४ॐ गन्धमादने कामाक्ष्यै नमः
- ५ॐ मानसे कुमुदायै नमः
- ६ॐ अम्बरे विश्वकायायै नमः
- ७ॐ गोमन्ते गोमत्यै नमः
- ८ॐ मन्दरे कामचारिण्यै नमः
- ९ॐ चैत्ररथे मदोत्कटायै नमः
- १०ॐ हस्तिनापुरे जयन्त्यै नमः
- ११ॐ कान्यकुब्जे गौर्यै नमः
- १२ॐ मलयपर्वते रम्भायै नमः
- १३ॐ एकाम्रके कीर्तिमत्यै नमः
- १४ॐ विश्वे विश्वेश्वर्यै नमः
- १५ॐ पुष्करे पुरुहूतायै नमः
- १६ॐ केदारे मार्गदायिन्यै नमः
- १७ॐ हिमवतःपृष्ठे नन्दायै नमः
- १८ॐ गोकर्णे भद्रकर्णिकायै नमः
- १९ॐ स्थानेश्वरे भवान्यै नमः
- २०ॐ बिल्वके बिल्वपत्रिकायै नमः
- २१ॐ श्रीशैले माधव्यै नमः
- २२ॐ भद्रेश्वरे भद्रायै नमः
- २३ॐ वराहशैले जयायै नमः
- २४ॐ कमलालये कमलायै नमः
- २५ॐ रुद्रकोट्यां रुद्राण्यै नमः
- २६ॐ कालञ्जरे गिरौ काल्यै नमः
- २७ॐ महालिङ्गे कपिलायै नमः
- २८ॐ मर्कोटे मुकुटेश्वर्यै नमः
- २९ॐ शालग्रामे महादेव्यै नमः
- ३०ॐ शिवलिङ्गे जलप्रियायै नमः
- ३१ॐ मायापुर्यां कुमार्यै नमः
- ३२ॐ सन्ताने ललितायै नमः
- ३३ॐ सहस्राक्षे उत्पलाक्ष्यै नमः
- ३४ॐ कमलाक्षे महोत्पलायै नमः
- ३५ॐ गङ्गायां मङ्गलायै नमः
- ३६ॐ पुरुषोत्तमे विमलायै नमः
- ३७ॐ विपाशायां अमोघाक्ष्यै नमः
- ३८ॐ पुण्ड्रवर्धने पाटलायै नमः
- ३९ॐ सुपार्श्वे नारायण्यै नमः
- ४०ॐ विकूटे भद्रसुन्दर्यै नमः
- ४१ॐ विपुले विपुलायै नमः
- ४२ॐ मलयाचले कल्याण्यै नमः
- ४३ॐ कोटितीर्थे कोटव्यै नमः
- ४४ॐ माधवे वने सुगन्धायै नमः
- ४५ॐ कुब्जाम्रके त्रिसन्ध्यायै नमः
- ४६ॐ गङ्गाद्वारे रतिप्रियायै नमः
- ४७ॐ शिवकुण्डे सुनन्दायै नमः
- ४८ॐ देविकातटे नन्दिन्यै नमः
- ४९ॐ द्वारवत्यां रुक्मिण्यै नमः
- ५०ॐ वृन्दावने वने राधायै नमः
- ५१ॐ मथूरायां देविकायै नमः
- ५२ॐ पाताले परमेश्वर्यै नमः
- ५३ॐ चित्रकूटे सीतायै नमः
- ५४ॐ विन्ध्ये विन्ध्याधिवासिन्यै नमः
- ५५ॐ सह्याद्रौ एकवीरायै नमः
- ५६ॐ हरिश्चन्द्रे चन्द्रिकायै नमः
- ५७ॐ रामतीर्थे रमणायै नमः
- ५८ॐ यमुनायां मृगावत्यै नमः
- ५९ॐ करवीरे महालक्ष्म्यै नमः
- ६०ॐ विनायके उमादेव्यै नमः
- ६१ॐ वैद्यनाथे अरोगायै नमः
- ६२ॐ महाकाले महेश्वर्यै नमः
- ६३ॐ उष्णतीर्थेषु अभयायै नमः
- ६४ॐ विन्ध्यकन्दरे अमृतायै नमः
- ६५ॐ माण्डव्ये माण्डव्यै नमः
- ६६ॐ महेश्वरे पुरे स्वाहायै नमः
- ६७ॐ छागलाण्डे प्रचण्डायै नमः
- ६८ॐ मकरन्दके चण्डिकायै नमः
- ६९ॐ सोमेश्वरे वरारोहायै नमः
- ७०ॐ प्रभासे पुष्करावत्यै नमः
- ७१ॐ सरस्वत्यां पारावारतटे देवमात्रे नमः
- ७२ॐ महालये महाभागायै नमः
- ७३ॐ पयोष्ण्यां पिङ्गलेश्वर्यै नमः
- ७४ॐ कृतशौचे सिंहिकायै नमः
- ७५ॐ कार्त्तिकेये यशस्कर्यै नमः
- ७६ॐ उत्पलावर्तके लोलायै नमः
- ७७ॐ शोणसङ्गमे सुभद्रायै नमः
- ७८ॐ सिद्धपुरे मात्रे लक्ष्म्यै नमः
- ७९ॐ भरताश्रमे अङ्गनायै नमः
- ८०ॐ जालन्धरे विश्वमुख्यै नमः
- ८१ॐ किष्किन्धपर्वते तारायै नमः
- ८२ॐ देवदारुवने पुष्ट्यै नमः
- ८३ॐ काश्मीर मण्डले मेधायै नमः
- ८४ॐ हिमाद्रौ भीमादेव्यै नमः
- ८५ॐ विश्वेश्वरे पुष्ट्यै नमः
- ८६ॐ कपालमोचने शुद्ध्यै नमः
- ८७ॐ कायावरोहणे मात्रे नमः
- ८८ॐ शङ्खोद्धारे ध्वन्यै नमः
- ८९ॐ पिण्डारके धृत्यै नमः
- ९०ॐ चद्रभागायां कालायै नमः
- ९१ॐ अच्चोदे शिवकारिण्यै नमः
- ९२ॐ वेणायां अमृतायै नमः
- ९३ॐ बदर्याम् उर्वश्यै नमः
- ९४ॐ उत्तरकुरौ औषध्यै नमः
- ९५ॐ कृशद्वीपे कुशोदकायै नमः
- ९६ॐ हेमकूटे मन्मथायै नमः
- ९७ॐ मुकुटे सत्यवादिन्यै नमः
- ९८ॐ अश्वत्थे वन्दनीयायै नमः
- ९९ॐ वैश्रवणालये निधये नमः
- १००ॐ वेदवदने गायत्र्यै नमः
- १०१ॐ शिवसन्निधौ पार्वत्यै नमः
- १०२ॐ देवलोके इन्द्राण्यै नमः
- १०३ॐ ब्रह्मास्येषु सरस्वत्यै नमः
- १०४ॐ सूर्यबिम्बे प्रभायै नमः
- १०५ॐ मातॄणां वैष्णव्यै नमः
- १०६ॐ सतीनां अरुन्धत्यै नमः
- १०७ॐ रामासु तिलोत्तमायै नमः
- १०८ॐ सर्वशरीरिणां चित्ते ब्रह्मकलानामशक्त्यै नमः
इति श्री-मत्स्यमहापुराणे श्री-शक्त्यष्टोत्तरशतदिव्यस्थानीयनामावलिः सम्पूर्णा