मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

नवमोऽध्यायः

3
पराशरस्मृतिः · 9

गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः

तद्वधं तु न तं विद्यात्कामाकामकृतं तथा

॥१॥

दण्डादूर्ध्वं यदन्येन प्रहाराद्यदि पातयेत्

प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत्

॥२॥

रोधबन्धनयोक्त्राणि घातश्चेति चतुर्विधम्

एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत्

॥३॥

योक्त्रेषु पादहीनं स्याच्चरेत्सर्वं निपातने

गोवाटे वा गृहे वापि दुर्गे वाप्यसमस्थले

॥४॥

नदीष्वथ समुद्रेषु त्वन्येषु न नदीमुखे

दग्धदेशे मृता गावः स्तम्भनाद्रोध उच्यते

॥५॥

योक्त्रदामकदोरैश्च कण्ठाभरणभूषणैः

गृहे वापि वने वापि बद्धा स्याद्गौर्मृता यदि

॥६॥

तदेव बन्धनं विद्यात्कामाकामकृतं च यत्

हले वा शकटे पङ्क्तौ पृष्ठे वा पीडितो नरैः

॥७॥

गोपतिर्मृत्युमाप्नोति योक्त्रो भवति तद्वधः

मत्तः प्रमत्त उन्मत्तश्चेतनो वाप्यचेतनः

॥८॥

कामाकामकृतक्रोधो दण्डैर्हन्यादथोपलैः

प्रहृता वा मृता वापि तद्धि हेतुर्निपातने

॥९॥

अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रः प्रमाणतः

आद्रस्तु सपलाशश्च दण्ड इत्यभिधीयते

॥१०॥

मूर्छितः पतितो वापि दण्डेनाभिहितः स तु

उत्थितस्तु यदा गच्छेत्पञ्च सप्त दशैव वा

॥११॥

ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि

पूर्वं व्याध्युपसृष्टश्चेत्प्रायश्चित्तं न विद्यते

॥१२॥

पिण्डस्थे पादमेकं तु द्वौ पादौ गर्भसंमिते

पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम्

॥१३॥

पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च

त्रिपादे तु शिखा वर्जं सशिखं तु निपातने

॥१४॥

पादे वस्त्रयुगं चैव द्विपादे कांस्यभाजनम्

त्रिपादे गोवृषं दद्याच्चतुर्थे गोद्वयं स्मृतम्

॥१५॥

निष्पन्नसर्वगात्रस्तु दृश्यते वा सचेतनः

अङ्गप्रत्यङ्गसंपूर्णो द्विगुणं गोव्रतं चरेत्

॥१६॥

पाषाणेनाथ दण्डेन गावो येनाभिघातिताः

शृङ्गभङ्गे चरेत्पादं द्वौ पादौ नेत्रघातने

॥१७॥

लाङ्गूले पादकृच्छ्रं तु द्वौ पादावस्थिभञ्जने

त्रिपादं चैव कर्णे तु चरेत्सर्वं निपातने

॥१८॥

शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च

यदि जीवति षण्मासान्प्रायश्चित्त्तं न विद्यते

॥१९॥

व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गस्तु पाणिना

यवसश्चोपहर्तव्यो यावद्दृढबलो भवेत्

॥२०॥

यावत्संपूर्णसर्वाङ्गस्तावत्तं पोषयेन्नरः

गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत्

॥२१॥

यद्यसंपूर्णसर्गाङ्गो हीनदेहो भवेत्तदा

गोघातकस्य तस्यार्थं प्रायश्चित्तं विनिर्दिशेत्

॥२२॥

काष्ठलोष्टकपाषाणैः शस्त्रेणैवोद्धतो बलात्

व्यापादयति यो गां तु तस्य शुद्धिं विनिर्दिशेत्

॥२३॥

चरेत्सांतपनं काष्ठे प्राजापत्यं तु लोष्टके

तप्तकृच्छ्रं तु पाषाणे सस्त्रे चैवातिकृच्छ्रकम्

॥२४॥

पञ्च संतपने गावः प्राजापत्ये तथा त्रयः

तप्तकृच्छ्रे भवन्त्यष्टावतिकृच्छ्रे त्रयोदश

॥२५॥

प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम्

तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः

॥२६॥

अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोचने तथा

सायं संगोपनार्थं च न दुष्येद्रोधबन्धयोः

॥२७॥

अतिदाहेऽतिवाहे च नासिकाभेदने तथा

नदीपर्वतसंचारे प्रायश्चित्तं विनिर्दिशेत्

॥२८॥

अतिदाहे चरेत्पादं द्वौ पादौ वाहने चरेत्

नासिक्ये पदहीनं तु चरेत्सर्वं निपातने

॥२९॥

दहानात्तु विपद्यते अनड्वान्योक्त्रयन्त्रितः

उक्तं पराशरेणैव ह्येकपादं यथाविधि

॥३०॥

रोधनं बन्धनं चैव भारः प्रहरणं तथा

दुर्गप्रेरणयोक्त्रं च निमित्तानि वधस्य षट्

॥३१॥

बन्धपाशसुगुप्ताङ्गो म्रियते यदि गोपशुः

भवने तस्य पापी स्यात्प्रायश्चित्तार्धमर्हति

॥३२॥

न नारिकेलैर्न च शाणवालैः न वापि मौञ्जैर्न च वल्कशृङ्खलैः

एतैस्तु गावो न निबन्धनीया बद्ध्वापि तिष्ठेत्परशुं गृहीत्वा

॥३३॥

कुशैः काशैश्च बध्नीयाद्गोपशुं दक्षिणामुखम्

पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते

॥३४॥

यदि तत्र भवेत्काष्ठं प्रायश्चित्तं कथं भवेत्

जपित्वा पावनीं देवीं मुच्यते तत्र किल्बिषात्

॥३५॥

प्रेरयन्कूपवापीषु वृक्षच्छेदेषु पातयन्

गवाशनेषु विक्रीणंस्ततः प्राप्नोति गोवधम्

॥३६॥

आराधितस्तु यः कश्चिद्भिन्नकक्षो यदा भवेत्

श्रवणं हृदयं भिन्नं मग्नो वा कूपसंकटे

॥३७॥

कूपादुत्क्रमणे चैव भग्नो वा ग्रीवपादयोः

स एव म्रियते तत्र त्रीन्पादांस्तु समाचरेत्

॥३८॥

कूपखाटे तटाबन्धे नदीबन्धे प्रपासु च

पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते

॥३९॥

कूपखाते तटाखाते दीर्घखाते तथैव च

अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते

॥४०॥

वेश्मद्वारे निवासेषु यो नरः खातमिच्छति

स्वकार्यगृहखतेषु प्रायश्चित्तं विनिर्दिशेत्

॥४१॥

निशि बन्धनिरुद्धेषु सर्पव्याघ्रहतेषु च

अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते

॥४२॥

ग्रामघाते शरौघेण वेश्मभङ्गान्निपातने

अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते

॥४३॥

संग्रामे प्रहतानां च ये दग्धा वेश्मकेषु च

दावाग्निग्रामघातेषु प्रायश्चित्तं न विद्याते

॥४४॥

यन्त्रिता गौश्चिकित्सार्थं मूढगर्भविमोचने

यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते

॥४५॥

व्यापन्नानां बहूनां च बन्धने रोधनेऽपि वा

भिषङ्मिथ्योपचारे च प्रायश्चित्तं विनिर्दिशेत्

॥४६॥

गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः

अनिवारयतां तेषां सर्वेषां पातकं भवेत्

॥४७॥

एको हतो यैर्बहुभिः समेतैर्न ज्ञायते यस्य हतोऽभिघातात्

दिव्येन तेषामुपलभ्य हन्ता निवर्तनीयो नृपसंनियुक्तैः

॥४८॥

एका चेद्बहुभिः काचिद्दैवाद्व्यापादिता यदि

पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक्

॥४९॥

हते तु रुधिरं दृश्यं व्याधिग्रस्तः कृशो भवेत्

लाला भवति दष्टेषु एवमन्वेषणं भवेत्

॥५०॥

ग्रासार्थं चोदितो वापि अध्वानं नैव गच्छति

मनुना चैवमेकेन सर्वशास्त्राणि जानता

॥५१॥

प्रायश्चित्तं तु तेनोक्तं गोघ्नश्चान्द्रायणं चरेत्

केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत्

॥५२॥

द्विगुणे व्रत आदिष्टे द्विगुणा दक्षिणा भवेत्

राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः

॥५३॥

अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत्

सर्वान्केशान्समुद्धृत्य च्छेदयेदङ्गुलद्वयम्

॥५४॥

एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम्

न स्त्रियाः केशवपनं न दूरे शयनाशनम्

॥५५॥

न च गोष्ठे वसेद्रात्रौ न दिवा गा अनुव्रजेत्

नदीषु संगमे चैव अरण्येषु विशेषतः

॥५६॥

न स्त्रीणामजिनं वासो व्रतमेव समाचरेत्

त्रिसंध्यं स्नानमित्युक्तं सुराणामर्चनं तथा

॥५७॥

बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम्

गृहेषु सततं तिष्ठेच्छुचिर्नियममाचरेत्

॥५८॥

इह यो गोवधं कृत्वा प्रच्छादयितुमिच्छति

स याति नरकं घोरं कालसूत्रमसंशयम्

॥५९॥

विमुक्तो नरकात्तस्मान्मर्त्यलोके प्रजायते

क्लीबो दुःखी च कुष्ठी च सप्त जन्मानि वै नरः

॥६०॥

तस्मात्प्रकाशयेत्पापं स्वधर्मं सततं चरेत्

स्त्रीबालभृत्यगोविप्रेष्वतिकोपं विवर्जयेत्

॥६१॥