मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सुब्रह्मण्य सहस्र नाम स्तोत्रम्

Also spelled: Subrahmanya Sahasra Nama Stotram · Subrahmanya Sahasra Nama Sthothram

3

स्कन्दपुराणम्

ऋषय ऊचुः

सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।

वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥

॥१॥

ज्ञानदानेन संसारसागरात्तारयस्व नः ।

कलौ कलुषचित्ता ये नराः पापरताः सदा ॥

॥२॥

केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनैः ।

इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥

॥३॥

सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ।

॥४॥

श्रीसूत उवाच

शृणुध्वम् ऋषयः सर्वे नैमिषारण्यवासिनः ॥

॥५॥

तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः ।

स्वयम्भुवा पुरा प्रोक्तं नारदाय महात्मने ॥

॥६॥

तदहं सम्प्रवक्ष्यामि श्रोतुं कौतूहलं यदि ।

॥७॥

ऋषय ऊचुः

किमाह भगवान्ब्रह्मा नारदाय महात्मने ॥

॥८॥

सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् ।

॥९॥

श्रीसूत उवाच

दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् ॥

॥१०॥

साष्टाङ्गप्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् ।

नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः ॥

॥११॥

नारद उवाच

लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर ।

षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् ॥

॥१२॥

धातस्त्वं पुत्रवात्सल्यात्तद्वद प्रणताय मे ।

उपदिश्य तु मां देव रक्ष रक्ष कृपानिधे ॥

॥१३॥

ब्रह्मोवाच

शृणु वक्ष्यामि देवर्षे स्तवराजमिमं परम् ।

मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥

॥१४॥

सहस्राणि च नामानि षण्मुखस्य महात्मनः ।

यानि नामानि दिव्यानि दुःखरोगहराणि च ॥

॥१५॥

तानि नामानि वक्ष्यामि कृपया त्वयि नारद ।

जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि ॥

॥१६॥

इहामुत्र परं भोगं लभते नात्र संशयः ।

इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् ।

सन्देहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ॥

॥१७॥

ॐ अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्रमहामन्त्रस्य । ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । सुब्रह्मण्यो देवता । शरजन्माक्षय इति बीजम् । शक्तिधरोऽक्षय इति शक्तिः । कार्तिकेय इति कीलकम् । क्रौचम्भेदीत्यर्गलम् । शिखिवाहन इति कवचम् । षण्मुख इति ध्यानम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः

ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय अङ्गुष्ठाभ्यां नमः । ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय तर्जनीभ्यां नमः । ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय मध्यमाभ्यां नमः । ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय अनामिकाभ्यां नमः । ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय कनिष्ठिकाभ्यां नमः । ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः

ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय हृदयाय नमः । ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय शिरसे स्वाहा । ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय शिखायै वषट् । ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय कवचाय हुम् । ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय नेत्रत्रयाय वौषट् । ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे अस्त्राय फट् ॥

ॐ भूर्भुवस्सुवरों इति दिग्बन्धः ॥

ध्यानम्

ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं

बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ।

कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं

काञ्चीकङ्कणकिङ्किणीरवयुतं शऋङ्गारसारोदयम् ॥

॥१८॥

षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं

वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।

पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा

ध्यायामीप्सित सिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ॥

॥१९॥

पञ्चपूजा

लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजां कल्पयामि ।

अथ सुब्रह्मण्यसहस्रनामस्तोत्रम्

ॐ अचिन्त्यशक्तिरनघस्त्वक्षोभ्यस्त्वपराजितः ।

अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः ॥

॥२०॥

अत्युदारो ह्यघहरस्त्वग्रगण्योऽद्रिजासुतः ।

अनन्तमहिमाऽपारोऽनन्तसौख्यप्रदोऽव्ययः ॥

॥२१॥

अनन्तमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः ।

अकल्मषोऽभिरामोऽग्रधुर्यश्चामितविक्रमः ॥

॥२२॥

अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ।

अरिन्दमोऽखिलाधारस्त्वणिमादिगुणोऽग्रणीः ॥

॥२३॥

अचञ्चलोऽमरस्तुत्यो ह्यकलङ्कोऽमिताशनः ।

अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः ॥

॥२४॥

अतीन्द्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ।

आपद्विनाशकस्त्वार्य आढ्य आगमसंस्तुतः ॥

॥२५॥

आर्तसंरक्षणस्त्वाद्य आनन्दस्त्वार्यसेवितः ।

आश्रितेष्टार्थवरद आनन्द्यार्तफलप्रदः ॥

॥२६॥

आश्चर्यरूप आनन्द आपन्नार्तिविनाशनः ।

इभवक्त्रानुजस्त्विष्ट इभासुरहरात्मजः ॥

॥२७॥

इतिहासश्रुतिस्तुत्य इन्द्रभोगफलप्रदः ।

इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ॥

॥२८॥

इहामुत्रेष्टफलद इष्टदस्त्विन्द्रवन्दितः ।

ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः ॥

॥२९॥

ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः ।

उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः ॥

॥३०॥

उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ।

उज्जृम्भ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः ॥

॥३१॥

उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः ।

उरुप्रभावश्चोदीर्ण उमापुत्र उदारधीः ॥

॥३२॥

ऊर्ध्वरेतःसुतस्तूर्ध्वगतिदस्तूर्जपालकः ।

ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः ॥

॥३३॥

ऊर्जिवानूर्जितोदार ऊर्जितोर्जितशासनः ।

ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः ॥

॥३४॥

ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शनः ।

ऋतम्भरो ह्यृजुप्रीत ऋषभस्त्वृद्धिदस्त्वृतः ॥

॥३५॥

लुलितोद्धारको लूतभवपाशप्रभञ्जनः ।

एणाङ्कधरसत्पुत्र एक एनोविनाशनः ॥

॥३६॥

ऐश्वर्यदश्चैन्द्रभोगी चैतिह्यश्चैन्द्रवन्दितः ।

ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥

॥३७॥

औदार्यशील औमेय औग्र औन्नत्यदायकः ।

औदार्य औषधकर औषधं चौषधाकरः ॥

॥३८॥

अंशुमाल्यंशुमालीड्य अम्बिकातनयोऽन्नदः ।

अन्धकारिसुतोऽन्धत्वहारी चाम्बुजलोचनः ॥

॥३९॥

अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः ।

अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः ॥

॥४०॥

कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः ।

कामदः कारणं काम्यः कमनीयः कृपाकरः ॥

॥४१॥

काञ्चनाभः कान्तियुक्तः कामी कामप्रदः कविः ।

कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः ॥

॥४२॥

कुङ्कुमाङ्गः क्लमहरः कुशलः कुक्कुटध्वजः ।

कुशानुसम्भवः क्रूरः क्रूरघ्नः कलितापहृत् ॥

॥४३॥

कामरूपः कल्पतरुः कान्तः कामितदायकः ।

कल्याणकृत्क्लेशनाशः कृपालुः करुणाकरः ॥

॥४४॥

कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृती ।

कोमलाङ्गः कुशप्रीतः कुत्सितघ्नः कलाधरः ॥

॥४५॥

ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः ।

ख्यातिप्रदः खेचरेशः ख्यातेहः खेचरस्तुतः ॥

॥४६॥

खरतापहरः स्वस्थः खेचरः खेचराश्रयः ।

खण्डेन्दुमौलितनयः खेलः खेचरपालकः ॥

॥४७॥

खस्थलः खण्डितार्कश्च खेचरीजनपूजितः ।

गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥

॥४८॥

गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः ।

गतिप्रदो गुणनिधिः गम्भीरो गिरिजात्मजः ॥

॥४९॥

गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः ।

गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः ॥

॥५०॥

गुह्यो गुणज्ञो गीतिज्ञो गतातङ्को गुणाश्रयः ।

गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः ॥

॥५१॥

गणनीयचरित्रश्च गतक्लेशो गुणार्णवः ।

घूर्णिताक्षो घृणिनिधिः घनगम्भीरघोषणः ॥

॥५२॥

घण्टानादप्रियो घोषो घोराघौघविनाशनः ।

घनानन्दो घर्महन्ता घृणावान् घृष्टिपातकः ॥

॥५३॥

घृणी घृणाकरो घोरो घोरदैत्यप्रहारकः ।

घटितैश्वर्यसन्दोहो घनार्थो घनसङ्क्रमः ॥

॥५४॥

चित्रकृच्चित्रवर्णश्च चञ्चलश्चपलद्युतिः ।

चिन्मयश्चित्स्वरूपश्च चिरानन्दश्चिरन्तनः ॥

॥५५॥

चित्रकेलिश्चित्रतरश्चिन्तनीयश्चमत्कृतिः ।

चोरघ्नश्चतुरश्चारुश्चामीकरविभूषणः ॥

॥५६॥

चन्द्रार्ककोटिसदृशश्चन्द्रमौलितनूभवः ।

छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः ॥

॥५७॥

छेदीकृततमःक्लेशश्छत्रीकृतमहायशाः ।

छादिताशेषसन्तापश्छरितामृतसागरः ॥

॥५८॥

छन्नत्रैगुण्यरूपश्च छातेहश्छिन्नसंशयः ।

छन्दोमयश्छन्दगामी छिन्नपाशश्छविश्छदः ॥

॥५९॥

जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः ।

जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥

॥६०॥

जयी जितेन्द्रियो जैत्रो जरामरणवर्जितः ।

ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥

॥६१॥

जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः ।

जम्भारिवन्द्यो जयदो जगञ्जनमनोहरः ॥

॥६२॥

जगदानन्दजनको जनजाड्यापहारकः ।

जपाकुसुमसङ्काशो जनलोचनशोभनः ॥

॥६३॥

जनेश्वरो जितक्रोधो जनजन्मनिबर्हणः ।

जयदो जन्तुतापघ्नो जितदैत्यमहाव्रजः ॥

॥६४॥

जितमायो जितक्रोधो जितसङ्गो जनप्रियः ।

झञ्झानिलमहावेगो झरिताशेषपातकः ॥

॥६५॥

झर्झरीकृतदैत्यौघो झल्लरीवाद्यसम्प्रियः ।

ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥

॥६६॥

टङ्कारनृत्तविभवः टङ्कवज्रध्वजाङ्कितः ।

टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥

॥६७॥

डम्बरप्रभवो डम्भो डम्बो डमरुकप्रियः ।

डमरोत्कटसन्नादो डिम्भरूपस्वरूपकः ॥

॥६८॥

ढक्कानादप्रीतिकरो ढालितासुरसङ्कुलः ।

ढौकितामरसन्दोहो ढुण्ढिविघ्नेश्वरानुजः ॥

॥६९॥

तत्त्वज्ञस्तत्वगस्तीव्रस्तपोरूपस्तपोमयः ।

त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः ॥

॥७०॥

त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः ।

तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् ॥

॥७१॥

स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तुतिप्रियः ।

स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥

॥७२॥

स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ।

दान्तो दयापरो दाता दुरितघ्नो दुरासदः ॥

॥७३॥

दर्शनीयो दयासारो देवदेवो दयानिधिः ।

दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ॥

॥७४॥

दुर्धरो दानशीलश्च द्वादशाक्षो द्विषड्भुजः ।

द्विषट्कर्णो द्विषड्बाहुर्दीनसन्तापनाशनः ॥

॥७५॥

दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः ।

दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः ॥

॥७६॥

दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः ।

दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमण्डनः ॥

॥७७॥

दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशाम्पतिः ।

दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः ॥

॥७८॥

दम्भो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिन्तकः ।

धुरन्धरो धर्मपरो धनदो धृतिवर्धनः ॥

॥७९॥

धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ।

धनाध्यक्षो धनपतिर्धृतिमान्धूतकिल्बिषः ॥

॥८०॥

धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद् ध्रुवः ।

धाता धीमान्धर्मचारी धन्यो धुर्यो धृतव्रतः ॥

॥८१॥

नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः ।

निरवद्यो निराधारो निष्कलङ्को निरञ्जनः ॥

॥८२॥

निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः ।

नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥

॥८३॥

निरवद्यो निरीहश्च निर्दर्शो निर्मलात्मकः ।

नित्यानन्दो निर्जरेशो निःसङ्गो निगमस्तुतः ॥

॥८४॥

निष्कण्टको निरालम्बो निष्प्रत्यूहो निरुद्भवः ।

नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥

॥८५॥

नेता निधिर्नैकरूपो निराकारो नदीसुतः ।

पुलिन्दकन्यारमणः पुरुजित्परमप्रियः ॥

॥८६॥

प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ।

पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः ॥

॥८७॥

पुण्योदयः परं ज्योतिः पुण्यकृत्पुण्यवर्धनः ।

परानन्दः परतरः पुण्यकीर्तिः पुरातनः ॥

॥८८॥

प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः ।

प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः ॥

॥८९॥

पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ।

प्रसन्नः परमस्पष्टः परः परिवृढः परः ॥

॥९०॥

परमात्मा परब्रह्म परार्थः प्रियदर्शनः ।

पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः ॥

॥९१॥

पापहारी पाशधरः प्रमत्तासुरशिक्षकः ।

पावनः पावकः पूज्यः पूर्णानन्दः परात्परः ॥

॥९२॥

पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः ।

प्राणदः प्राणिजनकः प्रदिष्टः पावकोद्भवः ॥

॥९३॥

परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् ।

परर्द्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् ॥

॥९४॥

प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ।

फणीश्वरः फणिवरः फणामणिविभूषणः ॥

॥९५॥

फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः ।

फडुच्चाटितपापौघः फणिलोकविभूषणः ॥

॥९६॥

बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बली ।

ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः ॥

॥९७॥

बालरूपो ब्रह्मगर्भो ब्रह्मचारी बुधप्रियः ।

बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः ॥

॥९८॥

बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।

बृहद्भानुतनूद्भूतो बृहत्सेनो बिलेशयः ॥

॥९९॥

बहुबाहुर्बलश्रीमान् बहुदैत्यविनाशकः ।

बिलद्वारान्तरालस्थो बृहच्छक्तिधनुर्धरः ॥

॥१००॥

बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः ।

भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥

॥१०१॥

भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः ।

भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः ॥

॥१०२॥

भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः ।

भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ॥

॥१०३॥

भावको भीकरो भीष्मो भावकेष्टो भवोद्भवः ।

भवतापप्रशमनो भोगवान् भूतभावनः ॥

॥१०४॥

भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः ।

भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ॥

॥१०५॥

महासेनो महोदारो महाशक्तिर्महाद्युतिः ।

महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ॥

॥१०६॥

महाभोगी महामायी मेधावी मेखली महान् ।

मुनिस्तुतो महामान्यो महानन्दो महायशाः ॥

॥१०७॥

महोर्जितो माननिधिर्मनोरथफलप्रदः ।

महोदयो महापुण्यो महाबलपराक्रमः ॥

॥१०८॥

मानदो मतिदो माली मुक्तामालाविभूषणः ।

मनोहरो महामुख्यो महर्द्धिर्मूर्तिमान्मुनिः ॥

॥१०९॥

महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः ।

मुदाकरो मुक्तिदाता महाभोगो महोरगः ॥

॥११०॥

यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः ।

यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ॥

॥१११॥

यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ।

यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रवाहकः ॥

॥११२॥

यातनारहितो योगी योगीशो योगिनां वरः ।

रमणीयो रम्यरूपो रसज्ञो रसभावनः ॥

॥११३॥

रञ्जनो रञ्जितो रागी रुचिरो रुद्रसम्भवः ।

रणप्रियो रणोदारो रागद्वेषविनाशनः ॥

॥११४॥

रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः ।

रत्नाङ्गदधरो रत्नभूषणो रमणीयकः ॥

॥११५॥

रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः ।

राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥

॥११६॥

राजद्वेदागमस्तुत्यो रजःसत्त्वगुणान्वितः ।

रजनीशकलारम्यो रत्नकुण्डलमण्डितः ॥

॥११७॥

रत्नसन्मौलिशोभाढ्यो रणन्मञ्जीरभूषणः ।

लोकैकनाथो लोकेशो ललितो लोकनायकः ॥

॥११८॥

लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ।

लोकबन्धुर्लोकधाता लोकत्रयमहाहितः ॥

॥११९॥

लोकचूडामणिर्लोकवन्द्यो लावण्यविग्रहः ।

लोकाध्यक्षस्तु लीलावान्लोकोत्तरगुणान्वितः ॥

॥१२०॥

वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः ।

विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः ॥

॥१२१॥

विपाशो विगतातङ्को विचित्राङ्गो विरोचनः ।

विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥

॥१२२॥

वचस्करो व्यापकश्च विज्ञानी विनयान्वितः ।

विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् ॥

॥१२३॥

वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः ।

विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥

॥१२४॥

वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् ।

विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥

॥१२५॥

वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वरासनः ।

विशाखो विमलो वाग्मी विद्वान्वेदधरो वटुः ॥

॥१२६॥

वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः ।

विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥

॥१२७॥

वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी ।

वरशीलो वरगुणो विशोको वज्रधारकः ॥

॥१२८॥

शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः ।

श्रीमान्शिष्टः शुचिः शुद्धः शाश्वतो श्रुतिसागरः ॥

॥१२९॥

शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः ।

शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः ॥

॥१३०॥

शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः ।

षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः ॥

॥१३१॥

षट्चक्रस्थः षडूर्मिघ्नः षडङ्गश्रुतिपारगः ।

षड्भावरहितः षट्कः षट्शास्त्रस्मृतिपारगः ॥

॥१३२॥

षड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः ।

षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः ॥

॥१३३॥

षट्कोणमध्यनिलयः षण्डत्वपरिहारकः ।

सेनानीः सुभगः स्कन्दः सुरानन्दः सतां गतिः ॥

॥१३४॥

सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी ।

सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः ॥

॥१३५॥

सिद्धार्थः सिद्धसङ्कल्पः सिद्धसाधुः सुरेश्वरः ।

सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः ॥

॥१३६॥

सुधापतिः स्वयञ्ज्योतिः स्वयम्भूः सर्वतोमुखः ।

समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥

॥१३७॥

सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः ।

सम्भाव्यः सुमनाः सेव्यः सकलागमपारगः ॥

॥१३८॥

सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ।

सर्वलक्षणसम्पन्नः सत्यधर्मपरायणः ॥

॥१३९॥

सर्वदेवमयः सत्यः सदा मृष्टान्नदायकः ।

सुधापी सुमतिः सत्यः सर्वविघ्नविनाशनः ॥

॥१४०॥

सर्वदुःखप्रशमनः सुकुमारः सुलोचनः ।

सुग्रीवः सुधृतिः सारः सुराराध्यः सुविक्रमः ॥

॥१४१॥

सुरारिघ्नः स्वर्णवर्णः सर्पराजः सदा शुचिः ।

सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः ॥

॥१४२॥

हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः ।

हस्तचित्रायुधधरो हृताघो हसिताननः ॥

॥१४३॥

हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः ।

हेमाद्रिभिद्धंसरूपो हुङ्कारहतकिल्बिषः ॥

॥१४४॥

हिमाद्रिजातातनुजो हरिकेशो हिरण्मयः ।

हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥

॥१४५॥

हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।

हरप्रियो हितकरो हतपापो हरोद्भवः ॥

॥१४६॥

क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ।

क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः ॥

॥१४७॥

क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।

क्षालिताघः क्षितिधरः क्षीणसंरक्षणक्षमः ॥

॥१४८॥

क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकः ।

क्षितिभृन्नाथतनयामुखपङ्कजभास्करः ॥

॥१४९॥

क्षताहितः क्षरः क्षन्ता क्षतदोषः क्षमानिधिः ।

क्षपिताखिलसन्तापः क्षपानाथसमाननः ॥

॥१५०॥

फलश्रुतिः

इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।

यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥

॥१५१॥

स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ।

आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥

॥१५२॥

वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति ।

तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥

॥१५३॥

इति श्रीस्कान्दे महापुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे षण्मुखसहस्रनामस्तोत्रं सम्पूर्णम्