मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

नवग्रहस्तोत्रम्

Also spelled: Navagrahastotram · Navagrahasthothram

3

व्यासविरचितम्

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥

॥१॥

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥

॥२॥

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥

॥३॥

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥

॥४॥

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥

॥५॥

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥

॥६॥

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।

छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥

॥७॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥

॥८॥

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥

॥९॥

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः ।

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥

॥१०॥

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ।

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥

॥११॥

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।

ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥

॥१२॥

इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ।