प्रथमः खण्डः
Devanāgarīउक्तप्रकृतयोऽहीनैकाहाः
॥१॥ IAST
Devanāgarīसिद्धैरहोभिरह्नामतिदेशः
॥२॥ IAST
Devanāgarīअनतिदेशे त्वेकाहो ज्योतिष्टोमो द्वादशशतदक्षिणस्तेन शस्यमेकाहानां
॥३॥ IAST
Devanāgarīगोआयूषी विपरीते द्व्यहानां
॥४॥ IAST
Devanāgarīत्र्यहाणां पृष्ठ्यत्र्यहः पूर्वः । अभिप्लवत्र्यहो वा
॥५॥ IAST
Devanāgarīएवम्प्रायाश्च दक्षिणा अर्वागतिरात्रेभ्यः
॥६॥ IAST
Devanāgarīसाहस्रास्त्वतिरात्राः
॥७॥ IAST
Devanāgarīद्व्यहास्त्र्यहाश्च
॥८॥ IAST
Devanāgarīये भूयांसस्त्र्यहादहीनाः सहस्रं तेषां त्र्यहे प्रसंख्यायान्वहन्ततः सहस्राणि
॥९॥ IAST
Devanāgarīसमावत्त्वेव दक्षिणा नयेयुः
॥१०॥ IAST
Devanāgarīअतिरिक्तास्तूत्तमेऽधिकाः
॥११॥ IAST
Devanāgarīअतिदिष्टानां स्तोमपृष्ठसंस्थान्यत्वादनन्यभावः
॥१२॥ IAST
Devanāgarīनित्या नैमित्तिका विकाराः
॥१३॥ IAST
Devanāgarīमाध्यन्दिने तु होतुर्निष्केवल्ये स्तोमकारितं शस्यं
॥१४॥ IAST
Devanāgarīतत्रोपजनस्तार्क्ष्यवर्जमग्रे सूक्तानां
॥१५॥ IAST
Devanāgarīहानौ तत एवोद्धारः
॥१६॥ IAST
Devanāgarīयेऽर्वाक् त्रिवृतः स्तोमाः स्युस्तृचा एव तत्र सूक्तस्थानेषु
॥१७॥ IAST
Devanāgarīयथा नित्या निविदोऽभ्युदियात्
॥१८॥ IAST
द्वितीयः खण्डः
Devanāgarīउक्तानि चातुर्मास्यानि
॥१॥ IAST
Devanāgarīसोमान् वक्ष्यामः पर्वणां स्थाने
॥२॥ IAST
IAST
Devanāgarīपरिधौ पशुं नियुञ्जन्ति
॥४॥ IAST
Devanāgarīवैश्वदेयास्थाने प्रथमं पृष्ट्याहः । जनिष्ठा उग्र उग्रो जज्ञ इति मध्यन्दिनः । ऐकाहिका होत्राः सर्वत्र प्रथमसांपातिकेष्वहःस्वेकाहीभवत्सु
॥५॥ IAST
Devanāgarīवैश्वानरपार्जन्ये हविषी अग्नीषोमीयस्य पशोः पशुपुरोडाशेऽन्वायातयेयुः । प्रातःसवनिकेषु पुरोडाशेषु वैश्वदेव्या हवींष्यन्वायातयेयुः । वैश्वदेवः पशुः
॥६॥ IAST
Devanāgarīबार्हस्पत्याऽनूबन्ध्या
॥७॥ IAST
Devanāgarīवरुणप्रघासस्थाने द्व्यहः
॥८॥ IAST
Devanāgarīउत्तरस्याह्नः प्रातःसवनिकेषु पुरोडाशेषु वरुणप्रघासहवींष्यन्वायातयेयुः
॥९॥ IAST
Devanāgarīमारुतवारुणौ पशू
॥१०॥ IAST
Devanāgarīमैत्रावरुण्यनूबन्ध्या
॥११॥ IAST
Devanāgarīअग्निष्टोम ऐन्द्राग्नस्थाने
॥१२॥ IAST
Devanāgarīसाकमेधस्थाने त्र्यहोऽतिरात्रान्तः
॥१३॥ IAST
Devanāgarīद्वितीयस्याह्नोऽनुसवनं पुरोडाशेषु पूर्वेद्युर्हवींषि
॥१४॥ IAST
Devanāgarīतृतीयेऽहन्युपांश्वन्तर्यामौ हुत्वा पौर्णदर्वं । प्रातःसवनिकेषु क्रैडिनं
॥१५॥ IAST
Devanāgarīमाध्यन्दिनेषु माहेन्द्राणि
॥१६॥ IAST
Devanāgarīअन्तरेण घृतयाज्ये दक्षिणे मार्जालीये पित्र्या
॥१७॥ IAST
Devanāgarīतत्रोपस्थानं यथाऽनतिप्रणीतचरतां
॥१८॥ IAST
Devanāgarīअनूबन्ध्यायाः पशुपुराडाश आदित्यमन्वायातयेयुः
॥१९॥ IAST
Devanāgarīआग्नेय्यैन्द्राग्नैकादशिनाः पशवः
॥२०॥ IAST
Devanāgarīसौर्याऽनूबन्ध्या
॥२१॥ IAST
Devanāgarīअग्निष्टोमः शुनासीरीयायाः स्थाने । प्रातःसवनिकेषु पुरोडाशेषु शुनासीरीयाया हवींष्यन्वायातयेयुः
॥२२॥ IAST
Devanāgarīवायव्यः पशुः
॥२३॥ IAST
Devanāgarīआश्विन्यनूबन्ध्या
॥२४॥ IAST
Devanāgarīअन्वहं पञ्चाशच्छो दक्षिणाः
॥२५॥ IAST
तृतीयः खण्डः
Devanāgarīअथ राजसूयाः
॥१॥ IAST
Devanāgarīपुरस्तात् फाल्गुन्याः पौर्णमास्याः पवित्रेणाग्निष्टोमेनाभ्यारोहणीयेन यजेत
॥२॥ IAST
Devanāgarīपौर्णमास्यां चातुर्मास्यानि प्रयुङ्क्ते
॥३॥ IAST
Devanāgarīनित्यानि पर्वाणि
॥४॥ IAST
Devanāgarīचक्राभ्यां तु पर्वान्तरेषु चरन्ति
॥५॥ IAST
Devanāgarīअहर्विपर्ययं पक्षविपर्ययं वा
॥६॥ IAST
Devanāgarīसंवत्सरान्ते समानपक्षेऽभिषेचनीयदशपेयौ
॥७॥ IAST
Devanāgarīउक्थ्यो बृहत्पृष्ठ उभयसामाभिषेचनीयः
॥८॥ IAST
Devanāgarīसंस्थिते मरुत्वतीये दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरिवृताय राज्ञे शौनःशेपमाचक्षीत
॥९॥ IAST
Devanāgarīहिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति यशो वै हिरण्यं यशसैवैनं तत् समर्धयति
॥१०॥ IAST
Devanāgarīॐमित्यृचः प्रतिगर एवं तथेति गाथायाः
॥११॥ IAST
Devanāgarīॐमिति वै दैवं तथेति मानुषं दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति
॥१२॥ IAST
Devanāgarīतस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं न हास्मिन्नल्पञ्च नैनः परिशिष्यते
॥१३॥ IAST
Devanāgarīसहस्रमाख्यात्रे दद्यात्
॥१४॥ IAST
Devanāgarīशतं प्रतिगरित्रे
॥१५॥ IAST
Devanāgarīयथास्वमासने
॥१६॥ IAST
Devanāgarīसंसृपेष्टिभिश्चरित्वा दशपेयेन यजेत
॥१७॥ IAST
Devanāgarīतत्र दशदशैकैकं चमसं भक्षयेयुः
॥१८॥ IAST
Devanāgarīनित्यान् प्रसंख्यायेताननुप्रसर्पयेयुः
॥१९॥ IAST
Devanāgarīये मातृतः पितृतश्च दशपुरुषं समनुष्ठिता विद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो नाब्राह्मण्यं निनयेयुः
॥२०॥ IAST
Devanāgarīपितृत इत्येके
॥२१॥ IAST
Devanāgarīनवग्वासः सुतसोमास इन्द्रं सखा ह यत्र सखिभिर्नवग्वैरिति निविद्धानयोराद्ये
॥२२॥ IAST
Devanāgarīसूक्तमुखीये इत्युक्त एते प्रतीयात्
॥२३॥ IAST
Devanāgarīउत्तर आपूर्यमाणपक्षे केशवपनीयो बृहत्पृष्ठोऽतिरात्रः
॥२४॥ IAST
Devanāgarīद्वयोर्मासयोर्व्युष्टिद्व्यहः
॥२५॥ IAST
Devanāgarīअग्निष्टोमः पूर्वमहः । सर्वस्तोमोऽतिरात्र उत्तरं
॥२६॥ IAST
Devanāgarīउत्तर आपूर्यमाणपक्षे क्षत्रस्य धृतिरग्निष्टोमः
॥२७॥ IAST
चतुर्थः खण्डः
Devanāgarīइति राजसूयाः
॥१॥ IAST
Devanāgarīन्यायकॢप्ताश्च दक्षिणा अन्यत्राभिषेचनीयदशपेयाभ्यां
॥२॥ IAST
Devanāgarīअभिषेचनीये तु द्वात्रिंशतं द्वात्रिंशतं सहस्राणि पृथङ्मख्येभ्यः
॥३॥ IAST
Devanāgarīषोडश षोडश द्वितीयिभ्यः
॥४॥ IAST
Devanāgarīअष्टावष्टौ तृतीयिभ्यः । चत्वारि चत्वारि पादिभ्यः
॥५॥ IAST
Devanāgarīसंसृपेष्टीनां हिरण्यमाग्नेय्यां वत्सतरी सारस्वत्यामवध्वस्तः सावित्र्यां श्यामः पौष्णां शितिपृष्ठो बार्हस्पत्यायामृषभ ऐन्द्र्यां महानिरष्टो वारुण्यां
॥६॥ IAST
Devanāgarīसाहस्रो दशपेयः
॥७॥ IAST
Devanāgarīइमाश्चादिष्टदक्षिणाः
॥८॥ IAST
Devanāgarīसौवर्णी स्रगुद्गातुः
॥९॥ IAST
Devanāgarīअश्वः प्रस्तोतुः । धेनः प्रतिहर्त्तुः
॥१०॥ IAST
Devanāgarīअजः सुब्रह्मण्यायै
॥११॥ IAST
Devanāgarīहिरण्यप्राकाशावध्वर्योः
॥१२॥ IAST
Devanāgarīराजतौ प्रतिप्रस्थातुः
॥२३॥ IAST
Devanāgarīद्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणः
॥१४॥ IAST
Devanāgarīवशा मैत्रावरुणस्य
॥१५॥ IAST
Devanāgarīरुक्मो होतुः
॥१६॥ IAST
Devanāgarīऋषभो ब्राह्मणाच्छंसिनः । कार्पासं वासः पोतुः । क्षौमी बरासी नेष्टुः
॥१७॥ IAST
Devanāgarīएकयुक्तं यवाचितमच्छावाकस्य
॥१८॥ IAST
Devanāgarīअनड्वानाग्नीध्रस्य वत्सतर्युन्नेतुः । त्रिवर्षः साण्डो ग्रावस्तुतः
॥२०॥ IAST
पञ्चमः खण्डः
Devanāgarīउशनसस्तोमेन गरगीर्णमिवात्मानं मन्यमानो यजेत
॥१॥ IAST
Devanāgarīउशना यत् सहस्यैरयातं त्वमपो यदवे तुर्वशायेति सूक्तमुखीये । गोस्तोमभूमिस्तोमवनस्पतिसवानां न ता अर्वारेणुककाटो अश्नुते न ता नशन्ति न दभाति तस्करो बडित्था पर्वतानां दृल्हाचिद्या वनस्पतीन् देवेभ्यो वनस्पते हवींषि वनस्पते रशनया नियूयेति सूक्तमुखीयाः
॥२॥ IAST
Devanāgarīआधिपत्यकामो ब्रह्मवर्चसकामो वा बृहस्पतिसवेन यजेत
॥३॥ IAST
Devanāgarīतस्य तृचाः सूक्तस्थानेषु
॥४॥ IAST
Devanāgarīअग्निर्देवेषु राजतीत्याज्यं । यस्तस्तम्भधुनेतय इति सूक्तमुखीये । इन्द्र मरुत्व इह नृणामु त्वेति मध्यन्दिनः । उदुष्य देवः सविता हिरण्यया घृतवती भुवनानामभिश्रियेन्द्रऋभुभिर्वाजवद्भिः समुक्षितं स्वस्ति नो मिमीतामश्विनाभाग इति वैश्वदेवं । वैश्वानरं मनसाग्निं निचाय्य प्रयन्तु वाजास्तविषीभिरग्नयः समिद्धमग्निं समिधा गिरा गृण इत्याग्निमारुतं । होत्रका ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमोत्तमान्तृचांच्छंसेयुः
॥५॥ IAST
Devanāgarīप्रगाथेभ्यस्तु माध्यन्दिने
॥६॥ IAST
Devanāgarīअनुसवनमेकादशैकादश दक्षिणाः
॥७॥ IAST
Devanāgarīएकादशैकादश वा सहस्राणि
॥८॥ IAST
IAST
Devanāgarīअश्वो माध्यन्दिनेऽधिकः
॥१०॥ IAST
Devanāgarīभवा भ्रातृव्यवानधिबुभूषुर्यजेत
॥११॥ IAST
Devanāgarīसद्यस्क्रियाऽनुक्रिया परिक्रिया वा स्वर्गकामः
॥१२॥ IAST
Devanāgarīएकत्रिकेण त्र्येकेण वाऽन्नाद्यकामः
॥१३॥ IAST
Devanāgarīगोतमस्तोमेन य इच्छेद्दानकामा मे प्रजा स्यादिति
॥१४॥ IAST
Devanāgarīएतेषां सप्तानां शस्यमुक्तं बृहस्पतिसवेन
॥१५॥ IAST
Devanāgarīत्वं भुवः प्रतिमानं पृथिव्या भुवस्त्वमिन्द्रब्रह्मणा महान्त्सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपि वो जात इन्द्रानत्वाहिघ्ने अधदेव देवा अनु ते दायि मह इन्द्रियाय कथो नु ते परिचराणि विद्वानिति द्वे एकस्य चिन्मे विभ्व१स्त्वोज एकन्नु त्वा सत्पतिं पाञ्चजन्यं त्र्यर्यमा मनुषो देवताता प्रघान्वस्य महतो महानीत्था हि सोम इन्मद इन्द्रो मदाय वावृध इति सूक्तमुखीयाः
॥१६॥ IAST
षष्ठः खण्डः
Devanāgarīगोतमस्तोममन्तरुक्थ्यं कुर्वन्ति
॥१॥ IAST
Devanāgarīग्रहान्तरुक्थ्यश्चेदग्ने मरुद्भिरृक्वभिः पा इन्द्रा वरुणाभ्यां मत्स्वेन्द्राबृहस्पतिभ्यामिन्द्राविष्णुभ्यां सजूरित्याग्निमारुते पुरस्तात् परिधानीयाया आवपेत
॥२॥ IAST
Devanāgarīउभयोराह्वानं
॥३॥ IAST
Devanāgarīअन्यतरस्यामेके । उक्थ्यस्तोत्रियेषु चेद्यज्ञायज्ञीयेन
॥४॥ IAST
IAST
Devanāgarīसकृदाहूय स्तोत्रियान् । तथानुरूपान्
॥६॥ IAST
Devanāgarīअन्यत्राप्येवं स्तोत्रियानुरूपसन्निपाते
॥७॥ IAST
Devanāgarīयद्यु वै यज्ञायज्ञीययोनौ सर्वैरेवोक्थ्यसामभिः प्रकृत्या स्यात् तथा सति
॥८॥ IAST
सप्तमः खण्डः
Devanāgarīश्येनाजिराभ्यामभिचरन् यजेत
॥१॥ IAST
Devanāgarīअहं मनुर्गर्भेनुसंस्त्वया मन्यो यस्ते मन्यविति मध्यन्दिनौ
॥२॥ IAST
Devanāgarīशेषो बृहस्पतिसवेन
॥३॥ IAST
Devanāgarīशरमयं बर्हिः
॥५॥ IAST
Devanāgarīमौसलाः परिधयः
॥६॥ IAST
Devanāgarīवैभीतक इध्मः
॥७॥ IAST
IAST
Devanāgarīअपगूर्याश्रावयेत्
॥९॥ IAST
Devanāgarīप्रत्याश्रावयेच्च
॥१०॥ IAST
Devanāgarīछिन्दन्निव वषट्कुर्यात्
॥११॥ IAST
Devanāgarīदृषन्निव जुहुयात्
॥१२॥ IAST
Devanāgarīसाद्यस्केषूर्वरा वेदिः
॥१३॥ IAST
Devanāgarīखल उत्तरवेदिः
॥१४॥ IAST
Devanāgarīखलेवाली यूपः
॥१५॥ IAST
Devanāgarīस्फ्यग्रो यूपः
॥१६॥ IAST
IAST
Devanāgarīकलापी चषालः
॥१८॥ IAST
Devanāgarīइत्यागन्तुका विकाराः
॥१९॥ IAST
Devanāgarīअन्यांश्चाध्वर्यवो विदुः
॥२०॥ IAST
Devanāgarīसिद्धे तु शस्ये होता संप्रैषान्वयः स्यात्
॥२१॥ IAST
Devanāgarīपाप्या कीर्त्या महारोगेण वा यो वाऽलंप्रजननः प्रजां न विन्देत सोऽग्निष्टुता यजेत
॥२२॥ IAST
Devanāgarīतिष्ठा हरी यो जात एवेति मध्यन्दिनः । सर्वाग्नेयश्चेत् स्तोत्रियानुरूपा आग्नेयाः स्युः विचारि वा
॥२३॥ IAST
Devanāgarīअपि वा सर्वेषु देवताशब्देष्वग्निमेवाभिसंनमेत्
॥२५॥ IAST
Devanāgarīतथा सत्यन्वक्षमिन्द्रस्तुता यजेत
॥२६॥ IAST
Devanāgarīइन्द्र सोममिन्द्रं स्तवेति मध्यन्दिनः
॥२७॥ IAST
Devanāgarīभूतिकामो वा ग्रामकामो वा प्रजाकामो वा
॥२८॥ IAST
Devanāgarīइमा उ त्वा य एक इदिति मध्यन्दिनः । इन्द्राग्न्योः कुलायेन प्रजातिकामः
॥२९॥ IAST
Devanāgarīतिष्ठा हरी तमु ष्टुहीति मध्यन्दिनः । ऋषभेण विजिगीषमाणः
॥३०॥ IAST
Devanāgarīमरुत्वाँ इन्द्र युध्मस्य ते इति मध्यन्दिनः । तीव्रसोमेनान्नाद्यकामः
॥३१॥ IAST
Devanāgarīक्वस्य वीरस्तीव्रस्याभिवयस इति मध्यन्दिनः । विघनेनाभिचरन्
॥३२॥ IAST
Devanāgarīतस्य शस्यमजिरेण
॥३३॥ IAST
Devanāgarīइन्द्रा विष्णोरुत्क्रान्तिना स्वर्गकामः
॥३४॥ IAST
Devanāgarīइमा उ त्वा द्यौर्न य इन्द्र इति मध्यन्दिनः । यः कामयेत नैष्णिह्यं पाप्मन इयामिति स ऋतपेयेन यजेत
॥३५॥ IAST
Devanāgarīऋतस्य हि शुरुधः सन्ति पूर्वीरिति सूक्तमुखीये । सत्येन चमसान् भक्षयन्ति
॥३६॥ IAST
Devanāgarīसत्यमियं पृथिवी सत्यमयमग्निः सत्यमयं वायुः सत्यमसावादित्य इति
॥३७॥ IAST
Devanāgarīसोमचमसो दक्षिणा
॥३८॥ IAST
अष्टमः खण्डः
Devanāgarīअतिमूर्त्तिना यक्ष्यमाणो मासं सौर्याचान्द्रमसीभ्यामिष्टीभ्यां यजेत
॥१॥ IAST
Devanāgarīशुक्लं चान्द्रमस्या । सौर्ययेतरं
॥२॥ IAST
Devanāgarīअत्राह गोरमन्वत नवो नवो भवति जायमानस्तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः
॥३॥ IAST
Devanāgarīस ईं महीं धुनिमेतोररम्णात् स्वप्नेनाभ्युप्या चुमुरिं धुनिञ्चेति सूक्तमुखीये
॥४॥ IAST
Devanāgarīसूर्यस्तुता यशस्कामः
॥५॥ IAST
Devanāgarīपिबा सोममभीन्द्रं स्तवेति मध्यन्दिनः । व्योम्नाऽन्नाद्यकामः
॥६॥ IAST
Devanāgarīविश्वदेवस्तुता यशस्कामः
॥७॥ IAST
Devanāgarīपञ्चशारदीयेन पशुकामः
॥८॥ IAST
Devanāgarīएतेषां त्रयाणां कयाशुभातदिदासेति मध्यन्दिनः । उभयसामानौ पूर्वौ
॥९॥ IAST
Devanāgarīउक्थ्यः पञ्चशारदीयः । विशो विशो वो अतिथिमित्याज्यं
॥१०॥ IAST
Devanāgarīकण्वरथन्तरं पृष्ठं
॥११॥ IAST
Devanāgarīगोसवविवधौ पशुकामः
॥१२॥ IAST
Devanāgarīइन्द्र सोममेतायामेति मध्यन्दिनः
॥१३॥ IAST
Devanāgarīदश सहस्राणि दक्षिणाः
॥१४॥ IAST
Devanāgarīषोळश एकाहाः
॥१५॥ IAST
Devanāgarīआयुर्गौरिति व्यत्यासं
॥१६॥ IAST
Devanāgarīउद्भिद्बलभिदौ स्वर्गकामः
॥१७॥ IAST
Devanāgarīइन्द्र सोममिन्द्रः पूर्भिदिति मध्यन्दिनः
॥१८॥ IAST
Devanāgarīविनुत्यभिभूत्योरिषुवज्रयोश्च मन्युसूक्ते
॥१९॥ IAST
Devanāgarīअभिचरन् यजत
॥२०॥ IAST
Devanāgarīत्विष्यपचित्योः सम्राट्स्वराजो राड्विराजोः शदस्य चैकाहिके
॥२१॥ IAST
Devanāgarīउपशदस्य राशिमराययोश्च कयाशुभीयतदिदासीये
॥२२॥ IAST
Devanāgarīभूतिकामराज्यकामान्नाद्यकामेन्द्रियकामतेजस्कामानां
॥२३॥ IAST
Devanāgarīएते कामा द्वयोर्द्वयोः
॥२४॥ IAST
Devanāgarīऋषिस्तोमा व्रात्यस्तोमाश्च पृष्ठ्याहानि
॥२५॥ IAST
Devanāgarīनाकसद् ऋतुस्तोमा दिक्स्तोमाश्चाभिप्लवाहानि
॥२६॥ IAST
नवमः खण्डः
Devanāgarīवाजपेयेनाधिपत्यकामः
॥१॥ IAST
Devanāgarīसप्तदश दीक्षाः
॥२॥ IAST
Devanāgarīसप्तदशापवर्गो वा
॥३॥ IAST
Devanāgarīहिरण्यस्रज ऋत्विजो याजयेयुः
॥४॥ IAST
Devanāgarīवज्रकिञ्जल्का शतपुष्करा होतुः
॥५॥ IAST
Devanāgarīविश्वजिदाज्यं कयाशुभातदिदासेति मध्यन्दिनः । संस्थिते मरुत्वतीये बार्हस्पत्येष्टिः
॥६॥ IAST
Devanāgarīआज्यभागप्रभृतीडान्ता । बृहस्पतिः प्रथमं जायमानो बृहस्पतिः समजयद्वसूनि । त्वामीडते अजिरं दूत्यायाग्निं सुदीतिं सुदृशं गृणन्त इति संयाज्ये
॥७॥ IAST
Devanāgarīयदि त्वध्वर्यव आजिञ्जापयेयुरथ ब्रह्मा तीर्थदेशे मयूखे चक्रं प्रतिमुक्तं तदारुह्य प्रदक्षिणमावर्त्त्यमाने वाजिनां साम गायादाविर्मर्या आ वाजं वाजिनो अग्मन् । देवस्य सवितुः सवे स्वगाँ अर्वन्तो जयतः स्वगाँ अर्वतो जयतीति वा
॥८॥ IAST
Devanāgarīयदि साम नाधीयात्त्रिरेतामृचं जपेत् । तृतीयेनाभिप्लविकेनोक्तं तृतीयसवनं । चित्रवतीषु चेत् स्तुवीरंस्त्वं नश्चित्र ऊत्याग्ने विवस्वदुषस इत्यग्निष्टोमसाम्नः स्तोत्रियानुरूपौ । षोडशी त्विह
॥९॥ IAST
Devanāgarīतस्मादूर्ध्वमतिरिक्तोक्थं
॥१०॥ IAST
Devanāgarīप्र तत्ते अद्य शिपिविष्टनाम प्र तद्विष्णस्तवते वीर्येणेति स्तोत्रियानुरूपौ
॥११॥ IAST
Devanāgarīब्रह्म जज्ञानं प्रथमं पुरस्ताद्यत्ते दित्सु प्रराध्यं त्वामिच्छवसस्पते
॥१२॥ IAST
Devanāgarīतं प्रत्नथेति त्रयोदशानामेकां शिष्ट्वाऽऽहूय दूराहणं रोहेत्
॥१३॥ IAST
Devanāgarīबृहस्पते युवमिन्द्रश्च वस्व इति परिधानीया । विभ्राट् बृहत् पिबतु सोम्यं मध्विति याज्या । तस्य गवां शतानामश्वरथानामश्वानां साद्यानां वह्यानां महानसानां दासीनां निष्ककण्ठीनां हस्तिनां हिरण्यकक्ष्याणां सप्तदश सप्तदशानि दक्षिणाः
॥१४॥ IAST
Devanāgarīदशान्ये दक्षिणागणा धनानां शतावमापरार्ध्यानां
॥१५॥ IAST
Devanāgarīपूर्वान् वा गणशोऽभ्यस्येत्
॥१६॥ IAST
Devanāgarīसप्तदश सप्तदशानि सम्पादयेत्
॥१७॥ IAST
Devanāgarīइति वाजपेयः
॥१८॥ IAST
Devanāgarīतेनेष्ट्वा राजा राजसूयेन यजेत । ब्राह्मणो बृहस्पतिसवेन
॥१९॥ IAST
दशमः खण्डः
Devanāgarīअनिरुक्तस्य चतुर्विंशेन प्रातःसवनं तृतीयसवनञ्च
॥१॥ IAST
Devanāgarīतं प्रत्नथेति तु त्रयोदशवैश्वदेवं
॥२॥ IAST
Devanāgarīकयाशुभातदिदासेति मध्यन्दिनः
॥३॥ IAST
Devanāgarīहोत्रका ऊर्ध्वं प्रगाथेभ्यः प्रथमान् सम्पाताञ्छंसेयुः
॥४॥ IAST
Devanāgarīअहीनसूक्तानि वा
॥५॥ IAST
Devanāgarīएवं पूर्वे सवने बृहत्पृष्ठेष्वसमाम्नातेषु
॥६॥ IAST
Devanāgarīप्रतिकामं विश्वजिच्छिल्पः
॥७॥ IAST
Devanāgarīतस्य समानं विश्वजिता प्रगाथेभ्यः
॥८॥ IAST
Devanāgarīबृहस्पतिसवेनाज्यं । निष्केवल्यमरुत्वतीयौ च तृचौ
॥९॥ IAST
Devanāgarīताभ्यां तु पूर्वे ऐकाहिके
॥१०॥ IAST
Devanāgarīहोत्रका ऊर्ध्वं प्रगाथेभ्यः शिल्पान्यविकृतानि शंसेयुः
॥११॥ IAST
Devanāgarīसामसूक्तानि च
॥१२॥ IAST
Devanāgarīआद्यांस्तृचानहीनसूक्तानां
॥१३॥ IAST
Devanāgarīअन्त्यानामैकाहिकानामुत्तमान्
॥१४॥ IAST
Devanāgarīसमानं तृतीयसवनं बृहस्पतिसवेन । नाभानेदिष्ठस्त्विह पूर्वो वैश्वदेवात् तृचात्
॥१५॥ IAST
Devanāgarīएवयामरुत्त्वाग्निमारुते मारुतात्
॥१६॥ IAST
Devanāgarīतयोरुक्तः शस्योपायः
॥१७॥ IAST
एकादशः खण्डः
Devanāgarīयस्य पशवो नोपधरेरन्नन्यान्वाभिजनान्निनीत्सेत सोऽप्तोर्यामेण यजेत
॥१॥ IAST
Devanāgarīमाध्यन्दिने शिल्पयोनिवर्जमुक्तो विश्वजिता
॥२॥ IAST
IAST
Devanāgarīगर्भकारञ्चेत् स्तुवीरंस्तथैव स्तोत्रियानुरूपान्
॥४॥ IAST
Devanāgarīरथन्तरेणाग्रे ततो वैराजेन ततो रथन्तरेण
॥५॥ IAST
Devanāgarīबृहद्वैराजाभ्यां वैवमेव
॥६॥ IAST
Devanāgarīश्यैतवैरूपे वा
॥८॥ IAST
Devanāgarīकालेयरैवते अच्छावाकस्य
॥९॥ IAST
Devanāgarīसामानन्तर्येण द्वौ द्वौ प्रगाथावगर्भकारं
॥१०॥ IAST
Devanāgarīअतिरात्रस्त्विह
॥११॥ IAST
Devanāgarīअद्वैपदोक्थ्यश्चेद्वैषुवतं तृतीयसवनं
॥१२॥ IAST
Devanāgarīऊर्ध्वमाश्विनादतिरिक्तोक्थ्यानि
॥१३॥ IAST
Devanāgarīजराबोधत द्विविड्ढि जरमाणः समिध्यसेऽग्निनेन्द्रेणाभात्यग्निः क्षेत्रस्य पतिना वयमिति परिधानीया युवं देवा क्रतुना पूर्व्येणेति याज्या
॥१४॥ IAST
Devanāgarīयदद्यकच्च वृत्रहन्नुद्घेदभिश्रुता मघमानो विश्वाभिः प्रातर्यावाणा क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया युवां देवास्त्रय एकादशास इति याज्या
॥१५॥ IAST
Devanāgarīतमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसा नूनमश्विना त वां रथं मधुमतीरोषधीर्द्याव आप इति परिधानीयाऽपनाय्यं तदश्विना कृतं वामिति याज्या अतो देवा अवन्तु न इति स्तोत्रियानुरूपौ
॥१६॥ IAST
Devanāgarīउत नोऽधियोगो अग्रा इति वानुरूपस्योत्तमा
॥१८॥ IAST
Devanāgarīईडे द्यावापृथिवी उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीयाऽयं वां भागो निहितो यजत्रेति याज्या
॥१९॥ IAST
Devanāgarīयदि नाधीयात्पुराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः
॥२०॥ IAST
Devanāgarīतद्वो गाय सुते सचा स्तोत्रमिन्द्राय गायत त्यमु वः सत्रासाहं सत्रा ते अनुकृष्टय इति वा स्तोत्रियानुरूपाः
॥२१॥ IAST
Devanāgarīअपरिमिताः परःसहस्रा दक्षिणाः
॥२२॥ IAST
Devanāgarīश्वेतश्चाश्वतरीरथो होतुर्होतुः
॥२३॥ IAST