दर्शपूर्णमासौ
प्रथमा कण्डिका
इडामेके पूर्वं समामनन्ति प्राशित्रमेके
॥१॥आग्नेयं पुरोडाशं प्राञ्चं तिर्यञ्चं वा विरुज्याङ्गुष्ठेनोपमध्यमया चाङ्गुल्या व्यूह्य मध्यात्प्राशित्रमवद्यति यवमात्रं पिप्पलमात्रं वा ज्यायो यवमात्रादाव्याधात्कृत्यतामिदम् । मा रूपुपाम यज्ञस्य शुद्धं स्विष्टमिदं हविरिति
॥२॥एवमुत्तरस्यावद्यति
॥३॥उपस्तीर्य नाभिघारयत्येतद्वा विपरीतम् । अपि वोपस्तृणात्यभि च घारयति
॥४॥अत्रैवास्य परिहरणप्राशनमेके समामनन्ति
॥५॥इडापात्र उपस्तीर्य सर्वेभ्यो हविर्भ्य इडां समवद्यति चतुरवत्तां पञ्चावत्तां वा
॥६॥मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षिणार्धादसंभिन्दन्नवद्याम्येकतोमुखामित्याग्नेयस्य पुरोडाशस्य दक्षिणार्धात्प्रथममवदानमवद्यति
॥७॥संभेदाद्द्वितीयम्
॥८॥पूर्वार्धाच्च यजमानभागमणुमिव दीर्घम्
॥९॥तमाज्येन संतर्प्य ध्रुवाया उपोहति
॥१०॥अपि वा दक्षिणार्धादवदाय यजमानभागमथ संभेदात्
॥११॥एवमुत्तरस्यावद्यति
॥१२॥द्वितीया कण्डिका
अभिघार्येडां होत्रे प्रदाय दक्षिणेन होतारमतिक्रामत्यनुत्सृजन्
॥१॥होतेडयाध्वर्युं परिगृह्णाति
॥२॥अपि वा प्राचीमिडामपोह्य दक्षिणत आसीनः स्रुवेण होतुरङ्गुलिपर्वणी अनक्ति
॥३॥अपरमङ्क्त्वा पूर्वमेतद्वा विपरीतम्
॥४॥उपसृष्टोदकाय पुरस्तात्प्रत्यङ्ङासीन इडाया होतुर्हस्तेऽवान्तरेडामवद्यति
॥५॥अध्वर्युः प्रथममवदानमवद्यति स्वयं होतोत्तरम् एतद्वा विपरीतम्
॥६॥लेपादुपस्तरणाभिघारणे भवतः
॥७॥द्विरभिघारयेत्पञ्चावत्तिनः । उपहूयमानामन्वारभेते अध्वर्युर्यजमानश्च । दैव्या अध्वर्यव उपहूता इत्यभिज्ञायोपहूतः पशुमानसानीत्यध्वर्युर्जपति । उपहूतोऽयं यजमान इत्यभिज्ञायैतमेव मन्त्रं यजमानः
॥८॥उपहूतायामग्रेणाहवनीयं ब्रह्मणे प्राशित्रं परिहरति
॥९॥तस्मिन्प्राशिते होतावान्तरेडां प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदस्पतये त्वा हुतं प्राश्नामीति
॥१०॥प्राशितायामिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणः स्याम सर्वात्मानः सर्वगणा इति यजमानपञ्चमा इडां प्राश्य
॥११॥तृतीया कण्डिका
वाग्यता आसत आ मार्जनात्
॥१॥मनो ज्योतिर्जुषतामित्यद्भिरन्तर्वेदि प्रस्तरे मार्जयित्वाग्नेयं पुरोडाशं चतुर्धाकृत्वा बर्हिषदं करोति बर्हिषदं वा कृत्वा चतुर्धाकरोति
॥२॥तं यजमानो व्यादिशतीदं ब्रह्मण इदं होतुरिदमध्वर्योरिदमग्नीध इति
॥३॥अग्नीत्प्रथमान्होतृप्रथमान्वा
॥४॥इदं यजमानस्येत्यध्वर्युर्यजमानभागं निर्दिश्य स्थविष्ठमग्नीधे षडवत्तं संपादयति
॥५॥सकृदुपस्तीर्य द्विरादधदुपस्तीर्य द्विरभिघारयति
॥६॥अपि वा द्विरुपस्तृणाति द्विरादधाति द्विरभिघारयति
॥७॥अग्नेराग्नीध्रमस्यग्नेः शामित्रमसि नमस्ते अस्तु मा मा हिंसीरित्याग्नीध्रो भक्षयति
॥८॥वेदेन ब्रह्मयजमानभागौ परिहरति
॥९॥पृथक् पात्राभ्यामितरयोः
॥१०॥पृथिव्यै भागोऽसीति होता भक्षयत्यन्तरिक्षस्य भागो ऽसीत्यध्वर्युर्दिवो भागोऽसीति ब्रह्मा
॥११॥दक्षिणाग्नावन्वाहार्यं महान्तमपरिमितमोदनं पचति
॥१२॥क्षीरे भवतीत्येके
॥१३॥तमभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यासाद्य
॥१४॥चतुर्थी कण्डिका
दक्षिणसद्भ्य उपहर्तवा इति संप्रेष्यति
॥१॥ये ब्राह्मणा उत्तरतस्तान्यजमान आह दक्षिणत एतेति
॥२॥तेभ्योऽन्वाहार्यं ददाति ब्राह्मणा अयं व ओदन इति
॥३॥प्रतिगृहीत उत्तरतः परीतेति संप्रेष्यति
॥४॥हविः शेषानुद्वास्यापिसृज्योल्मुके ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधींश्चाग्निं च सृकृत्संमृड्ढीति संप्रेष्यति
॥५॥अनुज्ञातो ब्रह्मणाग्नीध्रः समिधमादधात्येषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यायिषीमहि स्वाहेति
॥६॥पूर्ववत्परिधीन्सकृत्सकृत्संमृज्याग्ने वाजजिद्वाजं त्वा ससृवांसं वाजं जिगिवांसं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्यायेति सकृदग्निं प्राञ्चम्
॥७॥इध्मसंनहनान्यद्भिः संस्पर्श्य यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । पशूनस्माकं मा हिंसीरेतदस्तु हुतं तव स्वाहेत्यग्नौ प्रहरत्युत्करे वा न्यस्यति शालायां बलजायां परोगोष्ठे परोगव्यूतौ वा
॥८॥पञ्चमी कण्डिका
औपभृतं हुह्वामानीय जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽग्रेणाघारसंभेदं प्रतीचस्त्रीननूयाजान्यजत्याश्रावमाश्रावं प्रत्याश्राविते देवान्यजेति प्रथमं संप्रेष्यति । यज यजेतीतरौ
॥१॥पूर्वार्धे प्रथमं समिधि जुहोति मध्ये द्वितीयं प्राञ्चमुत्तमं संस्थापयन्नितरावनुसंभिद्य
॥२॥प्रत्याक्रम्यायतने स्रुचौ सादयित्वा वाजवतीभ्यां व्यूहति
॥३॥वाजस्य मा प्रसवेनेति दक्षिणेन हस्तेनोत्तानेन सप्रस्तरां जुहूमुद्यच्छति । अथा सपत्नानिति सव्येनोपभृतं नियच्छति
॥४॥उद्ग्राभं चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छति
॥५॥ब्रह्म देवा अवीवृधन्निति प्राचीं जुहूं प्रोहति
॥६॥अथा सपत्नानिति सव्येनोपभृतं प्रतीचीं बहिर्वेदि निरसित्वा प्रोक्ष्यैनामभ्युदाहृत्य जुह्वा परिधीननक्ति वसुभ्यस्त्वेति मध्यमं रुद्रेभ्यस्त्वेति दक्षिणमादित्येभ्यस्त्वेत्युत्तरम्
॥७॥न प्रस्तरे जुहूं सादयति
॥८॥संजानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्ट्यावतामिति विधृतीभ्यां प्रस्तरमपादाय बर्हिषि विधृती अपिसृज्य स्रुक्षु प्रस्तरमनक्ति
॥९॥षष्ठी कण्डिका
अक्तं रिहाणा इति जुह्वामग्रम् । प्रजां योनिमित्युपभृति मध्यम् । आप्यायन्तामाप ओषधय इति ध्रुवायां मूलम् । एवं त्रिः
॥१॥अपि वा दिव्यङ्क्ष्वेति जुह्वामग्रम् । अन्तरिक्षेऽङ्क्ष्वेत्युपभृति मध्यम् । पृथिव्यामङ्क्ष्वेति ध्रुवायां मूलम्
॥२॥एवं पुनः
॥३॥अथापरम् । पृथिव्यै त्वेति ध्रुवायां मूलमन्तरिक्षाय त्वेत्युपभृति मध्यं द्विवे त्वेति जुह्वामग्रम्
॥४॥आयुषे त्वेत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय दक्षिणोत्तराभ्यां पाणीभ्यां क्प्रस्तरं गृहीत्वा जुह्वां प्रतिष्ठाप्यासीन आश्राव्य प्रत्याश्राविते संप्रेष्यतीषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति
॥५॥अनूच्यमाने सूक्तवाके मरुतां पृषतय स्थेति सह शाखया प्रस्तरमाहवनीये प्रहरति
॥६॥न स्वाहाकरोति
॥७॥न विधूनोति नावधूनोति न विक्षिपति न प्रमार्ष्टि न प्रतिमार्ष्टि नानुमार्ष्टि नोदञ्चं प्रहरेत्
॥८॥तिर्यञ्चं हस्तं धारयन्कर्षन्निवाहवनीये प्रहरति
॥९॥न प्रतिशृणातीत्युक्तम्
॥१०॥प्रथयित्वा प्रहरेद्यं कामयेत स्त्र्यस्य जायेतेति
॥११॥आशीः प्रति प्रस्तरमवसृजति
॥१२॥सप्तमी कण्डिका
न्यञ्चं हस्तं पर्यावर्तयन्
॥१॥अग्नीद्गमयेति संप्रेष्यति
॥२॥त्रिरञ्जलिनाग्नीध्रोऽविष्वञ्चं प्रस्तरमूर्ध्वमुद्यौति रोहितेन त्वाग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रम्
॥३॥अथैनमाहाग्नीध्रोऽनुप्रहरेति
॥४॥यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति स्वगा तनुभ्य इति
॥५॥एतदेतदिति त्रिरङ्गुल्या निर्दिश्याग्निमभिमन्त्रयत आयुष्मा अग्नेऽस्यायुर्मे पाहीति
॥६॥ध्रुवासीत्यन्तर्वेदि पृथिवीमभिमृशति
॥७॥अथैनमाहाग्नीध्रः संवदस्वेति
॥८॥अगानग्नीदित्यध्वर्युराह । अगन्नित्याग्नीध्रः । श्रावयेत्यध्वर्युः । श्रौषडित्याग्नीध्रः
॥९॥मध्यमं परिधिमन्वारभ्य संप्रेष्यति स्वगा दैव्याहोतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति
॥१०॥अनूच्यमाने शंयुवाक आहवनीये परिधीन्प्रहरति
॥११॥यं परिधिं पर्यधत्था इति मध्यमम् । यज्ञस्य पाथ उपसमितमितीतरौ
॥१२॥उत्तरार्ध्यस्याग्रमङ्गारेषूपोहति
॥१३॥यजमानं प्रथतेति परिधीनभिमन्त्र्य जुह्वामुपभृतोऽग्रमवधाय संस्रावभागा इति संस्रावेणाभिजुहोति
॥१४॥अत्रैवर्त्विजो हविः शेषान्भक्षयन्ति
॥१५॥अष्टमी कण्डिका
आज्यलेपान्प्रक्षाल्य सस्रुवे जुहूपभृतावध्वर्युरादत्ते वेदं होता स्फ्यमाज्यस्थालीमुदकमण्डलुं चाग्नीध्रः
॥१॥आग्नीध्रप्रथमाः पत्नीः संयाजयिष्यन्तः प्रत्यञ्चो यन्ति
॥२॥अग्रेण गार्हपत्यं दक्षिणेनाध्वर्युः प्रतिपद्यत उत्तरेणेतरौ
॥३॥अग्नेर्वामपन्नगृहस्य सदसि सादयामीति कस्तम्भ्यां स्रुचौ सादयित्वा धुरि धुर्यौ पातमिति युगधुरोः प्रोहति
॥४॥यदि पात्र्या निर्वपेदेताभ्यामेव यजुर्भ्यां स्फ्ये स्रुचौ सादयेत्
॥५॥स्रुग्भ्यां स्रुवाभ्यां वा पत्नीः संयाजयन्ति
॥६॥वेदमुपभृतं कृत्वा जुह्वा स्रुवेण वेत्येके
॥७॥अपरेण गार्हपत्यमूर्ध्वज्ञव आसीना ध्वानेनोपांशु वा पत्नीः संयाजयन्ति
॥८॥दक्षिणऽध्वर्युरुत्तर आग्नीध्रो मध्य होता
॥९॥आज्येन सोमत्वष्टाराविष्ट्वा जाघन्या पत्नीः संयाजयन्त्याज्यस्य वा यथागृहीतेन
॥१०॥सोमायानुब्रूहि सोमं यजेति संप्रैषावुत्तरार्धे जुहोति
॥११॥एवमितरांस्त्वष्टारम्
॥१२॥नवमी कण्डिका
देवानां पत्नीरग्निं गृहपतिमिति
॥१॥दक्षिणतस्त्वष्टारमुत्तरतो वा मध्येऽग्निं गृहपतिम्
॥२॥आहवनीयतः परिश्रिते देवपत्नीरपरिश्रिते वा
॥३॥राकां पुत्रकामो यजेत सिनीवालीं पशुकामः कुहूं पुष्टिकामः
॥४॥नित्यवदेके समामनन्ति
॥५॥पुरस्ताद्देवपत्नीभ्य एता एके समामनन्ति । उपरिष्टाद्वा
॥६॥पूर्ववद्धोतुरङ्गुलिपर्वणी अङ्कोपस्पृष्टोदकाय होतुर्हस्ते चतुर आज्यबिन्दूनिडामवद्यति षडग्नीध
॥७॥उपहूयमानामन्वारभन्तेऽध्वर्युराग्नीध्रः पत्नी च
॥८॥उपहूतां प्राश्नीतो होताग्नीध्रश्च
॥९॥अत्र स्रुवेण संपत्नीयं जुहोति पत्न्यामन्वारब्धायां सं पत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम् । संजानानौ विजहतामरातीर्दिवि ज्योतिरजरमारभेतां स्वाहेति
॥१०॥पुरस्ताद्देवपत्नीभ्य एतामेके समामनन्त्युपरिष्टाद्वा । उपरिष्टाद्वा पिष्टलेपफलीकरणहोमाभ्याम्
॥११॥दक्षिणाग्नाविध्मप्रव्रश्चनान्यभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति
॥१२॥दशमी कण्डिका
फलीकरणहोमं पूर्वमेतद्वा विपरीतम् । चतुर्गृहीत आज्ये फलीकरणानोप्याग्नेऽदभ्धायोऽशीततनो इति जुहोति । एवं पिष्टलेपानुलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहेति
॥१॥या सरस्वती विशोभगीना तस्यै स्वाहा या सरस्वती वेशभगीना तस्यै स्वाहेन्द्रोपानस्यकेहमनसो वेशान्कुरु सुमनसः सजातान्स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति
॥२॥वेदोऽसीति वेदं होता पत्न्या उपस्थे त्रिः प्रास्यति
॥३॥निर्द्विषन्तं निररातिं नुदेतीतरा प्रास्तंप्रास्तं प्रतिनिरस्यति
॥४॥तन्तुं तन्वन्निति वेदं होता गार्हपत्यात्प्रक्रम्य संततमाहवनीयात्स्तृणात्या वा वेदेः
॥५॥इमं विष्यामीति पत्नी योक्त्रपाशं विमुञ्चते
॥६॥तस्याः सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयनि
॥७॥समायुषा सं प्रजयेत्यानीयमाने जपति
॥८॥निनीय मुखं विमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासमिति
॥९॥एकादशी कण्डिका
यथेतमाहवनीयं गत्वा जुह्वा स्रुवेण वा सर्वप्रायश्चित्तानि जुहोति
॥१॥ब्रह्म प्रतिष्ठा मनस इत्येषा । आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् । यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माँ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तं निधेतन । ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयं समुद्र उत विश्वभेषजः स्वाहाकृतस्य समु तृप्णुतर्भुवः । उद्वयं तमसस्पर्युदु त्यं चित्रमिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्ययासन्मनसा हितः । अयासन्हव्यमूहिषेऽया नो धेहि भेषजम् । प्रजापत इत्येषा । इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा । भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा । दौरार्द्धै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहा । ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा । अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजम् । यदस्मिन्यज्ञेऽन्तरगाम मन्त्रतः कर्मतो वा । अनयाहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन
॥२॥द्वादशी कण्डिका
आज्ञातमनाज्ञातममतं च मतं च यत् । जातवेदः संधेहि त्वं हि वेत्थ यथातथम् । यदकर्म यन्नाकर्म यदत्यरेचि यन्नात्यरेचि । अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु । यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि । स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः । आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम । अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथम् । पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथम् । यत्पाकत्रा मनसा दीवदक्षा न यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति । यद्विद्वांसो यदविद्वांसो मुग्धाः कुर्वन्त्यृत्विजः । अग्निर्मा तस्मादेनसः श्रद्धा देवी च मुञ्चताम्
॥१॥त्रयोदशी कण्डिका
अयाडग्निर्जातवेदा अन्तरः पूर्वो अस्मन्निषद्य । सन्वन्सनिं सुविमुचा विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्च भद्रम् ॥ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता पुरुत्रा । तेभ्यो न इन्द्रः सवितोत विष्णुर्विश्वे देवा मुञ्चन्तु मरुतः स्वस्त्या । यो भूतानामुद्बुध्यस्वाग्न उदुत्तममिति व्याहृतिभिर्विहृताभिः समस्ताभिश्च हुत्वा
॥१॥पूर्ववद्ध्रुवामाप्याय्य देवा गातुविद इत्यन्तर्वेद्यूर्ध्वस्तिष्ठन्ध्रुवया समिष्टयजुर्जुहोति
॥२॥मध्यमे स्वाहाकारे बर्हिरनुप्रहरति
॥३॥यदि यजमानः प्रवसेत्प्रजापतेर्विभान्नाम लोक इति ध्रुवायां यजमानभागमवधाय समिष्टयजुषा सह जुहुयात्
॥४॥अभिस्तृणीहि परिधेहि वेदिं जामिं मा हिंसीरमुया श्याना । होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रध्न इति होतृषदनैर्वेदिमभिस्तीर्य को वोऽयोक्षीत्स वो विमुञ्चत्वित्यन्तर्वेदि प्रणीता आसाद्य विमुञ्चति
॥५॥यं देवा मनुष्येषूपवेषमधारयन् । ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरु । उपवेषोपविड्ढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगान्कुर्विति पुरस्तात्प्रत्यञ्चमुत्कर उपवेषं स्थविमत उपगूहति
॥६॥चतुर्दशी कण्डिका
यद्यभिचरेद्योपवेषे शुक् सामुमृच्छतु यं द्विष्म इत्यथास्मै नामगृह्य प्रहरति
॥१॥निरमुं नुद ओकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् । इहि तिस्रः परावत इहि पञ्च जनाँ अति । इहि तिस्रोऽति रोचना यावत्सूर्यो असद्दिवि । परमां त्वा परावतमिन्द्रो नयतु वृत्रहा यतो न पुनरायसि शश्वतीभ्यः समाभ्य इति हतोऽसाववधिष्मामुमित्येताभिः पञ्चभिर्निरस्येन्निखनेद्वा
॥२॥अवसृष्टः परापत शरो ब्रह्म संशितः । गच्छामित्रान्प्रविश मैषां कंचनोच्छिष इति वा
॥३॥यानि घर्मे कपालानीति चतुष्पदयर्चा कपालानि विमुच्य संख्यायोद्वासयति
॥४॥संतिष्ठेते दर्शपूर्णमासौ
॥५॥शंय्वन्तं वाहवनीये संस्थापयेदाज्येडान्तं गार्हपत्ये । इडान्तं वाहवनीये शंय्वन्तं गार्हपत्ये
॥६॥यदि शंय्वन्तं पश्चात्स्याद्वेदात्तृणमपादाय जुह्वामग्रमञ्ज्यात्स्रुवे मध्यमुपभृति वाज्यस्थाल्यां मूलम् । तस्य प्रस्तरवत्कल्पः सूक्तवाकाद्या शंयुवाकात्
॥७॥स्वर्गकामो दर्शपूर्णमासौ
॥८॥एककामः सर्वकामो वा
॥९॥युगपत्कामयेताहारपृथक्त्वे वा
॥१०॥ताभ्यां यावज्जीवं यजेत
॥११॥त्रिंशतं वा वर्षाणि
॥१२॥जीर्णो वा विरमेत्
॥१३॥द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत यः कामयेतर्ध्रु यामित्युक्त्वाहैकामेव यजेतेति
॥१४॥पञ्चदशी कण्डिका
संस्थाप्य पौर्णमासीमिन्द्राय वैमृधाय पुरडाशमेकादशकपालमनुनिर्वपति
॥१॥समानतन्त्रमेके समामनन्ति
॥२॥तस्य याथाकामी प्रक्रमे । प्रक्रमात्तु नियम्यते
॥३॥सप्तदशसामिधेनीको यथाश्रद्धदक्षिणः
॥४॥शर्धवत्यौ संयाज्ये । अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्यं सुयममाकृणुष्ठ्य शत्रूयतामभितिष्ठा महांसि । वातोपधूत इषिरो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो यथा पृथक् शर्धांस्यग्ने अजराणि धक्ष्यस इति
॥५॥अग्नीषोमीयमेकादशकपालं पौर्णमास्यामनुनिर्वपत्यादित्यं घृते चरुं सारस्वतं चरुममावास्यायां पौष्णं चैन्द्रमेकादशकपालममावास्यायां पौर्णमास्यां च भ्रातृव्यवतोऽभिचरतो वा
॥६॥इन्द्राय त्रात्रे चरुं द्वितीयं वैमृधस्य कुर्याद्यो मृत्योर्ज्यान्या वा बिभीयात् । मुष्करो दक्षिणा
॥७॥इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालमनुनिर्वपेत्य्प्रजाकामः पशुकामः सजातकामः
॥८॥एतं वानुनिर्वाप्यं कुर्वीत
॥९॥इतरौ वा
॥१०॥यमभीव संशयीत
॥११॥षोडशी कण्डिका
स इन्द्राय वैमृधायानुनिर्वपेत्
॥१॥यो नेव घोषेन्नेव शृणुयात्स इन्द्रायांहोमुचे
॥२॥यो भ्रात्ङ्व्यवान्स्यात्स इन्द्राय वृत्रतुरे
॥३॥अथ यं न कुतश्चनातपेत्स इन्द्रायैव
॥४॥यो भ्रातृव्यवान्स्यात्स पौर्णमासं संस्थाप्यैतामिष्टिमनुनिर्वपेदाग्नावैष्णवमेकादशकपालं सरस्वत्यै चरुं सरस्वते चरुम्
॥५॥पौर्णमासीमेव यजेत भ्रातृव्यवान्नामावास्याम्
॥६॥पितृयज्ञमेवामावास्यायां कुरुते
॥७॥संक्रामेसंक्रामे वज्रं भ्रातृव्याय प्रहरतीति विज्ञायते
॥८॥त्र्यवरार्ध्यममावास्यां संक्रामति
॥९॥अग्नीषोमीयानि प्रधानानि स्युरमावास्यायां पौर्णमास्यां च भ्रातृव्यवतोऽभिचरतो वा
॥१०॥साकंप्रस्थायीयेन यजेत पशुकाम इत्यमावास्या विक्रियते
॥११॥द्वौ सायं दोहावेवं प्रातः
॥१२॥सायं सायंदोहाभ्यां प्रचरन्ति प्रातः प्रातर्दोहाभ्याम्
॥१३॥सर्वैर्वा प्रातः
॥१४॥पात्रसंसादनकाले चत्वार्यौदुम्बराणि पात्राणि प्रयुनक्ति
॥१५॥तेषां जुहूवत्कल्पः
॥१६॥आज्यभागाभ्यां प्रचर्याग्नेयेन च पुरोडाशेनाग्नीधे स्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्नाहेन्द्रायानुब्रूह्याश्रावयेन्द्रं यजेति संप्रैषौ
॥१७॥सप्तदशी कण्डिका
यावत्यः कुम्भ्यस्तावन्तो ब्राह्मणा दक्षिणतौपवीतिन उपोत्थाय कुम्भीभ्यः पात्राणि पूरयित्वा तैरध्वर्युं जुह्वतमनु जुह्वति
॥१॥स्विष्टकृद्भक्षाश्च न विद्यन्ते
॥२॥समानमत ऊर्ध्वम् । संतिष्ठते साकंप्रस्थायीयः
॥३॥दाक्षायणयज्ञेन सुवर्गकामः
॥४॥द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत
॥५॥आग्नेयोऽष्टाकपालो ऽग्नीषोमीय एकादशकपालः पूर्वस्यां पौर्णमास्यामाग्नेयोऽष्टाकपाल ऐन्द्रं दध्युत्तरस्याम् । आग्नेयोऽष्टाकपाल ऐन्द्राग्न एकादशकपालः पूर्वस्याममावास्यायामाग्नेयोऽष्टाकपालो मैत्रावरुण्यामिक्षा द्वितीयोत्तरस्याम्
॥६॥व्यावृत्काम इत्युक्तम्
॥७॥ऋत्वे वा जायामुपेयात्
॥८॥सोऽयं दर्शपूर्णमासयोः प्रक्रमे विकल्पोऽनेन दर्शपूर्णमासाभ्यां वा यजेत
॥९॥तेन पञ्चदश वर्षाणीष्ट्वा विरमेद्यजेत वा
॥१०॥संतिष्ठते दाक्षायणयज्ञः
॥११॥एतेनैडादधः सार्वसेनियज्ञो वसिष्ठयज्ञः शौनकयज्ञश्च व्याख्याताः
॥१२॥अष्टादशी कण्डिका
ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोः
॥१॥तं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति
॥२॥वृतो जपति
॥३॥अहं भूपतिरहं भुवपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापति॒र्विश्वेभ्यो देवेभ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ब्रह्म भूर्भुवः सुवर्बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपायेत्युक्त्वापरेणाहवनीयं दक्षिणातिक्रम्य निरस्तः पराग्वसुः सह पाप्मनोति ब्रह्मसदनात्तृणं निरस्येदमहमर्वाग्वसोः सदने सीदामि प्रसूतो देवेन सवित्रा बृहस्पतेः सदने सीदामि तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय तत्पृथिव्या इत्युपविशति
॥४॥आहवनीयमभ्यावृत्यास्ते
॥५॥कर्मणिकर्मणि वाचं यच्छति
॥६॥मन्त्रवत्सु वा कर्मसु । यथाकामी तूष्णीकेषु
॥७॥यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं व्याहृतीश्च जपित्वा वाचं यच्छेत्
॥८॥ब्रह्मन्नपः प्रणेष्यामीत्युच्यमाने
॥९॥एकोनविंशी कण्डिका
प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ प्रणयेति प्रसौति
॥१॥सर्वेष्ठ्यामन्त्रणेष्ठ्येवं प्रसवस्तेन कर्मणा यस्मिन्नामन्त्रयते
॥२॥प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षे । बृहस्पते परिगृहाण वेदिं स्वगा वो देवाः सदनानि सन्तु । तस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा नः पृथिवी देव्यस्त्वित्युरस्मिन्परिग्राहे । प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् । वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येष्टिति प्रवरे
॥३॥देवता वर्धय त्वमिति सर्वत्रानुषजति
॥४॥मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते
॥५॥ऋतस्य पथा पर्येहीति परिह्रियमाणं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणम्
॥६॥सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वादब्धेन त्वा चक्षुषावेक्ष इत्यवेक्ष्य सावित्रेणाङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायाग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामीत्यसंम्लेत्यापिगिरति
॥७॥विंशी कण्डिका
या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छ स्वाहेत्यद्भिरभ्यवनीयाचम्य घसीना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमृशति
॥१॥वाङ्म आसन्निति यथालिङ्गमङ्गानि
॥२॥अरिष्टा विश्वानीत्यवशिष्टानि
॥३॥प्रक्षाल्य पात्रं पूरयित्वा दिशो जिन्वेति पराचीनं निनयति
॥४॥मां जिन्वेत्यभ्यात्मम्
॥५॥यत्रास्मै ब्रह्मभागमाहरति तं प्रतिगृह्य नासंस्थिते भक्षयति
॥६॥ब्रह्मन्ब्रह्मासि ब्रह्मणे त्वाहुताद्य मा मा हिंसीरहुतो मह्यं शिवो भवेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति
॥७॥ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यॐ प्रतिष्ठेति प्रसौति
॥८॥भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किं च यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत
॥९॥ब्रह्मभागं प्राश्यायाडग्निर्जातवेदाः प्र णो यक्ष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्येत्याहवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति
॥१०॥एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वं
॥११॥