skipLink.label

तृतीयाष्टकम्, एकादशः प्रपाठकः (काठकम्)

तृतीयाष्टकम्, एकादशः प्रपाठकः (काठकम्)

अनुवाक 1

लो॒को॑ऽसि स्व॒र्गो॑ऽसि।
अ॒न॒न्तो᳚ऽस्यपा॒रो॑ऽसि।
अक्षि॑तोऽस्यक्ष॒य्यो॑ऽसि।
तप॑सः प्रति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता।
तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वतया॑ऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१॥

तपो॑ऽसि लो॒के श्रि॒तम्।
तेज॑सः प्रति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ।
तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वतया॑ऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥२॥

तेजो॑ऽसि॒ तप॑सि श्रि॒तम्।
स॒मु॒द्रस्य॑ प्रति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ।
तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥३॥

स॒मु॒द्रो॑ऽसि॒ तेज॑सि श्रि॒तः।
अ॒पां प्र॑ति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता।
तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥४॥

आपः॑ स्थ समु॒द्रे श्रि॒ताः।
पृ॒थि॒व्याः प्र॑ति॒ष्ठा यु॒ष्मासु॑।
इ॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्त्र्यो॑ विश्व॑स्य जनयि॒त्र्यः॑।
ता व॒ उप॑दधे काम॒दुघा॒ अक्षि॑ताः।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वतया॑ऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥५॥

पृ॒थि॒व्य॑स्य॒फ्सु श्रि॒ता।
अ॒ग्नेः प्र॑ति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री।
तां त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥६॥

अ॒ग्निर॑सि पृथि॒व्याꣴ श्रि॒तः।
अ॒न्तरि॑क्षस्य प्रति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता।
तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥७॥

अ॒न्तरि॑क्षमस्य॒ग्नौ श्रि॒तम्।
वा॒योः प्र॑ति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ।
तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥८॥

वा॒युर॑स्य॒न्तरि॑क्षे श्रि॒तः।
दि॒वः प्र॑ति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता।
तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥९॥

द्यौर॑सि वा॒यौ श्रि॒ता।
आ॒दि॒त्यस्य॑ प्रति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री।
तां त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१०॥

आ॒दि॒त्यो॑ऽसि दि॒वि श्रि॒तः।
च॒न्द्रम॑सः प्रति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता।
तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥११॥

च॒न्द्रमा॑ अस्यादि॒त्ये श्रि॒तः।
नक्ष॑त्राणां प्रति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता।
तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१२॥

नक्ष॑त्राणि स्थ च॒न्द्रम॑सि श्रि॒तानि॑।
सं॒व॒थ्स॒रस्य॑ प्रति॒ष्ठा यु॒ष्मासु॑।
इ॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्तॄणि॒ विश्व॑स्य जनयि॒तॄणि॑।
तानि॑ व॒ उप॑दधे काम॒दुघा॒न्यक्षि॑तानि।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१३॥

सं॒व॒थ्स॒रो॑ऽसि॒ नक्ष॑त्रेषु श्रि॒तः।
ऋ॒तू॒नां प्र॑ति॒ष्ठा।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता।
तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१४॥

ऋ॒तवः॑ स्थ संवथ्स॒रे श्रि॒ताः।
मासा॑नां प्रति॒ष्ठा यु॒ष्मासु॑।
इ॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑।
तान् व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१५॥

मासाः᳚ स्थ॒र्तषु॑ श्रि॒ताः।
अ॒र्ध॒मा॒सानां᳚ प्रति॒ष्ठा यु॒ष्मासु॑।
इ॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑।
तान् व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१६॥

अ॒र्ध॒मा॒साः स्थ॑ मा॒सु श्रि॒ताः।
अ॒हो॒रा॒त्रयोः᳚ प्रति॒ष्ठा यु॒ष्मासु॑।
इ॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑।
तान् व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१७॥

अ॒हो॒रा॒त्रे स्थो᳚ऽर्धमा॒सेषु॑ श्रि॒ते।
भू॒तस्य॑ प्रति॒ष्ठे भव्य॑स्य प्रति॒ष्ठे।
यु॒वयो॑रि॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्त्र्यौ॑ विश्व॑स्य जनयि॒त्र्यौ᳚।
ते वा॒मुप॑दधे काम॒दुघे॒ अक्षि॑ते।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१८॥

पौ॒र्ण॒मा॒स्यष्ट॑काऽमावा॒स्या᳚।
अ॒न्ना॒दाः स्था᳚न्न॒दुघो॑ यु॒ष्मासु॑।
इ॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्त्र्यो॑ विश्व॑स्य जनयि॒त्र्यः॑।
ता व॒ उप॑दधे काम॒दुघा॒ अक्षि॑ताः।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥१९॥

राड॑सि बृह॒ती श्रीर॒सीन्द्र॑पत्नी॒ धर्म॑पत्नी।
विश्वं॑ भू॒तमनु॒प्रभू॑ता।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री।
तां त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥२०॥

ओजो॑ऽसि॒ सहो॑ऽसि।
बल॑मसि॒ भ्राजो॑ऽसि।
दे॒वानां॒ धामा॒मृतम्᳚।
अम॑र्त्यस्तपो॒जाः।
त्वयी॒दम॒न्तः।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम्।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता।
तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम्।
प्र॒जाप॑तिस्त्वा सादयतु।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॥२१॥

अनुवाक 2

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः।
त्वꣳ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे।
त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यः।
त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚।
देवा॑ दे॒वेषु॑ श्रयध्वम्।
प्रथ॑मा द्वि॒तीये॑षु श्रयध्वम्।
द्विती॑यास्तृ॒तीये॑षु श्रयध्वम्।
तृती॑याश्चतु॒र्थेषु॑ श्रयध्वम्।
च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयध्वम्।
प॒ञ्च॒माः ष॒ष्ठेषु॑ श्रयध्वम्॥२२॥

ष॒ष्ठाः स॑प्त॒मेषु॑ श्रयध्वम्।
स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयध्वम्।
अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयध्वम्।
न॒व॒मा द॑श॒मेषु॑ श्रयध्वम्।
द॒श॒मा ए॑काद॒शेषु॑ श्रयध्वम्।
ए॒का॒द॒शा द्वा॑द॒शेषु॑ श्रयध्वम्।
द्वा॒द॒शास्त्र॑योद॒शेषु॑ श्रयध्वम्।
त्र॒यो॒द॒शाश्च॑तुर्द॒शेषु॑ श्रयध्वम्।
च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयध्वम्।
प॒ञ्च॒द॒शाः षो॑ड॒शेषु॑ श्रयध्वम्॥२३॥

षो॒ड॒शाः स॑प्तद॒शेषु॑ श्रयध्वम्।
स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयध्वम्।
अ॒ष्टा॒द॒शा ए॑कान्नवि॒ꣳ॒शेषु॑ श्रयध्वम्।
ए॒का॒न्न॒वि॒ꣳ॒शा वि॒ꣳ॒शेषु॑ श्रयध्वम्।
वि॒ꣳ॒शा ए॑कवि॒ꣳ॒शेषु॑ श्रयध्वम्।
ए॒क॒वि॒ꣳ॒शा द्वा॑वि॒ꣳ॒शेषु॑ श्रयध्वम्।
द्वा॒वि॒ꣳ॒शास्त्र॑योवि॒ꣳ॒शे॑षु श्रयध्वम्।
त्र॒यो॒वि॒ꣳ॒शाश्च॑तुर्वि॒ꣳ॒शेषु॑ श्रयध्वम्।
च॒तु॒र्वि॒ꣳ॒शाः प॑ञ्चवि॒ꣳ॒शेषु॑ श्रयध्वम्।
प॒ञ्च॒वि॒ꣳ॒शाः ष॑ड्वि॒ꣳ॒शेषु॑ श्रयध्वम्॥२४॥

ष॒ड्वि॒ꣳ॒शाः स॑प्तवि॒ꣳ॒शेषु॑ श्रयध्वम्।
स॒प्त॒वि॒ꣳ॒शा अ॑ष्टावि॒ꣳ॒शेषु॑ श्रयध्वम्।
अ॒ष्टा॒वि॒ꣳ॒शा ए॑कान्नत्रि॒ꣳ॒शेषु॑ श्रयध्वम्।
ए॒का॒न्न॒त्रि॒ꣳ॒शास्त्रि॒ꣳ॒शेषु॑ श्रयध्वम्।
त्रि॒ꣳ॒शा ए॑कत्रि॒ꣳ॒शेषु॑ श्रयध्वम्।
ए॒क॒त्रि॒ꣳ॒शा द्वा᳚त्रि॒ꣳ॒शेषु॑ श्रयध्वम्।
द्वा॒त्रि॒ꣳ॒शास्त्र॑यस्त्रि॒ꣳ॒शेषु॑ श्रयध्वम्।
देवा᳚स्त्रिरेकादशा॒स्त्रिस्त्र॑यस्त्रिꣳशाः।
उत्त॑रे भवत।
उत्त॑रवर्त्मान॒ उत्त॑रसत्त्वानः।
यत्का॑म इ॒दं जु॒होमि॑।
तन्मे॒ समृ॑ध्यताम्।
व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्।
भूर्भुवः॒ स्वः॑ स्वाहा᳚॥२५॥

अनुवाक 3

अग्ना॑विष्णू स॒जोष॑सा।
इ॒मा व॑र्धन्तु वां॒ गिरः॑।
द्यु॒म्नैर्वाजे॑भि॒राग॑तम्।
राज्ञी॑ वि॒राज्ञी᳚।
स॒म्राज्ञी᳚ स्व॒राज्ञी᳚।
अ॒र्चिः शो॒चिः।
तपो॒ हरो॒ भाः।
अ॒ग्निः सोमो॒ बृह॒स्पतिः॑।
विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः।
ते सर्वे॑ स॒ङ्गत्य॑।
इ॒दं मे॒ प्राव॑ता॒ वचः॑।
व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्।
भूर्भुवः॒ स्वः॑ स्वाहा᳚॥२६॥

अनुवाक 4

अन्न॑प॒तेऽन्न॑स्य नो देहि।
अ॒न॒मी॒वस्य॑ शु॒ष्मिणः॑।
प्र प्र॑दा॒तारं॑ तारिषः।
ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे।
अग्ने॑ पृथिवीपते।
सोम॑ वीरुधां पते।
त्वष्टः॑ समिधां पते।
विष्ण॑वाशानां पते।
मित्र॑ सत्यानां पते।
वरु॑ण धर्मणां पते॥२७॥

म॒रुतो॑ गणानां पतयः।
रुद्र॑ पशूनां पते।
इन्द्रौ॑जसां पते।
बृह॑स्पते ब्रह्मणस्पते।
आ रु॒चा रो॑चे॒ऽहꣴ स्व॒यम्।
रु॒चा रु॑रुचे॒ रोच॑मानः।
अ॒तीत्या॒दः स्व॑राभ॑रे॒ह।
तस्मि॒न् योनौ᳚ प्रज॒नौ प्रजा॑येय।
व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्।
भूर्भुवः॒ स्वः॑ स्वाहा᳚॥२८॥

अनुवाक 5

स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः।
स॒प्तर्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑।
स॒प्त होत्रा॑ अनुवि॒द्वान्।
स॒प्त योनी॒रापृ॑णस्वा घृ॒तेन॑।
प्राची॒ दिक्।
अ॒ग्निर्दे॒वता᳚।
अ॒ग्निꣳ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु।
यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति।
द॒क्षि॒णा दिक्।
इन्द्रो॑ दे॒वता᳚॥२९॥

इन्द्र॒ꣳ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु।
यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति।
प्र॒तीची॒ दिक्।
सोमो॑ दे॒वता᳚।
सोम॒ꣳ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु।
यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति।
उदी॑ची॒ दिक्।
मि॒त्रावरु॑णौ दे॒वता᳚।
मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु।
यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति॥३०॥

ऊ॒र्ध्वा दिक्।
बृह॒स्पति॑र्दे॒वता᳚।
बृह॒स्पति॒ꣳ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु।
यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति।
इ॒यं दिक्।
अदि॑तिर्दे॒वता᳚।
अदि॑ति॒ꣳ॒ स दि॒शां दे॒वीं दे॒वता॑नामृच्छतु।
यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति।
पुरु॑षो॒ दिक्।
पुरु॑षो मे॒ कामा॒न्थ्सम॑र्धयतु॥३१॥

अ॒न्धो जागृ॑विः प्राण।
असा॒वेहि॑।
ब॒धि॒र आ᳚क्रन्दयितरपान।
असा॒वेहि॑।
उ॒षस॑मुषसमशीय।
अ॒हमसो॒ ज्योति॑रशीय।
अ॒हमसो॒ऽपो॑ऽशीय।
व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्।
भूर्भुवः॒ स्वः॑ स्वाहा᳚॥३२॥

अनुवाक 6

यत्तेऽचि॑तं॒ यदु॑ चि॒तं ते॑ अग्ने।
यत्त॑ ऊ॒नं यदु॒ तेऽति॑रिक्तम्।
आ॒दि॒त्यास्त॒दङ्गि॑रसश्चिन्वन्तु।
विश्वे॑ ते दे॒वाश्चिति॒मापू॑रयन्तु।
चि॒तश्चासि॒ सञ्चि॑तश्चास्यग्ने।
ए॒तावा॒ꣴ॒श्चासि॒ भूया॑ꣴश्चास्यग्ने।
लो॒कं पृ॑ण च्छि॒द्रं पृ॑ण।
अथो॑ सीद शि॒वा त्वम्।
इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पतिः॑।
अ॒स्मिन् योना॑वसीषदन्॥३३॥

तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द।
ता अ॑स्य॒ सूद॑दोहसः।
सोमꣴ॑ श्रीणन्ति॒ पृश्न॑यः।
जन्मं॑ दे॒वानां॒ विशः॑।
त्रि॒ष्वा रो॑च॒ने दि॒वः।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द।
अग्ने॑ दे॒वाꣳ इ॒हाऽऽव॑ह।
ज॒ज्ञा॒नो वृ॒क्तब॑र्हिषे।
असि॒ होता॑ न॒ ईड्यः॑।
अग॑न्म म॒हा मन॑सा॒ यवि॑ष्ठम्॥३४॥

यो दी॒दाय॒ समि॑द्ध॒ स्वे दु॑रो॒णे।
चि॒त्रभा॑नू॒ रोद॑सी अ॒न्तरु॒र्वी।
स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यञ्चम्᳚।
मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम्।
अ॒ग्निꣳ होता॑रं परि॒भूत॑मं म॒तिम्।
त्वामर्भ॑स्य ह॒विषः॑ समा॒नमित्।
त्वां म॒हो वृ॑णते॒ नरो॒ नान्यं त्वत्।
म॒नु॒ष्वत्त्वा॒ निधी॑महि।
म॒नु॒ष्वथ्समि॑धीमहि।
अग्ने॑ मनु॒ष्वद॑ङ्गिरः॥३५॥

दे॒वान्दे॑वाय॒ते य॑ज।
अ॒ग्निर्हि वा॒जिनं॑ वि॒शे।
ददा॑ति वि॒श्वच॑र्षणिः।
अ॒ग्नी रा॒ये स्वा॒भुवम्᳚।
स प्री॒तो या॑ति॒ वार्यम्᳚।
इषꣴ॑ स्तो॒तृभ्य॒ आभ॑र।
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्याम्।
पृ॒ष्टो विश्वा॒ ओष॑धी॒रावि॑वेश।
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः।
स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तम्᳚॥३६॥

अनुवाक 7

अ॒यं वाव यः पव॑ते।
सो᳚ऽग्निर्ना॑चिके॒तः।
स यत्प्राङ् पव॑ते।
तद॑स्य॒ शिरः॑।
अथ॒ यद्द॑क्षि॒णा।
स दक्षि॑णः प॒क्षः।
अथ॒ यत्प्र॒त्यक्।
तत्पुच्छम्᳚।
यदुदङ्‌ङ्॑।
स उत्त॑रः प॒क्षः॥३७॥

अथ॒ यथ्सं॒वाति॑।
तद॑स्य स॒मञ्च॑नं च प्र॒सार॑णं च।
अथो॑ स॒म्पदे॒वास्य॒ सा।
सꣳ ह॒ वा अ॑स्मै॒ स कामः॑ पद्यते।
यत्का॑मो॒ यज॑ते।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
यो ह॒ वा अ॒ग्नेर्ना॑चिके॒तस्या॒ऽऽयत॑नं प्रति॒ष्ठां वेद॑।
आ॒यत॑नवान्भवति।
गच्छ॑ति प्रति॒ष्ठाम्॥३८॥

हिर॑ण्यं॒ वा अ॒ग्नेर्ना॑चिके॒तस्या॒ऽऽयत॑नं प्रति॒ष्ठा।
य ए॒वं वेद॑।
आ॒यत॑नवान्भवति।
गच्छ॑ति प्रति॒ष्ठाम्।
यो ह॒ वा अ॒ग्नेर्ना॑चिके॒तस्य॒ शरी॑रं॒ वेद॑।
सश॑रीर ए॒व स्व॒र्गं लो॒कमे॑ति।
हिर॑ण्यं॒ वा अ॒ग्नेर्ना॑चिके॒तस्य॒ शरी॑रम्।
य ए॒वं वेद॑।
सश॑रीर ए॒व स्व॒र्गं लो॒कमे॑ति।
अथो॒ यथा॑ रु॒क्म उत्त॑प्तो भा॒य्यात्॥३९॥

ए॒वमे॒व स तेज॑सा॒ यश॑सा।
अ॒स्मिꣴश्च॑ लो॒के॑ऽमुष्मिꣴ॑श्च भाति।
उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः।
येऽव॑रेणाऽऽदि॒त्यम्।
अथ॑ है॒ते वरी॑याꣳसो लो॒काः।
ये परे॑णाऽऽदि॒त्यम्।
अन्त॑वन्तꣳ ह॒ वा ए॒ष क्ष॒य्यं लो॒कं ज॑यति।
योऽव॑रेणाऽऽदि॒त्यम्।
अथ॑ है॒षो॑ऽन॒न्तम॑पा॒रम॑क्ष॒य्यं लो॒कं ज॑यति।
यः परे॑णाऽऽदि॒त्यम्॥४०॥

अ॒न॒न्तꣳ ह॒ वा अ॑पा॒रम॑क्ष॒य्यं लो॒कं ज॑यति।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
अथो॒ यथा॒ रथे॒ तिष्ठ॒न्पक्ष॑सी पर्या॒वर्त॑माने प्र॒त्यपे᳚क्षते।
ए॒वम॑होरा॒त्रे प्र॒त्यपे᳚क्षते।
नास्या॑होरा॒त्रे लो॒कमा᳚प्नुतः।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑॥४१॥

अनुवाक 8

उ॒शन् ह॒ वै वा॑जश्रव॒सः स॑र्ववेद॒सं द॑दौ।
तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स।
तꣳ ह॑ कुमा॒रꣳ सन्तम्᳚।
दक्षि॑णासु नी॒यमा॑नासु श्र॒द्धाऽऽवि॑वेश।
स हो॑वाच।
तत॒ कस्मै॒ मां दा᳚स्य॒सीति॑।
द्वि॒तीयं॑ तृ॒तीयम्᳚।
तꣳ ह॒ परी॑त उवाच।
मृ॒त्यवे᳚ त्वा ददा॒मीति॑।
तꣳ ह॒ स्मोत्थि॑तं॒ वाग॒भिव॑दति॥४२॥

गौत॑म कुमा॒रमिति॑।
स हो॑वाच।
परे॑हि मृ॒त्योर्गृ॒हान्।
मृ॒त्यवे॒ वै त्वा॑ऽदा॒मिति॑।
तं वै प्र॒वस॑न्तं ग॒न्तासीति॑ होवाच।
तस्य॑ स्म ति॒स्रो रात्री॒रना᳚श्वान्गृ॒हे व॑सतात्।
स यदि॑ त्वा पृ॒च्छेत्।
कुमा॑र॒ कति॒ रात्री॑रवाथ्सी॒रिति॑।
ति॒स्र इति॒ प्रति॑ब्रूतात्।
किं प्र॑थ॒माꣳ रात्रि॑माश्ना॒ इति॑॥४३॥

प्र॒जां त॒ इति॑।
किं द्वि॒तीया॒मिति॑।
प॒शूꣴस्त॒ इति॑।
किं तृ॒तीया॒मिति॑।
सा॒धु॒कृ॒त्यां त॒ इति॑।
तं वै प्र॒वस॑न्तं जगाम।
तस्य॑ ह ति॒स्रो रात्री॒रना᳚श्वान्गृ॒ह उ॑वास।
तमा॒गत्य॑ पप्रच्छ।
कुमा॑र॒ कति॒ रात्री॑रवाथ्सी॒रिति॑।
ति॒स्र इति॒ प्रत्यु॑वाच॥४४॥

किं प्र॑थ॒माꣳ रात्रि॑माश्ना॒ इति॑।
प्र॒जां त॒ इति॑।
किं द्वि॒तीया॒मिति॑।
प॒शूꣴस्त॒ इति॑।
किं तृ॒तीया॒मिति॑।
सा॒धु॒कृ॒त्यां त॒ इति॑।
नम॑स्ते अस्तु भगव॒ इति॑ होवाच।
वरं॑ वृणी॒ष्वेति॑।
पि॒तर॑मे॒व जीव॑न्नया॒नीति॑।
द्वि॒तीयं॑ वृणी॒ष्वेति॑॥४५॥

इ॒ष्टा॒पू॒र्तयो॒र्मेऽक्षि॑तिं ब्रू॒हीति॑ होवाच।
तस्मै॑ है॒तम॒ग्निं ना॑चिके॒तमु॑वाच।
ततो॒ वै तस्ये᳚ष्टापू॒र्ते ना क्षी॑येते।
नास्ये᳚ष्टापू॒र्ते क्षी॑येते।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
तृ॒तीयं॑ वृणी॒ष्वेति॑।
पु॒न॒र्मृ॒त्योर्मेऽप॑चितिं ब्रू॒हीति॑ होवाच।
तस्मै॑ है॒तम॒ग्निं ना॑चिके॒तमु॑वाच।
ततो॒ वै सोऽप॑ पुनर्मृ॒त्युम॑जयत्॥४६॥

अप॑ पुनर्मृ॒त्युं ज॑यति।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
प्र॒जाप॑ति॒र्वै प्र॒जाका॑म॒स्तपो॑ऽतप्यत।
स हि॑रण्य॒मुदा᳚स्यत्।
तद॒ग्नौ प्रास्य॑त्।
तद॑स्मै॒ नाच्छ॑दयत्।
तद्द्वि॒तीयं॒ प्रास्य॑त्।
तद॑स्मै॒ नैवाच्छ॑दयत्।
तत्तृ॒तीयं॒ प्रास्य॑त्॥४७॥

तद॑स्मै॒ नैवाच्छ॑दयत्।
तदा॒त्मन्ने॒व हृ॑द॒य्ये᳚ऽग्नौ वै᳚श्वान॒रे प्रास्य॑त्।
तद॑स्मा अच्छदयत्।
तस्मा॒द्धिर॑ण्यं॒ कनि॑ष्ठं॒ धना॑नाम्।
भु॒ञ्जत्प्रि॒यत॑मम्।
हृ॒द॒य॒जꣳ हि।
स वै तमे॒व नावि॑न्दत्।
यस्मै॒ तां दक्षि॑णा॒मने᳚ष्यत्।
ताꣴ स्वायै॒व हस्ता॑य॒ दक्षि॑णायानयत्।
तां प्रत्य॑गृह्णात्॥४८॥

दक्षा॑य त्वा॒ दक्षि॑णां॒ प्रति॑गृह्णा॒मीति॑।
सो॑ऽदक्षत॒ दक्षि॑णां प्रति॒गृह्य॑।
दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑।
य ए॒वं वेद॑।
ए॒तद्ध॑ स्म॒ वै तद्वि॒द्वाꣳसो॑ वाजश्रव॒सा गोत॑माः।
अप्य॑नूदे॒श्यां᳚ दक्षि॑णां॒ प्रति॑गृह्णन्ति।
उ॒भये॑न व॒यं द॑क्षिष्यामह ए॒व दक्षि॑णां प्रति॒गृह्येति॑।
ते॑ऽदक्षन्त॒ दक्षि॑णां प्रति॒गृह्य॑।
दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑।
य ए॒वं वेद॑।
प्र हा॒न्यं व्ली॑नाति॥४९॥

अनुवाक 9

तꣳ है॒तमेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्यां चि॑न्वते।
उ॒त्त॒र॒वे॒दिस॑म्मित ए॒षो᳚ऽग्निरिति॒ वद॑न्तः।
तन्न तथा॑ कु॒र्यात्।
ए॒तम॒ग्निं कामे॑न॒ व्य॑र्धयेत्।
स ए॑नं॒ कामे॑न॒ व्यृ॑द्धः।
कामे॑न॒ व्य॑र्धयेत्।
सौ॒म्ये वावैन॑मध्व॒रे चि॑न्वी॒त।
यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येरन्॑।
ए॒तम॒ग्निं कामे॑न॒ सम॑र्धयति।
स ए॑नं॒ कामे॑न॒ समृ॑द्धः॥५०॥

कामे॑न॒ सम॑र्धयति।
अथ॑ हैनं पु॒रर्ष॑यः।
उ॒त्त॒र॒वे॒द्यामे॒व स॒त्त्रिय॑मचिन्वत।
ततो॒ वै तेऽवि॑न्दन्त प्र॒जाम्।
अ॒भि स्व॒र्गं लो॒कम॑जयन्।
वि॒न्दत॑ ए॒व प्र॒जाम्।
अ॒भि स्व॒र्गं लो॒कं ज॑यति।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
अथ॑ हैनं वा॒युर्ऋद्धि॑कामः॥५१॥

य॒था॒न्यु॒प्तमे॒वोप॑दधे।
ततो॒ वै स ए॒तामृद्धि॑मार्ध्नोत्।
यामि॒दं वा॒युर्ऋ॒द्धः।
ए॒तामृद्धि॑मृध्नोति।
यामि॒दं वा॒युर्ऋ॒द्धः।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
अथ॑ हैनं गोब॒लो वार्ष्णः॑ प॒शुका॑मः।
पाङ्क्त॑मे॒व चि॑क्ये।
पञ्च॑ पु॒रस्ता᳚त्॥५२॥

पञ्च॑ दक्षिण॒तः।
पञ्च॑ प॒श्चात्।
पञ्चो᳚त्तर॒तः।
एकां॒ मध्ये᳚।
ततो॒ वै स स॒हस्रं॑ प॒शून्प्राप्नो᳚त्।
प्र स॒हस्रं॑ प॒शूना᳚प्नोति।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
अथ॑ हैनं प्र॒जाप॑ति॒र्ज्यैष्ठ्य॑कामो॒ यश॑स्कामः प्र॒जन॑नकामः।
त्रि॒वृत॑मे॒व चि॑क्ये॥५३॥

स॒प्त पु॒रस्ता᳚त्।
ति॒स्रो द॑क्षिण॒तः।
स॒प्त प॒श्चात्।
ति॒स्र उ॑त्तर॒तः।
एकां॒ मध्ये᳚।
ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑माप्नोत्।
ए॒तां प्रजा॑तिं॒ प्राजा॑यत।
यामि॒दं प्र॒जाः प्र॒जाय॑न्ते।
त्रि॒वृद्वै ज्यैष्ठ्यम्᳚।
मा॒ता पि॒ता पु॒त्रः॥५४॥

त्रि॒वृत्प्र॒जन॑नम्।
उ॒पस्थो॒ योनि॑र्मध्य॒मा।
प्र यशो॒ ज्यैष्ठ्य॑माप्नोति।
ए॒तां प्रजा॑तिं॒ प्रजा॑यते।
यामि॒दं प्र॒जाः प्र॒जाय॑न्ते।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
अथ॑ हैन॒मिन्द्रो॒ ज्यैष्ठ्य॑कामः।
ऊ॒र्ध्वा ए॒वोप॑दधे।
ततो॒ वै स ज्यैष्ठ्य॑मगच्छत्॥५५॥

ज्यैष्ठ्यं॑ गच्छति।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
अथ॑ हैनम॒सावा॑दि॒त्यः स्व॒र्गका॑मः।
प्राची॑रे॒वोप॑दधे।
ततो॒ वै सो॑ऽभि स्व॒र्गं लो॒कम॑जयत्।
अ॒भि स्व॒र्गं लो॒कं ज॑यति।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
स यदी॒च्छेत्॥५६॥

ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑।
प्राङाहोतु॒र्धिष्ण्या॒दुथ्स॑र्पेत्।
येयं प्रागा॒द्यश॑स्वती।
सा मा॒ प्रोर्णो॑तु।
तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑।
ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति।
अथ॒ यदी॒च्छेत्।
भूयि॑ष्ठं मे॒ श्रद्द॑धीरन्।
भूयि॑ष्ठा॒ दक्षि॑णा नयेयु॒रिति॑।
दक्षि॑णासु नी॒यमा॑नासु॒ प्राच्येहि॒ प्राच्ये॒हीति॒ प्राची॑ जुषा॒णा वेत्वाऽऽज्य॑स्य॒ स्वाहेति॑ स्रु॒वेणो॑प॒हत्या॑ऽऽहव॒नीये॑ जुहुयात्॥५७॥

भूयि॑ष्ठमे॒वास्मै॒ श्रद्द॑धते।
भूयि॑ष्ठा॒ दक्षि॑णा नयन्ति।
पुरी॑षमुप॒धाय॑।
चि॒ति॒कॢ॒प्तिभि॑रभि॒मृश्य॑।
अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑।
चत॑स्र ए॒ता आहु॑तीर्जुहोति।
त्वम॑ग्ने रु॒द्र इति॑ शतरु॒द्रीय॑स्य रू॒पम्।
अग्ना॑विष्णू॒ इति॑ वसो॒र्धारा॑याः।
अन्न॑पत॒ इत्य॑न्नहो॒मः।
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इति॑ विश्व॒प्रीः॥५८॥

अनुवाक 10

यां प्र॑थ॒मामिष्ट॑कामुप॒दधा॑ति।
इ॒मं तया॑ लो॒कम॒भिज॑यति।
अथो॒ या अ॒स्मिँल्लो॒के दे॒वताः᳚।
तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति।
यां द्वि॒तीया॑मुप॒दधा॑ति।
अ॒न्त॒रि॒क्ष॒लो॒कं तया॒ऽभिज॑यति।
अथो॒ या अ॑न्तरिक्षलो॒के दे॒वताः᳚।
तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति।
यां तृ॒तीया॑मुप॒दधा॑ति।
अ॒मुं तया॑ लो॒कम॒भिज॑यति॥५९॥

अथो॒ या अ॒मुष्मिँ॑ल्लो॒के दे॒वताः᳚।
तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति।
अथो॒ या अ॒मूरित॑रा अ॒ष्टाद॑श।
य ए॒वामी उ॒रव॑श्च॒ वरी॑याꣳसश्च लो॒काः।
ताने॒व ताभि॑र॒भिज॑यति॥
का॒म॒चारो॑ ह॒ वा अ॑स्यो॒रुषु॑ च॒ वरी॑यःसु च लो॒केषु॑ भवति।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑।
सं॒व॒थ्स॒रो वा अ॒ग्निर्ना॑चिके॒तः।
तस्य॑ वस॒न्तः शिरः॑॥६०॥

ग्री॒ष्मो दक्षि॑णः प॒क्षः।
व॒र्॒षा उत्त॑रः।
श॒रत्पुच्छम्᳚।
मासाः᳚ कर्मका॒राः।
अ॒हो॒रा॒त्रे श॑तरु॒द्रीयम्᳚।
प॒र्जन्यो॒ वसो॒र्धारा᳚।
यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं वृ॒ष्ट्वा।
प्र॒जाभ्यः॒ सर्वा॒न्कामा᳚न्थ्सम्पू॒रय॑ति।
ए॒वमे॒व स तस्य॒ सर्वा॒न्कामा॒न्थ्सम्पू॑रयति।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते॥६१॥

य उ॑ चैनमे॒वं वेद॑।
सं॒व॒थ्स॒रो वा अ॒ग्निर्ना॑चिके॒तः।
तस्य॑ वस॒न्तः शिरः॑।
ग्री॒ष्मो दक्षि॑णः प॒क्षः।
व॒र्॒षाः पुच्छम्᳚।
श॒रदुत्त॑रः प॒क्षः।
हे॒म॒न्तो मध्यम्᳚।
पू॒र्व॒प॒क्षाश्चित॑यः।
अ॒प॒र॒प॒क्षाः पुरी॑षम्।
अ॒हो॒रा॒त्राणीष्ट॑काः।
ए॒ष वाव सो᳚ऽग्निर॑ग्नि॒मयः॑ पुनर्ण॒वः।
अ॒ग्नि॒मयो॑ ह॒ वै पु॑नर्ण॒वो भू॒त्वा।
स्व॒र्गं लो॒कमे॑ति।
आ॒दि॒त्यस्य॒ सायु॑ज्यम्।
यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते।
य उ॑ चैनमे॒वं वेद॑॥६२॥