मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

द्वितीयोऽध्यायः

3
आश्वलायनगृह्यसूत्रम् · 2

प्रथमा कण्डिका

श्रावण्यां पौर्णमास्यां श्रवणाकर्म

॥१॥

अक्षतसक्तूनां नवङ्कलशं पूरयित्वा दर्वीञ्च बलिहरणीं नवे शिक्ये निदधाति

॥२॥

अक्षतधानाः कृत्वा सर्पिषाऽर्द्धा अनक्ति

॥३॥

अस्तमिते स्थालीपाकं श्रपयित्वैककपालञ्च पुरोडाशं अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यृचं हुत्वा पाणिनैककपालमच्युताय भौमाय स्वाहेति

॥४॥

अविप्लुतः स्यादाविःपृष्ठो वा

॥५॥

मा नो अग्नेऽवसृजो अघायेत्येनमाशयेनाभिजुहोति

॥६॥

शन्नो भवन्तु वाजिनो हवेष्वित्यक्ता धाना अञ्जलिना

॥७॥

अमात्येभ्य इतरा दद्यात्

॥८॥

कलशात्सक्तूनान्दर्वीं पूरयित्वा प्रागुपनिष्क्रम्य शुचौ देशेऽपोऽवनिनीय सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति ये सर्पाः पार्थिवा य आन्तरिक्ष्या ये दिव्या ये दिश्यास्तेभ्य इमं बलिमाहार्षं तेभ्य इमं बलिमुपाकरोमीति

॥९॥

प्रदक्षिणं परीत्य पश्चाद्बलेरुपविश्य सर्पोऽसि सर्पतां सर्पाणामधिपतिरस्यन्नेन मनुष्यांस्त्रायसेऽपूपेन सर्पा न्यज्ञेन देवांस्त्वयि मा सन्तं त्वयि सन्तः सर्पा मा हिंसिषुर्ध्रुवान्ते परिददामीति

॥१०॥

ध्रुवामुन्ते ध्रुवामुन्त इत्यमात्याननुपूर्वम्

॥११॥

ध्रुव मां ते परिददामीत्यात्मानमन्ततः

॥१२॥

नैनमन्तरा व्यवेयुरा परिदानात्

॥१३॥

सर्पदेवजनेभ्यः स्वाहेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात्

॥१४॥

प्रसङ्ख्याय हैके तावतो बलींस्तदहरेवोपहरन्ति

॥१५॥

द्वितीया कण्डिका

आश्वयुज्यामाश्वयुजीकर्म

॥१॥

निवेशनमलंकृत्य स्नाताः शुचिवाससः पशुप तये स्थालीपाकं निरुप्य जुहुयुः पशुपतये शिवाय शङ्कराय पृषातकाय स्वाहेति

॥२॥

पृषातकमञ्जलिना जुहुयादूनं मे पूर्यतां पूर्णं मे मोपसदत्पृषातकाय स्वाहेति

॥३॥

सजूरृतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा सजूरृतुभिः सजूर्विधाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा । सजूरृतुभिः सजूर्विधाभिः सजूर्द्यावापृथिवीभ्यां स्वाहेत्याहिताग्नेराग्रयणस्थालीपाकः

॥४॥

अनाहिताग्नेरपि शालाग्नौ

॥५॥

तृतीया कण्डिका

मार्गशीर्ष्यां प्रत्यवरोहणं चतुर्दश्याम्

॥१॥

पौर्णमास्यां वा

॥२॥

निवेशनं पुनर्नवीकृत्य लेपनस्तरणोपस्तरणैरस्तमिते पायसस्य जुहुयुरपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च वारुणीरिमाः सर्वाश्च राजबान्धवीः स्वाहा न वै श्वेतस्याभ्यागारेऽहिर्जघान किञ्चन । श्वेताय वैदार्वाय नमः स्वाहेति

॥३॥

नात्र सौविष्टकृत्

॥४॥

अभयन्नः प्राजापत्येम्यो भूयादित्यग्निमीक्षमाणो जपति शिवो नः सुमना भवेति हेमन्तं मनसा ध्यायात्

॥५॥

पश्चादग्नेः स्वस्तरः स्वास्तीर्णस्तस्मिन्नुपविश्य स्योना पृथिवि भवेति जपित्वा संविशेत्सामात्यः प्राक्शिरा उदङ्मुखः

॥६॥

यथावकाशमितरे

॥७॥

ज्यायान्ज्यायान्वानन्तरः

॥८॥

मन्त्रविदो मन्त्रान्जपेयुः

॥९॥

संहाय अतो देवा अवन्तु न इति त्रिः

॥१०॥

एतां दक्षिणामुखाः प्रत्यङ्मुखा उदङ्मुखाश्चतुर्थम्

॥११॥

संहाय सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्य ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयीत

॥१२॥

चतुर्थी कण्डिका

हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः

॥१॥

एकस्यां वा

॥२॥

पूर्वेद्युः पितृभ्यो दद्यात्

॥३॥

ओदनं कृसरं पायसम्

॥४॥

चतुःशरावस्य वापूपान्

॥५॥

उदीरतामवर उत्परास इत्यष्टाभिर्हुत्वा यावतीभिर्वा कामयीत

॥६॥

अथ श्वोभूतेऽष्टकाः पशुना स्थालीपाकेन च

॥७॥

अप्यनडुहो यवसमाहरेत्

॥८॥

अग्निना वा कक्षमुपोषेत्

॥९॥

एष मेऽष्टकेति

॥१०॥

न त्वेवानष्टकः स्यात्

॥११॥

तां हैके वैश्वदेवीं ब्रुवत आग्नेयीमेके सौर्यामेके प्राजापत्यामेके रात्रिदेवतामेके नक्षत्रदेवतामेक ऋतुदेवतामेके पितृदेवतामेके पशुदेवतामेके

॥१२॥

पशुकल्पेन पशुं संज्ञप्य प्रोक्षणोपाकरणवर्जं वपामुत्खिद्य जुहुयाद्वह वपां जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके मेदसः कुल्या उपैनान्स्रवन्तु सत्या एता आशिषः सन्तु सर्वाः स्वाहेति

॥१३॥

अथावदानानां स्थालीपाकस्य च अग्ने नय सुपथा राये अस्मानिति द्वे । ग्रीष्मो हेमन्त ऋतवः शिवा नो वर्षाः शिवा अभया शरन्नः । संवत्सरोऽधिपतिः प्राणदो नोऽहोरात्रे कृणुतां दीर्घमायुः स्वाहा । शान्ता पृथिवी शिवमन्तरिक्षं द्यौर्नो देव्यभयन्नो अस्तु । शिवा दिशः प्रदिश उद्दिशो न आपो विद्युतः परिपान्तु सर्वतः स्वाहा । आपो मरीचीः प्रवहन्तु नो धियो धाता समुद्रो वहन्तु पापं भूतं भविष्यदभयं विश्वमस्तु मे ब्रह्माधिगुप्तः स्वाराक्षराणि स्वाहा । विश्व आदित्या वसवश्च देवा रुद्रा गोप्तारो मरुतः सदन्तु । ऊर्जं प्रजाममृतं पिन्वमानः प्रजापतिर्मयि परमेष्ठी दधातु स्वाहा । प्रजापते न त्वदेतान्यन्यः

॥१४॥

सौविष्टकृत्यष्टमी

॥१५॥

ब्राह्मणान्भोजयेदित्युक्तम्

॥१६॥

पञ्चमी कण्डिका

अपरेद्युरन्वष्टक्यम्

॥१॥

तस्यैव मांसस्य प्रकल्प्य दक्षिणाप्रवणेऽग्निमुपसमाधाय परिश्रित्योत्तरतः परिश्रितस्य द्वारं कृत्वा समूलं बर्हिस्त्रिरपसलैरविधून्वन्परिस्तीर्य हवींष्यासादयेदोदनं कृसरं पायसं दधिमन्थान्मधुमन्थांश्च

॥२॥

पिण्डपितृयज्ञकल्पेन

॥३॥

हुत्वा मधुमन्थवर्जं पितृभ्यो दद्यात्

॥४॥

स्त्रीभ्यश्च सुरा चाचाममित्यधिकम्

॥५॥

कर्षूष्वेके द्वयोः षट्सु वा

॥६॥

पूर्वासु पितृभ्यो दद्यात्

॥७॥

अपरासु स्त्रीभ्यः

॥८॥

एतेन माघ्यावर्षं प्रोष्ठपद्या अपरपक्षे

॥९॥

मासि मासि चैवं पितृभ्योऽयुक्षु प्रतिष्ठापयेत्

॥१०॥

नवावरान्भोजयेत्

॥११॥

अयुजो वा

॥१२॥

युग्मान् वृद्धिपूर्तेषु

॥१३॥

अयुग्मानितरेषु

॥१४॥

प्रदक्षिणमुपचारो यवैस्तिलार्थः

॥१५॥

षष्ठी कण्डिका

रथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभिमृशेत् । अहन्ते पूर्वं पादावालभेद्बृहद्रथन्तरे ते चक्रे

॥१॥

वामदेव्यमक्ष इत्यक्षाधिष्ठाने

॥२॥

दक्षिणपूर्वाभ्यामारोहेत् वायोष्ट्वा वीर्येणारोहामीन्द्रस्यौजसाधिपत्येनेति

॥३॥

रश्मीन्संमृशेदरश्मिकान्वा दण्डेन ब्रह्मणो वस्तेजसा संगृह्णामि सत्येन वस्संगृह्णामीति

॥४॥

अभिप्रवर्त्तमानेषु जपेत् सहस्रसनिं वाजमभिवर्त्तस्व रथ देव प्रवह वनस्पते वीड्वङ्गो हि भूया इति

॥५॥

एतयान्यान्यपि वानस्पत्यानि

॥६॥

स्थिरौ गावौ भवतां वीडुरक्ष इति रथाङ्गमभिमृशेत्

॥७॥

सुत्रामाणं पृथिवीं द्यामनेहसमिति नावम्

॥८॥

नवरथेन यशस्विनं वृक्षं ह्रदं वाविदासिनं प्रदक्षिणं कृत्वा फलवतीः शाखा आहरेत्

॥९॥

अन्यद्वा कौटुम्बम्

॥१०॥

संसदमुपयायात्

॥११॥

अस्माकमुत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वावरोहेत्

॥१२॥

ऋषभं मा समानानामित्यभिक्रामन्

॥१३॥

वयमद्येन्द्रस्य प्रेष्ठा इत्यस्तं यात्यादित्ये

॥१४॥

तद्वो दिवो दुहितरो विभातीरिति व्युष्टायाम्

॥१५॥

सप्तमी कण्डिका

अथातो वास्तुपरीक्षा

॥१॥

अनूषरमविवदिष्णु भूम

॥२॥

ओषधिवनस्पतिवत्

॥३॥

यस्मिन्कुशवीरिणं प्रभूतम्

॥४॥

कण्टकिक्षीरिणस्तु समूलान्परिखायोद्वासयेदपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि

॥५॥

यत्र सर्वत आपो मध्यं समेत्य प्रदक्षिणं शयनीयं परीत्य प्राच्यः स्यन्देरन्नप्रवदत्यस्तत्सर्वं समृद्धम्

॥६॥

समवस्रवे भक्तशरणं कारयेत्

॥७॥

बह्वन्नं ह भवति

॥८॥

दक्षिणाप्रवणे सभां मापयेत्साऽद्यूता ह भवति

॥९॥

युवानस्तस्यां कितवाः कलहिनः प्रमायुका भवन्ति

॥१०॥

यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्ययन्यद्यूता च

॥११॥

अष्टमी कण्डिका

अथैतैर्वास्तु परीक्षेत

॥१॥

जानुमात्रङ्गर्तं खात्वा तैरेव पांसुभिः प्रतिपूरयेत्

॥२॥

अधिके प्रशस्तं समे वार्त्तं न्यूने गर्हितम्

॥३॥

अस्तमितेऽपां सुपूर्णं परिवासयेत्

॥४॥

सोदके प्रशस्तमार्द्रे वार्त्तं शुष्के गर्हितं श्वेतं मधुरास्वादम्

॥५॥

सिकतोत्तरं ब्राह्मणस्य

॥६॥

लोहितं क्षत्रियस्य

॥७॥

पीतं वैश्यस्य

॥८॥

तत्सहस्रसीतं कृत्वा यथादिक्समचतुरस्रं मापयेत्

॥९॥

आयतं चतुरस्रं वा

॥१०॥

तच्छमीशाखयोडुम्बरशाखया वा शन्तातीयेन त्रिः परिव्रजन्प्रोक्षति

॥११॥

अविच्छिन्नया चोदकधारयापो हि ष्ठा मयोभुव इति तृचेन

॥१२॥

वंशान्तरेषु शरणानि कारयेत्

॥१३॥

गर्तेष्ववकां शीपालमित्यवधापयेन्नास्याग्निर्दाहुको भवतीति विज्ञायते

॥१४॥

मध्यमस्थूणाया गर्तेऽवधाय प्रागग्रोदग्रान्कुशानास्तीर्य व्रीहियवमतीरप आसेचयेदच्युताय भौमाय स्वाहेति

॥१५॥

अथैनामुच्छ्रियमाणामनुमन्त्रयेतेहैव तिष्ठ निमिता तिल्विलास्तामिरावतीं मध्ये पोषस्य तिष्ठन्तीम् । आ त्वा प्रापन्नघायव आ त्वा कुमारस्तरुण आ वत्सो जायतां सह । आ त्वा परिश्रितः कुम्भ आ दध्नः कलशैरयन्निति

॥१६॥

नवमी कण्डिका

वंशमाधोयमानम्

॥१॥

ऋतेन स्थूणामधिरोह वंश द्राघीय आयुः प्रतरन्दधान इति

॥२॥

सदूर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत् पृथिव्या अधि सम्भवेति

॥३॥

अरङ्गरो वावदीति त्रेधा बद्धो वरत्रया । इरामु ह प्रशंसत्यनिरामपबाधतामिति वा

॥४॥

अथास्मिन्नप आसेचयेत् ऐतु राजा वरुणो रेवतीभिरस्मिन् स्थाने तिष्ठतु मोदमानः । इरां वहन्तो घृतमुक्षमाणा मित्रेण साकं सह संविशन्त्विति

॥५॥

अथैनच्छमयति

॥६॥

व्रीहियवमतीभिरद्भिर्हिरण्यमवधाय शन्तातीयेन त्रिः प्रदक्षिणं परिव्रजन्प्रोक्षति

॥७॥

अविच्छिन्नया चोदकधारया आपो हि ष्ठा मयोभुव इति तृचेन

॥८॥

मध्येऽगारस्य स्थालीपाकं श्रपयित्वा वास्तोष्यते प्रतिजानीह्यस्मानिति चतसृभिः प्रत्यृचं हुत्वान्नं संस्कृत्य ब्राह्मणान्भोजयित्वा शिवं वास्तु शिवं वास्त्विति वाचयीत

॥९॥

दशमी कण्डिका

उक्तं गृहप्रपदनम्

॥१॥

बीजवतो गृहान् प्रपद्येत

॥२॥

क्षेत्रं प्रकर्षयेदुत्तरैः प्रोष्ठपदैः फाल्गुनीभी रोहिण्या वा

॥३॥

क्षेत्रस्यानुवातं क्षेत्रस्य पतिना वयमिति प्रत्यृचं जुहुयाज्जपेद्वा

॥४॥

गाः प्रतिष्ठमाना अनुमन्त्रयेत मयोभूर्वातो अभिवातूस्रा इति द्वाभ्याम्

॥५॥

आयतीः यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नः सन्तु पयस्वतीर्बह्वीर्गोष्ठे घृताच्यः । उप मैतु मयोभुव ऊर्जं चौजश्च बिभ्रतीः । दुहाना अक्षितं पयो मयि गोष्ठे निविशध्वम् । यथा भवाम्युत्तमो या देवेषु तन्वामैरयन्तेति च सूक्तशेषम्

॥६॥

आगावीयमेके

॥७॥

गणानासामुपतिष्ठेतागुरुगवीनां भूताः स्थ प्रशस्ताः स्थ शोभनाः प्रियाः प्रियो वो भूयासं शं मयि जानीध्वं शं मयि जानीध्वं

॥८॥