मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

लक्ष्मी सहस्र नाम स्तोत्रम्

Also spelled: Lakshmi Sahasra Nama Stotram · Lakshmi Sahasra Nama Sthothram

3

स्कन्दपुराणम्

हरिः ॐ

नाम्नां साष्टसहस्रञ्च ब्रूहि गार्ग्य महामते ।

महालक्ष्म्या महादेव्या भुक्तिमुक्त्यर्थसिद्धये ॥

॥१॥

गार्ग्य उवाच

सनत्कुमारमासीनं द्वादशादित्यसन्निभम् ।

अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥

॥२॥

सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै ।

भुक्तिमुक्तिप्रदं जप्यमनुब्रूही दयानिधे ॥

॥३॥

सनत्कुमार भगवन्सर्वज्ञोऽसि विशेषतः ।

आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम् ॥

॥४॥

खिद्यन्ति मानवास्सर्वे धनाभावेन केवलम् ।

सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः ॥

॥५॥

दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता ।

केन वा ब्रह्मविद्याऽपि केन मृत्युविनाशिनी ॥

॥६॥

सर्वासां सारभूतैका विद्यानां केन कीर्तिता ।

प्रत्यक्षसिद्धिदा ब्रह्मन् तामाचक्ष्व दयानिधे ॥

॥७॥

सनत्कुमार उवाच

साधु पृष्टं महाभागास्सर्वलोकहितैषिणः ।

महतामेष धर्मश्च नान्येषामिति मे मतिः ॥

॥८॥

ब्रह्मविष्णुमहादेवमहेन्द्रादिमहात्मभिः ।

सम्प्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकम् ॥

॥९॥

यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः ।

किं पुनस्तज्जपाज्जापी सर्वेष्टार्थानवाप्नुयात् ॥

॥१०॥

अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य आनन्दकर्दमचिक्लीतेन्दिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छन्दः । विष्णुमाया शक्तिः महालक्ष्मीः परादेवता । श्रीमहालक्ष्मीप्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः ।

श्रीमित्यादि षडङ्गन्यासः ।

ध्यानम्

पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीम् ।

पद्मवक्त्रां पद्महस्तां वन्दे पद्मामहर्निशम् ॥

॥११॥

पूर्णेन्दुवदनां दिव्यरत्नाभरणभूषिताम् ।

वरदाभयहस्ताढ्यां ध्यायेच्चन्द्रसहोदरीम् ॥

॥१२॥

इच्छारूपां भगवतस्सच्चिदानन्दरूपिणीम् ।

सर्वज्ञां सर्वजननीं विष्णुवक्षस्स्थलालयाम् ॥

॥१३॥

दयालुमनिशं ध्यायेत्सुखसिद्धिस्वरूपिणीम् ।

॥१४॥

यथोपदेशं जपित्वा, यथाक्रमं देव्यै समर्प्य, ततश्शाम्भवीमुद्रया लक्ष्मीमनुसन्धाय, नामसहस्रं जपेत् । हरिः ॐ ॥

नित्यागतानन्तनित्या नन्दिनी जनरञ्जनी ।

नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी ॥

॥१५॥

महालक्ष्मीर्महाकाली महाकन्या सरस्वती ।

भोगवैभवसन्धात्री भक्तानुग्रहकारिणी ॥

॥१६॥

ईशावास्या महामाया महादेवी महेश्वरी ।

हृल्लेखा परमा शक्तिर्मातृकाबीजरूपिणी ॥

॥१७॥

नित्यानन्दा नित्यबोधा नादिनी जनमोदिनी ।

सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी ॥

॥१८॥

त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा ।

वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना ॥

॥१९॥

भद्रकाली कराली च महाकाली तिलोत्तमा ।

काली करालवक्त्रान्ता कामाक्षी कामदा शुभा ॥

॥२०॥

चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी ।

त्रैलोक्यजयिनी देवी त्रैलोक्यविजयोत्तमा ॥

॥२१॥

सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी ।

उमा भगवती दुर्गा चान्द्री दाक्षायणी शिवा ॥

॥२२॥

प्रत्यङ्गिरा धरावेला लोकमाता हरिप्रिया ।

पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥

॥२३॥

अरूपा बहुरूपा च विरूपा विश्वरूपिणी ।

पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा ॥

॥२४॥

काली मा पञ्चिका वाग्मी हविःप्रत्यधिदेवता ।

देवमाता सुरेशाना देवगर्भाऽम्बिका धृतिः ॥

॥२५॥

सङ्ख्या जातिः क्रियाशक्तिः प्रकृतिर्मोहिनी मही ।

यज्ञविद्या महाविद्या गुह्यविद्या विभावरी ॥

॥२६॥

ज्योतिष्मती महामाता सर्वमन्त्रफलप्रदा ।

दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी ॥

॥२७॥

सहस्रादित्यसङ्काशा चन्द्रिका चन्द्ररूपिणी ।

गायत्री सोमसम्भूतिस्सावित्री प्रणवात्मिका ॥

॥२८॥

शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता ।

सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी ॥

॥२९॥

जया च विजया चैव जयन्ती चाऽपराजिता ।

कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी ॥

॥३०॥

सर्वज्ञशक्तिश्श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका ।

इडापिङ्गलिकामध्यमृणालीतन्तुरूपिणी ॥

॥३१॥

यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी ।

अष्टाङ्गयोगिनी देवी निर्बीजध्यानगोचरा ॥

॥३२॥

सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी ।

वेदशास्त्रप्रमा देवी षडङ्गादिपदक्रमा ॥

॥३३॥

शिवा धात्री शुभानन्दा यज्ञकर्मस्वरूपिणी ।

व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी ॥

॥३४॥

एकाक्षरपरा तारा भवबन्धविनाशिनी ।

विश्वम्भरा धराधारा निराधाराऽधिकस्वरा ॥

॥३५॥

राका कुहूरमावास्या पूर्णिमाऽनुमतिर्द्युतिः ।

सिनीवाली शिवाऽवश्या वैश्वदेवी पिशङ्गिला ॥

॥३६॥

पिप्पला च विशालाक्षी रक्षोघ्नी वृष्टिकारिणी ।

दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी ॥

॥३७॥

शारदा शरसन्धाना सर्वशस्त्रस्वरूपिणी ।

युद्धमध्यस्थिता देवी सर्वभूतप्रभञ्जनी ॥

॥३८॥

अयुद्धा युद्धरूपा च शान्ता शान्तिस्वरूपिणी ।

गङ्गा सरस्वतीवेणीयमुनानर्मदापगा ॥

॥३९॥

समुद्रवसनावासा ब्रह्माण्डश्रोणिमेखला ।

पञ्चवक्त्रा दशभुजा शुद्धस्फटिकसन्निभा ॥

॥४०॥

रक्ता कृष्णा सिता पीता सर्ववर्णा निरीश्वरी ।

कालिका चक्रिका देवी सत्या तु वटुकास्थिता ॥

॥४१॥

तरुणी वारुणी नारी ज्येष्ठादेवी सुरेश्वरी ।

विश्वम्भराधरा कर्त्री गलार्गलविभञ्जनी ॥

॥४२॥

सन्ध्यारात्रिर्दिवाज्योत्स्त्ना कलाकाष्ठा निमेषिका ।

उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी ॥

॥४३॥

कपिला कीलिकाऽशोका मल्लिकानवमल्लिका ।

देविका नन्दिका शान्ता भञ्जिका भयभञ्जिका ॥

॥४४॥

कौशिकी वैदिकी देवी सौरी रूपाधिकाऽतिभा ।

दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा ॥

॥४५॥

श्रीस्सौम्यलक्षणाऽतीतदुर्गा सूत्रप्रबोधिका ।

श्रद्धा मेधा कृतिः प्रज्ञा धारणा कान्तिरेव च ॥

॥४६॥

श्रुतिः स्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी ।

विरक्तिर्व्यापिनी माया सर्वमायाप्रभञ्जनी ॥

॥४७॥

माहेन्द्री मन्त्रिणी सिंही चेन्द्रजालस्वरूपिणी ।

अवस्थात्रयनिर्मुक्ता गुणत्रयविवर्जिता ॥

॥४८॥

ईषणात्रयनिर्मुक्ता सर्वरोगविवर्जिता ।

योगिध्यानान्तगम्या च योगध्यानपरायणा ॥

॥४९॥

त्रयीशिखा विशेषज्ञा वेदान्तज्ञानरूपिणी ।

भारती कमला भाषा पद्मा पद्मवती कृतिः ॥

॥५०॥

गौतमी गोमती गौरी ईशाना हंसवाहनी ।

नारायणी प्रभाधारा जाह्नवी शङ्करात्मजा ॥

॥५१॥

चित्रघण्टा सुनन्दा श्रीर्मानवी मनुसम्भवा ।

स्तम्भिनी क्षोभिणी मारी भ्रामिणी शत्रुमारिणी ॥

॥५२॥

मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी ।

रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी ॥

॥५३॥

देवदुर्गा महादुर्गा स्वप्नदुर्गाऽष्टभैरवी ।

सूर्यचन्द्राग्निरूपा च ग्रहनक्षत्ररूपिणी ॥

॥५४॥

बिन्दुनादकलातीता बिन्दुनादकलात्मिका ।

दशवायुजयाकारा कलाषोडशसंयुता ॥

॥५५॥

काश्यपी कमलादेवी नादचक्रनिवासिनी ।

मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी ॥

॥५६॥

अविद्या शार्वरी भुञ्जा जम्भासुरनिबर्हिणी ।

श्रीकाया श्रीकला शुभ्रा कर्मनिर्मूलकारिणी ॥

॥५७॥

आदिलक्ष्मीर्गुणाधारा पञ्चब्रह्मात्मिका परा ।

श्रुतिर्ब्रह्ममुखावासा सर्वसम्पत्तिरूपिणी ॥

॥५८॥

मृतसञ्जीविनी मैत्री कामिनी कामवर्जिता ।

निर्वाणमार्गदा देवी हंसिनी काशिका क्षमा ॥

॥५९॥

सपर्या गुणिनी भिन्ना निर्गुणा खण्डिताशुभा ।

स्वामिनी वेदिनी शक्या शाम्बरी चक्रधारिणी ॥

॥६०॥

दण्डिनी मुण्डिनी व्याघ्री शिखिनी सोमसंहतिः ।

चिन्तामणिश्चिदानन्दा पञ्चबाणाग्रबोधिनी ॥

॥६१॥

बाणश्रेणिस्सहस्राक्षी सहस्रभुजपादुका ।

सन्ध्यावलिस्त्रिसन्ध्याख्या ब्रह्माण्डमणिभूषणा ॥

॥६२॥

वासवी वारुणीसेना कुलिका मन्त्ररञ्जनी ।

जितप्राणस्वरूपा च कान्ता काम्यवरप्रदा ॥

॥६३॥

मन्त्रब्राह्मणविद्यार्था नादरूपा हविष्मती ।

आथर्वणी श्रुतिशून्या कल्पनावर्जिता सती ॥

॥६४॥

सत्ताजातिः प्रमाऽमेयाऽप्रमितिः प्राणदा गतिः ।

अवर्णा पञ्चवर्णा च सर्वदा भुवनेश्वरी ॥

॥६५॥

त्रैलोक्यमोहिनी विद्या सर्वभर्त्री क्षराऽक्षरा ।

हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी ॥

॥६६॥

कैवल्यपदवीरेखा सूर्यमण्डलसंस्थिता ।

सोममण्डलमध्यस्था वह्निमण्डलसंस्थिता ॥

॥६७॥

वायुमण्डलमध्यस्था व्योममण्डलसंस्थिता ।

चक्रिका चक्रमध्यस्था चक्रमार्गप्रवर्तिनी ॥

॥६८॥

कोकिलाकुलचक्रेशा पक्षतिः पंक्तिपावनी ।

सर्वसिद्धान्तमार्गस्था षड्वर्णावरवर्जिता ॥

॥६९॥

शररुद्रहरा हन्त्री सर्वसंहारकारिणी ।

पुरुषा पौरुषी तुष्टिस्सर्वतन्त्रप्रसूतिका ॥

॥७०॥

अर्धनारीश्वरी देवी सर्वविद्याप्रदायिनी ।

भार्गवी याजुषीविद्या सर्वोपनिषदास्थिता ॥

॥७१॥

व्योमकेशाखिलप्राणा पञ्चकोशविलक्षणा ।

पञ्चकोशात्मिका प्रत्यक्पञ्चब्रह्मात्मिका शिवा ॥

॥७२॥

जगज्जराजनित्री च पञ्चकर्मप्रसूतिका ।

वाग्देव्याभरणाकारा सर्वकाम्यस्थितस्थितिः ॥

॥७३॥

अष्टादशचतुष्षष्ठिपीठिका विद्यया युता ।

कालिकाकर्षणश्यामा यक्षिणी किन्नरेश्वरी ॥

॥७४॥

केतकी मल्लिकाशोका वाराही धरणी ध्रुवा ।

नारसिंही महोग्रास्या भक्तानामार्तिनाशिनी ॥

॥७५॥

अन्तर्बला स्थिरा लक्ष्मीर्जरामरणनाशिनी ।

श्रीरञ्जिता महाकाया सोमसूर्याग्निलोचना ॥

॥७६॥

अदितिर्देवमाता च अष्टपुत्राऽष्टयोगिनी ।

अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः ॥

॥७७॥

दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी ।

ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी ॥

॥७८॥

शाकम्भरी महाशोणा गरुडोपरिसंस्थिता ।

सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा ॥

॥७९॥

अकारादिक्षकारान्ता सर्वविद्याधिदेवता ।

मन्त्रव्याख्याननिपुणा ज्योतिश्शास्त्रैकलोचना ॥

॥८०॥

इडापिङ्गलिकामध्यासुषुम्ना ग्रन्थिभेदिनी ।

कालचक्राश्रयोपेता कालचक्रस्वरूपिणी ॥

॥८१॥

वैशारदी मतिश्श्रेष्ठा वरिष्ठा सर्वदीपिका ।

वैनायकी वरारोहा श्रोणिवेला बहिर्वलिः ॥

॥८२॥

जम्भिनी जृम्भिणी जृम्भकारिणी गणकारिका ।

शरणी चक्रिकाऽनन्ता सर्वव्याधिचिकित्सकी ॥

॥८३॥

देवकी देवसङ्काशा वारिधिः करुणाकरा ।

शर्वरी सर्वसम्पन्ना सर्वपापप्रभञ्जिनी ॥

॥८४॥

एकमात्रा द्विमात्रा च त्रिमात्रा च तथापरा ।

अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्थाऽर्थपराऽपरा ॥

॥८५॥

एकवीरा विशेषाख्या षष्ठीदेवी मनस्विनी ।

नैष्कर्म्या निष्कलालोका ज्ञानकर्माधिका गुणा ॥

॥८६॥

सबन्ध्वानन्दसन्दोहा व्योमाकाराऽनिरूपिता ।

गद्यपद्यात्मिका वाणी सर्वालङ्कारसंयुता ॥

॥८७॥

साधुबन्धपदन्यासा सर्वौको घटिकावलिः ।

षट्कर्मा कर्कशाकारा सर्वकर्मविवर्जिता ॥

॥८८॥

आदित्यवर्णा चापर्णा कामिनी वररूपिणी ।

ब्रह्माणी ब्रह्मसन्ताना वेदवागीश्वरी शिवा ॥

॥८९॥

पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुता ।

सद्योवेदवती सर्वा हंसी विद्याधिदेवता ॥

॥९०॥

विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी ।

वैदिकी वेदरूपा च कालिका कालरूपिणी ॥

॥९१॥

नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी ।

हिरण्यवर्णरूपा च हिरण्यपदसम्भवा ॥

॥९२॥

कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता ।

ब्रह्मसम्पत्तिरूपा च ब्रह्मसम्पत्तिकारिणी ॥

॥९३॥

वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी ।

एकाक्षरपराऽऽयुक्ता सर्वदारिद्र्यभञ्जिनी ॥

॥९४॥

पाशांकुशान्विता दिव्या वीणाव्याख्याक्षसूत्रभृत् ।

एकमूर्तिस्त्रयीमूर्तिर्मधुकैटभभञ्जिनी ॥

॥९५॥

सांख्या सांख्यवती ज्वाला ज्वलन्ती कामरूपिणी ।

जाग्रन्ती सर्वसम्पत्तिस्सुषुप्तान्वेष्टदायिनी ॥

॥९६॥

कपालिनी महादंष्ट्रा भ्रुकुटी कुटिलानना ।

सर्वावासा सुवासा च बृहत्यष्टिश्च शक्वरी ॥

॥९७॥

छन्दोगणप्रतिष्ठा च कल्माषी करुणात्मिका ।

चक्षुष्मती महाघोषा खड्गचर्मधराऽशनिः ॥

॥९८॥

शिल्पवैचित्र्यविद्योता सर्वतोभद्रवासिनी ।

अचिन्त्यलक्षणाकारा सूत्रभाष्यनिबन्धना ॥

॥९९॥

सर्ववेदार्थसम्पत्तिस्सर्वशास्त्रार्थमातृका ।

अकारादिक्षकारान्तसर्ववर्णकृतस्थला ॥

॥१००॥

सर्वलक्ष्मीस्सदानन्दा सारविद्या सदाशिवा ।

सर्वज्ञा सर्वशक्तिश्च खेचरीरूपगोच्छ्रिता ॥

॥१०१॥

अणिमादिगुणोपेता परा काष्ठा परा गतिः ।

हंसयुक्तविमानस्था हंसारूढा शशिप्रभा ॥

॥१०२॥

भवानी वासनाशक्तिराकृतिस्थाखिलाऽखिला ।

तन्त्रहेतुर्विचित्राङ्गी व्योमगङ्गाविनोदिनी ॥

॥१०३॥

वर्षा च वार्षिका चैव ऋग्यजुस्सामरूपिणी ।

महानदीनदीपुण्याऽगण्यपुण्यगुणक्रिया ॥

॥१०४॥

समाधिगतलभ्यार्था श्रोतव्या स्वप्रिया घृणा ।

नामाक्षरपरा देवी उपसर्गनखाञ्चिता ॥

॥१०५॥

निपातोरुद्वयीजङ्घा मातृका मन्त्ररूपिणी ।

आसीना च शयाना च तिष्ठन्ती धावनाधिका ॥

॥१०६॥

लक्ष्यलक्षणयोगाढ्या ताद्रूप्यगणनाकृतिः ।

सैकरूपा नैकरूपा सेन्दुरूपा तदाकृतिः ॥

॥१०७॥

समासतद्धिताकारा विभक्तिवचनात्मिका ।

स्वाहाकारा स्वधाकारा श्रीपत्यर्धाङ्गनन्दिनी ॥

॥१०८॥

गम्भीरा गहना गुह्या योनिलिङ्गार्धधारिणी ।

शेषवासुकिसंसेव्या चषाला वरवर्णिनी ॥

॥१०९॥

कारुण्याकारसम्पत्तिः कीलकृन्मन्त्रकीलिका ।

शक्तिबीजात्मिका सर्वमन्त्रेष्टाक्षयकामना ॥

॥११०॥

आग्नेयी पार्थिवा आप्या वायव्या व्योमकेतना ।

सत्यज्ञानात्मिकाऽऽनन्दा ब्राह्मी ब्रह्म सनातनी ॥

॥१११॥

अविद्यावासना मायाप्रकृतिस्सर्वमोहिनी ।

शक्तिर्धारणशक्तिश्च चिदचिच्छक्तियोगिनी ॥

॥११२॥

वक्त्रारुणा महामाया मरीचिर्मदमर्दिनी ।

निरूपिताद्वयीविद्या नित्यानित्यस्वरूपिणी ।

वैराजमार्गसञ्चारा सर्वसत्पथदर्शिनी ॥

॥११३॥

जालन्धरी मृडानी च भवानी भवभञ्जनी ।

त्रैकालिकज्ञानतन्तुस्त्रिकालज्ञानदायिनी ॥

॥११४॥

नादातीता स्मृतिः प्रज्ञा धात्रीरूपा त्रिपुष्करा ।

पराजिताविधानज्ञा विशेषितगुणात्मिका ॥

॥११५॥

हिरण्यकेशिनी हेमब्रह्मसूत्रविचक्षणा ।

असंख्येयपरार्धान्तस्वरव्यञ्जनवैखरी ॥

॥११६॥

मधुजिह्वा मधुमती मधुमासोदया मधुः ।

माधवी च महाभागा मेघगम्भीरनिस्वना ॥

॥११७॥

ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगा ।

नाभौ वह्निशिखाकारा ललाटे चन्द्रसन्निभा ॥

॥११८॥

भ्रूमध्ये भास्कराकारा सर्वताराकृतिर्हृदि ।

कृत्तिकादिभरण्यन्तनक्षत्रेष्ट्यार्चितोदया ॥

॥११९॥

ग्रहविद्यात्मिका ज्योतिर्ज्योतिर्विन्मतिजीविका ।

ब्रह्माण्डगर्भिणी बाला सप्तावरणदेवता ॥

॥१२०॥

वैराजोत्तमसाम्राज्या कुमारकुशलोदया ।

बगला भ्रमराम्बा च शिवदूती शिवात्मिका ॥

॥१२१॥

मेरुविन्ध्यादिसंस्थाना काश्मीरपुरवासिनी ।

योगनिद्रा महानिद्रा विनिद्रा राक्षसाश्रिता ॥

॥१२२॥

सुवर्णदा महागङ्गा पञ्चाख्या पञ्चसंहतिः ।

सुप्रजाता सुवीरा च सुपोषा सुपतिश्शिवा ॥

॥१२३॥

सुगृहा रक्तबीजान्ता हतकन्दर्पजीविका ।

समुद्रव्योममध्यस्था समबिन्दुसमाश्रया ॥

॥१२४॥

सौभाग्यरसजीवातुस्सारासारविवेकदृक् ।

त्रिवल्यादिसुपुष्टाङ्गा भारती भरताश्रिता ॥

॥१२५॥

नादब्रह्ममयीविद्या ज्ञानब्रह्ममयीपरा ।

ब्रह्मनाडी निरुक्तिश्च ब्रह्मकैवल्यसाधनम् ॥

॥१२६॥

कालिकेयमहोदारवीर्यविक्रमरूपिणी ।

वडबाग्निशिखावक्त्रा महाकबलतर्पणा ॥

॥१२७॥

महाभूता महादर्पा महासारा महाक्रतुः ।

पञ्जभूतमहाग्रासा पञ्चभूताधिदेवता ॥

॥१२८॥

सर्वप्रमाणा सम्पत्तिस्सर्वरोगप्रतिक्रिया ।

ब्रह्माण्डान्तर्बहिर्व्याप्ता विष्णुवक्षोविभूषणी ॥

॥१२९॥

शाङ्करी विधिवक्त्रस्था प्रवरा वरहेतुकी ।

हेममाला शिखामाला त्रिशिखा पञ्चमोचना ॥

॥१३०॥

सर्वागमसदाचारमर्यादा यातुभञ्जनी ।

पुण्यश्लोकप्रबन्धाढ्या सर्वान्तर्यामिरूपिणी ॥

॥१३१॥

सामगानसमाराध्या श्रोत्रकर्णरसायनम् ।

जीवलोकैकजीवातुर्भद्रोदारविलोकना ॥

॥१३२॥

तटित्कोटिलसत्कान्तिस्तरुणी हरिसुन्दरी ।

मीननेत्रा च सेन्द्राक्षी विशालाक्षी सुमङ्गला ॥

॥१३३॥

सर्वमङ्गलसम्पन्ना साक्षान्मङ्गलदेवता ।

देहहृद्दीपिका दीप्तिर्जिह्मपापप्रणाशिनी ॥

॥१३४॥

अर्धचन्द्रोल्लसद्दंष्ट्रा यज्ञवाटीविलासिनी ।

महादुर्गा महोत्साहा महादेवबलोदया ॥

॥१३५॥

डाकिनीड्या शाकिनीड्या साकिनीड्या समस्तजुट् ।

निरङ्कुशा नाकिवन्द्या षडाधाराधिदेवता ॥

॥१३६॥

भुवनज्ञानिनिश्श्रेणी भुवनाकारवल्लरी ।

शाश्वती शाश्वताकारा लोकानुग्रहकारिणी ॥

॥१३७॥

सारसी मानसी हंसी हंसलोकप्रदायिनी ।

चिन्मुद्रालङ्कृतकरा कोटिसूर्यसमप्रभा ॥

॥१३८॥

सुखप्राणिशिरोरेखा सददृष्टप्रदायिनी ।

सर्वसाङ्कर्यदोषघ्नी ग्रहोपद्रवनाशिनी ॥

॥१३९॥

क्षुद्रजन्तुभयघ्नी च विषरोगादिभञ्जनी ।

सदाशान्ता सदाशुद्धा गृहच्छिद्रनिवारिणी ॥

॥१४०॥

कलिदोषप्रशमनी कोलाहलपुरस्स्थिता ।

गौरी लाक्षणकी मुख्या जघन्याकृतिवर्जिता ॥

॥१४१॥

माया विद्या मूलभूता वासवी विष्णुचेतना ।

वादिनी वसुरूपा च वसुरत्नपरिच्छदा ॥

॥१४२॥

छान्दसी चन्द्रहृदया मन्त्रस्वच्छन्दभैरवी ।

वनमाला वैजयन्ती पञ्चदिव्यायुधात्मिका ॥

॥१४३॥

पीताम्बरमयी चञ्चत्कौस्तुभा हरिकामिनी ।

नित्या तथ्या रमा रामा रमणी मृत्युभञ्जनी ॥

॥१४४॥

ज्येष्ठा काष्ठा धनिष्ठान्ता शराङ्गी निर्गुणप्रिया ।

मैत्रेया मित्रविन्दा च शेष्यशेषकलाशया ॥

॥१४५॥

वाराणसीवासरता चार्यावर्तजनस्तुता ।

जगदुत्पत्तिसंस्थानसंहारत्रयकारणम् ॥

॥१४६॥

त्वमम्ब विष्णुसर्वस्वं नमस्तेऽस्तु महेश्वरि ।

नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये ॥

॥१४७॥

सिद्धलक्ष्मीर्महाकालि महलक्ष्मि नमोऽस्तु ते ।

सद्योजातादिपञ्चाग्निरूपा पञ्चकपञ्चकम् ॥

॥१४८॥

यन्त्रलक्ष्मीर्भवत्यादिराद्याद्ये ते नमो नमः ।

सृष्ट्यादिकारणाकारवितते दोषवर्जिते ॥

॥१४९॥

जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नि नमोऽस्तु ते ।

नवकोटिमहाशक्तिसमुपास्यपदाम्बुजे ॥

॥१५०॥

कनत्सौवर्णरत्नाढ्ये सर्वाभरणभूषिते ।

अनन्तानित्यमहिषीप्रपञ्चेश्वरनायकि ॥

॥१५१॥

अत्युच्छ्रितपदान्तस्थे परमव्योमनायकि ।

नाकपृष्ठगताराध्ये विष्णुलोकविलासिनि ॥

॥१५२॥

वैकुण्ठराजमहिषि श्रीरङ्गनगराश्रिते ।

रङ्गनायकि भूपुत्रि कृष्णे वरदवल्लभे ॥

॥१५३॥

कोटिब्रह्मादिसंसेव्ये कोटिरुद्रादिकीर्तिते ।

मातुलुङ्गमयं खेटं सौवर्णचषकं तथा ॥

॥१५४॥

पद्मद्वयं पूर्णकुम्भं कीरञ्च वरदाभये ।

पाशमङ्कुशकं शङ्खं चक्रं शूलं कृपाणिकाम् ॥

॥१५५॥

धनुर्बाणौ चाक्षमालां चिन्मुद्रामपि बिभ्रती ।

अष्टादशभुजे लक्ष्मीर्महाष्टादशपीठगे ॥

॥१५६॥

भूमिनीलादिसंसेव्ये स्वामिचित्तानुवर्तिनि।

पद्मे पद्मालये पद्मि पूर्णकुम्भाभिषेचिते ॥

॥१५७॥

इन्दिरेन्दिन्दिराभाक्षि क्षीरसागरकन्यके ।

भार्गवि त्वं स्वतन्त्रेच्छा वशीकृतजगत्पतिः ॥

॥१५८॥

मङ्गलं मङ्गलानां त्वं देवतानां च देवता ।

त्वमुत्तमोत्तमानाञ्च त्वं श्रेयः परमामृतम् ॥

॥१५९॥

धनधान्याभिवृद्धिश्च सार्वभौमसुखोच्छ्रया ।

आन्दोलिकादिसौभाग्यं मत्तेभादिमहोदयः ॥

॥१६०॥

पुत्रपौत्राभिवृद्धिश्च विद्याभोगबलादिकम् ।

आयुरारोग्यसम्पत्तिरष्टैश्वर्यं त्वमेव हि ॥

॥१६१॥

पदमेव विभूतिश्च सूक्ष्मासूक्ष्मतरागतिः ।

सदयापाङ्गसन्दत्तब्रह्मेन्द्रादिपदस्थितिः ॥

॥१६२॥

अव्याहतमहाभाग्यं त्वमेवाक्षोभ्यविक्रमः ।

समन्वयश्च वेदानामविरोधस्त्वमेव हि ॥

॥१६३॥

निःश्रेयसपदप्राप्तिसाधनं फलमेव च ।

श्रीमन्त्रराजराज्ञी च श्रीविद्या क्षेमकारिणी ॥

॥१६४॥

श्रीबीजजपसन्तुष्टा ऐं ह्रीं श्रीं बीजपालिका ।

प्रपत्तिमार्गसुलभा विष्णुप्रथमकिङ्करी ॥

॥१६५॥

क्लीङ्कारार्थसवित्री च सौमङ्गल्याधिदेवता ।

श्रीषोडशाक्षरीविद्या श्रीयन्त्रपुरवासिनी ॥

॥१६६॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥

॥१६७॥

पुनः पुनर्नमस्तेऽस्तु साष्टाङ्गमयुतं पुनः ।

॥१६८॥

सनत्कुमार उवाच

एवं स्तुता महालक्ष्मीर्ब्रह्मरुद्रादिभिस्सुरैः ।

नमद्भिरार्तैर्दीनैश्च निस्स्वत्वैर्भोगवर्जितैः ॥

॥१६९॥

ज्येष्ठा जुष्टैश्च निश्श्रीकैस्संसारात्स्वपरायणैः ।

विष्णुपत्नी ददौ तेषां दर्शनं दृष्टितर्पणम् ॥

॥१७०॥

शरत्पूर्णेन्दुकोट्याभधवलापाङ्गवीक्षणैः ।

सर्वात्सत्त्वसमाविष्टांश्चक्रे हृष्टा वरं ददौ ॥

॥१७१॥

महालक्ष्मीरुवाच

नाम्नां साष्टसहस्रं मे प्रमादाद्वापि यस्सकृत् ।

कीर्तयेत्तत्कुले सत्यं वसाम्याचन्द्रतारकम् ॥

॥१७२॥

किं पुनर्नियमाज्जप्तुर्मदेकशरणस्य च ।

मातृवत्सानुकम्पाहं पोषकी स्यामहर्निशम् ॥

॥१७३॥

मन्नाम स्तवतां लोके दुर्लभं नास्ति चिन्तितम् ।

मत्प्रसादेन सर्वेऽपि स्वस्वेष्टार्थमवाप्स्यथ ॥

॥१७४॥

लुप्तवैष्णवधर्मस्य मद्व्रतेष्ववकीर्णिनः ।

भक्तिप्रपत्तिहीनस्य वन्द्यो नाम्नां जरापि मे ॥

॥१७५॥

तस्मादवश्यं तैर्दोषैर्विहीनः पापवर्जितः ।

जपेत्साष्टसहस्रं मे नाम्नां प्रत्यहमादरात् ॥

॥१७६॥

साक्षादलक्ष्मीपुत्रोऽपि दुर्भाग्योऽप्यलसोऽपि वा ।

अप्रयत्नोऽपि मूढोऽपि विकलः पतितोऽपि च ॥

॥१७७॥

अवशात्प्राप्नुयाद्भाग्यं मत्प्रसादेन केवलम् ।

स्पृहेयमचिराद्देवाः वरदानाय जापिनः ॥

॥१७८॥

ददामि सर्वमिष्टार्थं लक्ष्मीति स्मरतां ध्रुवम् ।

॥१७९॥

सनत्कुमार उवाच

इत्युक्त्वाऽन्तर्दधे लक्ष्मीर्वैष्णवी भगवत्कला ॥

॥१८०॥

इष्टापूर्तं च सुकृतं भागधेयं च चिन्तितम् ।

स्वं स्वं स्थानं च भोगं च विजयं लेभिरे सुराः ॥

॥१८१॥

तदेतत् प्रवदाम्यद्य लक्ष्मीनामसहस्रकम् ।

योगिनः पठत क्षिप्रं चिन्तितार्थानवाप्स्यथ ॥

॥१८२॥

गार्ग्य उवाच

सनत्कुमारोयोगीन्द्र इत्युक्त्वा स दयानिधिः ।

अनुगृह्य ययौ क्षिप्रं तांश्च द्वादशयोगिनः ॥

॥१८३॥

तस्मादेतद्रहस्यञ्च गोप्यं जप्यं प्रयत्नतः ।

अष्टम्यां च चतुर्दश्यां नवम्यां भृगुवासरे ॥

॥१८४॥

पौर्णमास्याममायां च पर्वकाले विशेषतः ।

जपेद्वा नित्यकार्येषु सर्वान्कामानवाप्नुयात् ॥

॥१८५॥

इति श्रीस्कन्दपुराणे सनत्कुमारसंहितायां लक्ष्मीसहस्रनामस्तोत्रं सम्पूर्णम्