मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

नवमोऽध्यायः

3
आश्वलायनश्रौतसूत्रम् · 9

प्रथमः खण्डः

उक्तप्रकृतयोऽहीनैकाहाः

॥१॥

सिद्धैरहोभिरह्नामतिदेशः

॥२॥

अनतिदेशे त्वेकाहो ज्योतिष्टोमो द्वादशशतदक्षिणस्तेन शस्यमेकाहानां

॥३॥

गोआयूषी विपरीते द्व्यहानां

॥४॥

त्र्यहाणां पृष्ठ्यत्र्यहः पूर्वः । अभिप्लवत्र्यहो वा

॥५॥

एवम्प्रायाश्च दक्षिणा अर्वागतिरात्रेभ्यः

॥६॥

साहस्रास्त्वतिरात्राः

॥७॥

द्व्यहास्त्र्यहाश्च

॥८॥

ये भूयांसस्त्र्यहादहीनाः सहस्रं तेषां त्र्यहे प्रसंख्यायान्वहन्ततः सहस्राणि

॥९॥

समावत्त्वेव दक्षिणा नयेयुः

॥१०॥

अतिरिक्तास्तूत्तमेऽधिकाः

॥११॥

अतिदिष्टानां स्तोमपृष्ठसंस्थान्यत्वादनन्यभावः

॥१२॥

नित्या नैमित्तिका विकाराः

॥१३॥

माध्यन्दिने तु होतुर्निष्केवल्ये स्तोमकारितं शस्यं

॥१४॥

तत्रोपजनस्तार्क्ष्यवर्जमग्रे सूक्तानां

॥१५॥

हानौ तत एवोद्धारः

॥१६॥

येऽर्वाक् त्रिवृतः स्तोमाः स्युस्तृचा एव तत्र सूक्तस्थानेषु

॥१७॥

यथा नित्या निविदोऽभ्युदियात्

॥१८॥

द्वितीयः खण्डः

उक्तानि चातुर्मास्यानि

॥१॥

सोमान् वक्ष्यामः पर्वणां स्थाने

॥२॥

अयूपकानेके

॥३॥

परिधौ पशुं नियुञ्जन्ति

॥४॥

वैश्वदेयास्थाने प्रथमं पृष्ट्याहः । जनिष्ठा उग्र उग्रो जज्ञ इति मध्यन्दिनः । ऐकाहिका होत्राः सर्वत्र प्रथमसांपातिकेष्वहःस्वेकाहीभवत्सु

॥५॥

वैश्वानरपार्जन्ये हविषी अग्नीषोमीयस्य पशोः पशुपुरोडाशेऽन्वायातयेयुः । प्रातःसवनिकेषु पुरोडाशेषु वैश्वदेव्या हवींष्यन्वायातयेयुः । वैश्वदेवः पशुः

॥६॥

बार्हस्पत्याऽनूबन्ध्या

॥७॥

वरुणप्रघासस्थाने द्व्यहः

॥८॥

उत्तरस्याह्नः प्रातःसवनिकेषु पुरोडाशेषु वरुणप्रघासहवींष्यन्वायातयेयुः

॥९॥

मारुतवारुणौ पशू

॥१०॥

मैत्रावरुण्यनूबन्ध्या

॥११॥

अग्निष्टोम ऐन्द्राग्नस्थाने

॥१२॥

साकमेधस्थाने त्र्यहोऽतिरात्रान्तः

॥१३॥

द्वितीयस्याह्नोऽनुसवनं पुरोडाशेषु पूर्वेद्युर्हवींषि

॥१४॥

तृतीयेऽहन्युपांश्वन्तर्यामौ हुत्वा पौर्णदर्वं । प्रातःसवनिकेषु क्रैडिनं

॥१५॥

माध्यन्दिनेषु माहेन्द्राणि

॥१६॥

अन्तरेण घृतयाज्ये दक्षिणे मार्जालीये पित्र्या

॥१७॥

तत्रोपस्थानं यथाऽनतिप्रणीतचरतां

॥१८॥

अनूबन्ध्यायाः पशुपुराडाश आदित्यमन्वायातयेयुः

॥१९॥

आग्नेय्यैन्द्राग्नैकादशिनाः पशवः

॥२०॥

सौर्याऽनूबन्ध्या

॥२१॥

अग्निष्टोमः शुनासीरीयायाः स्थाने । प्रातःसवनिकेषु पुरोडाशेषु शुनासीरीयाया हवींष्यन्वायातयेयुः

॥२२॥

वायव्यः पशुः

॥२३॥

आश्विन्यनूबन्ध्या

॥२४॥

अन्वहं पञ्चाशच्छो दक्षिणाः

॥२५॥

तृतीयः खण्डः

अथ राजसूयाः

॥१॥

पुरस्तात् फाल्गुन्याः पौर्णमास्याः पवित्रेणाग्निष्टोमेनाभ्यारोहणीयेन यजेत

॥२॥

पौर्णमास्यां चातुर्मास्यानि प्रयुङ्क्ते

॥३॥

नित्यानि पर्वाणि

॥४॥

चक्राभ्यां तु पर्वान्तरेषु चरन्ति

॥५॥

अहर्विपर्ययं पक्षविपर्ययं वा

॥६॥

संवत्सरान्ते समानपक्षेऽभिषेचनीयदशपेयौ

॥७॥

उक्थ्यो बृहत्पृष्ठ उभयसामाभिषेचनीयः

॥८॥

संस्थिते मरुत्वतीये दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरिवृताय राज्ञे शौनःशेपमाचक्षीत

॥९॥

हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति यशो वै हिरण्यं यशसैवैनं तत् समर्धयति

॥१०॥

ॐमित्यृचः प्रतिगर एवं तथेति गाथायाः

॥११॥

ॐमिति वै दैवं तथेति मानुषं दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति

॥१२॥

तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं न हास्मिन्नल्पञ्च नैनः परिशिष्यते

॥१३॥

सहस्रमाख्यात्रे दद्यात्

॥१४॥

शतं प्रतिगरित्रे

॥१५॥

यथास्वमासने

॥१६॥

संसृपेष्टिभिश्चरित्वा दशपेयेन यजेत

॥१७॥

तत्र दशदशैकैकं चमसं भक्षयेयुः

॥१८॥

नित्यान् प्रसंख्यायेताननुप्रसर्पयेयुः

॥१९॥

ये मातृतः पितृतश्च दशपुरुषं समनुष्ठिता विद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो नाब्राह्मण्यं निनयेयुः

॥२०॥

पितृत इत्येके

॥२१॥

नवग्वासः सुतसोमास इन्द्रं सखा ह यत्र सखिभिर्नवग्वैरिति निविद्धानयोराद्ये

॥२२॥

सूक्तमुखीये इत्युक्त एते प्रतीयात्

॥२३॥

उत्तर आपूर्यमाणपक्षे केशवपनीयो बृहत्पृष्ठोऽतिरात्रः

॥२४॥

द्वयोर्मासयोर्व्युष्टिद्व्यहः

॥२५॥

अग्निष्टोमः पूर्वमहः । सर्वस्तोमोऽतिरात्र उत्तरं

॥२६॥

उत्तर आपूर्यमाणपक्षे क्षत्रस्य धृतिरग्निष्टोमः

॥२७॥

चतुर्थः खण्डः

इति राजसूयाः

॥१॥

न्यायकॢप्ताश्च दक्षिणा अन्यत्राभिषेचनीयदशपेयाभ्यां

॥२॥

अभिषेचनीये तु द्वात्रिंशतं द्वात्रिंशतं सहस्राणि पृथङ्मख्येभ्यः

॥३॥

षोडश षोडश द्वितीयिभ्यः

॥४॥

अष्टावष्टौ तृतीयिभ्यः । चत्वारि चत्वारि पादिभ्यः

॥५॥

संसृपेष्टीनां हिरण्यमाग्नेय्यां वत्सतरी सारस्वत्यामवध्वस्तः सावित्र्यां श्यामः पौष्णां शितिपृष्ठो बार्हस्पत्यायामृषभ ऐन्द्र्यां महानिरष्टो वारुण्यां

॥६॥

साहस्रो दशपेयः

॥७॥

इमाश्चादिष्टदक्षिणाः

॥८॥

सौवर्णी स्रगुद्गातुः

॥९॥

अश्वः प्रस्तोतुः । धेनः प्रतिहर्त्तुः

॥१०॥

अजः सुब्रह्मण्यायै

॥११॥

हिरण्यप्राकाशावध्वर्योः

॥१२॥

राजतौ प्रतिप्रस्थातुः

॥२३॥

द्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणः

॥१४॥

वशा मैत्रावरुणस्य

॥१५॥

रुक्मो होतुः

॥१६॥

ऋषभो ब्राह्मणाच्छंसिनः । कार्पासं वासः पोतुः । क्षौमी बरासी नेष्टुः

॥१७॥

एकयुक्तं यवाचितमच्छावाकस्य

॥१८॥

अनड्वानाग्नीध्रस्य वत्सतर्युन्नेतुः । त्रिवर्षः साण्डो ग्रावस्तुतः

॥२०॥

पञ्चमः खण्डः

उशनसस्तोमेन गरगीर्णमिवात्मानं मन्यमानो यजेत

॥१॥

उशना यत् सहस्यैरयातं त्वमपो यदवे तुर्वशायेति सूक्तमुखीये । गोस्तोमभूमिस्तोमवनस्पतिसवानां न ता अर्वारेणुककाटो अश्नुते न ता नशन्ति न दभाति तस्करो बडित्था पर्वतानां दृल्हाचिद्या वनस्पतीन् देवेभ्यो वनस्पते हवींषि वनस्पते रशनया नियूयेति सूक्तमुखीयाः

॥२॥

आधिपत्यकामो ब्रह्मवर्चसकामो वा बृहस्पतिसवेन यजेत

॥३॥

तस्य तृचाः सूक्तस्थानेषु

॥४॥

अग्निर्देवेषु राजतीत्याज्यं । यस्तस्तम्भधुनेतय इति सूक्तमुखीये । इन्द्र मरुत्व इह नृणामु त्वेति मध्यन्दिनः । उदुष्य देवः सविता हिरण्यया घृतवती भुवनानामभिश्रियेन्द्रऋभुभिर्वाजवद्भिः समुक्षितं स्वस्ति नो मिमीतामश्विनाभाग इति वैश्वदेवं । वैश्वानरं मनसाग्निं निचाय्य प्रयन्तु वाजास्तविषीभिरग्नयः समिद्धमग्निं समिधा गिरा गृण इत्याग्निमारुतं । होत्रका ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमोत्तमान्तृचांच्छंसेयुः

॥५॥

प्रगाथेभ्यस्तु माध्यन्दिने

॥६॥

अनुसवनमेकादशैकादश दक्षिणाः

॥७॥

एकादशैकादश वा सहस्राणि

॥८॥

शतानि वा

॥९॥

अश्वो माध्यन्दिनेऽधिकः

॥१०॥

भवा भ्रातृव्यवानधिबुभूषुर्यजेत

॥११॥

सद्यस्क्रियाऽनुक्रिया परिक्रिया वा स्वर्गकामः

॥१२॥

एकत्रिकेण त्र्येकेण वाऽन्नाद्यकामः

॥१३॥

गोतमस्तोमेन य इच्छेद्दानकामा मे प्रजा स्यादिति

॥१४॥

एतेषां सप्तानां शस्यमुक्तं बृहस्पतिसवेन

॥१५॥

त्वं भुवः प्रतिमानं पृथिव्या भुवस्त्वमिन्द्रब्रह्मणा महान्त्सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपि वो जात इन्द्रानत्वाहिघ्ने अधदेव देवा अनु ते दायि मह इन्द्रियाय कथो नु ते परिचराणि विद्वानिति द्वे एकस्य चिन्मे विभ्व१स्त्वोज एकन्नु त्वा सत्पतिं पाञ्चजन्यं त्र्यर्यमा मनुषो देवताता प्रघान्वस्य महतो महानीत्था हि सोम इन्मद इन्द्रो मदाय वावृध इति सूक्तमुखीयाः

॥१६॥

षष्ठः खण्डः

गोतमस्तोममन्तरुक्थ्यं कुर्वन्ति

॥१॥

ग्रहान्तरुक्थ्यश्चेदग्ने मरुद्भिरृक्वभिः पा इन्द्रा वरुणाभ्यां मत्स्वेन्द्राबृहस्पतिभ्यामिन्द्राविष्णुभ्यां सजूरित्याग्निमारुते पुरस्तात् परिधानीयाया आवपेत

॥२॥

उभयोराह्वानं

॥३॥

अन्यतरस्यामेके । उक्थ्यस्तोत्रियेषु चेद्यज्ञायज्ञीयेन

॥४॥

स्वैर्वा

॥५॥

सकृदाहूय स्तोत्रियान् । तथानुरूपान्

॥६॥

अन्यत्राप्येवं स्तोत्रियानुरूपसन्निपाते

॥७॥

यद्यु वै यज्ञायज्ञीययोनौ सर्वैरेवोक्थ्यसामभिः प्रकृत्या स्यात् तथा सति

॥८॥

सप्तमः खण्डः

श्येनाजिराभ्यामभिचरन् यजेत

॥१॥

अहं मनुर्गर्भेनुसंस्त्वया मन्यो यस्ते मन्यविति मध्यन्दिनौ

॥२॥

शेषो बृहस्पतिसवेन

॥३॥

शरमयं बर्हिः

॥५॥

मौसलाः परिधयः

॥६॥

वैभीतक इध्मः

॥७॥

वाघातको वा

॥८॥

अपगूर्याश्रावयेत्

॥९॥

प्रत्याश्रावयेच्च

॥१०॥

छिन्दन्निव वषट्कुर्यात्

॥११॥

दृषन्निव जुहुयात्

॥१२॥

साद्यस्केषूर्वरा वेदिः

॥१३॥

खल उत्तरवेदिः

॥१४॥

खलेवाली यूपः

॥१५॥

स्फ्यग्रो यूपः

॥१६॥

अचषालः

॥१७॥

कलापी चषालः

॥१८॥

इत्यागन्तुका विकाराः

॥१९॥

अन्यांश्चाध्वर्यवो विदुः

॥२०॥

सिद्धे तु शस्ये होता संप्रैषान्वयः स्यात्

॥२१॥

पाप्या कीर्त्या महारोगेण वा यो वाऽलंप्रजननः प्रजां न विन्देत सोऽग्निष्टुता यजेत

॥२२॥

तिष्ठा हरी यो जात एवेति मध्यन्दिनः । सर्वाग्नेयश्चेत् स्तोत्रियानुरूपा आग्नेयाः स्युः विचारि वा

॥२३॥

अपि वा सर्वेषु देवताशब्देष्वग्निमेवाभिसंनमेत्

॥२५॥

तथा सत्यन्वक्षमिन्द्रस्तुता यजेत

॥२६॥

इन्द्र सोममिन्द्रं स्तवेति मध्यन्दिनः

॥२७॥

भूतिकामो वा ग्रामकामो वा प्रजाकामो वा

॥२८॥

इमा उ त्वा य एक इदिति मध्यन्दिनः । इन्द्राग्न्योः कुलायेन प्रजातिकामः

॥२९॥

तिष्ठा हरी तमु ष्टुहीति मध्यन्दिनः । ऋषभेण विजिगीषमाणः

॥३०॥

मरुत्वाँ इन्द्र युध्मस्य ते इति मध्यन्दिनः । तीव्रसोमेनान्नाद्यकामः

॥३१॥

क्वस्य वीरस्तीव्रस्याभिवयस इति मध्यन्दिनः । विघनेनाभिचरन्

॥३२॥

तस्य शस्यमजिरेण

॥३३॥

इन्द्रा विष्णोरुत्क्रान्तिना स्वर्गकामः

॥३४॥

इमा उ त्वा द्यौर्न य इन्द्र इति मध्यन्दिनः । यः कामयेत नैष्णिह्यं पाप्मन इयामिति स ऋतपेयेन यजेत

॥३५॥

ऋतस्य हि शुरुधः सन्ति पूर्वीरिति सूक्तमुखीये । सत्येन चमसान् भक्षयन्ति

॥३६॥

सत्यमियं पृथिवी सत्यमयमग्निः सत्यमयं वायुः सत्यमसावादित्य इति

॥३७॥

सोमचमसो दक्षिणा

॥३८॥

अष्टमः खण्डः

अतिमूर्त्तिना यक्ष्यमाणो मासं सौर्याचान्द्रमसीभ्यामिष्टीभ्यां यजेत

॥१॥

शुक्लं चान्द्रमस्या । सौर्ययेतरं

॥२॥

अत्राह गोरमन्वत नवो नवो भवति जायमानस्तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः

॥३॥

स ईं महीं धुनिमेतोररम्णात् स्वप्नेनाभ्युप्या चुमुरिं धुनिञ्चेति सूक्तमुखीये

॥४॥

सूर्यस्तुता यशस्कामः

॥५॥

पिबा सोममभीन्द्रं स्तवेति मध्यन्दिनः । व्योम्नाऽन्नाद्यकामः

॥६॥

विश्वदेवस्तुता यशस्कामः

॥७॥

पञ्चशारदीयेन पशुकामः

॥८॥

एतेषां त्रयाणां कयाशुभातदिदासेति मध्यन्दिनः । उभयसामानौ पूर्वौ

॥९॥

उक्थ्यः पञ्चशारदीयः । विशो विशो वो अतिथिमित्याज्यं

॥१०॥

कण्वरथन्तरं पृष्ठं

॥११॥

गोसवविवधौ पशुकामः

॥१२॥

इन्द्र सोममेतायामेति मध्यन्दिनः

॥१३॥

दश सहस्राणि दक्षिणाः

॥१४॥

षोळश एकाहाः

॥१५॥

आयुर्गौरिति व्यत्यासं

॥१६॥

उद्भिद्बलभिदौ स्वर्गकामः

॥१७॥

इन्द्र सोममिन्द्रः पूर्भिदिति मध्यन्दिनः

॥१८॥

विनुत्यभिभूत्योरिषुवज्रयोश्च मन्युसूक्ते

॥१९॥

अभिचरन् यजत

॥२०॥

त्विष्यपचित्योः सम्राट्स्वराजो राड्विराजोः शदस्य चैकाहिके

॥२१॥

उपशदस्य राशिमराययोश्च कयाशुभीयतदिदासीये

॥२२॥

भूतिकामराज्यकामान्नाद्यकामेन्द्रियकामतेजस्कामानां

॥२३॥

एते कामा द्वयोर्द्वयोः

॥२४॥

ऋषिस्तोमा व्रात्यस्तोमाश्च पृष्ठ्याहानि

॥२५॥

नाकसद् ऋतुस्तोमा दिक्स्तोमाश्चाभिप्लवाहानि

॥२६॥

नवमः खण्डः

वाजपेयेनाधिपत्यकामः

॥१॥

सप्तदश दीक्षाः

॥२॥

सप्तदशापवर्गो वा

॥३॥

हिरण्यस्रज ऋत्विजो याजयेयुः

॥४॥

वज्रकिञ्जल्का शतपुष्करा होतुः

॥५॥

विश्वजिदाज्यं कयाशुभातदिदासेति मध्यन्दिनः । संस्थिते मरुत्वतीये बार्हस्पत्येष्टिः

॥६॥

आज्यभागप्रभृतीडान्ता । बृहस्पतिः प्रथमं जायमानो बृहस्पतिः समजयद्वसूनि । त्वामीडते अजिरं दूत्यायाग्निं सुदीतिं सुदृशं गृणन्त इति संयाज्ये

॥७॥

यदि त्वध्वर्यव आजिञ्जापयेयुरथ ब्रह्मा तीर्थदेशे मयूखे चक्रं प्रतिमुक्तं तदारुह्य प्रदक्षिणमावर्त्त्यमाने वाजिनां साम गायादाविर्मर्या आ वाजं वाजिनो अग्मन् । देवस्य सवितुः सवे स्वगाँ अर्वन्तो जयतः स्वगाँ अर्वतो जयतीति वा

॥८॥

यदि साम नाधीयात्त्रिरेतामृचं जपेत् । तृतीयेनाभिप्लविकेनोक्तं तृतीयसवनं । चित्रवतीषु चेत् स्तुवीरंस्त्वं नश्चित्र ऊत्याग्ने विवस्वदुषस इत्यग्निष्टोमसाम्नः स्तोत्रियानुरूपौ । षोडशी त्विह

॥९॥

तस्मादूर्ध्वमतिरिक्तोक्थं

॥१०॥

प्र तत्ते अद्य शिपिविष्टनाम प्र तद्विष्णस्तवते वीर्येणेति स्तोत्रियानुरूपौ

॥११॥

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्यत्ते दित्सु प्रराध्यं त्वामिच्छवसस्पते

॥१२॥

तं प्रत्नथेति त्रयोदशानामेकां शिष्ट्वाऽऽहूय दूराहणं रोहेत्

॥१३॥

बृहस्पते युवमिन्द्रश्च वस्व इति परिधानीया । विभ्राट् बृहत् पिबतु सोम्यं मध्विति याज्या । तस्य गवां शतानामश्वरथानामश्वानां साद्यानां वह्यानां महानसानां दासीनां निष्ककण्ठीनां हस्तिनां हिरण्यकक्ष्याणां सप्तदश सप्तदशानि दक्षिणाः

॥१४॥

दशान्ये दक्षिणागणा धनानां शतावमापरार्ध्यानां

॥१५॥

पूर्वान् वा गणशोऽभ्यस्येत्

॥१६॥

सप्तदश सप्तदशानि सम्पादयेत्

॥१७॥

इति वाजपेयः

॥१८॥

तेनेष्ट्वा राजा राजसूयेन यजेत । ब्राह्मणो बृहस्पतिसवेन

॥१९॥

दशमः खण्डः

अनिरुक्तस्य चतुर्विंशेन प्रातःसवनं तृतीयसवनञ्च

॥१॥

तं प्रत्नथेति तु त्रयोदशवैश्वदेवं

॥२॥

कयाशुभातदिदासेति मध्यन्दिनः

॥३॥

होत्रका ऊर्ध्वं प्रगाथेभ्यः प्रथमान् सम्पाताञ्छंसेयुः

॥४॥

अहीनसूक्तानि वा

॥५॥

एवं पूर्वे सवने बृहत्पृष्ठेष्वसमाम्नातेषु

॥६॥

प्रतिकामं विश्वजिच्छिल्पः

॥७॥

तस्य समानं विश्वजिता प्रगाथेभ्यः

॥८॥

बृहस्पतिसवेनाज्यं । निष्केवल्यमरुत्वतीयौ च तृचौ

॥९॥

ताभ्यां तु पूर्वे ऐकाहिके

॥१०॥

होत्रका ऊर्ध्वं प्रगाथेभ्यः शिल्पान्यविकृतानि शंसेयुः

॥११॥

सामसूक्तानि च

॥१२॥

आद्यांस्तृचानहीनसूक्तानां

॥१३॥

अन्त्यानामैकाहिकानामुत्तमान्

॥१४॥

समानं तृतीयसवनं बृहस्पतिसवेन । नाभानेदिष्ठस्त्विह पूर्वो वैश्वदेवात् तृचात्

॥१५॥

एवयामरुत्त्वाग्निमारुते मारुतात्

॥१६॥

तयोरुक्तः शस्योपायः

॥१७॥

एकादशः खण्डः

यस्य पशवो नोपधरेरन्नन्यान्वाभिजनान्निनीत्सेत सोऽप्तोर्यामेण यजेत

॥१॥

माध्यन्दिने शिल्पयोनिवर्जमुक्तो विश्वजिता

॥२॥

एकाहेन

॥३॥

गर्भकारञ्चेत् स्तुवीरंस्तथैव स्तोत्रियानुरूपान्

॥४॥

रथन्तरेणाग्रे ततो वैराजेन ततो रथन्तरेण

॥५॥

बृहद्वैराजाभ्यां वैवमेव

॥६॥

श्यैतवैरूपे वा

॥८॥

कालेयरैवते अच्छावाकस्य

॥९॥

सामानन्तर्येण द्वौ द्वौ प्रगाथावगर्भकारं

॥१०॥

अतिरात्रस्त्विह

॥११॥

अद्वैपदोक्थ्यश्चेद्वैषुवतं तृतीयसवनं

॥१२॥

ऊर्ध्वमाश्विनादतिरिक्तोक्थ्यानि

॥१३॥

जराबोधत द्विविड्ढि जरमाणः समिध्यसेऽग्निनेन्द्रेणाभात्यग्निः क्षेत्रस्य पतिना वयमिति परिधानीया युवं देवा क्रतुना पूर्व्येणेति याज्या

॥१४॥

यदद्यकच्च वृत्रहन्नुद्घेदभिश्रुता मघमानो विश्वाभिः प्रातर्यावाणा क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया युवां देवास्त्रय एकादशास इति याज्या

॥१५॥

तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसा नूनमश्विना त वां रथं मधुमतीरोषधीर्द्याव आप इति परिधानीयाऽपनाय्यं तदश्विना कृतं वामिति याज्या अतो देवा अवन्तु न इति स्तोत्रियानुरूपौ

॥१६॥

उत नोऽधियोगो अग्रा इति वानुरूपस्योत्तमा

॥१८॥

ईडे द्यावापृथिवी उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीयाऽयं वां भागो निहितो यजत्रेति याज्या

॥१९॥

यदि नाधीयात्पुराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः

॥२०॥

तद्वो गाय सुते सचा स्तोत्रमिन्द्राय गायत त्यमु वः सत्रासाहं सत्रा ते अनुकृष्टय इति वा स्तोत्रियानुरूपाः

॥२१॥

अपरिमिताः परःसहस्रा दक्षिणाः

॥२२॥

श्वेतश्चाश्वतरीरथो होतुर्होतुः

॥२३॥