मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

षष्ठीदेवीस्तोत्रम्

3

श्रीप्रियव्रतविरचितम्

नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।

शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥

॥१॥

वरदायै पुत्रदायै धनदायै नमो नमः ।

सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥

॥२॥

शक्तेः षष्ठांशरूपायै सिद्धायै च नमो नमः ।

मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥

॥३॥

पारायै पारदायै च षष्ठीदेव्यै नमो नमः ।

सारायै सारदायै च पारायै सर्वकर्मणाम् ॥

॥४॥

बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः

कल्याणदायै कल्याण्यै फलदायै च कर्मणाम्

प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ॥

॥५॥

पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ।

देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ॥

॥६॥

शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ।

हिंसाक्रोधैर्वर्जितायै षष्ठीदेव्यै नमो नमः ॥

॥७॥

धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ।

धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ॥

॥८॥

भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते ।

कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥

॥९॥

इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ।

यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः ॥

॥१०॥

षष्ठीस्तोत्रमिदं ब्रह्मण् यः शृणोति च वत्सरम् ।

अपुत्रो लभते पुत्रं वरं सुचिरजीवनम् ॥

॥११॥

वर्षमेकं च या भक्त्या संयतेदं शृणोति च ।

सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते ॥

॥१२॥

वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ।

सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः ॥

॥१३॥

काकवन्ध्या च या नारी मृतापत्या च या भवेत् ।

वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ॥

॥१४॥

रोगयुक्ते च बाले च पिता माता शृणोति च ।

मासं च मुच्यते बालः षष्ठीदेवीप्रसादतः ॥

॥१५॥

इति श्री-ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे श्री-नारद-नारायण-संवादे षष्ठ्युपाख्याने श्री-प्रियव्रतविरचितं श्री-षष्ठीदेवीस्तोत्रं सम्पूर्णम्