ध्यानम्
सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां
करधृतकलशोद्यत्सोपलाभीत्यभीष्टाम् ।
विधिहरिरूपां सेन्दुकोटीरजूटां
कलितसितदुकूलां जाह्नवी तां नमामि ॥
- १ॐ ओङ्काररूपिण्यै नमः
- २ॐ अजरायै नमः
- ३ॐ अतुलायै नमः
- ४ॐ अनन्तायै नमः
- ५ॐ अमृतस्रवायै नमः
- ६ॐ अत्युदारायै नमः
- ७ॐ अभयायै नमः
- ८ॐ अशोकायै नमः
- ९ॐ अलकनन्दायै नमः
- १०ॐ अमृतायै नमः
- ११ॐ अमलायै नमः
- १२ॐ अनाथवत्सलायै नमः
- १३ॐ अमोघायै नमः
- १४ॐ अपां योनये नमः
- १५ॐ अमृतप्रदायै नमः
- १६ॐ अव्यक्तलक्षणायै नमः
- १७ॐ अक्षोभ्यायै नमः
- १८ॐ अनवच्छिन्नायै नमः
- १९ॐ अपरायै नमः
- २०ॐ अजितायै नमः
- २१ॐ अनाथनाथायै नमः
- २२ॐ अभीष्टार्थसिद्धिदायै नमः
- २३ॐ अनङ्गवर्धिन्यै नमः
- २४ॐ अणिमादिगुणायै नमः
- २५ॐ अधारायै नमः
- २६ॐ अग्रगण्यायै नमः
- २७ॐ अलीकहारिण्यै नमः
- २८ॐ अचिन्त्यशक्तये नमः
- २९ॐ अनघायै नमः
- ३०ॐ अद्भुतरूपायै नमः
- ३१ॐ अघहारिण्यै नमः
- ३२ॐ अद्रिराजसुतायै नमः
- ३३ॐ अष्टाङ्गयोगसिद्धिप्रदायै नमः
- ३४ॐ अच्युतायै नमः
- ३५ॐ अक्षुण्णशक्तये नमः
- ३६ॐ असुदायै नमः
- ३७ॐ अनन्ततीर्थायै नमः
- ३८ॐ अमृतोदकायै नमः
- ३९ॐ अनन्तमहिम्ने नमः
- ४०ॐ अपारायै नमः
- ४१ॐ अनन्तसौख्यप्रदायै नमः
- ४२ॐ अन्नदायै नमः
- ४३ॐ अशेषदेवतामूर्तये नमः
- ४४ॐ अघोरायै नमः
- ४५ॐ अमृतरूपिण्यै नमः
- ४६ॐ अविद्याजालशमन्यै नमः
- ४७ॐ अप्रतर्क्यगतिप्रदायै नमः
- ४८ॐ अशेषविघ्नसंहर्त्र्यै नमः
- ४९ॐ अशेषगुणगुम्फितायै नमः
- ५०ॐ अज्ञानतिमिरज्योतिषे नमः
- ५१ॐ अनुग्रहपरायणायै नमः
- ५२ॐ अभिरामायै नमः
- ५३ॐ अनवद्याङ्ग्यै नमः
- ५४ॐ अनन्तसारायै नमः
- ५५ॐ अकलङ्किन्यै नमः
- ५६ॐ आरोग्यदायै नमः
- ५७ॐ आनन्दवल्ल्यै नमः
- ५८ॐ आपन्नार्तिविनाशिन्यै नमः
- ५९ॐ आश्चर्यमूर्तये नमः
- ६०ॐ आयुष्यायै नमः
- ६१ॐ आढ्यायै नमः
- ६२ॐ आद्यायै नमः
- ६३ॐ आप्रायै नमः
- ६४ॐ आर्यसेवितायै नमः
- ६५ॐ आप्यायिन्यन्यै नमः
- ६६ॐ आप्तविद्यायै नमः
- ६७ॐ आख्यायै नमः
- ६८ॐ आनन्दायै नमः
- ६९ॐ आश्वासदायिन्यै नमः
- ७०ॐ आलस्यघ्न्यै नमः
- ७१ॐ आपदां हन्त्र्यै नमः
- ७२ॐ आनन्दामृतवर्षिण्यै नमः
- ७३ॐ इरावत्यै नमः
- ७४ॐ इष्टदात्र्यै नमः
- ७५ॐ इष्टायै नमः
- ७६ॐ इष्टापूर्तफलप्रदायै नमः
- ७७ॐ इतिहासश्रुतीड्यार्थायै नमः
- ७८ॐ इहामुत्रशुभप्रदायै नमः
- ७९ॐ इज्याशीलसमिज्येष्ठायै नमः
- ८०ॐ इन्द्रादिपरिवन्दितायै नमः
- ८१ॐ इलालङ्कारमालायै नमः
- ८२ॐ इद्धायै नमः
- ८३ॐ इन्दिरारम्यमन्दिरायै नमः
- ८४ॐ इते नमः
- ८५ॐ इन्दिरादिसंसेव्यायै नमः
- ८६ॐ ईश्वर्यै नमः
- ८७ॐ ईश्वरवल्लभायै नमः
- ८८ॐ ईतिभीतिहरायै नमः
- ८९ॐ ईड्यायै नमः
- ९०ॐ ईडनीयचरित्रभृते नमः
- ९१ॐ उत्कृष्टशक्तये नमः
- ९२ॐ उत्कृष्टायै नमः
- ९३ॐ उडुपमण्डलचारिण्यै नमः
- ९४ॐ उदिताम्बरमार्गायै नमः
- ९५ॐ उस्रायै नमः
- ९६ॐ उरगलोकविहारिण्यै नमः
- ९७ॐ उक्षायै नमः
- ९८ॐ उर्वरायै नमः
- ९९ॐ उत्पलायै नमः
- १००ॐ उत्कुम्भायै नमः
- १०१ॐ उपेन्द्रचरणद्रवायै नमः
- १०२ॐ उदन्वत्पूर्तिहेतवे नमः
- १०३ॐ उदारायै नमः
- १०४ॐ उत्साहप्रवर्धिन्यै नमः
- १०५ॐ उद्वेगघ्न्यै नमः
- १०६ॐ उष्णशमन्यै नमः
- १०७ॐ उष्णरश्मिसुताप्रियायै नमः
- १०८ॐ उत्पत्तिस्थितिसंहारकारिण्यै नमः
- १०९ॐ उपरिचारिण्यै नमः
- ११०ॐ ऊर्जंवहन्त्यि नमः
- १११ॐ ऊर्जधरायै नमः
- ११२ॐ उर्जावत्यै नमः
- ११३ॐ उर्मिमालिन्यै नमः
- ११४ॐ ऊर्ध्वरेतःप्रियायै नमः
- ११५ॐ ऊर्ध्वाध्वायै नमः
- ११६ॐ ऊर्मिलायै नमः
- ११७ॐ ऊर्ध्वगतिप्रदायै नमः
- ११८ॐ ऋषिवृन्दस्तुतायै नमः
- ११९ॐ ऋद्धये नमः
- १२०ॐ ऋणत्रयविनाशिन्यै नमः
- १२१ॐ ऋतम्भरायै नमः
- १२२ॐ ऋद्धिदात्र्यै नमः
- १२३ॐ ऋक्स्वरूपायै नमः
- १२४ॐ ऋजुप्रियायै नमः
- १२५ॐ ऋक्षमार्गवहायै नमः
- १२६ॐ ऋक्षार्चिषे नमः
- १२७ॐ ऋजुमार्गप्रदर्शिन्यै नमः
- १२८ॐ एधिताखिलधर्मार्थायै नमः
- १२९ॐ एकस्यै नमः
- १३०ॐ एकामृतदायिन्यै नमः
- १३१ॐ एधनीयस्वभावायै नमः
- १३२ॐ एज्यायै नमः
- १३३ॐ एजिताशेषपातकायै नमः
- १३४ॐ ऐश्वर्यदायै नमः
- १३५ॐ ऐश्वर्यरूपायै नमः
- १३६ॐ ऐतिह्यायै नमः
- १३७ॐ ऐन्दवद्युतये नमः
- १३८ॐ ओजस्विन्यै नमः
- १३९ॐ ओषधीक्षेत्रायै नमः
- १४०ॐ ओजोदायै नमः
- १४१ॐ ओदनदायिन्यै नमः
- १४२ॐ ओष्ठामृतायै नमः
- १४३ॐ औन्नत्यदात्र्यै नमः
- १४४ॐ भवरोगिणामौषधायै नमः
- १४५ॐ औदार्यचञ्चवे नमः
- १४६ॐ औपेन्द्र्यै नमः
- १४७ॐ औग्र्यै नमः
- १४८ॐ औमेयरूपिण्यै नमः
- १४९ॐ अम्बराध्ववहायै नमः
- १५०ॐ अम्बष्ठायै नमः
- १५१ॐ अम्बरमालायै नमः
- १५२ॐ अम्बुजेक्षणायै नमः
- १५३ॐ अम्बिकायै नमः
- १५४ॐ अम्बुमहायोनवे नमः
- १५५ॐ अन्धोदायै नमः
- १५६ॐ अन्धकहारिण्यै नमः
- १५७ॐ अंशुमालायै नमः
- १५८ॐ अंशुमत्यै नमः
- १५९ॐ अङ्गीकृतषडाननायै नमः
- १६०ॐ अन्धतामिस्रहन्त्र्यै नमः
- १६१ॐ अन्धवे नमः
- १६२ॐ अञ्जनायै नमः
- १६३ॐ अञ्जनावत्यै नमः
- १६४ॐ कल्याणकारिण्यै नमः
- १६५ॐ काम्यायै नमः
- १६६ॐ कमलोत्पलगन्धिन्यै नमः
- १६७ॐ कुमुद्वत्यै नमः
- १६८ॐ कमलिन्यै नमः
- १६९ॐ कान्तये नमः
- १७०ॐ कल्पितदायिन्यै नमः
- १७१ॐ काञ्चनाक्ष्यै नमः
- १७२ॐ कामधेनवे नमः
- १७३ॐ कीर्तिकृते नमः
- १७४ॐ क्लेशनाशिन्यै नमः
- १७५ॐ क्रतुश्रेष्ठायै नमः
- १७६ॐ क्रतुफलायै नमः
- १७७ॐ कर्मबन्धविभेदिन्यै नमः
- १७८ॐ कमलाक्ष्यै नमः
- १७९ॐ क्लमहरायै नमः
- १८०ॐ कृशानुतपनद्युतये नमः
- १८१ॐ करुणार्द्रायै नमः
- १८२ॐ कल्याण्यै नमः
- १८३ॐ कलिकल्मषनाशिन्यै नमः
- १८४ॐ कामरूपायै नमः
- १८५ॐ क्रियाशक्तये नमः
- १८६ॐ कमलोत्पलमालिन्यै नमः
- १८७ॐ कूटस्थायै नमः
- १८८ॐ करुणायै नमः
- १८९ॐ कान्तायै नमः
- १९०ॐ कूर्मयानायै नमः
- १९१ॐ कलावत्यै नमः
- १९२ॐ कमलायै नमः
- १९३ॐ कल्पलतिकायै नमः
- १९४ॐ काल्यै नमः
- १९५ॐ कलुषवैरिण्यै नमः
- १९६ॐ कमनीयजलायै नमः
- १९७ॐ कम्रायै नमः
- १९८ॐ कपर्दिसुकपर्दगायै नमः
- १९९ॐ कालकूटप्रशमन्यै नमः
- २००ॐ कदम्बकुसुमप्रियायै नमः
- २०१ॐ कालिन्द्यै नमः
- २०२ॐ केलिललितायै नमः
- २०३ॐ कलकल्लोलमालिकायै नमः
- २०४ॐ क्रान्तलोकत्रयायै नमः
- २०५ॐ कण्ड्वै नमः
- २०६ॐ कण्डूतनयवत्सलायै नमः
- २०७ॐ खड्गिन्यै नमः
- २०८ॐ खड्गधाराभायै नमः
- २०९ॐ खगायै नमः
- २१०ॐ खण्डेन्दुधारिण्यै नमः
- २११ॐ खेखेलगामिन्यै नमः
- २१२ॐ खस्थायै नमः
- २१३ॐ खण्डेन्दुतिलकप्रियायै नमः
- २१४ॐ खेचर्यै नमः
- २१५ॐ खेचरीवन्द्यायै नमः
- २१६ॐ ख्यातायै नमः
- २१७ॐ ख्यातिप्रदायिन्यै नमः
- २१८ॐ खण्डितप्रणताघौघायै नमः
- २१९ॐ खलबुद्धिविनाशिन्यै नमः
- २२०ॐ खातैनः कन्दसन्दोहायै नमः
- २२१ॐ खड्गखट्वाङ्ग खेटिन्यै नमः
- २२२ॐ खरसन्तापशमन्यै नमः
- २२३ॐ पीयूषपाथसां खनये नमः
- २२४ॐ गङ्गायै नमः
- २२५ॐ गन्धवत्यै नमः
- २२६ॐ गौर्यै नमः
- २२७ॐ गन्धर्वनगरप्रियायै नमः
- २२८ॐ गम्भीराङ्ग्यै नमः
- २२९ॐ गुणमय्यै नमः
- २३०ॐ गतातङ्कायै नमः
- २३१ॐ गतिप्रियायै नमः
- २३२ॐ गणनाथाम्बिकायै नमः
- २३३ॐ गीतायै नमः
- २३४ॐ गद्यपद्यपरिष्टुतायै नमः
- २३५ॐ गान्धार्यै नमः
- २३६ॐ गर्भशमन्यै नमः
- २३७ॐ गतिभ्रष्टगतिप्रदायै नमः
- २३८ॐ गोमत्यै नमः
- २३९ॐ गुह्यविद्यायै नमः
- २४०ॐ गवे नमः
- २४१ॐ गोप्त्र्यै नमः
- २४२ॐ गगनगामिन्यै नमः
- २४३ॐ गोत्रप्रवर्धिन्यै नमः
- २४४ॐ गुण्यायै नमः
- २४५ॐ गुणातीतायै नमः
- २४६ॐ गुणाग्रण्यै नमः
- २४७ॐ गुहाम्बिकायै नमः
- २४८ॐ गिरिसुतायै नमः
- २४९ॐ गोविन्दाङ्घ्रिसमुद्भवायै नमः
- २५०ॐ गुणनीयचरित्रायै नमः
- २५१ॐ गायत्र्यै नमः
- २५२ॐ गिरिशप्रियायै नमः
- २५३ॐ गूढरूपायै नमः
- २५४ॐ गुणवत्यै नमः
- २५५ॐ गुर्व्यै नमः
- २५६ॐ गौरववर्धिन्यै नमः
- २५७ॐ ग्रहपीडाहरायै नमः
- २५८ॐ गुन्द्रायै नमः
- २५९ॐ गरघ्न्यै नमः
- २६०ॐ गानवत्सलायै नमः
- २६१ॐ घर्महन्त्र्यै नमः
- २६२ॐ घृतवत्यै नमः
- २६३ॐ घृततुष्टिप्रदायिन्यै नमः
- २६४ॐ घण्टारवप्रियायै नमः
- २६५ॐ घोराघौघविध्वंसकारिण्यै नमः
- २६६ॐ घ्राणतुष्टिकर्यै नमः
- २६७ॐ घोषायै नमः
- २६८ॐ घनानन्दायै नमः
- २६९ॐ घनप्रियायै नमः
- २७०ॐ घातुकायै नमः
- २७१ॐ घूर्णितजलायै नमः
- २७२ॐ घृष्टपातकसन्तत्यै नमः
- २७३ॐ घटकोटिप्रपीतापायै नमः
- २७४ॐ घटिताशेषमङ्गलायै नमः
- २७५ॐ घृणावत्यै नमः
- २७६ॐ घृणिनिधये नमः
- २७७ॐ घस्मरायै नमः
- २७८ॐ घूकनादिन्यै नमः
- २७९ॐ घुसृणापिञ्जरतनवे नमः
- २८०ॐ घर्घरायै नमः
- २८१ॐ घर्घरस्वनायै नमः
- २८२ॐ चन्द्रिकायै नमः
- २८३ॐ चन्द्रकान्ताम्बवे नमः
- २८४ॐ चञ्चदापायै नमः
- २८५ॐ चलद्युतये नमः
- २८६ॐ चिन्मय्यै नमः
- २८७ॐ चितिरूपायै नमः
- २८८ॐ चन्द्रायुतशताननायै नमः
- २८९ॐ चाम्पेयलोचनायै नमः
- २९०ॐ चारवे नमः
- २९१ॐ चार्वङ्ग्यै नमः
- २९२ॐ चारुगामिन्यै नमः
- २९३ॐ चार्यायै नमः
- २९४ॐ चारित्रनिलयायै नमः
- २९५ॐ चित्रकृते नमः
- २९६ॐ चित्ररूपिण्यै नमः
- २९७ॐ चम्प्वै नमः
- २९८ॐ चन्दनशुच्यम्बवे नमः
- २९९ॐ चर्चनीयायै नमः
- ३००ॐ चिरस्थिरायै नमः
- ३०१ॐ चारुचम्पकमालाढ्यायै नमः
- ३०२ॐ चमिताशेषदुष्कृतायै नमः
- ३०३ॐ चिदाकाशवहायै नमः
- ३०४ॐ चिन्त्यायै नमः
- ३०५ॐ चञ्चते नमः
- ३०६ॐ चामरवीजितायै नमः
- ३०७ॐ चोरिताशेषवृजिनायै नमः
- ३०८ॐ चरिताशेषमण्डलायै नमः
- ३०९ॐ छेदिताखिलपापौघायै नमः
- ३१०ॐ छद्मघ्न्यै नमः
- ३११ॐ छलहारिण्यै नमः
- ३१२ॐ छन्नत्रिविष्टपतलायै नमः
- ३१३ॐ छोटिताशेषबन्धनायै नमः
- ३१४ॐ छुरितामृतधारौघायै नमः
- ३१५ॐ छिन्नैनसे नमः
- ३१६ॐ छन्दगामिन्यै नमः
- ३१७ॐ छत्रीकृतमरालौघायै नमः
- ३१८ॐ छटीकृतनिजामृतायै नमः
- ३१९ॐ जाह्नव्यै नमः
- ३२०ॐ ज्यायै नमः
- ३२१ॐ जगन्मात्रे नमः
- ३२२ॐ जप्यायै नमः
- ३२३ॐ जङ्घालवीचिकायै नमः
- ३२४ॐ जयायै नमः
- ३२५ॐ जनार्दनप्रीतायै नमः
- ३२६ॐ जुषणीयायै नमः
- ३२७ॐ जगद्धितायै नमः
- ३२८ॐ जीवनायै नमः
- ३२९ॐ जीवनप्राणायै नमः
- ३३०ॐ जगते नमः
- ३३१ॐ ज्येष्ठायै नमः
- ३३२ॐ जगन्मय्यै नमः
- ३३३ॐ जीवजीवातुलतिकायै नमः
- ३३४ॐ जन्मिजन्मनिबर्हिण्यै नमः
- ३३५ॐ जाड्यविध्वंसनकर्यै नमः
- ३३६ॐ जगद्योनये नमः
- ३३७ॐ जलाविलायै नमः
- ३३८ॐ जगदानन्दजनन्यै नमः
- ३३९ॐ जलजायै नमः
- ३४०ॐ जलजेक्षणायै नमः
- ३४१ॐ जनलोचनपीयूषायै नमः
- ३४२ॐ जटातटविहारिण्यै नमः
- ३४३ॐ जयन्त्यै नमः
- ३४४ॐ जञ्जपूकघ्न्यै नमः
- ३४५ॐ जनितज्ञानविग्रहायै नमः
- ३४६ॐ झल्लरीवाद्यकुशलायै नमः
- ३४७ॐ झलज्झालजलावृतायै नमः
- ३४८ॐ झिण्टीशवन्द्यायै नमः
- ३४९ॐ झङ्कारकारिण्यै नमः
- ३५०ॐ झर्झरावत्यै नमः
- ३५१ॐ टीकिताशेषपातालायै नमः
- ३५२ॐ एनोद्रिपाटने टङ्किकैयै नमः
- ३५३ॐ टङ्कारनृत्यत्कल्लोलायै नमः
- ३५४ॐ टीकनीयमहातटायै नमः
- ३५५ॐ डम्बरप्रवहायै नमः
- ३५६ॐ डीनराजहंसकुलाकुलायै नमः
- ३५७ॐ डमड्डमरुहस्तायै नमः
- ३५८ॐ डामरोक्तमहाण्डकायै नमः
- ३५९ॐ ढौकिताशेषनिर्वाणायै नमः
- ३६०ॐ ढक्कानादचलज्जलायै नमः
- ३६१ॐ ढुण्ढिविघ्नेशजनन्यै नमः
- ३६२ॐ ढणढ्ढणितपातकायै नमः
- ३६३ॐ तर्पण्यै नमः
- ३६४ॐ तीर्थतीर्थायै नमः
- ३६५ॐ त्रिपथायै नमः
- ३६६ॐ त्रिदशेश्वर्यै नमः
- ३६७ॐ त्रिलोकगोप्त्र्यै नमः
- ३६८ॐ तोयेश्यै नमः
- ३६९ॐ त्रैलोक्यपरिवन्दितायै नमः
- ३७०ॐ तापत्रितयसंहर्त्र्यै नमः
- ३७१ॐ तेजोबलविवर्धिन्यै नमः
- ३७२ॐ त्रिलक्ष्यायै नमः
- ३७३ॐ तारण्यै नमः
- ३७४ॐ तारायै नमः
- ३७५ॐ तारापतिकरार्चितायै नमः
- ३७६ॐ त्रैलोक्यपावनिपुण्यायै नमः
- ३७७ॐ तुष्टिदायै नमः
- ३७८ॐ तुष्टिरूपिण्यै नमः
- ३७९ॐ तृष्णाच्छेत्र्यै नमः
- ३८०ॐ तीर्थमात्रे नमः
- ३८१ॐ त्रिविक्रमपदोद्भवायै नमः
- ३८२ॐ तपोमय्यै नमः
- ३८३ॐ तपोरूपायै नमः
- ३८४ॐ तपःस्तोमफलप्रदायै नमः
- ३८५ॐ त्रैलोक्यव्यापिन्यै नमः
- ३८६ॐ तृप्त्यै नमः
- ३८७ॐ तृप्तिकृते नमः
- ३८८ॐ तत्त्वरूपिण्यै नमः
- ३८९ॐ त्रैलोक्यसुन्दर्यै नमः
- ३९०ॐ तुर्यायै नमः
- ३९१ॐ तुर्यातीतफलप्रदायै नमः
- ३९२ॐ त्रैलोक्यलक्ष्म्यै नमः
- ३९३ॐ त्रिपद्यै नमः
- ३९४ॐ तथ्यायै नमः
- ३९५ॐ तिमिरचन्द्रिकायै नमः
- ३९६ॐ तेजोगर्भायै नमः
- ३९७ॐ तपःसारायै नमः
- ३९८ॐ त्रिपुरारिशिरोगृहायै नमः
- ३९९ॐ त्रयीस्वरूपिण्यै नमः
- ४००ॐ तन्व्यै नमः
- ४०१ॐ तपनाङ्गजभीतिनुदे नमः
- ४०२ॐ तरये नमः
- ४०३ॐ तरणिजामित्रायै नमः
- ४०४ॐ तर्पिताशेषपूर्वजायै नमः
- ४०५ॐ तुलाविरहितायै नमः
- ४०६ॐ तीव्रपापतूलतनूनपाते नमः
- ४०७ॐ दारिद्र्यदमन्यै नमः
- ४०८ॐ दक्षायै नमः
- ४०९ॐ दुष्प्रेक्षायै नमः
- ४१०ॐ दिव्यमण्डनायै नमः
- ४११ॐ दीक्षावत्यै नमः
- ४१२ॐ दुरावाप्यायै नमः
- ४१३ॐ द्राक्षामधुरवारिभृते नमः
- ४१४ॐ दर्शितानेककुतुकायै नमः
- ४१५ॐ दुष्टदुर्जयदुःखहृते नमः
- ४१६ॐ दैन्यहृते नमः
- ४१७ॐ दुरितघ्न्यै नमः
- ४१८ॐ दानवारिपदाब्जजायै नमः
- ४१९ॐ दन्दशूकविषघ्न्यै नमः
- ४२०ॐ दारिताघौघसन्ततायै नमः
- ४२१ॐ द्रुतायै नमः
- ४२२ॐ देवद्रुमच्छन्नायै नमः
- ४२३ॐ दुर्वाराघविघातिन्यै नमः
- ४२४ॐ दमग्राह्यायै नमः
- ४२५ॐ देवमात्रे नमः
- ४२६ॐ देवलोकप्रदर्शिन्यै नमः
- ४२७ॐ देवदेवप्रियायै नमः
- ४२८ॐ देव्यै नमः
- ४२९ॐ दिक्पालपददायिन्यै नमः
- ४३०ॐ दीर्घायुष्कारिण्यै नमः
- ४३१ॐ दीर्घायै नमः
- ४३२ॐ दोग्ध्र्यै नमः
- ४३३ॐ दूषणवर्जितायै नमः
- ४३४ॐ दुग्धाम्बुवाहिन्यै नमः
- ४३५ॐ दोह्यायै नमः
- ४३६ॐ दिव्यायै नमः
- ४३७ॐ दिव्यगतिप्रदायै नमः
- ४३८ॐ द्युनद्यै नमः
- ४३९ॐ दीनशरणायै नमः
- ४४०ॐ देहिदेहनिवारिण्यै नमः
- ४४१ॐ द्राघीयस्यै नमः
- ४४२ॐ दाघहन्त्र्यै नमः
- ४४३ॐ दितपातकसन्तत्यै नमः
- ४४४ॐ दूरदेशान्तरचर्यै नमः
- ४४५ॐ दुर्गमायै नमः
- ४४६ॐ देववल्लभायै नमः
- ४४७ॐ दुर्वृत्तघ्न्यै नमः
- ४४८ॐ दुर्विगाह्यायै नमः
- ४४९ॐ दयाधारायै नमः
- ४५०ॐ दयावत्यै नमः
- ४५१ॐ दुरासदायै नमः
- ४५२ॐ दानशीलायै नमः
- ४५३ॐ द्राविण्यै नमः
- ४५४ॐ द्रुहिणस्तुतायै नमः
- ४५५ॐ दैत्यदानवसंशुद्धिकर्त्र्यै नमः
- ४५६ॐ दुर्बुद्धिहारिण्यै नमः
- ४५७ॐ दानसारायै नमः
- ४५८ॐ दयासारायै नमः
- ४५९ॐ द्यावाभूमिविगाहिन्यै नमः
- ४६०ॐ दृष्टादृष्टफलप्राप्त्यै नमः
- ४६१ॐ देवतावृन्दवन्दितायै नमः
- ४६२ॐ दीर्घव्रतायै नमः
- ४६३ॐ दीर्घदृष्टिर्दीप्ततोयायै नमः
- ४६४ॐ दुरालभायै नमः
- ४६५ॐ दण्डयित्र्यै नमः
- ४६६ॐ दण्डनीतये नमः
- ४६७ॐ दुष्टदण्डधरार्चितायै नमः
- ४६८ॐ दुरोदरघ्न्यै नमः
- ४६९ॐ दावार्चिषे नमः
- ४७०ॐ द्रवते नमः
- ४७१ॐ द्रव्यैकशेवधये नमः
- ४७२ॐ दीनसन्तापशमन्यै नमः
- ४७३ॐ दात्र्यै नमः
- ४७४ॐ दवथुवैरिण्यै नमः
- ४७५ॐ दरीविदारणपरायै नमः
- ४७६ॐ दान्तायै नमः
- ४७७ॐ दान्तजनप्रियायै नमः
- ४७८ॐ दारिताद्रितटायै नमः
- ४७९ॐ दुर्गायै नमः
- ४८०ॐ दुर्गारण्यप्रचारिण्यै नमः
- ४८१ॐ धर्मद्रवायै नमः
- ४८२ॐ धर्मधुरायै नमः
- ४८३ॐ धेनवे नमः
- ४८४ॐ धीरायै नमः
- ४८५ॐ धृतये नमः
- ४८६ॐ ध्रुवायै नमः
- ४८७ॐ धेनुदानफलस्पर्शायै नमः
- ४८८ॐ धर्मकामार्थमोक्षदायै नमः
- ४८९ॐ धर्मोर्मिवाहिन्यै नमः
- ४९०ॐ धुर्यायै नमः
- ४९१ॐ धात्र्यै नमः
- ४९२ॐ धात्रीविभूषणाय नमः
- ४९३ॐ धर्मिण्यै नमः
- ४९४ॐ धर्मशीलायै नमः
- ४९५ॐ धन्विकोटिकृतावनायै नमः
- ४९६ॐ ध्यातृपापहरायै नमः
- ४९७ॐ ध्येयायै नमः
- ४९८ॐ धावन्यै नमः
- ४९९ॐ धूतकल्मषायै नमः
- ५००ॐ धर्मधारायै नमः
- ५०१ॐ धर्मसारायै नमः
- ५०२ॐ धनदायै नमः
- ५०३ॐ धनवर्धिन्यै नमः
- ५०४ॐ धर्माधर्मगुणच्छेत्र्यै नमः
- ५०५ॐ धत्तूरकुसुमप्रियायै नमः
- ५०६ॐ धर्मेश्यै नमः
- ५०७ॐ धर्मशास्त्रज्ञायै नमः
- ५०८ॐ धनधान्यसमृद्धिकृते नमः
- ५०९ॐ धर्मलभ्यायै नमः
- ५१०ॐ धर्मजलायै नमः
- ५११ॐ धर्मप्रसवधर्मिण्यै नमः
- ५१२ॐ ध्यानगम्यस्वरूपायै नमः
- ५१३ॐ धरण्यै नमः
- ५१४ॐ धातृपूजितायै नमः
- ५१५ॐ धूरे नमः
- ५१६ॐ धूर्जटिजटासंस्थायै नमः
- ५१७ॐ धन्यायै नमः
- ५१८ॐ धिये नमः
- ५१९ॐ धारणावत्यै नमः
- ५२०ॐ नन्दायै नमः
- ५२१ॐ निर्वाणजनन्यै नमः
- ५२२ॐ नन्दिन्यै नमः
- ५२३ॐ नुन्नपातकायै नमः
- ५२४ॐ निषिद्धविघ्ननिचयायै नमः
- ५२५ॐ निजानन्दप्रकाशिन्यै नमः
- ५२६ॐ नभोङ्गणचर्यै नमः
- ५२७ॐ नूतये नमः
- ५२८ॐ नम्यायै नमः
- ५२९ॐ नारायण्यै नमः
- ५३०ॐ नुतायै नमः
- ५३१ॐ निर्मलायै नमः
- ५३२ॐ निर्मलाख्यानायै नमः
- ५३३ॐ तापसम्पदां नाशिन्यै नमः
- ५३४ॐ नियतायै नमः
- ५३५ॐ नित्यसुखदायै नमः
- ५३६ॐ नानाश्चर्यमहानिधये नमः
- ५३७ॐ नद्यै नमः
- ५३८ॐ नदसरोमात्रे नमः
- ५३९ॐ नायिकायै नमः
- ५४०ॐ नाकदीर्घिकायै नमः
- ५४१ॐ नष्टोद्धरणधीरायै नमः
- ५४२ॐ नन्दनायै नमः
- ५४३ॐ नन्ददायिन्यै नमः
- ५४४ॐ निर्णिक्ताशेषभुवनायै नमः
- ५४५ॐ निःसङ्गायै नमः
- ५४६ॐ निरुपद्रवायै नमः
- ५४७ॐ निरालम्बायै नमः
- ५४८ॐ निष्प्रपञ्चायै नमः
- ५४९ॐ निर्णाशितमहामलायै नमः
- ५५०ॐ निर्मलज्ञानजनन्यै नमः
- ५५१ॐ निश्शेषप्राणितापहृते नमः
- ५५२ॐ नित्योत्सवायै नमः
- ५५३ॐ नित्यतृप्तायै नमः
- ५५४ॐ नमस्कार्यायै नमः
- ५५५ॐ निरञ्जनायै नमः
- ५५६ॐ निष्ठावत्यै नमः
- ५५७ॐ निरातङ्कायै नमः
- ५५८ॐ निर्लेपायै नमः
- ५५९ॐ निश्चलात्मिकायै नमः
- ५६०ॐ निरवद्यायै नमः
- ५६१ॐ निरीहायै नमः
- ५६२ॐ नीललोहितमूर्धगायै नमः
- ५६३ॐ नन्दिभृङ्गिगणस्तुत्यायै नमः
- ५६४ॐ नागायै नमः
- ५६५ॐ नन्दायै नमः
- ५६६ॐ नगात्मजायै नमः
- ५६७ॐ निष्प्रत्यूहायै नमः
- ५६८ॐ नाकनद्यै नमः
- ५६९ॐ निरयार्णवदीर्घनावे नमः
- ५७०ॐ पुण्यप्रदायै नमः
- ५७१ॐ पुण्यगर्भायै नमः
- ५७२ॐ पुण्यायै नमः
- ५७३ॐ पुण्यतरङ्गिण्यै नमः
- ५७४ॐ पृथवे नमः
- ५७५ॐ पृथुफलायै नमः
- ५७६ॐ पूर्णायै नमः
- ५७७ॐ प्रणतार्तिप्रभञ्जन्यै नमः
- ५७८ॐ प्राणदायै नमः
- ५७९ॐ प्राणिजनन्यै नमः
- ५८०ॐ प्राणेश्यै नमः
- ५८१ॐ प्राणरूपिण्यै नमः
- ५८२ॐ पद्मालयायै नमः
- ५८३ॐ परायै नमः
- ५८४ॐ शक्त्यै नमः
- ५८५ॐ पुरजित्परमप्रियायै नमः
- ५८६ॐ परायै नमः
- ५८७ॐ परफलप्राप्त्यै नमः
- ५८८ॐ पावन्यै नमः
- ५८९ॐ पयस्विन्यै नमः
- ५९०ॐ परानन्दायै नमः
- ५९१ॐ प्रकृष्टार्थायै नमः
- ५९२ॐ प्रतिष्ठायै नमः
- ५९३ॐ पालिन्यै नमः
- ५९४ॐ परायै नमः
- ५९५ॐ पुराणपठितायै नमः
- ५९६ॐ प्रीतायै नमः
- ५९७ॐ प्रणवाक्षररूपिण्यै नमः
- ५९८ॐ पार्वत्यै नमः
- ५९९ॐ प्रेमसम्पन्नायै नमः
- ६००ॐ पशुपाशविमोचन्यै नमः
- ६०१ॐ परमात्मस्वरूपायै नमः
- ६०२ॐ परब्रह्मप्रकाशिन्यै नमः
- ६०३ॐ परमानन्दनिष्यन्दायै नमः
- ६०४ॐ प्रायश्चित्तस्वरूपिण्यै नमः
- ६०५ॐ पानीयरूपनिर्वाणायै नमः
- ६०६ॐ परित्राणपरायणायै नमः
- ६०७ॐ पापेन्धनदवज्वालायै नमः
- ६०८ॐ पापारये नमः
- ६०९ॐ पापनामनुदे नमः
- ६१०ॐ परमैश्वर्यजनन्यै नमः
- ६११ॐ प्रज्ञायै प्राज्ञायै नमः
- ६१२ॐ परापरायै नमः
- ६१३ॐ प्रत्यक्षलक्ष्म्यै नमः
- ६१४ॐ पद्माक्ष्यै नमः
- ६१५ॐ परव्योमामृतस्रवायै नमः
- ६१६ॐ प्रसन्नरूपायै नमः
- ६१७ॐ प्रणिधये नमः
- ६१८ॐ पूतायै नमः
- ६१९ॐ प्रत्यक्षदेवतायै नमः
- ६२०ॐ पिनाकिपरमप्रीतायै नमः
- ६२१ॐ परमेष्ठिकमण्डलवे नमः
- ६२२ॐ पद्मनाभपदार्घ्येण प्रसूतायै नमः
- ६२३ॐ पद्ममालिन्यै नमः
- ६२४ॐ परर्द्धिदायै नमः
- ६२५ॐ पुष्टिकर्यै नमः
- ६२६ॐ पथ्यायै नमः
- ६२७ॐ पूर्त्यै नमः
- ६२८ॐ प्रभावत्यै नमः
- ६२९ॐ पुनानायै नमः
- ६३०ॐ पीतगर्भघ्न्यै नमः
- ६३१ॐ पापपर्वतनाशिन्यै नमः
- ६३२ॐ फलिन्यै नमः
- ६३३ॐ फलहस्तायै नमः
- ६३४ॐ फुल्लाम्बुजविलोचनायै नमः
- ६३५ॐ फालितैनोमहाक्षेत्रायै नमः
- ६३६ॐ फणिलोकविभूषणाय नमः
- ६३७ॐ फेनच्छलप्रणुन्नैनसे नमः
- ६३८ॐ फुल्लकैरवगन्धिन्यै नमः
- ६३९ॐ फेनिलाच्छाम्बुधाराभायै नमः
- ६४०ॐ फडुच्चाटितपातकायै नमः
- ६४१ॐ फाणितस्वादुसलिलायै नमः
- ६४२ॐ फाण्टपथ्यजलाविलायै नमः
- ६४३ॐ विश्वमात्रे नमः
- ६४४ॐ विश्वेश्यै नमः
- ६४५ॐ विश्वायै नमः
- ६४६ॐ विश्वेश्वरप्रियायै नमः
- ६४७ॐ ब्रह्मण्यायै नमः
- ६४८ॐ ब्रह्मकृते नमः
- ६४९ॐ ब्राह्म्यै नमः
- ६५०ॐ ब्रह्मिष्ठायै नमः
- ६५१ॐ विमलोदकायै नमः
- ६५२ॐ विभावर्यै नमः
- ६५३ॐ विरजायै नमः
- ६५४ॐ विक्रान्तानेकविष्टपायै नमः
- ६५५ॐ विश्वमित्राय नमः
- ६५६ॐ विष्णुपद्यै नमः
- ६५७ॐ वैष्णव्यै नमः
- ६५८ॐ वैष्णवप्रियायै नमः
- ६५९ॐ विरूपाक्षप्रियकर्य्यै नमः
- ६६०ॐ विभूत्यै नमः
- ६६१ॐ विश्वतोमुख्यै नमः
- ६६२ॐ विपाशायै नमः
- ६६३ॐ वैबुध्यै नमः
- ६६४ॐ वेद्यायै नमः
- ६६५ॐ वेदाक्षररसस्रवायै नमः
- ६६६ॐ विद्यायै नमः
- ६६७ॐ वेगवत्यै नमः
- ६६८ॐ वन्द्यायै नमः
- ६६९ॐ बृंहण्यै नमः
- ६७०ॐ ब्रह्मवादिन्यै नमः
- ६७१ॐ वरदायै नमः
- ६७२ॐ विप्रकृष्टायै नमः
- ६७३ॐ वरिष्ठायै नमः
- ६७४ॐ विशोधन्यै नमः
- ६७५ॐ विद्याधर्यै नमः
- ६७६ॐ विशोकायै नमः
- ६७७ॐ वयोवृन्दनिषेवितायै नमः
- ६७८ॐ बहूदकायै नमः
- ६७९ॐ बलवत्यै नमः
- ६८०ॐ व्योमस्थायै नमः
- ६८१ॐ विबुधप्रियायै नमः
- ६८२ॐ वाण्यै नमः
- ६८३ॐ वेदवत्यै नमः
- ६८४ॐ वित्तायै नमः
- ६८५ॐ ब्रह्मविद्यातरङ्गिण्यै नमः
- ६८६ॐ ब्रह्माण्डकोटिव्याप्ताम्ब्वै नमः
- ६८७ॐ ब्रह्महत्यापहारिण्यै नमः
- ६८८ॐ ब्रह्मेशविष्णुरूपायै नमः
- ६८९ॐ बुद्ध्यै नमः
- ६९०ॐ विभववर्धिन्यै नमः
- ६९१ॐ विलासिसुखदायै नमः
- ६९२ॐ वश्यायै नमः
- ६९३ॐ व्यापिन्यै नमः
- ६९४ॐ वृषारण्यै नमः
- ६९५ॐ वृषाङ्कमौलिनिलयायै नमः
- ६९६ॐ विपन्नार्तिप्रभञ्जिन्यै नमः
- ६९७ॐ विनीतायै नमः
- ६९८ॐ विनतायै नमः
- ६९९ॐ ब्रध्नतनयायै नमः
- ७००ॐ विनयान्वितायै नमः
- ७०१ॐ वाद्य कुशलायै नमः
- ७०२ॐ वेणुश्रुतिविचक्षणायै नमः
- ७०३ॐ वर्चस्कर्यै नमः
- ७०४ॐ बलकर्यै नमः
- ७०५ॐ बलोन्मूलितकल्मषायै नमः
- ७०६ॐ विपाप्मने नमः
- ७०७ॐ विगतातङ्कायै नमः
- ७०८ॐ विकल्पपरिवर्जितायै नमः
- ७०९ॐ वृष्टिकर्त्र्यै नमः
- ७१०ॐ वृष्टिजलायै नमः
- ७११ॐ विधये नमः
- ७१२ॐ विच्छिन्नबन्धनायै नमः
- ७१३ॐ व्रतरूपायै नमः
- ७१४ॐ वित्तरूपायै नमः
- ७१५ॐ बहुविघ्नविनाशकृते नमः
- ७१६ॐ वसुधारायै नमः
- ७१७ॐ वसुमत्यै नमः
- ७१८ॐ विचित्राङ्ग्यै नमः
- ७१९ॐ विभायै नमः
- ७२०ॐ वसवे नमः
- ७२१ॐ विजयायै नमः
- ७२२ॐ विश्वबीजायै नमः
- ७२३ॐ वामदेव्यै नमः
- ७२४ॐ वरप्रदायै नमः
- ७२५ॐ वृषाश्रितायै नमः
- ७२६ॐ विषघ्न्यै नमः
- ७२७ॐ विज्ञानोर्म्यंशुमालिन्यै नमः
- ७२८ॐ भव्यायै नमः
- ७२९ॐ भोगवत्यै नमः
- ७३०ॐ भद्रायै नमः
- ७३१ॐ भवान्यै नमः
- ७३२ॐ भूतभाविन्यै नमः
- ७३३ॐ भूतधात्र्यै नमः
- ७३४ॐ भयहरायै नमः
- ७३५ॐ भक्तदारिद्र्यघातिन्यै नमः
- ७३६ॐ भुक्तिमुक्तिप्रदायै नमः
- ७३७ॐ भेश्यै नमः
- ७३८ॐ भक्तस्वर्गापवर्गदायै नमः
- ७३९ॐ भागीरथ्यै नमः
- ७४०ॐ भानुमत्यै नमः
- ७४१ॐ भाग्यायै नमः
- ७४२ॐ भोगवत्यै नमः
- ७४३ॐ भृतये नमः
- ७४४ॐ भवप्रियायै नमः
- ७४५ॐ भवद्वेष्ट्र्यै नमः
- ७४६ॐ भूतिदायै नमः
- ७४७ॐ भूतिभूषणायै नमः
- ७४८ॐ भाललोचनभावज्ञायै नमः
- ७४९ॐ भूतभव्यभवत्प्रभ्वे नमः
- ७५०ॐ भ्रान्तिज्ञानप्रशमन्यै नमः
- ७५१ॐ भिन्नब्रह्माण्डमण्डपायै नमः
- ७५२ॐ भूरिदायै नमः
- ७५३ॐ भक्तिसुलभायै नमः
- ७५४ॐ भाग्यवद्दृष्टिगोचर्यै नमः
- ७५५ॐ भञ्जितोपप्लवकुलायै नमः
- ७५६ॐ भक्ष्यभोज्यसुखप्रदायै नमः
- ७५७ॐ भिक्षणीयायै नमः
- ७५८ॐ भिक्षुमात्रे नमः
- ७५९ॐ भावायै नमः
- ७६०ॐ भावस्वरूपिण्यै नमः
- ७६१ॐ मन्दाकिन्यै नमः
- ७६२ॐ महानन्दायै नमः
- ७६३ॐ मात्रे नमः
- ७६४ॐ मुक्तितरङ्गिण्यै नमः
- ७६५ॐ महोदयायै नमः
- ७६६ॐ मधुमत्यै नमः
- ७६७ॐ महापुण्यायै नमः
- ७६८ॐ मुदाकर्यै नमः
- ७६९ॐ मुनिस्तुतायै नमः
- ७७०ॐ मोहहन्त्र्यै नमः
- ७७१ॐ महातीर्थायै नमः
- ७७२ॐ मधुस्रवायै नमः
- ७७३ॐ माधव्यै नमः
- ७७४ॐ मानिन्यै नमः
- ७७५ॐ मान्यायै नमः
- ७७६ॐ मनोरथपथातिगायै नमः
- ७७७ॐ मोक्षदायै नमः
- ७७८ॐ मतिदायै नमः
- ७७९ॐ मुख्यायै नमः
- ७८०ॐ महाभाग्यजनाश्रितायै नमः
- ७८१ॐ महावेगवत्यै नमः
- ७८२ॐ मेध्यायै नमः
- ७८३ॐ महायै नमः
- ७८४ॐ महिमभूषणायै नमः
- ७८५ॐ महाप्रभावायै नमः
- ७८६ॐ महत्यै नमः
- ७८७ॐ मीनचञ्चललोचनायै नमः
- ७८८ॐ महाकारुण्यसम्पूर्णायै नमः
- ७८९ॐ महर्द्धयै नमः
- ७९०ॐ महोत्पलायै नमः
- ७९१ॐ मूर्तिमते नमः
- ७९२ॐ मुक्ति रमण्यै नमः
- ७९३ॐ मणिमाणिक्यभूषणायै नमः
- ७९४ॐ मुक्ताकलापनेपथ्यायै नमः
- ७९५ॐ मनोनयननन्दिन्यै नमः
- ७९६ॐ महापातकराशिघ्न्यै नमः
- ७९७ॐ महादेवार्धहारिण्यै नमः
- ७९८ॐ महोर्मिमालिन्यै नमः
- ७९९ॐ मुक्तायै नमः
- ८००ॐ महादेव्यै नमः
- ८०१ॐ मनोन्मन्यै नमः
- ८०२ॐ महापुण्योदयप्राप्यायै नमः
- ८०३ॐ मायातिमिरचन्द्रिकायै नमः
- ८०४ॐ महाविद्यायै नमः
- ८०५ॐ महामायायै नमः
- ८०६ॐ महामेधायै नमः
- ८०७ॐ महौषधाय नमः
- ८०८ॐ मालाधर्यै नमः
- ८०९ॐ महोपायायै नमः
- ८१०ॐ महोरगविभूषणायै नमः
- ८११ॐ महामोहप्रशमन्यै नमः
- ८१२ॐ महामङ्गलमङ्गलाय नमः
- ८१३ॐ मार्तण्डमण्डलचर्यै नमः
- ८१४ॐ महालक्ष्म्यै नमः
- ८१५ॐ मदोज्झितायै नमः
- ८१६ॐ यशस्विन्यै नमः
- ८१७ॐ यशोदायै नमः
- ८१८ॐ योग्यायै नमः
- ८१९ॐ युक्तात्मसेवितायै नमः
- ८२०ॐ योगसिद्धिप्रदायै नमः
- ८२१ॐ याज्यायै नमः
- ८२२ॐ यज्ञेशपरिपूरितायै नमः
- ८२३ॐ यज्ञेश्यै नमः
- ८२४ॐ यज्ञफलदायै नमः
- ८२५ॐ यजनीयायै नमः
- ८२६ॐ यशस्कर्यै नमः
- ८२७ॐ यमिसेव्यायै नमः
- ८२८ॐ योगयोनये नमः
- ८२९ॐ योगिन्यै नमः
- ८३०ॐ युक्तबुद्धिदायै नमः
- ८३१ॐ योगज्ञानप्रदायै नमः
- ८३२ॐ युक्तायै नमः
- ८३३ॐ यमाद्यष्टाङ्गयोगयुक् नमः
- ८३४ॐ यन्त्रिताघौघसञ्चारायै नमः
- ८३५ॐ यमलोकनिवारिण्यै नमः
- ८३६ॐ यातायातप्रशमन्यै नमः
- ८३७ॐ यातनानामकृन्तन्यै नमः
- ८३८ॐ यामिनीशहिमाच्छोदायै नमः
- ८३९ॐ युगधर्मविवर्जितायै नमः
- ८४०ॐ रेवत्यै नमः
- ८४१ॐ रतिकृते नमः
- ८४२ॐ रम्यायै नमः
- ८४३ॐ रत्नगर्भायै नमः
- ८४४ॐ रमायै नमः
- ८४५ॐ रतये नमः
- ८४६ॐ रत्नाकरप्रेमपात्राय नमः
- ८४७ॐ रसज्ञायै नमः
- ८४८ॐ रसरूपिण्यै नमः
- ८४९ॐ रत्नप्रासादगर्भायै नमः
- ८५०ॐ रमणीयतरङ्गिण्यै नमः
- ८५१ॐ रत्नार्चिषे नमः
- ८५२ॐ रुद्ररमण्यै नमः
- ८५३ॐ रागद्वेषविनाशिन्यै नमः
- ८५४ॐ रमायै नमः
- ८५५ॐ रामायै नमः
- ८५६ॐ रम्यरूपायै नमः
- ८५७ॐ रोगिजीवानुरूपिण्यै नमः
- ८५८ॐ रुचिकृते नमः
- ८५९ॐ रोचन्यै नमः
- ८६०ॐ रम्यायै नमः
- ८६१ॐ रुचिरायै नमः
- ८६२ॐ रोगहारिण्यै नमः
- ८६३ॐ राजहंसायै नमः
- ८६४ॐ रत्नवत्यै नमः
- ८६५ॐ राजत्कल्लोलराजिकायै नमः
- ८६६ॐ रामणीयकरेखायै नमः
- ८६७ॐ रुजारये नमः
- ८६८ॐ रोगरोषिण्यै नमः
- ८६९ॐ राकायै नमः
- ८७०ॐ रङ्कार्तिशमन्यै नमः
- ८७१ॐ रम्यायै नमः
- ८७२ॐ रोलम्बराविण्यै नमः
- ८७३ॐ रागिण्यै नमः
- ८७४ॐ रञ्जितशिवायै नमः
- ८७५ॐ रूपलावण्यशेवधये नमः
- ८७६ॐ लोकप्रसुवे नमः
- ८७७ॐ लोकवन्द्यायै नमः
- ८७८ॐ लोलत्कल्लोलमालिन्यै नमः
- ८७९ॐ लीलावत्यै नमः
- ८८०ॐ लोकभूमये नमः
- ८८१ॐ लोकलोचनचन्द्रिकायै नमः
- ८८२ॐ लेखस्रवन्त्यै नमः
- ८८३ॐ लटभायै नमः
- ८८४ॐ लघुवेगायै नमः
- ८८५ॐ लघुत्वहृते नमः
- ८८६ॐ लास्यत्तरङ्गहस्तायै नमः
- ८८७ॐ ललितायै नमः
- ८८८ॐ लयभङ्गिगायै नमः
- ८८९ॐ लोकबन्धवे नमः
- ८९०ॐ लोकधात्र्यै नमः
- ८९१ॐ लोकोत्तरगुणोर्जितायै नमः
- ८९२ॐ लोकत्रयहितायै नमः
- ८९३ॐ लोकायै नमः
- ८९४ॐ लक्ष्म्यै नमः
- ८९५ॐ लक्षणलक्षितायै नमः
- ८९६ॐ लीलायै नमः
- ८९७ॐ लक्षितनिर्वाणायै नमः
- ८९८ॐ लावण्यामृतवर्षिण्यै नमः
- ८९९ॐ वैश्वानर्यै नमः
- ९००ॐ वासवेड्यायै नमः
- ९०१ॐ वन्ध्यत्वपरिहारिण्यै नमः
- ९०२ॐ वासुदेवाङ्घ्रिरेणुघ्न्यै नमः
- ९०३ॐ वज्रिवज्रनिवारिण्यै नमः
- ९०४ॐ शुभावत्यै नमः
- ९०५ॐ शुभफलायै नमः
- ९०६ॐ शान्त्यै नमः
- ९०७ॐ शन्तनुवल्लभायै नमः
- ९०८ॐ शूलिन्यै नमः
- ९०९ॐ शैशववयसे नमः
- ९१०ॐ शीतलामृतवाहिन्यै नमः
- ९११ॐ शोभावत्यै नमः
- ९१२ॐ शीलवत्यै नमः
- ९१३ॐ शोषिताशेषकिल्बिषायै नमः
- ९१४ॐ शरण्यायै नमः
- ९१५ॐ शिवदायै नमः
- ९१६ॐ शिष्टायै नमः
- ९१७ॐ शरजन्मप्रसुवे नमः
- ९१८ॐ शिवायै नमः
- ९१९ॐ शक्तये नमः
- ९२०ॐ शशाङ्कविमलायै नमः
- ९२१ॐ शमनस्वसृसम्मतायै नमः
- ९२२ॐ शमायै नमः
- ९२३ॐ शमनमार्गघ्न्यै नमः
- ९२४ॐ शितिकण्ठमहाप्रियायै नमः
- ९२५ॐ शुचये नमः
- ९२६ॐ शुचिकर्यै नमः
- ९२७ॐ शेषायै नमः
- ९२८ॐ शेषशायिपदोद्भवायै नमः
- ९२९ॐ श्रीनिवासश्रुत्यै नमः
- ९३०ॐ श्रद्धायै नमः
- ९३१ॐ श्रीमत्यै नमः
- ९३२ॐ श्रियै नमः
- ९३३ॐ शुभव्रतायै नमः
- ९३४ॐ शुद्धविद्यायै नमः
- ९३५ॐ शुभावर्तायै नमः
- ९३६ॐ श्रुतानन्दायै नमः
- ९३७ॐ श्रुतिस्तुतये नमः
- ९३८ॐ शिवेतरघ्न्यै नमः
- ९३९ॐ शबर्यै नमः
- ९४०ॐ शाम्बरीरूपधारिण्यै नमः
- ९४१ॐ श्मशानशोधन्यै नमः
- ९४२ॐ शान्तायै नमः
- ९४३ॐ शश्वते नमः
- ९४४ॐ शतधृति स्तुतायै नमः
- ९४५ॐ शालिन्यै नमः
- ९४६ॐ शालिशोभाढ्यायै नमः
- ९४७ॐ शिखिवाहनगर्भभृते नमः
- ९४८ॐ शंसनीयचरित्रायै नमः
- ९४९ॐ शातिताशेषपातकायै नमः
- ९५०ॐ षड्गुणैश्वर्यसम्पन्नायै नमः
- ९५१ॐ षडङ्गश्रुतिरूपिण्यै नमः
- ९५२ॐ षण्ढताहारिसलिलायै नमः
- ९५३ॐ स्त्यायन्नदनदीशतायै नमः
- ९५४ॐ सरिद्वरायै नमः
- ९५५ॐ सुरसायै नमः
- ९५६ॐ सुप्रभायै नमः
- ९५७ॐ सुरदीर्घिकायै नमः
- ९५८ॐ स्वः सिन्धवे नमः
- ९५९ॐ सर्वदुःखघ्न्यै नमः
- ९६०ॐ सर्वव्याधिमहौषधाय नमः
- ९६१ॐ सेव्यायै नमः
- ९६२ॐ सिद्धयै नमः
- ९६३ॐ सत्यै नमः
- ९६४ॐ सूक्तये नमः
- ९६५ॐ स्कन्दसुवे नमः
- ९६६ॐ सरस्वत्यै नमः
- ९६७ॐ सम्पत्तरङ्गिण्यै नमः
- ९६८ॐ स्तुत्यायै नमः
- ९६९ॐ स्थाणुमौलिकृतालयायै नमः
- ९७०ॐ स्थैर्यदायै नमः
- ९७१ॐ सुभगायै नमः
- ९७२ॐ सौख्यायै नमः
- ९७३ॐ स्त्रीषु सौभाग्यदायिन्यै नमः
- ९७४ॐ स्वर्गनिःश्रेणिकायै नमः
- ९७५ॐ सूक्ष्मायै नमः
- ९७६ॐ स्वधायै नमः
- ९७७ॐ स्वाहायै नमः
- ९७८ॐ सुधाजलाय नमः
- ९७९ॐ समुद्ररूपिण्यै नमः
- ९८०ॐ स्वर्ग्यायै नमः
- ९८१ॐ सर्वपातकवैरिण्यै नमः
- ९८२ॐ स्मृताघहारिण्यै नमः
- ९८३ॐ सीतायै नमः
- ९८४ॐ संसाराब्धितरण्डिकायै नमः
- ९८५ॐ सौभाग्यसुन्दर्यै नमः
- ९८६ॐ सन्ध्यायै नमः
- ९८७ॐ सर्वसारसमन्वितायै नमः
- ९८८ॐ हरप्रियायै नमः
- ९८९ॐ हृषीकेश्यै नमः
- ९९०ॐ हंसरूपायै नमः
- ९९१ॐ हिरण्मय्यै नमः
- ९९२ॐ हृताघसङ्घायै नमः
- ९९३ॐ हितकृते नमः
- ९९४ॐ हेलायै नमः
- ९९५ॐ हेलाघगर्वहृते नमः
- ९९६ॐ क्षेमदायै नमः
- ९९७ॐ क्षालिताघौघायै नमः
- ९९८ॐ क्षुद्रविद्राविण्यै नमः
- ९९९ॐ क्षमायै नमः
- १०००ॐ गङ्गायै नमः
इति श्रीस्कन्दपुराणे काशीखण्डे गङ्गासहस्रनामावलिः सम्पूर्णा