skipLink.label

तृतीयाष्टकम्, तृतीयः प्रपाठकः

तृतीयाष्टकम्, तृतीयः प्रपाठकः

अनुवाक 1

प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह।
रक्ष॑सा॒मप॑हत्यै।
अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पा॒मीत्या॑ह मेध्य॒त्वाय॑।
स्रुचः॒ सम्मा᳚र्ष्टि।
स्रु॒वमग्रे᳚।
पुमाꣳ॑समे॒वाभ्यः॒ सꣴश्य॑ति मिथुन॒त्वाय॑।
अथ॑ जु॒हूम्।
अथो॑प॒भृतम्᳚।
अथ॑ ध्रु॒वाम्।
अ॒सौ वै जु॒हूः॥१॥

अ॒न्तरि॑क्षमुप॒भृत्।
पृ॒थि॒वी ध्रु॒वा।
इ॒मे वै लो॒काः स्रुचः॑।
वृष्टिः॑ स॒म्मार्ज॑नानि।
वृष्टि॒र्वा इ॒माँल्लो॒कान॑नुपू॒र्वं क॑ल्पयति।
ते ततः॑ कॢ॒प्ताः समे॑धन्ते।
समे॑धन्तेऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑।
य ए॒वं वेद॑।
यदि॑ का॒मये॑त॒ वर्‌षु॑कः प॒र्जन्यः॑ स्या॒दिति॑।
अ॒ग्र॒तः सम्मृ॑ज्यात्॥२॥

वृष्टि॑मे॒व नि य॑च्छति।
अ॒वा॒चीना᳚ग्रा॒ हि वृष्टिः॑।
यदि॑ का॒मये॒ताव॑र्‌षुकः स्या॒दिति॑।
मू॒ल॒तः सम्मृ॑ज्यात्।
वृष्टि॑मे॒वोद्य॑च्छति।
तदु॒ वा आ॑हुः।
अ॒ग्र॒त ए॒वोपरि॑ष्टा॒थ्सम्मृ॑ज्यात्।
मू॒ल॒तो॑ऽधस्ता᳚त्।
तद॑नुपू॒र्वं क॑ल्पते।
वर्‌षु॑को भव॒तीति॑॥३॥

प्राची॑मभ्या॒कारम्᳚।
अग्रै॑रन्तर॒तः।
ए॒वमि॑व॒ ह्यन्न॑म॒द्यते᳚।
अथो॒ अग्रा॒द्वा ओष॑धीना॒मूर्जं॑ प्र॒जा उप॑जीवन्ति।
ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै।
अ॒धस्ता᳚त्प्र॒तीची᳚म्।
द॒ण्डमु॑त्तम॒तः।
मूले॑न॒ मूलं॒ प्रति॑ष्ठित्यै।
तस्मा॑दर॒त्नौ प्राञ्च्यु॒परि॑ष्टा॒ल्लोमा॑नि।
प्र॒त्यञ्च्य॒धस्ता᳚त्॥४॥

स्रुग्घ्ये॑षा।
प्रा॒णो वै स्रु॒वः।
जु॒हूर्दक्षि॑णो॒ हस्तः॑।
उ॒प॒भृथ्स॒व्यः।
आ॒त्मा ध्रु॒वा।
अन्नꣳ॑ स॒म्मार्ज॑नानि।
मु॒ख॒तो वै प्रा॒णो॑ऽपा॒नो भू॒त्वा।
आ॒त्मान॒मन्नं॑ प्र॒विश्य॑।
बा॒ह्य॒तस्त॒नुवꣳ॑ शुभयति।
तस्मा᳚थ्स्रु॒वमे॒वाग्रे॒ सम्मा᳚र्ष्टि।
मु॒ख॒तो हि प्रा॒णो॑ऽपा॒नो भू॒त्वा।
आ॒त्मान॒मन्न॑मावि॒शति॑।
तौ प्रा॑णापा॒नौ।
अव्य॑र्धुकः प्राणापा॒नाभ्यां᳚ भवति।
य ए॒वं वेद॑॥५॥

अनुवाक 2

दि॒वः शिल्प॒मव॑ततम्।
पृ॒थि॒व्याः क॒कुभि॑ श्रि॒तम्।
तेन॑ व॒यꣳ स॒हस्र॑वल्‌शेन।
स॒पत्नं॑ नाशयामसि॒ स्वाहेति॑ स्रुख्स॒म्मार्ज॑नान्य॒ग्नौ प्र ह॑रति।
आपो॒ वै द॒र्भाः।
रू॒पमे॒वैषा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे।
अ॒नु॒ष्टुभ॒र्चा।
आनु॑ष्टुभः प्र॒जाप॑तिः।
प्रा॒जा॒प॒त्यो वे॒दः।
वे॒दस्याग्रꣴ॑ स्रुख्स॒म्मार्ज॑नानि॥६॥

स्वेनै॒वैना॑नि॒ छन्द॑सा।
स्वया॑ दे॒वत॑या॒ सम॑र्धयति।
अथो॒ ऋग्वाव योषा᳚।
द॒र्भो वृषा᳚।
तन्मि॑थु॒नम्।
मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय।
प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः।
तान्येके॒ वृथै॒वापा᳚स्यन्ति।
तत्तथा॒ न का॒र्यम्᳚।
आर॑ब्धस्य य॒ज्ञिय॑स्य॒ कर्म॑णः॒ सवि॑दो॒हः॥७॥

यद्ये॑नानि प॒शवो॑ऽभि॒ तिष्ठे॑युः।
न तत्प॒शुभ्यः॒ कम्।
अ॒द्भिर्मा᳚र्जयि॒त्वोत्क॒रे न्य॑स्येत्।
यद्वै य॒ज्ञिय॑स्य॒ कर्म॑णो॒ऽन्यत्राऽऽहु॑तीभ्यः स॒न्तिष्ठ॑ते।
उ॒त्क॒रो वाव तस्य॑ प्रति॒ष्ठा।
ए॒ताꣳ हि तस्मै᳚ प्रति॒ष्ठां दे॒वाः स॒मभ॑रन्।
यद॒द्भिर्मा॒र्जय॑ति।
तेन॑ शा॒न्तम्।
यदु॑त्क॒रे न्य॒स्यति॑।
प्र॒ति॒ष्ठामे॒वैना॑नि॒ तद्ग॑मयति॥८॥

प्रति॑ तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः।
अथो᳚ स्त॒म्बस्य॒ वा ए॒तद्रू॒पम्।
यथ्स्रु॑ख्स॒म्मार्ज॑नानि।
स्त॒म्ब॒शो वा ओष॑धयः।
तासां᳚ जरत्क॒क्षे प॒शवो॒ न र॑मन्ते।
अप्रि॑यो॒ ह्ये॑षां जरत्क॒क्षः।
याव॑दप्रियो ह॒ वै ज॑रत्क॒क्षः प॑शू॒नाम्।
ताव॑दप्रियः पशू॒नां भ॑वति।
यस्यै॒तान्य॒न्यत्रा॒ग्नेर्दध॑ति।
न॒व॒दाव्या॑सु॒ वा ओष॑धीषु प॒शवो॑ रमन्ते॥९॥

न॒व॒दा॒वो ह्ये॑षां प्रि॒यः।
याव॑त्प्रियो ह॒ वै न॑वदा॒वः प॑शू॒नाम्।
ताव॑त्प्रियः पशू॒नां भ॑वति।
यस्यै॒तान्य॒ग्नौ प्र॒हर॑न्ति।
तस्मा॑दे॒तान्य॒ग्नावे॒व प्रह॑रेत्।
य॒त॒रस्मि᳚न्थ्सम्मृ॒ज्यात्।
प॒शू॒नां धृत्यै᳚।
यो भू॒ताना॒मधि॑पतिः।
रु॒द्रस्त॑न्तिच॒रो वृषा᳚।
प॒शून॒स्माकं॒ मा हिꣳ॑सीः।
ए॒तद॑स्तु हु॒तं तव॒ स्वाहेत्य॑ग्निस॒म्मार्ज॑नान्य॒ग्नौ प्रह॑रति।
ए॒षा वा ए॒तेषां॒ योनिः॑।
ए॒षा प्र॑ति॒ष्ठा।
स्वामे॒वैना॑नि॒ योनिम्᳚।
स्वां प्र॑ति॒ष्ठां ग॑मयति।
प्रति॑ तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः॥१०॥

अनुवाक 3

अय॑ज्ञो॒ वा ए॒षः।
यो॑ऽप॒त्नीकः॑।
न प्र॒जाः प्रजा॑येरन्।
पत्न्यन्वा᳚स्ते।
य॒ज्ञमे॒वाकः॑।
प्र॒जानां᳚ प्र॒जन॑नाय।
यत्तिष्ठ॑न्ती स॒न्नह्ये॑त।
प्रि॒यं ज्ञा॒तिꣳ रु॑न्ध्यात्।
आसी॑ना॒ सन्न॑ह्यते।
आसी॑ना॒ ह्ये॑षा वी॒र्यं॑ क॒रोति॑॥११॥

यत्प॒श्चात्प्राच्य॒न्वासी॑त।
अ॒नया॑ स॒मद॑न्दधीत।
दे॒वानां॒ पत्नि॑या स॒मद॑न्दधीत।
देशा᳚द्दक्षिण॒त उदी॒च्यन्वा᳚स्ते।
आ॒त्मनो॑ गोपी॒थाय॑।
आ॒शासा॑ना सौमन॒समित्या॑ह।
मेध्या॑मे॒वैनां॒ केव॑लीं कृ॒त्वा।
आ॒शिषा॒ सम॑र्धयति।
अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कमित्या॑ह।
ए॒तद्वै पत्नि॑यै व्रतोप॒नय॑नम्॥१२॥

तेनै॒वैनां᳚ व्र॒तमुप॑नयति।
तस्मा॑दाहुः।
यश्चै॒वं वेद॒ यश्च॒ न।
योक्त्र॑मे॒व यु॑ते।
यम॒न्वास्ते᳚।
तस्या॒मुष्मिँ॑ल्लो॒के भ॑व॒तीति॒ योक्त्रे॑ण।
यद्योक्त्रम्᳚।
स योगः॑।
यदास्ते᳚।
स क्षेमः॑॥१३॥

यो॒ग॒क्षे॒मस्य॒ कॢप्त्यै᳚।
यु॒क्तं क्रि॑याता आ॒शीः कामे॑ युज्याता॒ इति॑।
आ॒शिषः॒ समृ॑द्ध्यै।
ग्र॒न्थिं ग्र॑थ्नाति।
आ॒शिष॑ ए॒वास्यां॒ परि॑ गृह्णाति।
पुमा॒न्॒ वै ग्र॒न्थिः।
स्त्री पत्नी᳚।
तन्मि॑थु॒नम्।
मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय।
प्र जा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः॥१४॥

अथो॑ अ॒र्धो वा ए॒ष आ॒त्मनः॑।
यत्पत्नी᳚।
य॒ज्ञस्य॒ धृत्या॒ अशि॑थिलं भावाय।
सु॒प्र॒जस॑स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑ सेदि॒मेत्या॑ह।
य॒ज्ञमे॒व तन्मि॑थु॒नीक॑रोति।
ऊ॒नेऽति॑रिक्तं धीयाता॒ इति॒ प्रजा᳚त्यै।
म॒ही॒नां पयो॒ऽस्योष॑धीना॒ꣳ॒ रस॒ इत्या॑ह।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे।
तस्य॒ तेऽक्षी॑यमाणस्य॒ निर्व॑पामि देवय॒ज्याया॒ इत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते॥१५॥

अनुवाक 4

घृ॒तं च॒ वै मधु॑ च प्र॒जाप॑तिरासीत्।
यतो॒ मध्वा॑सीत्।
ततः॑ प्र॒जा अ॑सृजत।
तस्मा॒न्मधु॑षि प्र॒जन॑नमिवास्ति।
तस्मा॒न्मधु॑षा॒ न प्रच॑रन्ति।
या॒तया॑म॒ हि।
आज्ये॑न॒ प्रच॑रन्ति।
य॒ज्ञो वा आज्यम्᳚।
य॒ज्ञेनै॒व य॒ज्ञं प्रच॑र॒न्त्यया॑तयामत्वाय।
पत्न्यवे᳚क्षते॥१६॥

मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै।
यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑।
मि॒थु॒नं तत्।
अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वार॒म्भोऽन॑वच्छित्त्यै।
अ॒मे॒ध्यं वा ए॒तत्क॑रोति।
यत्पत्न्य॒वेक्ष॑ते।
गार्‌ह॑प॒त्येऽधि॑ श्रयति मेध्य॒त्वाय॑।
आ॒ह॒व॒नीय॑म॒भ्युद्द्र॑वति।
य॒ज्ञस्य॒ सन्त॑त्यै।
तेजो॑ऽसि॒ तेजोऽनु॒ प्रेहीत्या॑ह॥१७॥

तेजो॒ वा अ॒ग्निः।
तेज॒ आज्यम्᳚।
तेज॑सै॒व तेजः॒ सम॑र्धयति।
अ॒ग्निस्ते॒ तेजो॒ मा विनै॒दित्या॒हाहिꣳ॑सायै।
स्फ्यस्य॒ वर्त्म᳚न्थ्सादयति।
य॒ज्ञस्य॒ सन्त॑त्यै।
अ॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒मित्या॑ह।
य॒था॒य॒जुरे॒वैतत्।
धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भ॒वेत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते॥१८॥

तद्वा अतः॑ प॒वित्रा᳚भ्यामे॒वोत्पु॑नाति।
यज॑मानो॒ वा आज्यम्᳚।
प्रा॒णा॒पा॒नौ प॒वित्रे᳚।
यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति।
पु॒न॒रा॒हारम्᳚।
ए॒वमि॑व॒ हि प्रा॑णापा॒नौ स॒ञ्चर॑तः।
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॒ऽसीत्या॑ह।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे।
त्रिर्यजु॑षा।
त्रय॑ इ॒मे लो॒काः॥१९॥

ए॒षां लो॒काना॒माप्त्यै᳚।
त्रिः।
त्र्या॑वृ॒द्धि य॒ज्ञः।
अथो॑ मेध्य॒त्वाय॑।
अथाऽऽज्य॑वतीभ्याम॒पः।
रू॒पमे॒वासा॑मे॒तद्वर्णं॑ दधाति।
अपि॒ वा उ॒ताऽऽहुः॑।
यथा॑ ह॒ वै योषा॑ सु॒वर्ण॒ꣳ॒ हिर॑ण्यं पेश॒लं बिभ्र॑ती रू॒पाण्यास्ते᳚।
ए॒वमे॒ता ए॒तर्हीति॑।
आपो॒ वै सर्वा॑ दे॒वताः᳚॥२०॥

ए॒षा हि विश्वे॑षां दे॒वानां᳚ त॒नूः।
यदाज्यम्᳚।
तत्रो॒भयो᳚र्मीमा॒ꣳ॒सा।
जा॒मि स्यात्।
यद्यजु॒षाऽऽज्यं॒ यजु॑षा॒ऽप उ॑त्पुनी॒यात्।
छन्द॑सा॒ऽप उत्पु॑ना॒त्यजा॑मित्वाय।
अथो॑ मिथुन॒त्वाय॑।
सा॒वि॒त्रि॒यर्चा।
स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑।
स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति।
प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑।
अ॒द्भिरे॒वौष॑धीः॒ सं न॑यति।
ओष॑धीभिः प॒शून्।
प॒शुभि॒र्यज॑मानम्।
शु॒क्रं त्वा॑ शु॒क्रायां॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषीत्या॑ह सर्व॒त्वाय॑।
पर्या᳚प्त्या॒ अन॑न्तरायाय॥२१॥

अनुवाक 5

दे॒वा॒सु॒राः संय॑त्ता आसन्।
स ए॒तमिन्द्र॒ आज्य॑स्यावका॒शम॑पश्यत्।
तेनावै᳚क्षत।
ततो॑ दे॒वा अभ॑वन्।
पराऽसु॑राः।
य ए॒वं वि॒द्वानाज्य॑म॒वेक्ष॑ते।
भव॑त्या॒त्मना᳚।
परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
यदाज्ये॑ना॒न्यानि॑ ह॒वीꣴष्य॑भिघा॒रय॑ति॥२२॥

अथ॒ केनाऽऽज्य॒मिति॑।
स॒त्येनेति॑ ब्रूयात्।
चक्षु॒र्वै स॒त्यम्।
स॒त्येनै॒वैन॑द॒भि घा॑रयति।
ई॒श्व॒रो वा ए॒षो᳚ऽन्धो भवि॑तोः।
यश्चक्षु॒षाऽऽज्य॑म॒वेक्ष॑ते।
नि॒मील्यावे᳚क्षेत।
दा॒धारा॒त्मञ्चक्षुः॑।
अ॒भ्याज्यं॑ घारयति।
आज्यं॑ गृह्णाति॥२३॥

छन्दाꣳ॑सि॒ वा आज्यम्᳚।
छन्दाꣴ॑स्ये॒व प्री॑णाति।
च॒तुर्जु॒ह्वां गृ॑ह्णाति।
चतु॑ष्पादः प॒शवः॑।
प॒शूने॒वाव॑ रुन्धे।
अ॒ष्टावु॑प॒भृति॑।
अ॒ष्टाक्ष॑रा गाय॒त्री।
गा॒य॒त्रः प्रा॒णः।
प्रा॒णमे॒व प॒शुषु॑ दधाति।
च॒तुर्ध्रु॒वाया᳚म्॥२४॥

चतु॑ष्पादः प॒शवः॑।
प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑ तिष्ठति।
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत्।
च॒तुर्जु॒ह्वां गृ॒ह्णन्भूयो॑ गृह्णीयात्।
अ॒ष्टावु॑प॒भृति॑ गृ॒ह्णन्कनी॑यः।
यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिं करोति।
गौर्वै स्रुचः॑।
च॒तुर्जु॒ह्वां गृ॑ह्णाति।
तस्मा॒च्चतु॑ष्पदी॥२५॥

अ॒ष्टावु॑प॒भृति॑।
तस्मा॑द॒ष्टाश॑फा।
च॒तुर्ध्रु॒वाया᳚म्।
तस्मा॒च्चतुः॑ स्तना।
गामे॒व तथ्सꣴस्क॑रोति।
साऽस्मै॒ सꣴस्कृ॒तेष॒मूर्जं॑ दुहे।
यज्जु॒ह्वां गृ॒ह्णाति॑।
प्र॒या॒जेभ्य॒स्तत्।
यदु॑प॒भृति॑।
प्र॒या॒जा॒नू॒या॒जेभ्य॒स्तत्।
सर्व॑स्मै॒ वा ए॒तद्य॒ज्ञाय॑ गृह्यते।
यद्ध्रु॒वाया॒माज्यम्᳚॥२६॥

अनुवाक 6

आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह।
रू॒पमे॒वासा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे।
अग्र॑ इ॒मं य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह।
अग्र॑ ए॒व य॒ज्ञं न॑यन्ति।
अग्रे॑ य॒ज्ञप॑तिम्।
यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्य॒ इत्या॑ह।
वृ॒त्रꣳ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे।
आपो॒ हेन्द्रं॑ वव्रिरे।
सं॒ज्ञामे॒वासा॑मे॒तथ्सामा॑नं॒ व्याच॑ष्टे।
प्रोक्षि॑ताः॒ स्थेत्या॑ह॥२७॥

तेनाऽऽपः॒ प्रोक्षि॑ताः।
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत।
कृष्णो॑ रू॒पं कृ॒त्वा।
स वन॒स्पती॒न्प्रावि॑शत्।
कृष्णो᳚ऽस्याखरे॒ष्ठो᳚ऽग्नये᳚ त्वा॒ स्वाहेत्या॑ह।
अ॒ग्नय॑ ए॒वैनं॒ जुष्टं॑ करोति।
अथो॑ अ॒ग्नेरे॒व मेध॒मव॑ रुन्धे।
वेदि॑रसि ब॒र्॒हिषे᳚ त्वा॒ स्वाहेत्या॑ह।
प्र॒जा वै ब॒र्॒हिः।
पृ॒थि॒वी वेदिः॑॥२८॥

प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति।
ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहेत्या॑ह।
प्र॒जा वै ब॒र्॒हिः।
यज॑मानः॒ स्रुचः॑।
यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति।
दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्॒हिरा॒साद्य॒ प्रोक्ष॑ति।
ए॒भ्य ए॒वैन॑ल्लो॒केभ्यः॒ प्रोक्ष॑ति।
अथ॒ ततः॑ स॒ह स्रु॒चा पु॒रस्ता᳚त्प्र॒त्यञ्चं॑ ग्र॒न्थिं प्रत्यु॑क्षति।
प्र॒जा वै ब॒र्॒हिः।
यथा॒ सूत्यै॑ का॒ल आपः॑ पु॒रस्ता॒द्यन्ति॑॥२९॥

ता॒दृगे॒व तत्।
स्व॒धा पि॒तृभ्य॒ इत्या॑ह।
स्व॒धा॒का॒रो हि पि॑तृ॒णाम्।
ऊर्ग्भ॑व बर्‌हि॒षद्भ्य॒ इति॒ दक्षि॑णायै॒ श्रोणे॒रोत्त॑रस्यै॒ निन॑यति॒ सन्त॑त्यै।
मासा॒ वै पि॒तरो॑ बर्‌हि॒षदः॑।
मासा॑ने॒व प्री॑णाति।
मासा॒ वा ओष॑धीर्व॒र्धय॑न्ति।
मासाः᳚ पचन्ति॒ समृ॑द्ध्यै।
अन॑तिस्कन्दन् ह प॒र्जन्यो॑ वर्‌षति।
यत्रै॒तदे॒वं क्रि॒यते᳚॥३०॥

ऊ॒र्जा पृ॑थि॒वीं ग॑च्छ॒तेत्या॑ह।
पृ॒थि॒व्यामे॒वोर्जं॑ दधाति।
तस्मा᳚त्पृथि॒व्या ऊ॒र्जा भु॑ञ्जते।
ग्र॒न्थिं वि स्रꣳ॑सयति।
प्रज॑नयत्ये॒व तत्।
ऊ॒र्ध्वं प्राञ्च॒मुद्गू॑ढं प्र॒त्यञ्च॒मा य॑च्छति।
तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते।
प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते।
विष्णोः॒ स्तूपो॒ऽसीत्या॑ह।
य॒ज्ञो वै विष्णुः॑॥३१॥

य॒ज्ञस्य॒ धृत्यै᳚।
पु॒रस्ता᳚त्प्रस्त॒रं गृ॑ह्णाति।
मुख्य॑मे॒वैनं॑ करोति।
इय॑न्तं गृह्णाति।
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम्।
इय॑न्तं गृह्णाति।
य॒ज्ञ॒प॒रुषा॒ सम्मि॑तम्।
इय॑न्तं गृह्णाति।
ए॒ताव॒द्वै पुरु॑षे वी॒र्यम्᳚।
वी॒र्य॑सम्मितम्॥३२॥

अप॑रिमितं गृह्णाति।
अप॑रिमित॒स्याव॑रुद्ध्यै।
तस्मि॑न्प॒वित्रे॒ अपि॑ सृजति।
यज॑मानो॒ वै प्र॑स्त॒रः।
प्रा॒णा॒पा॒नौ प॒वित्रे᳚।
यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति।
ऊर्णा᳚म्रदसं त्वा स्तृणा॒मीत्या॑ह।
य॒था॒य॒जुरे॒वैतत्।
स्वा॒स॒स्थं दे॒वेभ्य॒ इत्या॑ह।
दे॒वेभ्य॑ ए॒वैन॑थ्स्वास॒स्थं क॑रोति॥३३॥

ब॒र्॒हिः स्तृ॑णाति।
प्र॒जा वै ब॒र्॒हिः।
पृ॒थि॒वी वेदिः॑।
प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति।
अन॑तिदृश्ञꣴ स्तृणाति।
प्र॒जयै॒वैनं॑ प॒शुभि॒रन॑तिदृश्ञं करोति।
धा॒रय॑न्प्रस्त॒रं प॑रि॒धीन्परि॑ दधाति।
यज॑मानो॒ वै प्र॑स्त॒रः।
यज॑मान ए॒व तथ्स्व॒यं प॑रि॒धीन्परि॑ दधाति।
ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒रित्या॑ह॥३४॥

विश्व॑मे॒वायु॒र्यज॑माने दधाति।
इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति।
मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्ता॒मित्या॑ह।
प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ।
प्रा॒णा॒पा॒नावे॒वास्मि॑न्दधाति।
सूर्य॑स्त्वा पु॒रस्ता᳚त् पा॒त्वित्या॑ह।
रक्ष॑सा॒मप॑हत्यै।
कस्या᳚श्चिद॒भिश॑स्त्या॒ इत्या॑ह।
अप॑रिमितादे॒वैनं॑ पाति॥३५॥

वी॒तिहो᳚त्रं त्वा कव॒ इत्या॑ह।
अ॒ग्निमे॒व हो॒त्रेण॒ सम॑र्धयति।
द्यु॒मन्त॒ꣳ॒ समि॑धीम॒हीत्या॑ह॒ समि॑द्ध्यै।
अग्ने॑ बृ॒हन्त॑मध्व॒र इत्या॑ह॒ वृद्ध्यै᳚।
वि॒शो य॒न्त्रे स्थ॒ इत्या॑ह।
वि॒शां यत्यै᳚।
उ॒दी॒चीना᳚ग्रे॒ नि द॑धाति॒ प्रति॑ष्ठित्यै।
वसू॑नाꣳ रु॒द्राणा॑मादि॒त्याना॒ꣳ॒ सद॑सि सी॒देत्या॑ह।
दे॒वता॑नामे॒व सद॑ने प्रस्त॒रꣳ सा॑दयति।
जु॒हूर॑सि घृ॒ताची॒ नाम्नेत्या॑ह॥३६॥

अ॒सौ वै जु॒हूः।
अ॒न्तरि॑क्षमुप॒भृत्।
पृ॒थि॒वी ध्रु॒वा।
तासा॑मे॒तदे॒व प्रि॒यं नाम॑।
यद्घृ॒ताचीति॑।
यद्घृ॒ताचीत्याह॑।
प्रि॒येणै॒वैना॒ नाम्ना॑ सादयति।
ए॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒क इत्या॑ह।
स॒त्यं वै सु॑कृ॒तस्य॑ लो॒कः।
स॒त्य ए॒वैनाः᳚ सुकृ॒तस्य॑ लो॒के सा॑दयति।
ता वि॑ष्णो पा॒हीत्या॑ह।
य॒ज्ञो वै विष्णुः॑।
य॒ज्ञस्य॒ धृत्यै᳚।
पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒निय॒मित्या॑ह।
य॒ज्ञाय॒ यज॑मानाया॒ऽऽत्मने᳚।
तेभ्य॑ ए॒वाऽऽशिष॒माशा॒स्तेऽना᳚र्त्यै॥३७॥

अनुवाक 7

अ॒ग्निना॒ वै होत्रा᳚।
दे॒वा असु॑रान॒भ्य॑भवन्।
अ॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याऽभिभूत्यै।
एक॑विꣳशतिमिध्मदा॒रूणि॑ भवन्ति।
ए॒क॒वि॒ꣳ॒शो वै पुरु॑षः।
पुरु॑ष॒स्याऽऽप्त्यै᳚।
पञ्च॑दशेध्मदा॒रूण्य॒भ्या द॑धाति।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः।
अ॒र्ध॒मा॒स॒शः सं॑वथ्स॒र आ᳚प्यते।
त्रीन्प॑रि॒धीन्परि॑ दधाति॥३८॥

ऊ॒र्ध्वे स॒मिधा॒वा द॑धाति।
अ॒नू॒या॒जेभ्यः॑ स॒मिध॒मति॑ शिनष्टि।
षट्थ्सं प॑द्यन्ते।
षड्वा ऋ॒तवः॑।
ऋ॒तूने॒व प्री॑णाति।
वे॒देनोप॑ वाजयति।
प्रा॒जा॒प॒त्यो वै वे॒दः।
प्रा॒जा॒प॒त्यः प्रा॒णः।
यज॑मान आहव॒नीयः॑।
यज॑मान ए॒व प्रा॒णं द॑धाति॥३९॥

त्रिरुप॑ वाजयति।
त्रयो॒ वै प्रा॒णाः।
प्रा॒णाने॒वास्मि॑न्दधाति।
वे॒देनो॑प॒यत्य॑ स्रु॒वेण॑ प्राजाप॒त्यमा॑घा॒रमा घा॑रयति।
य॒ज्ञो वै प्र॒जाप॑तिः।
य॒ज्ञमे॒व प्र॒जाप॑तिं मुख॒त आर॑भते।
अथो᳚ प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः᳚।
सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति।
अ॒ग्निम॑ग्नी॒त्त्रिस्त्रिः॒ सं मृ॒ड्ढीत्या॑ह।
त्र्या॑वृ॒द्धि य॒ज्ञः॥४०॥

अथो॒ रक्ष॑सा॒मप॑हत्यै।
प॒रि॒धीन्थ्सं मा᳚र्ष्टि।
पु॒नात्ये॒वैनान्॑।
त्रिस्त्रिः॒ सं मा᳚र्ष्टि।
त्र्या॑वृ॒द्धि य॒ज्ञः।
अथो॑ मेध्य॒त्वाय॑।
अथो॑ ए॒ते वै दे॑वा॒श्वाः।
दे॒वा॒श्वाने॒व तथ्सं मा᳚र्ष्टि।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै।
आसी॑नो॒ऽन्यमा॑घा॒रमा घा॑रयति॥४१॥

तिष्ठ॑न्न॒न्यम्।
यथाऽनो॑ वा॒ रथं॑ वा यु॒ञ्ज्यात्।
ए॒वमे॒व तद॑ध्व॒र्युर्य॒ज्ञं यु॑नक्ति।
सु॒व॒र्गस्य॑ लो॒कस्या॒भ्यू᳚ढ्यै।
वह॑न्त्येनं ग्रा॒म्याः प॒शवः॑।
य ए॒वं वेद॑।
भुव॑नमसि॒ वि प्र॑थ॒स्वेत्या॑ह।
य॒ज्ञो वै भुव॑नम्।
य॒ज्ञ ए॒व यज॑मानं प्र॒जया॑ प॒शुभिः॑ प्रथयति।
अग्ने॒ यष्ट॑रि॒दं नम॒ इत्या॑ह॥४२॥

अ॒ग्निर्वै दे॒वानां॒ यष्टा᳚।
य ए॒व दे॒वानां॒ यष्टा᳚।
तस्मा॑ ए॒व नम॑स्करोति।
जुह्वेह्य॒ग्निस्त्वा᳚ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ इत्या॑ह।
आ॒ग्ने॒यी वै जु॒हूः।
सा॒वि॒त्र्यु॑प॒भृत्।
ताभ्या॑मे॒वैने॒ प्रसू॑त॒ आद॑त्ते।
अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिष॒मित्या॑ह।
अ॒ग्निः पु॒रस्ता᳚त्।
विष्णु॑र्य॒ज्ञः प॒श्चात्॥४३॥

ताभ्या॑मे॒व प्र॑ति॒प्रोच्या॒त्या क्रा॑मति।
विजि॑हाथां॒ मा मा॒ सन्ता᳚प्त॒मित्या॒हाहिꣳ॑सायै।
लो॒कं मे॑ लोककृतौ कृणुत॒मित्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
विष्णोः॒ स्थान॑म॒सीत्या॑ह।
य॒ज्ञो वै विष्णुः॑।
ए॒तत्खलु॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम्।
यद्य॒ज्ञः।
दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने तिष्ठति।
इ॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णीत्या॑ह॥४४॥

इ॒न्द्रि॒यमे॒व यज॑माने दधाति।
स॒मा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मित्या॑ह॒ वृद्ध्यै᳚।
आ॒घा॒रमा॑घा॒र्यमा॑ण॒मनु॑ समा॒रभ्य॑।
ए॒तस्मि॑न्का॒ले दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्।
सा॒क्षादे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति।
अथो॒ समृ॑द्धेनै॒व य॒ज्ञेन॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति।
अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रित्या॒हाना᳚र्त्यै।
इन्द्रा॑वा॒न्थ्स्वाहेत्या॑ह।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति।
बृ॒हद्भा इत्या॑ह॥४५॥

सु॒व॒र्गो वै लो॒को बृ॒हद्भाः।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै।
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत्।
प्रा॒ण आ॑घा॒रः।
यथ्सꣴ॑स्प॒र्॒शये᳚त्।
भ्रातृ॑व्येऽस्य प्रा॒णं द॑ध्यात्।
असꣴ॑स्पर्‌शयन्न॒त्या क्रा॑मति।
यज॑मान ए॒व प्रा॒णं द॑धाति।
पा॒हि मा᳚ऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भ॒जेत्या॑ह॥४६॥

अ॒ग्निर्वाव प॒वित्रम्᳚।
वृ॒जि॒नमनृ॑तं॒ दुश्च॑रितम्।
ऋ॒जु॒क॒र्मꣳ स॒त्यꣳ सुच॑रितम्।
अ॒ग्निरे॒वैनं॑ वृजि॒नादनृ॑ता॒द्दुश्च॑रितात्पाति।
ऋ॒जु॒क॒र्मे स॒त्ये सुच॑रिते भजति।
तस्मा॑दे॒वमा शा᳚स्ते।
आ॒त्मनो॑ गोपी॒थाय॑।
शिरो॒ वा ए॒तद्य॒ज्ञस्य॑।
यदा॑घा॒रः।
आ॒त्मा ध्रु॒वा॥४७॥

आ॒घा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्ति।
आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑ दधाति।
द्विः सम॑नक्ति।
द्वौ हि प्रा॑णापा॒नौ।
तदा॑हुः।
त्रिरे॒व सम॑ञ्ज्यात्।
त्रिधा॑तु॒ हि शिर॒ इति॑।
शिर॑ इवै॒तद्य॒ज्ञस्य॑।
अथो॒ त्रयो॒ वै प्रा॒णाः।
प्रा॒णाने॒वास्मि॑न्दधाति।
म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ता॒मित्या॑ह।
ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॥४८॥

अनुवाक 8

धिष्णि॑या॒ वा ए॒ते न्यु॑प्यन्ते।
यद्ब्र॒ह्मा।
यद्धोता᳚।
यद॑ध्व॒र्युः।
यद॒ग्नीत्।
यद्यज॑मानः।
तान् यद॑न्तरे॒यात्।
यज॑मानस्य प्रा॒णान्थ्सङ्क॑र्‌षेत्।
प्र॒मायु॑कः स्यात्।
पु॒रो॒डाश॑मप॒गृह्य॒ सञ्च॑रत्यध्व॒र्युः॥४९॥

यज॑मानायै॒व तल्लो॒कꣳ शिꣳ॑षति।
नास्य॑ प्रा॒णान्थ्सङ्क॑र्‌षति।
न प्र॒मायु॑को भवति।
पु॒रस्ता᳚त् प्र॒त्यङ्ङासी॑नः।
इडा॑या॒ इडा॒मा द॑धाति।
हस्त्या॒ꣳ॒ होत्रे᳚।
प॒शवो॒ वा इडा᳚।
प॒शवः॒ पुरु॑षः।
प॒शुष्वे॒व प॒शून्प्रति॑ष्ठापयति।
इडा॑यै॒ वा ए॒षा प्रजा॑तिः॥५०॥

तां प्रजा॑तिं॒ यज॑मा॒नोऽनु॒ प्र जा॑यते।
द्विर॒ङ्गुला॑वनक्ति॒ पर्व॑णोः।
द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै।
स॒कृदुप॑ स्तृणाति।
द्विरा द॑धाति।
स॒कृद॒भि घा॑रयति।
च॒तुः सं प॑द्यते।
च॒त्वारि॒ वै प॒शोः प्र॑ति॒ष्ठाना॑नि।
यावा॑ने॒व प॒शुः।
तमुप॑ह्वयते॥५१॥

मुख॑मिव॒ प्रत्युप॑ह्वयेत।
स॒म्मु॒खाने॒व प॒शूनुप॑ ह्वयते।
प॒शवो॒ वा इडा᳚।
तस्मा॒थ्साऽन्वा॒रभ्या᳚।
अ॒ध्व॒र्युणा॑ च॒ यज॑मानेन च।
उप॑हूतः पशु॒मान॑सा॒नीत्या॑ह।
उप॒ ह्ये॑नौ॒ ह्वय॑ते॒ होता᳚।
इडा॑यै दे॒वता॑नामुपह॒वे।
उप॑हूतः पशु॒मान्भ॑वति।
य ए॒वं वेद॑॥५२॥

यां वै हस्त्या॒मिडा॑मा॒दधा॑ति।
वा॒चः सा भा॑ग॒धेयम्᳚।
यामु॑प॒ह्वय॑ते।
प्रा॒णाना॒ꣳ॒ सा।
वाचं॑ चै॒व प्रा॒णाꣴश्चाव॑ रुन्धे।
अथ॒ वा ए॒तर्ह्युप॑हूताया॒मिडा॑याम्।
पु॒रो॒डाश॑स्यै॒व ब॑र्हि॒षदो॑ मीमा॒ꣳ॒सा।
यज॑मानं दे॒वा अ॑ब्रुवन्।
ह॒विर्नो॒ निर्व॒पेति॑।
नाहम॑भा॒गो निर्व॑फ्स्या॒मीत्य॑ब्रवीत्॥५३॥

न मया॑ऽभा॒गयाऽनु॑वक्ष्य॒थेति॒ वाग॑ब्रवीत्।
नाहम॑भा॒गा पु॑रोनुवा॒क्या॑ भविष्या॒मीति॑ पुरोनुवा॒क्या᳚।
नाहम॑भा॒गा या॒ज्या॑ भविष्या॒मीति॑ या॒ज्या᳚।
न मया॑ऽभा॒गेन॒ वष॑ट्करिष्य॒थेति॑ वषट्का॒रः।
यद्य॑जमानभा॒गं नि॒धाय॑ पुरो॒डाशं॑ बर्‌हि॒षदं॑ क॒रोति॑।
ताने॒व तद्भा॒गिनः॑ करोति।
च॒तु॒र्धा क॑रोति।
चत॑स्रो॒ दिशः॑।
दि॒क्ष्वे॑व प्रति॑ तिष्ठति।
ब॒र्॒हि॒षदं॑ करोति॥५४॥

यज॑मानो॒ वै पु॑रो॒डाशः॑।
प्र॒जा ब॒र्॒हिः।
यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति।
तस्मा॑द॒स्थ्नाऽन्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति।
मा॒ꣳ॒सेना॒न्याः।
अथो॒ खल्वा॑हुः।
दक्षि॑णा॒ वा ए॒ता ह॑विर्य॒ज्ञस्या᳚न्तर्वे॒द्यव॑ रुध्यन्ते।
यत्पु॑रो॒डाशं॑ बर्‌हि॒षदं॑ क॒रोतीति॑।
च॒तु॒र्धा क॑रोति।
च॒त्वारो॒ ह्ये॑ते ह॑विर्य॒ज्ञस्य॒र्त्विजः॑॥५५॥

ब्र॒ह्मा होता᳚ऽध्व॒र्युर॒ग्नीत्।
तम॒भि मृ॑शेत्।
इ॒दं ब्र॒ह्मणः॑।
इ॒दꣳ होतुः॑।
इ॒दम॑ध्व॒र्योः।
इ॒दम॒ग्नीध॒ इति॑।
यथै॒वादः सौ॒म्ये᳚ऽध्व॒रे।
आ॒देश॑मृ॒त्विग्भ्यो॒ दक्षि॑णा नी॒यन्ते᳚।
ता॒दृगे॒व तत्।
अ॒ग्नीधे᳚ प्रथ॒माया द॑धाति॥५६॥

अ॒ग्निमु॑खा॒ ह्यृद्धिः॑।
अ॒ग्निमु॑खामे॒वर्द्धिं॒ यज॑मान ऋध्नोति।
स॒कृदु॑प॒स्तीर्य॒ द्विरा॒दध॑त्।
उ॒प॒स्तीर्य॒ द्विर॒भि घा॑रयति।
षट्थ्सं प॑द्यन्ते।
षड्वा ऋ॒तवः॑।
ऋ॒तूने॒व प्री॑णाति।
वे॒देन॑ ब्र॒ह्मणे᳚ ब्रह्मभा॒गं परि॑हरति।
प्रा॒जा॒प॒त्यो वै वे॒दः।
प्रा॒जा॒प॒त्यो ब्र॒ह्मा॥५७॥

स॒वि॒ता य॒ज्ञस्य॒ प्रसू᳚त्यै।
अथ॒ काम॑म॒न्येन॑।
ततो॒ होत्रे᳚।
मध्यं॒ वा ए॒तद्य॒ज्ञस्य॑।
यद्धोता᳚।
म॒ध्य॒त ए॒व य॒ज्ञं प्री॑णाति।
अथा᳚ध्व॒र्यवे᳚।
प्र॒ति॒ष्ठा वा ए॒षा य॒ज्ञस्य॑।
यद॑ध्व॒र्युः।
तस्मा᳚द्धविर्य॒ज्ञस्यै॒तामे॒वाऽऽवृत॒मनु॑॥५८॥

अ॒न्या दक्षि॑णा नीयन्ते।
य॒ज्ञस्य॒ प्रति॑ष्ठित्यै।
अ॒ग्निम॑ग्नीथ्स॒कृथ्स॑कृ॒थ्सं मृ॒ड्ढीत्या॑ह।
परा॑ङिव॒ ह्ये॑तर्‌हि॑ य॒ज्ञः।
इ॒षि॒ता दैव्या॒ होता॑र॒ इत्या॑ह।
इ॒षि॒तꣳ हि कर्म॑ क्रि॒यते᳚।
भ॒द्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवा॒काय॑ सू॒क्ता ब्रू॒हीत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
स्व॒गा दैव्या॒ होतृ॑भ्य॒ इत्या॑ह।
य॒ज्ञमे॒व तथ्स्व॒गा क॑रोति।
स्व॒स्तिर्मानु॑षेभ्य॒ इत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
शं॒ योर्ब्रू॒हीत्या॑ह।
शं॒युमे॒व बा॑र्‌हस्प॒त्यं भा॑ग॒धेये॑न॒ सम॑र्धयति॥५९॥

अनुवाक 9

अथ॒ स्रुचा॑वनु॒ष्टुग्भ्यां॒ वाज॑वतीभ्यां॒ व्यू॑हति।
प्र॒ति॒ष्ठा वा अ॑नु॒ष्टुक्।
अन्नं॒ वाजः॒ प्रति॑ष्ठित्यै।
अ॒न्नाद्य॒स्याव॑रुद्ध्यै।
प्राचीं᳚ जु॒हूमू॑हति।
जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते।
प्र॒तीची॑मुप॒भृतम्᳚।
ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते।
सविषू॑च ए॒वापोह्य॑ स॒पत्ना॒न्॒ यज॑मानः।
अ॒स्मिँल्लो॒के प्रति॑ तिष्ठति॥६०॥

द्वाभ्या᳚म्।
द्विप्र॑तिष्ठो॒ हि।
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॒स्त्वेत्या॑ह।
य॒था॒य॒जुरे॒वैतत्।
स्रु॒क्षु प्र॑स्त॒रम॑नक्ति।
इ॒मे वै लो॒काः स्रुचः॑।
यज॑मानः प्रस्त॒रः।
यज॑मानमे॒व तेज॑साऽनक्ति।
त्रे॒धाऽन॑क्ति।
त्रय॑ इ॒मे लो॒काः॥६१॥

ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ऽनक्ति।
अ॒भि॒पू॒र्वम॑नक्ति।
अ॒भि॒पू॒र्वमे॒व यज॑मानं॒ तेज॑साऽनक्ति।
अ॒क्तꣳ रिहा॑णा॒ इत्या॑ह।
तेजो॒ वा आज्यम्᳚।
यज॑मानः प्रस्त॒रः।
यज॑मानमे॒व तेज॑साऽनक्ति।
वि॒यन्तु॒ वय॒ इत्या॑ह।
वय॑ ए॒वैनं॑ कृ॒त्वा।
सु॒व॒र्गं लो॒कं ग॑मयति॥६२॥

प्र॒जां योनिं॒ मा निर्मृ॑क्ष॒मित्या॑ह।
प्र॒जायै॑ गोपी॒थाय॑।
आप्या॑यन्ता॒माप॒ ओष॑धय॒ इत्या॑ह।
आप॑ ए॒वौष॑धी॒रा प्या॑ययति।
म॒रुतां॒ पृष॑तयः॒ स्थेत्या॑ह।
म॒रुतो॒ वै वृष्ट्या॑ ईशते।
वृष्टि॑मे॒वाव॑ रुन्धे।
दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॒येत्या॑ह।
वृष्टि॒र्वै द्यौः।
वृष्टि॑मे॒वाव॑ रुन्धे॥६३॥

याव॒द्वा अ॑ध्व॒र्युः प्र॑स्त॒रं प्र॒हर॑ति।
ताव॑द॒स्यायु॑र्मीयते।
आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पा॒हीत्या॑ह।
आयु॑रे॒वाऽऽत्मन्ध॑त्ते।
याव॒द्वा अ॑ध्व॒र्युः प्र॑स्त॒रं प्र॒हर॑ति।
ताव॑दस्य॒ चक्षु॑र्मीयते।
च॒क्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पा॒हीत्या॑ह।
चक्षु॑रे॒वाऽऽत्मन्ध॑त्ते।
ध्रु॒वाऽसीत्या॑ह॒ प्रति॑ष्ठित्यै।
यं प॑रि॒धिं प॒र्यध॑त्था॒ इत्या॑ह॥६४॥

य॒था॒य॒जुरे॒वैतत्।
अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑ण॒ इत्या॑ह।
अ॒ग्नय॑ ए॒वैनं॒ जुष्टं॑ करोति।
तन्त॑ ए॒तमनु॒ जोषं॑ भरा॒मीत्या॑ह।
स॒जा॒ताने॒वास्मा॒ अनु॑कान्करोति।
नेदे॒ष त्वद॑पचे॒तया॑ता॒ इत्या॒हानु॑ख्यात्यै।
य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त॒मित्या॑ह।
भू॒मान॑मे॒वोपै॑ति।
प॒रि॒धीन्प्र ह॑रति।
य॒ज्ञस्य॒ समि॑ष्ट्यै॥६५॥

स्रुचौ॒ सं प्रस्रा॑वयति।
यदे॒व तत्र॑ क्रू॒रम्।
तत्तेन॑ शमयति।
जु॒ह्वामु॑प॒भृतम्᳚।
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत्।
यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिं करोति।
स॒ꣴ॒स्रा॒वभा॑गाः॒ स्थेत्या॑ह।
वस॑वो॒ वै रु॒द्रा आ॑दि॒त्याः सꣴ॑स्रा॒वभा॑गाः।
तेषां॒ तद्भा॑ग॒धेयम्᳚॥६६॥

ताने॒व तेन॑ प्रीणाति।
वै॒श्व॒दे॒व्यर्चा।
ए॒ते हि विश्वे॑ दे॒वाः।
त्रि॒ष्टुग्भ॑वति।
इ॒न्द्रि॒यं वै त्रि॒ष्टुक्।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति।
अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादया॒मीत्या॑ह।
इ॒यं वा अ॒ग्निरप॑न्नगृहः।
अ॒स्या ए॒वैने॒ सद॑ने सादयति।
सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त॒मित्या॑ह॥६७॥

प्र॒जा वै प॒शवः॑ सु॒म्नम्।
प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते।
धु॒रि धु॒र्यौ॑ पात॒मित्या॑ह।
जा॒या॒प॒त्योर्गो॑पी॒थाय॑।
अग्ने॑ऽदब्धायोऽशीततनो॒ इत्या॑ह।
य॒था॒य॒जुरे॒वैतत्।
पा॒हि मा॒ऽद्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दित्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
अवि॑षन्नः पि॒तुं कृ॑णु सु॒षदा॒ योनि॒ꣴ॒ स्वाहेती᳚ध्मसं॒वृश्च॑नान्यन्वाहार्य॒पच॑नेऽभ्या॒धाय॑ फलीकरणहो॒मं जु॑होति।
अति॑रिक्तानि॒ वा इ॑ध्मसं॒ वृश्च॑नानि॥६८॥

अति॑रिक्ताः फली॒कर॑णाः।
अति॑रिक्तमाज्योच्छेष॒णम्।
अति॑रिक्त ए॒वाति॑रिक्तं दधाति।
अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाऽव॑ रुन्धे।
वेदि॑र्दे॒वेभ्यो॒ निला॑यत।
तां वे॒देनान्व॑विन्दन्।
वे॒देन॒ वेदिं॑ विविदुः पृथि॒वीम्।
सा प॑प्रथे पृथि॒वी पार्थि॑वानि।
गर्भं॑ बिभर्ति॒ भुव॑नेष्व॒न्तः।
ततो॑ य॒ज्ञो जा॑यते विश्व॒दानि॒रिति॑ पु॒रस्ता᳚थ्स्तम्बय॒जुषो॑ वे॒देन॒ वेदि॒ꣳ॒ सम्मा॒र्ष्ट्यनु॑वित्त्यै॥६९॥

अथो॒ यद्वे॒दश्च॒ वेदि॑श्च॒ भव॑तः।
मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै।
प्र॒जाप॑ते॒र्वा ए॒तानि॒ श्मश्रू॑णि।
यद्वे॒दः।
पत्नि॑या उ॒पस्थ॒ आस्य॑ति।
मि॒थु॒नमे॒व क॑रोति।
वि॒न्दते᳚ प्र॒जाम्।
वे॒दꣳ होताऽऽह॑व॒नीया᳚थ्स्तृ॒णन्ने॑ति।
य॒ज्ञमे॒व तथ्सं त॑नो॒त्योत्त॑रस्मादर्धमा॒सात्।
तꣳ सन्त॑त॒मुत्त॑रेऽर्धमा॒स आल॑भते॥७०॥

तं का॒लेका॑ल॒ आग॑ते यजते।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
स त्वा अ॑ध्व॒र्युः स्या᳚त्।
यो यतो॑ य॒ज्ञं प्र॑यु॒ङ्क्ते।
तदे॑नं प्रतिष्ठा॒पय॒तीति॑।
वाता॒द्वा अ॑ध्व॒र्युर्य॒ज्ञं प्रयु॑ङ्क्ते।
देवा॑ गातुविदो गा॒तुं वि॒त्वा गा॒तुमि॒तेत्या॑ह।
यत॑ ए॒व य॒ज्ञं प्र॑यु॒ङ्क्ते।
तदे॑नं॒ प्रति॑ष्ठापयति।
प्रति॑ तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः॥७१॥

अनुवाक 10

यो वा अय॑थादेवतं य॒ज्ञमु॑प॒चर॑ति।
आ दे॒वता᳚भ्यो वृश्च्यते।
पापी॑यान्भवति।
यो य॑थादेव॒तम्।
न दे॒वता᳚भ्य॒ आवृ॑श्च्यते।
वसी॑यान्भवति।
वा॒रु॒णो वै पाशः॑।
इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाश॒मित्या॑ह।
व॒रु॒ण॒पा॒शादे॒वैनां᳚ मुञ्चति।
स॒वि॒तृप्र॑सूतो यथादेव॒तम्॥७२॥

न दे॒वता᳚भ्य॒ आवृ॑श्च्यते।
वसी॑यान्भवति।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒क इत्या॑ह।
अ॒ग्निर्वै धा॒ता।
पुण्यं॒ कर्म॑ सुकृ॒तस्य॑ लो॒कः।
अ॒ग्निरे॒वैनां᳚ धा॒ता।
पुण्ये॒ कर्म॑णि सुकृ॒तस्य॑ लो॒के द॑धाति।
स्यो॒नं मे॑ स॒ह पत्या॑ करो॒मीत्या॑ह।
आ॒त्मन॑श्च॒ यज॑मानस्य॒ चाना᳚त्यै स॒न्त्वाय॑।
समायु॑षा॒ सं प्र॒जयेत्या॑ह॥७३॥

आ॒मे॒वैतामा शा᳚स्ते पूर्णपा॒त्रे।
अ॒न्त॒तो॑ऽनु॒ष्टुभा᳚।
चतु॑ष्प॒द्वा ए॒तच्छन्दः॒ प्रति॑ष्ठितं॒ पत्नि॑यै पूर्णपा॒त्रे भ॑वति।
अ॒स्मिँल्लो॒के प्रति॑ तिष्ठा॒नीति॑।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति।
अथो॒ वाग्वा अ॑नु॒ष्टुक्।
वाङ्मि॑थु॒नम्।
आपो॒ रेतः॑ प्र॒जन॑नम्।
ए॒तस्मा॒द्वै मि॑थु॒नाद्वि॒द्योत॑मानः स्त॒नय॑न्वर्‌षति।
रेतः॑ सि॒ञ्चन्॥७४॥

प्र॒जाः प्र॑ज॒नयन्॑।
यद्वै य॒ज्ञस्य॒ ब्रह्म॑णा यु॒ज्यते᳚।
ब्रह्म॑णा॒ वै तस्य॑ विमो॒कः।
अ॒द्भिः शान्तिः॑।
विमु॑क्तं॒ वा ए॒तर्‌हि॒ योक्त्रं॒ ब्रह्म॑णा।
आ॒दायै॑न॒त्पत्नी॑ स॒हाप उप॑गृह्णीते॒ शान्त्यै᳚।
अ॒ञ्ज॒लौ पू᳚र्णपा॒त्रमा न॑यति।
रेत॑ ए॒वास्यां᳚ प्र॒जां द॑धाति।
प्र॒जया॒ हि म॑नु॒ष्यः॑ पू॒र्णः।
मुखं॒ वि मृ॑ष्टे।
अ॒व॒भृ॒थस्यै॒व रू॒पं कृ॒त्वोत्ति॑ष्ठति॥७५॥

अनुवाक 11

प॒रि॒वे॒षो वा ए॒ष वन॒स्पती॑नाम्।
यदु॑पवे॒षः।
य ए॒वं वेद॑।
वि॒न्दते॑ परिवे॒ष्टारम्᳚।
तमु॑त्क॒रे।
यं दे॒वा म॑नु॒ष्ये॑षु।
उ॒प॒वे॒षमधा॑रयन्।
ये अ॒स्मदप॑ चेतसः।
तान॒स्मभ्य॑मि॒हा कु॑रु।
उप॑वे॒षोप॑ विड्ढि नः॥७६॥

प्र॒जां पुष्टि॒मथो॒ धनम्᳚।
द्वि॒पदो॑ न॒श्चतु॑ष्पदः।
ध्रु॒वानन॑पगान्कु॒र्विति॑ पु॒रस्ता᳚त्प्र॒त्यञ्च॒मुप॑ गूहति।
तस्मा᳚त्पु॒रस्ता᳚त्प्र॒त्यञ्चः॑ शू॒द्रा अव॑स्यन्ति।
स्थ॒वि॒म॒त उप॑गूहति।
अप्र॑तिवादिन ए॒वैना᳚न्कुरुते।
धृष्टि॒र्वा उ॑पवे॒षः।
शु॒चर्तो वज्रो॒ ब्रह्म॑णा॒ सꣳशि॑तः।
योप॑वे॒षे शुक्।
साऽमुमृ॑च्छतु॒ यं द्वि॒ष्म इति॑॥७७॥

अथा᳚स्मै नाम॒ गृह्य॒ प्रह॑रति।
निर॒मुन्नु॑द॒ ओक॑सः।
स॒पत्नो॒ यः पृ॑त॒न्यति॑।
नि॒र्बा॒ध्ये॑न ह॒विषा᳚।
इन्द्र॑ एणं॒ परा॑शरीत्।
इ॒हि ति॒स्रः प॑रा॒वतः॑।
इ॒हि पञ्च॒ जना॒ꣳ॒ अति॑।
इ॒हि ति॒स्रोऽति॑ रोच॒नायाव॑त्।
सूर्यो॒ अस॑द्दि॒वि।
प॒र॒मान्त्वा॑ परा॒वतम्᳚॥७८॥

इन्द्रो॑ नयतु वृत्र॒हा।
यतो॒ न पुन॒राय॑सि।
श॒श्व॒तीभ्यः॒ समा᳚भ्य॒ इति॑।
त्रि॒वृद्वा ए॒ष वज्रो॒ ब्रह्म॑णा॒ सꣳशि॑तः।
शु॒चैवैनं॑ वि॒ध्वा।
ए॒भ्यो लो॒केभ्यो॑ नि॒र्णुद्य॑।
वज्रे॑ण॒ ब्रह्म॑णा स्तृणुते।
ह॒तो॑ऽसावव॑धिष्मा॒मुमित्या॑ह॒ स्तृत्यै᳚।
यं द्वि॒ष्यात्तं ध्या॑येत्।
शु॒चैवैन॑मर्पयति॥७९॥