स्कन्दपुराणम्
अगस्त्य उवाच
विना स्नानेन गङ्गायां नृणां जन्म निरर्थकम् ।
उपायान्तरमस्त्यन्यद् येन स्नानफलं लभेत् ॥
॥१॥अशक्तानां च पङ्गूनामालस्योपहतात्मनाम् ।
दूरदेशान्तरस्थानां गङ्गास्नानं कथं भवेत् ॥
॥२॥दानं वाथ व्रतं वाथ मन्त्रः स्तोत्रं जपोऽथवा ।
तीर्थान्तराभिषेको वा देवतोपासनं तु वा ॥
॥३॥यद्यस्ति किञ्चित् षड्वक्त्र गङ्गास्नानफलप्रदम् ।
विधानान्तरमात्रेण तद् वद प्रणताय मे ॥
॥४॥त्वत्तो न वेद स्कन्दान्यो गङ्गागर्भसमुद्भव ।
परं स्वर्गतरङ्गिण्यां महिमानं महामते ॥
॥५॥स्कन्द उवाच
सन्ति पुण्यजलानीह सरांसि सरितो मुने ।
स्थाने स्थाने च तीर्थानि जितात्माध्युषितानि च ॥
॥६॥दृष्टप्रत्ययकारीणि महामहिमभाञ्ज्यपि ।
परं स्वर्गतरङ्गिण्याः कोट्यंशोऽपि न तत्र वै ॥
॥७॥अनेनैवानुमानेन बुद्ध्यस्व कलशोद्भव ।
दध्रे गङ्गोत्तमाङ्गेन देवदेवेन शम्भुना ॥
॥८॥स्नानकालेऽन्यतीर्थेषु जप्यते जाह्नवी जनैः ।
विना विष्णुपदीं क्वान्यत् समर्थमघमोचने ॥
॥९॥गङ्गास्नानफलं ब्रह्मन् गङ्गायामेव लभ्यते ।
यथा द्राक्षाफलस्वादो द्राक्षायामेव नान्यतः ॥
॥१०॥अस्त्युपाय इह त्वेकः स्याद् येनाविकलं फलम् ।
स्नानस्य देवसरितो महागुह्यतमो मुने ॥
॥११॥शिवभक्ताय शान्ताय विष्णुभक्तिपराय च ।
श्रद्धालवे त्वास्तिकाय गर्भवासमुमुक्षवे ॥
॥१२॥कथनीयं न चान्यस्य कस्यचित् केनचित् क्वचित् ।
इदं रहस्यं परमं महापातकनाशनम् ॥
॥१३॥महाश्रेयस्करं पुण्यं मनोरथकरं परम् ।
द्युनदीप्रीतिजनकं शिवसन्तोषसन्ततिः ॥
॥१४॥नाम्नां सहस्रं गङ्गायाः स्तवराजेषु शोभनम् ।
जप्यानां परमं जप्यं वेदोपनिषदां समम् ॥
॥१५॥जपनीयं प्रयत्नेन मौनिना वाचकं विना ।
शुचिस्थानेषु शुचिना सुस्पष्टाक्षरमेव च ॥
॥१६॥ध्यानम्
शैलेन्द्रादवतारिणी निजजले मज्जद्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणी समुत्सारिणी ।
शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥
॥१७॥ॐ नमो गङ्गादेव्यै
ओंकाररूपिण्यजराऽतुलाऽनन्ताऽमृतस्रवा ।
अत्युदाराऽभयाऽशोकाऽलकनन्दाऽमृताऽमला ॥
॥१८॥अनाथवत्सलाऽमोघाऽपांयोनिरमृतप्रदा ।
अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराऽजिता ॥
॥१९॥अनाथनाथाऽभीष्टार्थसिद्धिदाऽनङ्गवर्धिनी ।
अणिमादिगुणाऽधाराऽग्रगण्याऽलीकहारिणी ॥
॥२०॥अचिन्त्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी ।
अद्रिराजसुताऽष्टाङ्गयोगसिद्धिप्रदाऽच्युता ॥
॥२१॥अक्षुण्णशक्तिरसुदाऽनन्ततीर्थाऽमृतोदका ।
अनन्तमहिमाऽपाराऽनन्तसौख्यप्रदाऽन्नदा ॥
॥२२॥अशेषदेवतामूर्तिरघोराऽमृतरूपिणी ।
अविद्याजालशमनी ह्यप्रतर्क्यगतिप्रदा ॥
॥२३॥अशेषविघ्नसंहर्त्री त्वशेषगुणगुम्फिता ।
अज्ञानतिमिरज्योतिरनुग्रहपरायणा ॥
॥२४॥अभिरामाऽनवद्याङ्ग्यनन्तसाराऽकलङ्किनी ।
आरोग्यदाऽऽनन्दवल्ली त्वापन्नार्तिविनाशिनी ॥
॥२५॥आश्चर्यमूर्तिरायुष्या ह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता ।
आप्यायिन्याप्तविद्याख्या त्वानन्दाऽऽश्वासदायिनी ॥
॥२६॥आलस्यघ्न्यापदां हन्त्री ह्यानन्दामृतवर्षिणी ।
इरावतीष्टदात्रीष्टा त्विष्टापूर्तफलप्रदा ॥
॥२७॥इतिहासश्रुतीड्यार्था त्विहामुत्रशुभप्रदा ।
इज्याशीलसमिज्येष्ठा त्विन्द्रादिपरिवन्दिता ॥
॥२८॥इलालङ्कारमालेद्धा त्विन्दिरारम्यमन्दिरा ।
इदिन्दिरादिसंसेव्या त्वीश्वरीश्वरवल्लभा ॥
॥२९॥ईतिभीतिहरेड्या च त्वीडनीयचरित्रभृत् ।
उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी ॥
॥३०॥उदिताम्बरमार्गोस्रोरगलोकविहारिणी ।
उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ॥
॥३१॥उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी ।
उद्वेगघ्न्युष्णशमनी ह्युष्णरश्मिसुताप्रिया ॥
॥३२॥उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी ।
ऊर्जं वहन्त्यूर्जधरोर्जावती चोर्मिमालिनी ॥
॥३३॥ऊर्ध्वरेतःप्रियोर्ध्वाध्वा ह्यूर्मिलोर्ध्वगतिप्रदा ।
ऋषिवृन्दस्तुतर्द्धिश्च ऋणत्रयविनाशिनी ॥
॥३४॥ऋतम्भरर्द्धिदात्री च ऋक्स्वरूपा ऋजुप्रिया ।
ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी ॥
॥३५॥एधिताखिलधर्मार्था त्वेकैकामृतदायिनी ।
एधनीयस्वभावैज्या त्वेजिताशेषपातका ॥
॥३६॥ऐश्वर्यदैश्वर्यरूपा ह्यैतिह्यं ह्यैन्दवीद्युतिः ।
ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ॥
॥३७॥ओष्ठामृतौन्नत्यदात्री त्वौषधं भवरोगिणाम् ।
औदार्यचञ्चुरौपेन्द्री त्वौग्री ह्यौमेयरूपिणी ॥
॥३८॥अम्बराध्ववहाम्बष्ठाम्बरमालाम्बुजेक्षणा ।
अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी ॥
॥३९॥अंशुमाला ह्यंशुमती त्वङ्गीकृतषडानना ।
अन्धतामिस्रहन्त्र्यन्धुरञ्जना ह्यञ्जनावती ॥
॥४०॥कल्याणकारिणी काम्या कमलोत्पलगन्धिनी ।
कुमुद्वती कमलिनी कान्तिः कल्पितदायिनी ॥
॥४१॥काञ्चनाक्षी कामधेनुः कीर्तिकृत् क्लेशनाशिनी ।
क्रतुश्रेष्ठा क्रतुफला कर्मबन्धविभेदिनी ॥
॥४२॥कमलाक्षी क्लमहरा कृशानुतपनद्युतिः ।
करुणार्द्रा च कल्याणी कलिकल्मषनाशिनी ॥
॥४३॥कामरूपा क्रियाशक्तिः कमलोत्पलमालिनी ।
कूटस्था करुणा कान्ता कूर्मयाना कलावती ॥
॥४४॥कमला कल्पलतिका काली कलुषवैरिणी ।
कमनीयजला कम्रा कपर्दिसुकपर्दगा ॥
॥४५॥कालकूटप्रशमनी कदम्बकुसुमप्रिया ।
कालिन्दी केलिललिता कलकल्लोलमालिका ॥
॥४६॥क्रान्तलोकत्रया कण्डूः कण्डूतनयवत्सला ।
खड्गिनी खड्गधाराभा खगा खण्डेन्दुधारिणी ॥
॥४७॥खेखेलगामिनी खस्था खण्डेन्दुतिलकप्रिया ।
खेचरी खेचरीवन्द्या ख्यातिः ख्यातिप्रदायिनी ॥
॥४८॥खण्डितप्रणताघौघा खलबुद्धिविनाशिनी ।
खातैनः कन्दसन्दोहा खड्गखट्वाङ्ग खेटिनी ॥
॥४९॥खरसन्तापशमनी खनिः पीयूषपाथसाम् ।
गङ्गा गन्धवती गौरी गन्धर्वनगरप्रिया ॥
॥५०॥गम्भीराङ्गी गुणमयी गतातङ्का गतिप्रिया ।
गणनाथाम्बिका गीता गद्यपद्यपरिष्टुता ॥
॥५१॥गान्धारी गर्भशमनी गतिभ्रष्टगतिप्रदा ।
गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी ॥
॥५२॥गोत्रप्रवर्धिनी गुण्या गुणातीता गुणाग्रणीः ।
गुहाम्बिका गिरिसुता गोविन्दाङ्घ्रिसमुद्भवा ॥
॥५३॥गुणनीयचरित्रा च गायत्री गिरिशप्रिया ।
गूढरूपा गुणवती गुर्वी गौरववर्धिनी ॥
॥५४॥ग्रहपीडाहरा गुन्द्रा गरघ्नी गानवत्सला ।
घर्महन्त्री घृतवती घृततुष्टिप्रदायिनी ॥
॥५५॥घण्टारवप्रिया घोराघौघविध्वंसकारिणी ।
घ्राणतुष्टिकरी घोषा घनानन्दा घनप्रिया ॥
॥५६॥घातुका घूर्णितजला घृष्टपातकसन्ततिः ।
घटकोटिप्रपीतापा घटिताशेषमङ्गला ॥
॥५७॥घृणावती घृणिनिधिर्घस्मरा घूकनादिनी ।
घुसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना ॥
॥५८॥चन्द्रिका चन्द्रकान्ताम्बुश्चञ्चदापा चलद्युतिः ।
चिन्मयी चितिरूपा च चन्द्रायुतशतानना ॥
॥५९॥चाम्पेयलोचना चारुश्चार्वङ्गी चारुगामिनी ।
चार्या चारित्रनिलया चित्रकृच्चित्ररूपिणी ॥
॥६०॥चम्पूश्चन्दनशुच्यम्बुश्चर्चनीया चिरस्थिरा ।
चारुचम्पकमालाढ्या चमिताशेषदुष्कृता ॥
॥६१॥चिदाकाशवहा चिन्त्या चञ्चच्चामरवीजिता ।
चोरिताशेषवृजिना चरिताशेषमण्डला ॥
॥६२॥छेदिताखिलपापौघा छद्मघ्नी छलहारिणी ।
छन्नत्रिविष्टपतला छोटिताशेषबन्धना ॥
॥६३॥छुरितामृतधारौघा छिन्नैनाश्छन्दगामिनी ।
छत्रीकृतमरालौघा छटीकृतनिजामृता ॥
॥६४॥जाह्नवी ज्या जगन्माता जप्या जङ्घालवीचिका ।
जया जनार्दनप्रीता जुषणीया जगद्धिता ॥
॥६५॥जीवनं जीवनप्राणा जगज्ज्येष्ठा जगन्मयी ।
जीवजीवातुलतिका जन्मिजन्मनिबर्हिणी ॥
॥६६॥जाड्यविध्वंसनकरी जगद्योनिर्जलाविला ।
जगदानन्दजननी जलजा जलजेक्षणा ॥
॥६७॥जनलोचनपीयूषा जटातटविहारिणी ।
जयन्ती जञ्जपूकघ्नी जनितज्ञानविग्रहा ॥
॥६८॥झल्लरीवाद्यकुशला झलज्झालजलावृता ।
झिण्टीशवन्द्या झङ्कारकारिणी झर्झरावती ॥
॥६९॥टीकिताशेषपाताला टङ्किकैनोऽद्रिपाटने ।
टङ्कारनृत्यत्कल्लोला टीकनीयमहातटा ॥
॥७०॥डम्बरप्रवहा डीनराजहंसकुलाकुला ।
डमड्डमरुहस्ता च डामरोक्तमहाण्डका ॥
॥७१॥ढौकिताशेषनिर्वाणा ढक्कानादचलज्जला ।
ढुण्ढिविघ्नेशजननी ढणड्ढुणितपातका ॥
॥७२॥तर्पणी तीर्थतीर्था च त्रिपथा त्रिदशेश्वरी ।
त्रिलोकगोप्त्री तोयेशी त्रैलोक्यपरिवन्दिता ॥
॥७३॥तापत्रितयसंहर्त्री तेजोबलविवर्धिनी ।
त्रिलक्ष्या तारणी तारा तारापतिकरार्चिता ॥
॥७४॥त्रैलोक्यपावनी पुण्या तुष्टिदा तुष्टिरूपिणी ।
तृष्णाच्छेत्री तीर्थमाता त्रिविक्रमपदोद्भवा ॥
॥७५॥तपोमयी तपोरूपा तपःस्तोमफलप्रदा ।
त्रैलोक्यव्यापिनी तृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ॥
॥७६॥त्रैलोक्यसुन्दरी तुर्या तुर्यातीतफलप्रदा ।
त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्या तिमिरचन्द्रिका ॥
॥७७॥तेजोगर्भा तपस्सारा त्रिपुरारिशिरोगृहा ।
त्रयीस्वरूपिणी तन्वी तपनाङ्गजभीतिनुत् ॥
॥७८॥तरिस्तरणिजामित्रं तर्पिताशेषपूर्वजा ।
तुलाविरहिता तीव्रपापतूलतनूनपात् ॥
॥७९॥दारिद्र्यदमनी दक्षा दुष्प्रेक्षा दिव्यमण्डना ।
दीक्षावती दुरावाप्या द्राक्षामधुरवारिभृत् ॥
॥८०॥दर्शितानेककुतुका दुष्टदुर्जयदुःखहृत् ।
दैन्यहृद्दुरितघ्नी च दानवारिपदाब्जजा ॥
॥८१॥दन्दशूकविषघ्नी च दारिताघौघसन्ततिः ।
द्रुता देवद्रुमच्छन्ना दुर्वाराघविघातिनी ॥
॥८२॥दमग्राह्या देवमाता देवलोकप्रदर्शिनी ।
देवदेवप्रिया देवी दिक्पालपददायिनी ॥
॥८३॥दीर्घायुः कारिणी दीर्घा दोग्ध्री दूषणवर्जिता ।
दुग्धाम्बुवाहिनी दोह्या दिव्या दिव्यगतिप्रदा ॥
॥८४॥द्युनदी दीनशरणं देहिदेहनिवारिणी ।
द्राघीयसी दाघहन्त्री दितपातकसन्ततिः ॥
॥८५॥दूरदेशान्तरचरी दुर्गमा देववल्लभा ।
दुर्वृत्तघ्नी दुर्विगाह्या दयाधारा दयावती ॥
॥८६॥दुरासदा दानशीला द्राविणी द्रुहिणस्तुता ।
दैत्यदानवसंशुद्धिकर्त्री दुर्बुद्धिहारिणी ॥
॥८७॥दानसारा दयासारा द्यावाभूमिविगाहिनी ।
दृष्टादृष्टफलप्राप्तिर्देवतावृन्दवन्दिता ॥
॥८८॥दीर्घव्रता दीर्घदृष्टिर्दीप्ततोया दुरालभा ।
दण्डयित्री दण्डनीतिर्दुष्टदण्डधरार्चिता ॥
॥८९॥दुरोदरघ्नी दावार्चिर्द्रवद्द्रव्यैकशेवधिः ।
दीनसन्तापशमनी दात्री दवथुवैरिणी ॥
॥९०॥दरीविदारणपरा दान्ता दान्तजनप्रिया ।
दारिताद्रितटा दुर्गा दुर्गारण्यप्रचारिणी ॥
॥९१॥धर्मद्रवा धर्मधुरा धेनुर्धीरा धृतिर्ध्रुवा ।
धेनुदानफलस्पर्शा धर्मकामार्थमोक्षदा ॥
॥९२॥धर्मोर्मिवाहिनी धुर्या धात्री धात्रीविभूषणम् ।
धर्मिणी धर्मशीला च धन्विकोटिकृतावना ॥
॥९३॥ध्यातृपापहरा ध्येया धावनी धूतकल्मषा ।
धर्मधारा धर्मसारा धनदा धनवर्धिनी ॥
॥९४॥धर्माधर्मगुणच्छेत्री धत्तूरकुसुमप्रिया ।
धर्मेशी धर्मशास्त्रज्ञा धनधान्यसमृद्धिकृत् ॥
॥९५॥धर्मलभ्या धर्मजला धर्मप्रसवधर्मिणी ।
ध्यानगम्यस्वरूपा च धरणी धातृपूजिता ॥
॥९६॥धूर्धूर्जटिजटासंस्था धन्या धीर्धारणावती ।
नन्दा निर्वाणजननी नन्दिनी नुन्नपातका ॥
॥९७॥निषिद्धविघ्ननिचया निजानन्दप्रकाशिनी ।
नभोऽङ्गणचरी नूतिर्नम्या नारायणी नुता ॥
॥९८॥निर्मला निर्मलाख्याना नाशिनी तापसम्पदाम् ।
नियता नित्यसुखदा नानाश्चर्यमहानिधिः ॥
॥९९॥नदी नदसरोमाता नायिका नाकदीर्घिका ।
नष्टोद्धरणधीरा च नन्दना नन्ददायिनी ॥
॥१००॥निर्णिक्ताशेषभुवना निःसङ्गा निरुपद्रवा ।
निरालम्बा निष्प्रपञ्चा निर्णाशितमहामला ॥
॥१०१॥निर्मलज्ञानजननी निःशेषप्राणितापहृत् ।
नित्योत्सवा नित्यतृप्ता नमस्कार्या निरञ्जना ॥
॥१०२॥निष्ठावती निरातङ्का निर्लेपा निश्चलात्मिका ।
निरवद्या निरीहा च नीललोहितमूर्धगा ॥
॥१०३॥नन्दिभृङ्गिगणस्तुत्या नागा नन्दा नगात्मजा ।
निष्प्रत्यूहा नाकनदी निरयार्णवदीर्घनौः ॥
॥१०४॥पुण्यप्रदा पुण्यगर्भा पुण्या पुण्यतरङ्गिणी ।
पृथुः पृथुफला पूर्णा प्रणतार्तिप्रभञ्जनी ॥
॥१०५॥प्राणदा प्राणिजननी प्राणेशी प्राणरूपिणी ।
पद्मालया पराशक्तिः पुरजित्परमप्रिया ॥
॥१०६॥परा परफलप्राप्तिः पावनी च पयस्विनी ।
परानन्दा प्रकृष्टार्था प्रतिष्ठा पालिनी परा ॥
॥१०७॥पुराणपठिता प्रीता प्रणवाक्षररूपिणी ।
पार्वती प्रेमसम्पन्ना पशुपाशविमोचनी ॥
॥१०८॥परमात्मस्वरूपा च परब्रह्मप्रकाशिनी ।
परमानन्दनिष्यन्दा प्रायश्चित्तस्वरूपिणी ॥
॥१०९॥पानीयरूपनिर्वाणा परित्राणपरायणा ।
पापेन्धनदवज्वाला पापारिः पापनामनुत् ॥
॥११०॥परमैश्वर्यजननी प्रज्ञा प्राज्ञा परापरा ।
प्रत्यक्षलक्ष्मीः पद्माक्षी परव्योमामृतस्रवा ॥
॥१११॥प्रसन्नरूपा प्रणिधिः पूता प्रत्यक्षदेवता ।
पिनाकिपरमप्रीता परमेष्ठिकमण्डलुः ॥
॥११२॥पद्मनाभपदार्घ्येण प्रसूता पद्ममालिनी ।
परर्द्धिदा पुष्टिकरी पथ्या पूर्तिः प्रभावती ॥
॥११३॥पुनाना पीतगर्भघ्नी पापपर्वतनाशिनी ।
फलिनी फलहस्ता च फुल्लाम्बुजविलोचना ॥
॥११४॥फालितैनोमहाक्षेत्रा फणिलोकविभूषणम् ।
फेनच्छलप्रणुन्नैनाः फुल्लकैरवगन्धिनी ॥
॥११५॥फेनिलाच्छाम्बुधाराभा फडुच्चाटितपातका ।
फाणितस्वादुसलिला फाण्टपथ्यजलाविला ॥
॥११६॥विश्वमाता च विश्वेशी विश्वा विश्वेश्वरप्रिया ।
ब्रह्मण्या ब्रह्मकृद् ब्राह्मी ब्रह्मिष्ठा विमलोदका ॥
॥११७॥विभावरी च विरजा विक्रान्तानेकविष्टपा ।
विश्वमित्रं विष्णुपदी वैष्णवी वैष्णवप्रिया ॥
॥११८॥विरूपाक्षप्रियकरी विभूतिर्विश्वतोमुखी ।
विपाशा वैबुधी वेद्या वेदाक्षररसस्रवा ॥
॥११९॥विद्या वेगवती वन्द्या बृंहणी ब्रह्मवादिनी ।
वरदा विप्रकृष्टा च वरिष्ठा च विशोधनी ॥
॥१२०॥विद्याधरी विशोका च वयोवृन्दनिषेविता ।
बहूदका बलवती व्योमस्था विबुधप्रिया ॥
॥१२१॥वाणी वेदवती वित्ता ब्रह्मविद्यातरङ्गिणी ।
ब्रह्माण्डकोटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी ॥
॥१२२॥ब्रह्मेशविष्णुरूपा च बुद्धिर्विभववर्धिनी ।
विलासिसुखदा वश्या व्यापिनी च वृषारणिः ॥
॥१२३॥वृषाङ्कमौलिनिलया विपन्नार्तिप्रभञ्जनी ।
विनीता विनता ब्रध्नतनया विनयान्विता ॥
॥१२४॥विपञ्ची वाद्यकुशला वेणुश्रुतिविचक्षणा ।
वर्चस्करी बलकरी बलोन्मूलितकल्मषा ॥
॥१२५॥विपाप्मा विगतातङ्का विकल्पपरिवर्जिता ।
वृष्टिकर्त्री वृष्टिजला विधिर्विच्छिन्नबन्धना ॥
॥१२६॥व्रतरूपा वित्तरूपा बहुविघ्नविनाशकृत् ।
वसुधारा वसुमती विचित्राङ्गी विभावसुः ॥
॥१२७॥विजया विश्वबीजं च वामदेवी वरप्रदा ।
वृषाश्रिता विषघ्नी च विज्ञानोर्म्यंशुमालिनी ॥
॥१२८॥भव्या भोगवती भद्रा भवानी भूतभाविनी ।
भूतधात्री भयहरा भक्तदारिद्र्यघातिनी ॥
॥१२९॥भुक्तिमुक्तिप्रदा भेशी भक्तस्वर्गापवर्गदा ।
भागीरथी भानुमती भाग्यं भोगवती भृतिः ॥
॥१३०॥भवप्रिया भवद्वेष्ट्री भूतिदा भूतिभूषणा ।
भाललोचनभावज्ञा भूतभव्यभवत्प्रभुः ॥
॥१३१॥भ्रान्तिज्ञानप्रशमनी भिन्नब्रह्माण्डमण्डपा ।
भूरिदा भक्तसुलभा भाग्यवद्दृष्टिगोचरी ॥
॥१३२॥भञ्जितोपप्लवकुला भक्ष्यभोज्यसुखप्रदा ।
भिक्षणीया भिक्षुमाता भावा भावस्वरूपिणी ॥
॥१३३॥मन्दाकिनी महानन्दा माता मुक्तितरङ्गिणी ।
महोदया मधुमती महापुण्या मुदाकरी ॥
॥१३४॥मुनिस्तुता मोहहन्त्री महातीर्था मधुस्रवा ।
माधवी मानिनी मान्या मनोरथपथातिगा ॥
॥१३५॥मोक्षदा मतिदा मुख्या महाभाग्यजनाश्रिता ।
महावेगवती मेध्या महा महिमभूषणा ॥
॥१३६॥महाप्रभावा महती मीनचञ्चललोचना ।
महाकारुण्यसम्पूर्णा महर्द्धिश्च महोत्पला ॥
॥१३७॥मूर्तिमन्मुक्तिरमणी मणिमाणिक्यभूषणा ।
मुक्ताकलापनेपथ्या मनोनयननन्दिनी ॥
॥१३८॥महापातकराशिघ्नी महादेवार्धहारिणी ।
महोर्मिमालिनी मुक्ता महादेवी मनोन्मनी ॥
॥१३९॥महापुण्योदयप्राप्या मायातिमिरचन्द्रिका ।
महाविद्या महामाया महामेधा महौषधम् ॥
॥१४०॥मालाधरी महोपाया महोरगविभूषणा ।
महामोहप्रशमनी महामङ्गलमङ्गलम् ॥
॥१४१॥मार्तण्डमण्डलचरी महालक्ष्मीर्मदोज्झिता ।
यशस्विनी यशोदा च योग्या युक्तात्मसेविता ॥
॥१४२॥योगसिद्धिप्रदा याज्या यज्ञेशपरिपूरिता ।
यज्ञेशी यज्ञफलदा यजनीया यशस्करी ॥
॥१४३॥यमिसेव्या योगयोनिर्योगिनी युक्तबुद्धिदा ।
योगज्ञानप्रदा युक्ता यमाद्यष्टाङ्गयोगयुक् ॥
॥१४४॥यन्त्रिताघौघसञ्चारा यमलोकनिवारिणी ।
यातायातप्रशमनी यातनानामकृन्तनी ॥
॥१४५॥यामिनीशहिमाच्छोदा युगधर्मविवर्जिता ।
रेवती रतिकृद् रम्या रत्नगर्भा रमा रतिः ॥
॥१४६॥रत्नाकरप्रेमपात्रं रसज्ञा रसरूपिणी ।
रत्नप्रासादगर्भा च रमणीयतरङ्गिणी ॥
॥१४७॥रत्नार्ची रुद्ररमणी रागद्वेषविनाशिनी ।
रमा रामा रम्यरूपा रोगिजीवानुरूपिणी ॥
॥१४८॥रुचिकृद् रोचनी रम्या रुचिरा रोगहारिणी ।
राजहंसा रत्नवती राजत्कल्लोलराजिका ॥
॥१४९॥रामणीयकरेखा च रुजारी रोगरोषिणी ।
राका रङ्कार्तिशमनी रम्या रोलम्बराविणी ॥
॥१५०॥रागिणी रञ्जितशिवा रूपलावण्यशेवधिः ।
लोकप्रसूर्लोकवन्द्या लोलत्कल्लोलमालिनी ॥
॥१५१॥लीलावती लोकभूमिर्लोकलोचनचन्द्रिका ।
लेखस्रवन्ती लटभा लघुवेगा लघुत्वहृत् ॥
॥१५२॥लास्यत्तरङ्गहस्ता च ललिता लयभङ्गिगा ।
लोकबन्धुर्लोकधात्री लोकोत्तरगुणोर्जिता ॥
॥१५३॥लोकत्रयहिता लोका लक्ष्मीर्लक्षणलक्षिता ।
लीला लक्षितनिर्वाणा लावण्यामृतवर्षिणी ॥
॥१५४॥वैश्वानरी वासवेड्या वन्ध्यत्वपरिहारिणी ।
वासुदेवाङ्घ्रिरेणुघ्नी वज्रिवज्रनिवारिणी ॥
॥१५५॥शुभावती शुभफला शान्तिः शन्तनुवल्लभा ।
शूलिनी शैशववयाः शीतलामृतवाहिनी ॥
॥१५६॥शोभावती शीलवती शोषिताशेषकिल्बिषा ।
शरण्या शिवदा शिष्टा शरजन्मप्रसूःशिवा ॥
॥१५७॥शक्तिः शशाङ्कविमला शमनस्वसृसम्मता ।
शमा शमनमार्गघ्नी शितिकण्ठमहाप्रिया ॥
॥१५८॥शुचिः शुचिकरी शेषा शेषशायिपदोद्भवा ।
श्रीनिवासश्रुतिः श्रद्धा श्रीमती श्रीः शुभव्रता ॥
॥१५९॥शुद्धविद्या शुभावर्ता श्रुतानन्दा श्रुतिस्तुतिः ।
शिवेतरघ्नी शबरी शाम्बरीरूपधारिणी ॥
॥१६०॥श्मशानशोधनी शान्ता शश्वच्छतधृतिस्तुता ।
शालिनी शालिशोभाढ्या शिखिवाहनगर्भभृत् ॥
॥१६१॥शंसनीयचरित्रा च शातिताशेषपातका ।
षड्गुणैश्वर्यसम्पन्ना षडङ्गश्रुतिरूपिणी ॥
॥१६२॥षण्ढताहारिसलिला स्त्यायन्नदनदीशता ।
सरिद्वारा च सुरसा सुप्रभा सुरदीर्घिका ॥
॥१६३॥स्वः सिन्धुः सर्वदुःखघ्नी सर्वव्याधिमहौषधम् ।
सेव्या सिद्धिः सती सूक्तिः स्कन्दसूश्च सरस्वती ॥
॥१६४॥सम्पत्तरङ्गिणी स्तुत्या स्थाणुमौलिकृतालया ।
स्थैर्यदा सुभगा सौख्या स्त्रीषु सौभाग्यदायिनी ॥
॥१६५॥स्वर्गनिःश्रेणिका सूमा स्वधा स्वाहा सुधाजला ।
समुद्ररूपिणी स्वर्ग्या सर्वपातकवैरिणी ॥
॥१६६॥स्मृताघहारिणी सीता संसाराब्धितरण्डिका ।
सौभाग्यसुन्दरी सन्ध्या सर्वसारसमन्विता ॥
॥१६७॥हरप्रिया हृषीकेशी हंसरूपा हिरण्मयी ।
हृताघसङ्घा हितकृद्धेला हेलाघगर्वहृत् ॥
॥१६८॥क्षेमदा क्षालिताघौघा क्षुद्रविद्राविणी क्षमा ।
॥१६९॥गङ्गेति नामसाहस्रं गङ्गायाः कलशोद्भव ।
कीर्तयित्वा नरः सम्यग्गङ्गास्नानफलं लभेत् ॥
॥१७०॥सर्वपापप्रशमनं सर्वविघ्नविनाशनम् ।
सर्वस्तोत्रजपाच्छ्रेष्ठं सर्वपावनपावनम् ॥
॥१७१॥श्रद्धयाभीष्टफलदं चतुर्वर्गसमृद्धिकृत् ।
सकृज्जपादवाप्नोति ह्येकक्रतुफलं मुने ॥
॥१७२॥सर्वतीर्थेषु यः स्नातः सर्वयज्ञेषु दीक्षितः ।
तस्य यत्फलमुद्दिष्टं त्रिकालपठनाच्च तत् ॥
॥१७३॥सर्वव्रतेषु यत्पुण्यं सम्यक्चीर्णेषु वाडव ।
तत्फलं समवाप्नोति त्रिसन्ध्यं नियतः पठन् ॥
॥१७४॥स्नानकाले पठेद्यस्तु यत्र कुत्र जलाशये ।
तत्र सन्निहिता नूनं गङ्गा त्रिपथगा मुने ॥
॥१७५॥श्रेयोऽर्थी लभते श्रेयो धनार्थी लभते धनम् ।
कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥
॥१७६॥वर्षं त्रिकालपठनाच्छ्रद्धया शुचिमानसः ।
ऋतुकालाभिगमनादपुत्रः पुत्रवान् भवेत् ॥
॥१७७॥नाकालमरणं तस्य नाग्निचोराहिसाध्वसम् ।
नाम्नां सहस्रं गङ्गाया यो जपेच्छ्रद्धया मुने ॥
॥१७८॥गङ्गानामसहस्रं तु जप्त्वा ग्रामान्तरं व्रजेत् ।
कार्यसिद्धिमवाप्नोति निर्विघ्नो गेहमाविशेत् ॥
॥१७९॥तिथिवारर्क्षयोगानां न दोषः प्रभवेत्तदा ।
यदा जप्त्वा व्रजेदेतत् स्तोत्रं ग्रामान्तरं नरः ॥
॥१८०॥आयुरारोग्यजननं सर्वोपद्रवनाशनम् ।
सर्वसिद्धिकरं पुंसां गङ्गानामसहस्रकम् ॥
॥१८१॥जन्मान्तरसहस्रेषु यत्पापं सम्यगर्जितम् ।
गङ्गानामसहस्रस्य जपनात्तत्क्षयं व्रजेत् ॥
॥१८२॥ब्रह्मघ्नो मद्यपः स्वर्णस्तेयी च गुरुतल्पगः ।
तत्संयोगी भ्रूणहन्ता मातृहा पितृहा मुने ॥
॥१८३॥विश्वासघाती गरदः कृतघ्नो मित्रघातकः ।
अग्निदो गोवधकरो गुरुद्रव्यापहारकः ॥
॥१८४॥महापातकयुक्तोऽपि संयुक्तोऽप्युपपातकैः ।
मुच्यते श्रद्धया जप्त्वा गङ्गानामसहस्रकम् ॥
॥१८५॥आधिव्याधिपरिक्षिप्तो घोरतापपरिप्लुतः ।
मुच्यते सर्वदुःखेभ्यः स्तवस्यास्यानुकीर्तनात् ॥
॥१८६॥संवत्सरेण युक्तात्मा पठन् भक्तिपरायणः ।
अभीप्सितां लभेत्सिद्धिं सर्वैः पापैः प्रमुच्यते ॥
॥१८७॥संशयाविष्टचित्तस्य धर्मविद्वेषिणोऽपि च ।
दाम्भिकस्यापि हिंस्रस्य चेतो धर्मपरं भवेत् ॥
॥१८८॥वर्णाश्रमपथीनस्तु कामक्रोधविवर्जितः ।
यत्फलं लभते ज्ञानी तदाप्नोत्यस्य कीर्तनात् ॥
॥१८९॥गायत्र्ययुतजप्येन यत्फलं समुपार्जितम् ।
सकृत्पठनतः सम्यक्तदशेषमवाप्नुयात् ॥
॥१९०॥गां दत्त्वा वेदविदुषे यत्फलं लभते कृती ।
तत्पुण्यं सम्यगाख्यातं स्तवराजसकृज्जपात् ॥
॥१९१॥गुरुशुश्रूषणं कुर्वन् यावज्जीवं नरोत्तमः ।
यत्पुण्यमर्जयेत्तद्भाग्वर्षं त्रिषवणं जपन् ॥
॥१९२॥वेदपारायणात्पुण्यं यदत्र परिपठ्यते ।
तत्षण्मासेन लभते त्रिसन्ध्यं परिकीर्तनात् ॥
॥१९३॥गङ्गायाः स्तवराजस्य प्रत्यहं परिशीलनात् ।
शिवभक्तिमवाप्नोति विष्णुभक्तोऽथवा भवेत् ॥
॥१९४॥यः कीर्तयेदनुदिनं गङ्गानामसहस्रकम् ।
तत्समीपे सहचरी गङ्गादेवी सदा भवेत् ॥
॥१९५॥सर्वत्र पूज्यो भवति सर्वत्र विजयी भवेत् ।
सर्वत्र सुखमाप्नोति जाह्नवीस्तोत्रपाठतः ॥
॥१९६॥सदाचारी स विज्ञेयः स शुचिस्तु सदैव हि ।
कृतसर्वसुरार्चः स कीर्तयेद्य इमां स्तुतिम् ॥
॥१९७॥तस्मिंस्तृप्ते भवेत् तृप्ता जाह्नवी नात्र संशयः ।
तस्मात्सर्वप्रयत्नेन गङ्गाभक्तं समर्चयेत् ॥
॥१९८॥स्तवराजमिमं गाङ्गं शृणुयाद्यश्च वै पठेत् ।
श्रावयेदथ तद्भक्तान् दम्भलोभविवर्जितः ॥
॥१९९॥मुच्यते त्रिविधैः पापैर्मनोवाक्कायसम्भवैः ।
क्षणान्निष्पापतामेति पितॄणां च प्रियो भवेत् ॥
॥२००॥सर्वदेवप्रियश्चापि सर्वर्षिगणसम्मतः ।
अन्ते विमानमारुह्यं दिव्यस्त्रीशतसंवृतः ॥
॥२०१॥दिव्याभरणसम्पन्नो दिव्यभोगसमन्वितः ।
नन्दनादिवने स्वैरं देववत्स प्रमोदते ॥
॥२०२॥भुज्यमानेषु विप्रेषु श्राद्धकाले विशेषतः ।
जपन्निदं महास्तोत्रं पितॄणां तृप्तिकारकम् ॥
॥२०३॥यावन्ति तत्र सिक्थानि यावन्तोऽम्बुकणाः स्थिताः ।
तावन्त्येव हि वर्षाणि मोदन्ते स्वपितामहाः ॥
॥२०४॥यथा प्रीणन्ति पितरो प्रीणन्ति गङ्गायां पिण्डदानतः ।
तथैव तृप्नुयुः श्राद्धे स्तवस्यास्यानुसंश्रवात् ॥
॥२०५॥एतत्स्तोत्रं गृहे यस्य लिखितं परिपूज्यते ।
तत्र पापभयं नास्ति शुचि तद्भवनं सदा ॥
॥२०६॥अगस्ते किं बहूक्तेन शृणु मे निश्चितं वचः ।
संशयो नात्र कर्तव्यः सन्देग्धरि फलं नहि ॥
॥२०७॥यावन्ति मर्त्ये स्तोत्राणि मन्त्रजालान्यनेकशः ।
तावन्ति स्तवराजस्य गाङ्गेयस्य समानि न ॥
॥२०८॥यावज्जन्म जपेद्यस्तु नाम्नामेतत्सहस्रकम् ।
स कीकटेष्वपि मृतो न पुनर्गर्भमाविशेत् ॥
॥२०९॥नित्यं नियमवानेतद्यो जपेत्स्तोत्रमुत्तमम् ।
अन्यत्रापि विपन्नः स गङ्गातीरे मृतो भवेत् ॥
॥२१०॥एतत्स्तोत्रवरं रम्यं पुरा प्रोक्तं पिनाकिना ।
विष्णवे निजभक्ताय मुक्तिबीजाक्षरास्पदम् ॥
॥२११॥गङ्गास्नानप्रतिनिधिः स्तोत्रमेतन्मयेरितम् ।
सिस्नासुर्जाह्नवीं तस्मादेतत्स्तोत्रं जपेत्सुधीः ॥
॥२१२॥इति श्रीस्कन्दपुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्धे गङ्गासहस्रनामकथनं नाम एकोनत्रिंशत्तमोऽध्यायः