मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

प्रथमोऽध्यायः

3
आश्वलायनश्रौतसूत्रम् · 1

प्रथमः खण्डः

अथैतस्य समाम्नायस्य विताने योगापत्तिं वक्ष्यामः

॥१॥

अग्न्याधेयप्रभृतीन्याह वैतानिकानि

॥२॥

दर्शपूर्णमासौ तु पूर्वं व्याख्यास्यामस्तन्त्रस्य तत्राम्नातत्वात्

॥३॥

दर्शपूर्णमासयोर्हविःष्वासन्नेषु होतामन्त्रितः प्रागुदगाहवनीयादवस्थाय प्राङ्मुखो यज्ञोपवीत्याचम्य दक्षिणावृद्विहारं प्रपद्यते पूर्वेणोत्करमपरेण प्रणीताः

॥४॥

इध्ममपरेणाप्रणीते

॥५॥

चात्वालं चात्वालवत्सु

॥६॥

एतत्तीर्थमित्याचक्षते

॥७॥

तस्य नित्याः प्राञ्चश्चेष्टाः

॥८॥

अङ्कधारणा च

॥९॥

यज्ञोपवीतशौचे च

॥१०॥

विहारादव्यावृत्तिश्च तत्र चेत् कर्म

॥११॥

एकाङ्गवचने दक्षिणं प्रतीयात्

॥१२॥

अनादेशे

॥१३॥

कर्मचोदनायां होतारं

॥१४॥

ददातीति यजमानं

॥१५॥

जुहोतिजपतीति प्रायश्चित्ते ब्रह्माणं

॥१६॥

ऋचं पादग्रहणे

॥१७॥

सूक्तं सूक्तादौ हीने पादे

॥१८॥

अधिके तृचं सर्व्वत्र

॥१९॥

जपानुमन्त्रणाप्यायनोपस्थानान्युपांशु

॥२०॥

मन्त्राश्च कर्म्मकरणाः

॥२१॥

प्रसङ्गादपवादो बलीयान्

॥२२॥

प्रपद्याभिहृततरेण पादेन वेदिश्रोण्योत्तरया पार्ष्णी समां निधाय प्रपदेन बर्हिराक्रम्य संहतौ पाणी धारयन्नाकाशवत्यङ्गुली हृदयसम्मितावङ्कसम्मितौ वा द्यावापृथिव्योः सन्धिमीक्षमाणः

॥२३॥

एतद्धोतुः स्थानं

॥२४॥

आसनं वा सर्वत्रैवम्भूतः

॥२५॥

वचनादन्यत्

॥२६॥

प्रेषितो जपति

॥२७॥

द्वितीयः खण्डः

नमः प्रवक्त्रे नम उपद्रष्ट्रे नमोऽनुख्यात्रे क इदमनुवक्ष्यति स इदमनुवक्ष्यति षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च वाक्समस्थितयज्ञः साधु छन्दांसि प्रपद्येऽहमेव माममुमिति स्वन्नामादिशेत भूते भविष्यति जाते जनिष्यमाण आभजाम्यपाव्यं वाचो अशान्तिं वहेत्यङ्गुल्यग्राण्यवकृष्य जातवेदो रमयापशून्मयीति प्रतिसन्दध्यात् वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यो वर्म मे सन्तु तिरश्चिकाः । तदद्य वाचः प्रथमं मसीयेति

॥१॥

समाप्य समिधेनीरन्वाह

॥२॥

हिं३ इति हिंकृत्य भूर्भुवः स्वरोमिति जपति

॥३॥

एषोऽभिहिंकारः

॥४॥

भूर्भुवः स्वरित्येव जपित्वा कौत्सो हिंकरोति

॥५॥

न च पूर्वं जपं जपति

॥६॥

अथ सामिधेन्यः प्र वो वाजा अभिद्यवोऽग्न आयाहि वीतये गृणान ईडेन्यो नमस्यस्तिरोऽग्निं दूतं वृणीमहे समिध्यमानो अध्वरे समिद्धो अग्न आहुतेति द्वे

॥७॥

ता एकश्रुति सन्ततमनुब्रूयात्

॥८॥

उदात्तानुदात्तस्वरितानां परः सन्निकर्ष ऐकश्रुत्यं

॥९॥

स्वरादिमृगन्तमोङ्कारं त्रिमात्रं मकारान्तं कृत्वोत्तरस्य अर्द्धर्च्येऽवस्येत् तत् सन्ततं

॥१०॥

एतदवसानं

॥११॥

उत्तरादानमविप्रमोहे

॥१२॥

समाप्तौ प्रणवेनावसानं

॥१३॥

चतुर्मात्रोऽवसाने

॥१४॥

तस्यान्तापत्तिः

॥१५॥

स्पर्शेषु स्ववर्ग्यमुत्तमं

॥१६॥

अन्तस्थासु तान्तामनुनासिकां

॥१७॥

रेफोष्मस्वनुस्वारं

॥१८॥

त्रिः प्रथमोत्तमे अन्वाहाध्यर्धकारं

॥१९॥

अध्यर्धामुत्क्वाऽवस्येदथ द्वे

॥२०॥

द्वे प्रथममुत्तमस्यामथाध्वर्धां

॥२१॥

ताः पञ्चदशाभ्यस्ताभिः

॥२२॥

एतेन शस्त्रयाज्यानिगदानुवचनाभिष्टवनसंस्तवनानि

॥२३॥

न त्वन्यत्राध्यर्धकारं । न जपः प्रागभिहिङ्कारात् । नाभिहिङ्काराभ्यासावबहुषु प्रकृत्या

॥२४॥

नावछेदादौ

॥२५॥

शस्त्रेष्वेव होत्रकाणामभिहिङ्कारः

॥२६॥

सामिधेनीनामुत्तमेन प्रणवेनाग्ने महाँ असि ब्राह्मणभारतेति निगदेऽवसाय

॥२७॥

तृतीयः खण्डः

यजमानस्यार्षेयान् प्रवृणीते यावन्तः स्युः

॥१॥

परम्परं प्रथमं

॥२॥

पौरोहित्यान्राजविशां

॥३॥

राजर्षीन् वा राज्ञां

॥४॥

सर्वेषां मानवेति संशये

॥५॥

देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मसंशितो घृताहवनः प्रणीर्यज्ञानां रथीरध्वराणामतूर्त्तो होता तूर्णिर्हव्यवाडित्यवसायास्पात्रं जुहूर्देवानाञ्चमसो देवपानोऽराँ इवाग्ने नेमिर्देवांस्त्वं परिभूरस्यावह देवान् यजमानायेति प्रतिपद्य देवता द्वितीयया विभक्त्या देशमादेशमावहेत्यावाहयेत्यादिं प्लावयन्

॥६॥

अग्न आवहेति तु प्रथमदेवतां

॥७॥

अग्निं सोममित्याज्यभागौ

॥८॥

अग्निमग्नीषोमाविति पौर्णमास्यां

॥९॥

अग्नीषोमयोः स्थान इन्द्राग्नी अमावास्यायामसन्नयतः

॥१०॥

इन्द्रं महेन्द्रं वा सन्नयतः

॥११॥

अन्तरेण हविषी विष्णुमुपांश्वैतरेयिणः

॥१२॥

अग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामेके नैके कञ्चन

॥१३॥

अन्येषामप्युपांशूनामावह स्वाहायाट् प्रिया धामानीदंहविर्महो ज्याय इत्युच्चैः

॥१४॥

येऽन्ये तद्वचनाः परोक्षास्तानुपांशूच्चैर्वा

॥१५॥

प्रत्यक्षमुपांशु

॥१६॥

प्रतिचोदनमावाहनं

॥१७॥

सर्वा आदिश्य सकृदेकप्रदानाः

॥१८॥

तथोत्तरेषु निगमेष्वेकामिव संस्तुयात्

॥१९॥

समानान्देवतां समानार्थां

॥२०॥

अव्यवहितां सकृन्निगमेषु

॥२१॥

ऊल्हास्वावापिकासु देवाँ आज्यपाँ आवहाग्निं होत्रायावह स्वं महिमानमावहावह जातवेदः सुर्यजायजेत्यावाह्य यथास्थितमूर्ध्वजानुरुपविश्योदग्वेदेर्व्यूह्य तृणानि भूमौ प्रादेशं कुर्यात् अदितिर्मातास्यान्तरिक्षान्मा छेत्सीरिदमहमग्निना देवेन देवतया त्रिवृता स्तोमेन रथन्तरेण साम्ना गायत्रेण छन्दसाऽग्निष्ठोमेन यज्ञेन वषट्कारेण वज्रेण योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मस्तं हन्मीति

॥२२॥

आश्रावयिष्यन्तमनुमन्त्रयेताश्रावय यज्ञन्देवेष्वाश्रावय मां मनुष्येषु कीर्त्त्यै यशसे ब्रह्मवर्चसायेति । प्रवृणानं देव सवितरेतं त्वा वृणतेऽग्निं होत्राय सह पित्रा वैश्वानरेण द्यावापृथिवी मां पातामग्निर्होताऽहं मानुष इति । मानुष इत्यध्वर्योः श्रुत्वोदायुषा स्वायुषोदोषधीनां रसेनोत्पर्जन्यस्य धामभिरुदस्थाममृताँ अन्वित्युत्तिष्ठेत्

॥२३॥

षष्टिश्चाध्वर्योर्नवतिश्च पाशा अग्निँ होतारमन्तरा विवृताः । सिनन्ति पाकमतिधीर एतीत्युत्थाय

॥२४॥

ऋतस्य पन्थामम्वेमि होतेत्यभिक्रम्यांसेऽध्वर्युमन्वारभेत पार्श्वस्थेन पाणिना

॥२५॥

आग्नीध्रमङ्कदेशेन सव्येन वा

॥२६॥

इन्द्रमन्वारभामहे होतृवूर्ये पुरोहितं । येनायन्नुत्तमं स्वर्देवा अङ्गिरसो दिवमिति

॥२७॥

संमार्गतृणैस्त्रिरभ्यात्मं मुखं संमृजीत सम्मार्गोऽसि सम्मां प्रजया पशुभिर्मृड्ढीति

॥२८॥

सकृन्मन्त्रेण द्विस्तूष्णीं सर्वत्रैवं कर्मावृत्तौ

॥२९॥

स्पृष्ट्वोदकं होतृषदनमभिमन्त्रयेताहेदैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतर इति

॥३०॥

अङ्गुष्ठोपकनिष्ठिकाभ्यां होतृषदनात्तृणं प्रत्यग्दक्षिणा निरसेन्निरस्तः परावसुरितीदमहमर्वा वसोः सदने सीदामीत्युपविशेद्दक्षिणोत्तरिणोपस्थेन एते निरसनोपवेशने सर्वासनेषु सर्वेषामहरहः प्रथमोपवेशनेऽपि समाने

॥३१॥

चतुर्थः खण्डः

एते निरसन उपवेशने सर्व आसनेषु सर्वेषाम् अहर् अहः प्रथम उपवेशने अपि समाने

॥३२॥

द्विर् इति गौतमः

॥३३॥

ब्रह्मौदने प्राशिष्यमाणेऽग्न्याधेये ब्रह्मा

॥१॥

बहिष्पवमानात् प्रत्येत्य सोमे

॥२॥

प्रसृप्य होता

॥३॥

स्रुगादापने पशौ

॥४॥

न पत्नीसांयाजिके

॥५॥

नान्यत्र होतुरिति कौत्सः

॥६॥

उपविश्य देव बर्हिः स्वासस्थं त्वाध्यासदेयमिति

॥७॥

अभिहिष होतः प्रतरां बर्हिषद्भवेति । जानशिरसा बर्हिरुपस्थृश्यात ऊर्द्ध्वं जपेत्

॥८॥

भूपतये नमो भुवनपतये नमो भूतानां पतये नमो भूतये नमः प्राणं प्रपद्येऽपानं प्रपद्ये व्यानं प्रपद्ये वाचं प्रपद्ये चक्षुः प्रपद्ये श्रोत्रं प्रपद्ये मनः प्रपद्य आत्मानं प्रपद्ये गायत्रीं प्रपद्ये त्रिष्टुभं प्रपद्ये जगतीं प्रपद्येऽनुष्टुभं प्रपद्ये छन्दांसि प्रपद्ये सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यो विश्वे देवाः शास्तनमा यथेहाराधि होता निषदा यजीयांस्तदद्य वाचः प्रथमं मसीयेति समाप्य प्रदीप्त इध्मे स्रुचावादापयेन्निगदेन

॥९॥

अग्निर्होता वेत्वग्नेर्होत्रं वेतु प्रावित्रं साधु ते यजमानदेवता यो अग्निमित्यवसाय होतारमवृथा इति जपेत्

॥१०॥

अथ समापयेद्घृतवतीमध्वर्योः स्रुचमास्यस्व देवयुवं विश्ववारे ईडामहै देवाँ ईडेन्यान्नमस्याम नमस्यान् यजाम यज्ञियानिति

॥११॥

समाप्तेऽस्मिन्निगदेऽध्वर्युराश्रावयति

॥१२॥

प्रत्याश्रावयेदाग्नीध्रं उत्करदेशे तिष्ठन् स्प्यमिध्मसन्नहनानीत्यादाय दक्षिणामुख इति शाट्यायनकमस्तुश्रौ३षडित्यौकारं प्लावयन्

॥१३॥

पञ्चमः खण्डः

प्रयाजैश्चरन्ति

॥१॥

पञ्चैते भवन्ति

॥२॥

एकैकं प्रेषितो यजति

॥३॥

आगूर्याज्यादिरनुयाजवर्जं

॥४॥

ये३ यजामह इत्यागूः । वषट्कारोऽन्त्यः सर्वत्र

॥५॥

उच्चैस्तरां बलीयान् याज्यायाः

॥६॥

तयोरादी प्लावयेत्

॥७॥

याज्यान्तञ्च

॥८॥

विविच्य सन्ध्यक्षराणामकारं न चेद्वै वचनो व्यञ्जनान्तो वा

॥९॥

विसर्जनीयोऽनत्यक्षरोपधो रिप्यते

॥१०॥

इतरश्च रेफी

॥११॥

लुप्यते रेफी

॥१२॥

प्रथमः स्वन्तृतीयं

॥१३॥

नित्यं मकारे

॥१४॥

ये३ यजामहे समिधः समिधो अग्न आज्यस्य व्यन्तू३ वौ३षडिति वषट्कारः

॥१५॥

इति प्रथमः

॥१६॥

वागोजः स ह ओजो मयि प्राणापानाविति वषट्कारमुक्त्वोक्त्वाऽनुमन्त्रयते

॥१७॥

दिवा कीर्त्यो वषट्कारः

॥१८॥

तथानुमन्त्रणं

॥१९॥

एतद्याज्यानिदर्शनं

॥२०॥

तनूनपादग्न आज्यस्य वेत्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्य्रश्वराजन्येभ्यः

॥२१॥

नराशंसो अग्न आज्यस्य वेत्विति तेषां

॥२२॥

इडो अग्न आज्यस्य व्यन्त्विति तृतीयः

॥२३॥

बर्हिरग्न आज्यस्य वेत्विति चतुर्थः । आगूर्य पञ्चमे स्वाहामुं स्वाहामुमिति यथावाहितमनुद्रुत्य देवता यथाचोदितमनावाहिता स्वाहादेवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्विति

॥२४॥

अतो मन्द्रेण

॥२५॥

ऊर्ध्वञ्च शंयुवाकात्

॥२६॥

मध्यमेन हवींष्यास्विष्टकृतः

॥२७॥

उत्तमेन शेषः

॥२८॥

अग्निर्वृत्राणि जङ्घनदिति पूर्वस्याज्यभागस्यानुवाक्या । त्वं सोमासि सत्पतिरित्युत्तरस्य । जुषाणो अग्निराज्यस्य वेत्विति पूर्वस्य याज्या । जुषाणः सोम आज्यस्य हविषो वेत्वित्युत्तरस्य । तावागूर्यादेशं यजति

॥२९॥

सर्वाश्चानुवाक्यावत्योऽप्रैषा अन्या अन्वायात्याभ्यः

॥३०॥

सौमिकीभ्यश्च या अन्तरेण वैश्वानरीयं पत्नीसंयाजांश्च

॥३१॥

एतौ वार्त्रघ्नौ पौर्णमास्यां

॥३२॥

अनुवाक्या लिङ्गविशेषान्नामधेयान्यत्वं । ततो विचारः

॥३३॥

नित्ये याज्ये

॥३४॥

वृधन्वन्तावमावास्यायां । अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वयमिति । आतो वाग्यमनं

॥३५॥

अन्तरा च याज्यानुवाक्ये । निगदानुवचनाभिष्टवनशस्त्रजपानाञ्चारभ्यासमाप्तेः

॥३६॥

अन्यद्यज्ञस्य साधनात्

॥३७॥

आपद्यातो देवा अवन्तु न इति जपेत्

॥३८॥

अपि वान्यां वैष्णवीं

॥३९॥

षष्ठः खण्डः

उक्ता देवतास्तासां याज्यानुवाक्या अग्निर्मूर्द्ध्ना भुवो यज्ञस्यायमग्निः सहस्रिण इति वेदं विष्णुर्विचक्रमे त्रिर्देवः पृथिवीमेष एतामग्नीषोमा सवेदसा युवमेतानि दिवि रोचनानीन्द्राग्नी अवसा गतं गीर्भिर्विप्रः प्रमतिमिच्छमान एन्द्रसानसिं रयिं प्रससाहिषे पुरुहूत शत्रून्महाँ इन्द्रो य ओजसा भुवस्त्वमिन्द्रब्रह्मणा महानिति यद्यग्नीषोमीय उपांशुयाजोऽग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभारेति

॥१॥

अथ स्विष्टकृतः पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या

॥२॥

ये३ यजामहेऽग्निं स्विष्टकृतम् अयाडग्निरित्युक्त्वा षष्ठ्या विभक्त्या देवतामादिश्य प्रिया धामान्ययाडित्युपसन्तनुयात्

॥३॥

एवमुत्तरा अयाडयाडिति त्वेव तासां पुरस्तात्

॥४॥

आज्यपान्तमनुक्रम्य देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुः प्रिया धामानि यक्षत् स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरग्रे यदद्य विशो अध्वरस्य होतरित्यनवानं यजति

॥५॥

प्रकृत्या वा

॥६॥

सप्तमः खण्डः

प्रदेशिन्याः पर्वणी उत्तमे अञ्जयित्वौष्ठयोरभ्यात्मं निमार्ष्टि

॥१॥

वाचस्पतिना ते हुतस्येषे प्राणाय प्राश्नामीत्युत्तरमुत्तरे मनसस्पतिना ते हुतस्योर्जेऽपानाय प्राश्नामीत्यधरमधरे

॥२॥

स्पृष्ट्वोदकमञ्जलिनेडां प्रतिगृह्य सव्ये पाणौ कृत्वा पश्चादस्या उदगङ्गुलिं पाणिमुपधायावान्तरेडामवदापयीत

॥३॥

अन्तरेणाङ्गुष्ठमङ्गुलीश्च स्वयं द्वितीयमाददीत

॥४॥

प्रत्यालब्धामङ्गुष्ठेनाभिसंगृह्य प्रत्याहृत्य

॥५॥

अङ्गुलीरमुष्टिं कृत्वा दक्षिणत इडां परिगृह्यास्यसम्मितामुपह्वयते प्राणसम्मितां वा

॥६॥

इडोपहूता सह दिवा बृहतादित्येनोपास्माँ इडा ह्वयतां सह दिवा बृहतादित्येनेडोपहूता सहान्तरिक्षेण वामदेव्येन वायुनोपास्माँ इडा ह्वयतां सहान्तरिक्षेण वामदेव्येन वायुनेडोपहूता सह पृथिव्या रथन्तरेणाग्निनोपास्माँ इडा ह्वयतां सह पृथिव्या रथन्तरेणाग्निनोपहूता गावः सहाशिर उप मां गावः सहाशिराह्वयन्तामुपहूता धेनुः सह ऋषभोप मां धेनुः सह ऋषभा ह्वयतामुपहूता गौर्घृतपद्युप मां गौर्घृतपदी ह्वयतामुपहूता दिव्याः सप्त होतार उप मां दिव्याः सप्त होतारो ह्वयन्तामुपहूतः सखा भक्ष उप मां सखा भक्षो ह्वयतामुपहूतेडा वृष्टिरुप मामिडा वृष्टिर्ह्वयतामित्युपांश्वथोच्चैः इडोपहूतोपहूतेडोपास्माँ इडाह्वयतामिडोपहूता । मानवी घृतपदी मैत्रावरुणी ब्रह्मदेवकृतमुपहूतं दैव्या अध्वर्यव उपहूता उपहूता मनुष्याः । य इमं यज्ञमवान्ये च यज्ञपतिं वर्धानुपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे । उपहूतोऽयं यजमान उत्तरस्यां देवयज्यायामुपहूतो भूयसि हविष्करण इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूत इति

॥७॥

उपहूयावान्तरेडां प्राश्नीयादिडे भागं जुषस्व नः पिन्वंगा जिन्वार्वंतो रायस्पोषस्येशिषे तस्य नो रास्व तस्य नो दास्तस्यास्ते भागमशीमहि । सर्वात्मानः सर्वतनवः सर्ववीराः सर्वपूरुषाः सर्वपुरुषा इति वा

॥८॥

अष्टमः खण्डः

मार्जयित्वानुयाजैश्चरन्ति

॥१॥

परिस्तरणैरञ्जलिमन्तर्धायाप आसेचयते तन्मार्जनं

॥२॥

देवादेयोऽनुयाजाः

॥३॥

वीतवत्पदान्ताः

॥४॥

त्रयः

॥५॥

एकैकं प्रेषितो यजति

॥६॥

देवं बर्हिर्वसुवने वसुधेयस्य वेतु । देवो नराशंसो वसुवने वसुधेयस्य वेतु । देवो अग्निः स्विष्टकृत्सुद्रविणा मन्द्रःकविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपिप्रेर्ये ते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होता भूर्वसुवने वसुधेयस्य नमोवाके वीहीत्यनवानं वा

॥७॥

नवमः खण्डः

सूक्तवाकाय सम्प्रेषित इदं द्यावापृथिवी भद्रमभूदार्ध्म सूक्तवाकमुत नमोवाकमृध्यास्म सूक्तोच्यमग्ने त्वं सूक्तवागसि । उपश्रुती दिवस्पृथिव्योरोमन्वती तेऽस्मिन् यज्ञे यजमानद्यावापृथिवी स्तां । शङ्गयी जीरदानू अत्रस्नू अप्रवेदे उरुगव्यूती अभयङ्कृतौ । वृष्टिद्यावारीत्यापाशंभुवौ मयोभुवा ऊर्जस्वती पयस्वती सूपचरणा च स्वधिचरणा च तयोराविदीत्यवसाय प्रथमया विभक्त्यादिश्य देवतामिदं हविरजषतावीवृधत महो ज्यायोऽकृतेत्युपसन्तनुयात्

॥१॥

एवमुत्तराः

॥२॥

अक्रातामक्रतेति यथार्थं

॥३॥

उक्तमुपांशोः

॥४॥

आवापिकान्तमनुद्रुत्य देवा आज्यपा आज्यमजुषन्तावीवृधन्त महो ज्यायोऽकृताग्निहोत्रेणेदं हविरजुषतावीवृधन्त महो ज्यायोऽकृत । अस्यामृधेद्धोत्रायां देवङ्गमायामाशास्तेऽयं यजमानोऽसावसावित्यस्यादिश्य नामनी उपांशुसन्निधौ गुरोरायुराशास्ते सुप्रजास्त्वमाशास्ते रायस्पोषमाशास्ते सजातवनस्यामाशास्त उत्तरां देवयज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविषाशास्ते तदस्यां तदृध्यात् तदस्मै देवा रासन्तां तदग्निर्देवो देवेभ्योऽवनते वयमग्नेर्मानुषाः । इष्टञ्च वित्तञ्चोभे च नो द्यावापृथिवी अंहसस्यातामेह गतिर्वामस्येदं नमो देवेभ्य इति

॥५॥

दशमः खण्डः

शंयुवाकाय सम्प्रेषितस्तच्छंयोरावृणीमह इत्याहानुवाक्यावदप्रणवां

॥१॥

वेदमस्मै प्रयच्छत्यध्वर्युः

॥२॥

तं गृह्णीयाद्वेदोऽसि वेदो विदेयेति

॥३॥

उदायुषेत्येतेनोपोत्थाय पश्चाद्गार्हपत्यस्योपविश्य सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपतिमित्याज्येन यजन्ति

॥४॥

आप्यायस्व समेतु ते सन्ते पयांसि समुयन्तु वाजा इह त्वष्टारमग्रियं तन्नस्तूरीयमधपोषयित्नु देवानां पत्नीरुशतीरवन्तु न इति द्वे अग्निर्होता गृहपतिः स राजा हव्यवाडग्निरजरः पिता न इति पत्नीसंयाजाः

॥५॥

अथ प्रजाकामो राकां सिनीवालीं कुहूमिति प्राग्गृहपतेर्यजेत

॥६॥

राकामहं सिनीवालि कुहूमहमिति द्वे द्वे याज्यानुवाक्ये

॥७॥

कुहूमहं सुवृतं विद्म नापसमस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणं पितॄणां तस्यैते देवि हविषा विधेम । कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु । संदाशुषे किरतु भूरि वामं रायस्पोषं यजमाने दधात्विति । आज्यं पाणितलेऽवदापयीतेडामुपहूय सर्वां प्राश्नीयात्

॥८॥

शंयुवाको भवेन्न वा

॥९॥

एकादशः खण्डः

वेदं पत्न्यै प्रदाय वाचयेद्धोताध्वर्युर्वा वेदोऽसि वित्तिरसि विदेयकर्मासि करणमसि क्रियासंसनिरसि सनितासि सनेयं घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणं वेदो ददातु वाजिनं । यं बहव उपजीवन्ति यो जनानामसद्वशी । तं विदेय प्रजां विदेय कामाय त्वेति

॥१॥

वेदशिरसा नाभिदेशमालभेत प्रजाकामा चेत्

॥२॥

अथास्यायोक्त्रं विचृतेत् प्र त्वा मुञ्चामि वरुणस्य पाशादिति

॥३॥

तत्प्रत्यग्गार्हपत्याद्द्विगुणं प्राक्पाशं निधायोपरिष्टादस्योदगग्राणि वेदतृणानि करोति

॥४॥

पुरस्तात्पूर्णपात्रं संश्लिष्टं वेदतृणैः

॥५॥

अभिमृश्य वाचयेत् पूर्णमसि पूर्णं मे भूयाः सुपूर्णमसि सुपूर्णं मे भूयाः सदसि सन्मे भूयाः सर्वमसि सर्वं मे भूया अक्षितिरसि मामेक्षेष्ठा इति

॥६॥

अथैनां पूर्णपात्रात् प्रतिदिशमुदकमुदुक्षन्नुदुक्षन्तीं वाचयति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणस्यां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरः प्रजापतिर्मार्जयतां मार्जयन्तामिति वा

॥७॥

अथास्या उत्तानमञ्जलिमधस्ताद्योक्त्रस्य निधायात्मनश्च सव्यं पूर्णपात्रं निनयन् वाचयेन्माहं प्रजां परासिचं या नः सयावरो स्थन । समुद्रे वो निनयानि स्वं पाथो अपोथेति

॥८॥

वेदतृणान्यग्रे गृहीत्वाऽविधून्वन्त्सन्ततं स्तृणन्त्सव्येन गार्हपत्यादाहवनीयमेति तन्तुं तन्वन् रजसो भानमन्विहीति

॥९॥

शेषं निधाय प्रत्यगुदगाहवनीयादवस्थाय स्थाल्याः स्रुवेणादाय सर्वप्रायश्चित्तानि जुहुयात् स्वाहाकारान्तैर्मन्त्रैर्न चेन्मन्त्रे पठितः

॥१०॥

यत्किञ्चाप्रेषितो यजेदन्यत्रापि

॥११॥

एवम्भूतोऽव्यक्तहोमाभ्याधानोपस्थानानि च

॥१२॥

अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्वमया असि । अयासावयसा कृतोऽयासन् हव्यमूहिषे या नो धेहि भेषजं स्वाहा । अतो देवा अवन्तु न इति द्वाभ्यां व्याहृतिभिश्च भूः स्वाहा भवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेति

॥१३॥

हुत्वा संस्थाजपेनोपस्थाय तीर्थे निष्क्रम्यानियमः

॥१४॥

ॐ च मे स्वरश्च मे यज्ञोपचते नमश्च । यत्ते न्यूनं तस्मै त उपयत्तेऽतिरिक्तं तस्मै ते नम इति संस्थाजपः

॥१५॥

इति होतुः

॥१६॥

द्वादशः खण्डः

अथ ब्रह्मणः

॥१॥

होत्राचमनयज्ञोपवीतशौचानि

॥२॥

नित्यः सर्वकर्मणां दक्षिणतो ध्रुवाणां व्रजतां वा

॥३॥

बहिर्वेदि यां दिशं व्रजेयुः सैव तत्र प्राची

॥४॥

चेष्टास्वमन्त्रासु स्थानासनयोर्विकल्पः

॥५॥

तिष्ठद्धोमाश्च येऽवषट्काराः

॥६॥

आसीतान्यत्र

॥७॥

समस्तपाण्यङ्गुष्ठोऽग्रेणाहवनीयं परीत्य दक्षिणतः कुशेषूपविशेत्

॥८॥

बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपायेत्युपविश्य जपेत्

॥९॥

एष ब्रह्मजपः सर्वयज्ञतन्त्रेषु साग्नौ यत्रोपवेशनं

॥१०॥

उपविष्टमतिसर्जयते

॥११॥

ब्रह्मन्नपः प्रणेष्यामीति श्रुत्वा भूभुवः स्वर्बृहस्पतिप्रसूत इति जपित्वॐ प्रणयेत्यतिसृजेत् सर्वत्र

॥१२॥

यथाकर्म त्वादेशाः

॥१३॥

प्रणवाद्युच्चैः

॥१४॥

ऊर्द्ध्वं वा प्रणवात्

॥१५॥

अत ऊर्द्ध्वं वाग्यत आस्त आहविष्कृत उद्वादनात्

॥१६॥

आमार्जनात् पशौ

॥१७॥

सोमे धर्मादि चातिप्रैषादि चासुब्रह्मण्यायाः

॥१८॥

प्रातरनुवाकाद्यान्तर्यामात्

॥१९॥

हरिवतोऽनुसवनमेडायाः

॥२०॥

स्तोत्रेष्वतिसर्जनाद्यावषट्कारात्

॥२१॥

ओदृचः पवमानेषु

॥२२॥

यच्च किञ्च मन्त्रवत्

॥२३॥

होत्रा शेषः

॥२४॥

आपत्तिश्च

॥२५॥

यत्र त्वग्निः प्रणीयतेऽपि ससोमे तदादि तत्र वाग्यमनं

॥२६॥

दक्षिणतश्च व्रजन् जपत्याशुः शिशान इति सूक्तं

॥२७॥

समाप्योपवेशनाद्युक्तं

॥२८॥

न तु सौमिके प्रणयने ब्रह्मजपः

॥२९॥

अन्यत्र विसृष्टवागबहुभाषी यज्ञमनाः

॥३०॥

विपर्यासेऽन्तरिते मन्त्रे कर्मणि वाऽऽख्याते वोपलक्ष्य वाजान् वाच्याहुतिं जुहुयात्

॥३१॥

ऋक्तश्चेद्भूरिति गार्हपत्ये । यजुष्टो भुव इति दक्षिणे । आग्नीध्रीये सोमेषु

॥३२॥

सामतः स्वरित्याहवनीये सर्वतोऽविज्ञाते वा भूर्भुवः स्वरित्याहवनीय एव

॥३३॥

प्राक् प्रयाजेभ्योऽङ्गारं बहिष्परिधि निर्वृत्तं स्रुवदण्डेनाभिनिदध्यान्मा तपो मा यज्ञस्तपन्मा यज्ञपतिस्तपत् । नमस्ते अस्त्वायते नमो रुद्र परायते । नमो यत्र निषीदसीति

॥३४॥

अमुं मा हिँ सीरमुं मा हिँ सीरिति च प्रतिदिशमध्वर्युयजमानौ पुरस्ताच्चेत् । ब्रह्मयजमानौ दक्षिणतः । होतृपत्नीयजमानान् पश्चात् । आग्नीध्रयजमाना उत्तरतः

॥३५॥

अथैनमनुप्रहरेदाहं यज्ञं दधे निरृतेरुपस्थात्तं देवेषु परिददामि विद्वान् । सुप्रजास्त्वं शतँ हि मामदन्त इह नो देवा मयि शर्म यच्छतेति

॥३६॥

तमभिजुहुयात् सहस्रशृङ्गो वृषभो जातवेदास्तोमपृष्टोघृतवान्त्सुप्रतीकः । मा नो हिँ सीद्धिँ सितो दधामि न त्वा जहामि गोपोषञ्च नो वीरपोषञ्च यच्छ स्वाहेति

॥३७॥

त्रयोदशः खण्डः

प्राशित्रमाह्रियमाणमोक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति । तदञ्जलिना प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थ इति । कुशेषु प्राग्दण्डं निधायाङ्गुष्ठोपकनिष्ठिकाभ्यामसङ्खादन् प्राश्नीयात् । अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेनेति । आचम्यान् वाचामेत् सत्येन त्वाभिजिघर्मि या अप्स्वन्तर्देवतास्ता इदं शमयन्तु चक्षुः श्रोत्रं प्राणान्मे मा हिँ सीरितीन्द्रस्य त्वा जठरे दधामीति नाभिमालभेत । प्रक्षाल्य प्राशित्रहरणं त्रिरनेनाभ्यात्ममपो निनयते

॥१॥

मार्जयित्वास्मिन् ब्रह्मभागं निदध्यात्

॥२॥

पश्चात् कुशेषु यजमानभागं

॥३॥

अन्वाहार्यमवेक्षेत प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वानक्षितिरसि मा मेक्षेष्ठा अस्मिंश्च लोकेऽमुष्मिंश्च

॥४॥

प्राणापानौ मे पाहि कामाय त्वेत्यस्पृशन्नवघ्रायाङ्गुष्ठोपकनिष्ठिकाभ्यां शिष्टं गृहीत्वा ब्रह्मभागे निदध्यात्

॥५॥

ब्रह्मन् प्रस्थास्याम इति श्रुत्वा बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्ट बृहस्पते यज्ञमजूगुपः स यज्ञं पाहि यज्ञपतिं पाहि स मां पाहि

॥६॥

भूर्भुवः स्वर्बृहस्पतिप्रसूत इति जपित्वॐ३ प्रतिष्ठेति समिधमनुजानीयात् । संस्थिते जघन्य ऋत्विजां सर्वप्रायश्चित्तानि जुहुयात् तमितरेऽन्वालभेरन्

॥७॥

होतारं वा

॥८॥

एतयोर्नित्यहोमः

॥९॥

सर्वे संस्थाजपेनोपतिष्ठन्त उपतिष्ठन्ते

॥१०॥