मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

हरिहरात्मजाष्टकम्

3

परम्परा

हरिवरासनं विश्वमोहनं

हरिदधीश्वरम् आराध्यपादुकम् ।

अरिविमर्दनं नित्यनर्तनं

हरिहरात्मजं देवमाश्रये ॥

॥१॥

चरणकीर्तनं भक्तमानसं

भरणलोलुपं नर्तनालसम् ।

अरुणभासुरं भूतनायकं

हरिहरात्मजं देवमाश्रये ॥

॥२॥

प्रणयसत्यकं प्राणनायकं

प्रणतकल्पकं सुप्रभञ्चितम् ।

प्रणवमन्दिरं कीर्तनप्रियं

हरिहरात्मजं देवमाश्रये ॥

॥३॥

तुरगवाहनं सुन्दराननं

वरगदायुधं वेदवर्णितम् ।

गुरुकृपाकरं कीर्तनप्रियं

हरिहरात्मजं देवमाश्रये ॥

॥४॥

त्रिभुवनार्चितं देवतात्मकं

त्रिनयनप्रभुं दिव्यदेशिकम् ।

त्रिदशपूजितं चिन्तितप्रदं

हरिहरात्मजं देवमाश्रये ॥

॥५॥

भवभयापहं भावुकावकं

भुवनमोहनं भूतिभूषणम् ।

धवलवाहनं दिव्यवारणं

हरिहरात्मजं देवमाश्रये ॥

॥६॥

कलमृदुस्मितं सुन्दराननं

कलभकोमलं गात्रमोहनम् ।

कलभकेसरीं वाजिवाहनं

हरिहरात्मजं देवमाश्रये ॥

॥७॥

श्रितजनप्रियं चिन्तितप्रदं

श्रुतिविभूषणं साधुजीवनम् ।

श्रुतिमनोहरं गीतलालसं

हरिहरात्मजं देवमाश्रये ॥

॥८॥

इति श्री-हरिहरात्मजाष्टकं सम्पूर्णम्