अनुवाक 1
तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत्।
तं गा॑य॒त्र्याऽह॑रत्।
तस्य॑ प॒र्णम॑च्छिद्यत।
तत्प॒र्णो॑ऽभवत्।
तत्प॒र्णस्य॑ पर्ण॒त्वम्।
ब्रह्म॒ वै प॒र्णः।
यत्प॑र्णशा॒खया॑ व॒थ्सान॑पाक॒रोति॑।
ब्रह्म॑णै॒वैना॑न॒पाक॑रोति।
गा॒य॒त्रो वै प॒र्णः।
गा॒य॒त्राः प॒शवः॑॥१॥
तस्मा॒त्त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑।
त्रि॒पदा॑ गाय॒त्री।
यत्प॑र्णशा॒खया॒ गाः प्रा॒र्पय॑ति।
स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति।
यं का॒मये॑ताप॒शुः स्या॒दिति॑।
अ॒प॒र्णान्तस्मै॒ शुष्का᳚ग्रा॒माह॑रेत्।
अ॒प॒शुरे॒व भ॑वति।
यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑।
ब॒हु॒प॒र्णान्तस्मै॑ बहुशा॒खामाह॑रेत्।
प॒शु॒मन्त॑मे॒वैनं॑ करोति॥२॥
यत्प्राची॑मा॒ हरे᳚त्।
दे॒व॒लो॒कम॒भि ज॑येत्।
यदुदी॑चीं मनुष्यलो॒कम्।
प्राची॒मुदी॑ची॒मा ह॑रति।
उ॒भयो᳚र्लो॒कयो॑र॒भिजि॑त्यै।
इ॒षे त्वो॒र्जे त्वेत्या॑ह।
इष॑मे॒वोर्जं॒ यज॑माने दधाति।
वा॒यवः॒ स्थेत्या॑ह।
वा॒युर्वा अ॒न्तरि॑क्ष॒स्याध्य॑क्षाः।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्याः᳚ खलु॒ वै प॒शवः॑॥३॥
वा॒यव॑ ए॒वैना॒न्परि॑ ददाति।
प्र वा ए॑नाने॒तदा क॑रोति।
यदाह॑।
वा॒यवः॒ स्थेत्यु॑पा॒यवः॒ स्थेत्या॑ह।
यज॑मानायै॒व प॒शूनुप॑ ह्वयते।
दे॒वो वः॑ सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसू᳚त्यै।
श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह।
य॒ज्ञो हि श्रेष्ठ॑तमं॒ कर्म॑।
तस्मा॑दे॒वमा॑ह।
आप्या॑यध्वमघ्निया देवभा॒गमित्या॑ह॥४॥
व॒थ्सेभ्य॑श्च॒ वा ए॒ताः पु॒रा म॑नु॒ष्ये᳚भ्य॒श्चाप्या॑यन्त।
दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑ययति।
ऊर्ज॑स्वतीः॒ पय॑स्वती॒रित्या॑ह।
ऊर्ज॒ꣳ॒ हि पयः॑ स॒म्भर॑न्ति।
प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा इत्या॑ह॒ प्रजा᳚त्यै।
मा वः॑ स्ते॒न ई॑शत॒ माऽघशꣳ॑स॒ इत्या॑ह॒ गुप्त्यै᳚।
रु॒द्रस्य॑ हे॒तिः परि॑ वो वृण॒क्त्वित्या॑ह।
रु॒द्रादे॒वैना᳚स्त्रायते।
ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीरित्या॑ह।
ध्रु॒वा ए॒वास्मि॑न्ब॒ह्वीः क॑रोति॥५॥
यज॑मानस्य प॒शून्पा॒हीत्या॑ह।
प॒शू॒नां गो॑पी॒थाय॑।
तस्मा᳚थ्सा॒यं प॒शव॒ उप॑स॒माव॑र्तन्ते।
अन॑धः सादयति।
गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय।
तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः।
उ॒परी॑व॒ निद॑धाति।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॥६॥
अनुवाक 2
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य॑श्वप॒र्॒शुमाद॑त्ते॒ प्रसू᳚त्यै।
अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म्।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚।
यो वा ओष॑धीः पर्व॒शो वेद॑।
नैनाः॒ स हि॑नस्ति।
प्र॒जाप॑ति॒र्वा ओष॑धीः पर्व॒शो वे॑द।
स ए॑ना॒ न हि॑नस्ति।
अ॒श्व॒प॒र्श्वा ब॒र्॒हिरच्छै॑ति।
प्रा॒जा॒प॒त्यो वा अश्वः॑ सयोनि॒त्वाय॑॥७॥
ओष॑धीना॒महिꣳ॑सायै।
य॒ज्ञस्य॑ घो॒षद॒सीत्या॑ह।
यज॑मान ए॒व र॒यिं द॑धाति।
प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह।
रक्ष॑सा॒मप॑हत्यै।
प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छेत्या॑ह।
वि॒द्या वै धि॒षणा᳚।
वि॒द्ययै॒वैन॒दच्छै॑ति।
मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टेत्या॑ह।
मा॒न॒वी हि पर्शुः॑ स्व॒धाकृ॑ता॥८॥
त आव॑हन्ति क॒वयः॑ पु॒रस्ता॒दित्या॑ह।
शु॒श्रु॒वाꣳसो॒ वै क॒वयः॑।
य॒ज्ञः पु॒रस्ता᳚त्।
मु॒ख॒त ए॒व य॒ज्ञमा र॑भते।
अथो॒ यदे॒तदु॒क्त्वा यतः॒ कुत॑श्चा॒ हर॑ति।
तत्प्राच्या॑ ए॒व दि॒शो भ॑वति।
दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सद॒ इत्या॑ह।
ब॒र्॒हिषः॒ समृ॑द्ध्यै।
कर्म॒णोऽन॑पराधाय।
दे॒वानां᳚ परिषू॒तम॒सीत्या॑ह॥९॥
यद्वा इ॒दं किं च॑।
तद्दे॒वानां᳚ परिषू॒तम्।
अथो॒ यथा॒ वस्य॑से प्रति॒प्रोच्याहे॒दं क॑रिष्या॒मीति॑।
ए॒वमे॒व तद॑ध्व॒र्युर्दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ ब॒र्॒हिर्दा॑ति।
आ॒त्मनोऽहिꣳ॑सायै।
याव॑तः स्त॒म्बान्प॑रिदि॒शेत्।
यत्तेषा॑मुच्छि॒ꣴ॒ष्यात्।
अति॒ तद्य॒ज्ञस्य॑ रेचयेत्।
एकꣴ॑ स्त॒म्बं परि॑दिशेत्।
तꣳ सर्वं॑ दायात्॥१०॥
य॒ज्ञस्यान॑तिरेकाय।
व॒र्॒षवृ॑द्धम॒सीत्या॑ह।
व॒र्॒षवृ॑द्धा॒ वा ओष॑धयः।
देव॑बर्हि॒रित्या॑ह।
दे॒वेभ्य॑ ए॒वैन॑त्करोति।
मा त्वा॒ऽन्वङ्मा ति॒र्यगित्या॒हाहिꣳ॑सायै।
पर्व॑ ते राध्यास॒मित्या॒हर्ध्यै᳚।
आ॒च्छे॒त्ता ते॒ मा रि॑ष॒मित्या॑ह।
नास्या॒ऽ॒ऽ॒त्मनो॑ मीयते।
य ए॒वं वेद॑॥११॥
देव॑बर्हिः श॒तव॑ल्शं॒ विरो॒हेत्या॑ह।
प्र॒जा वै ब॒र्॒हिः।
प्र॒जानां᳚ प्र॒जन॑नाय।
स॒हस्र॑वल्शा॒ वि व॒यꣳ रु॑हे॒मेत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
पृ॒थि॒व्याः स॒म्पृचः॑ पा॒हीत्या॑ह॒ प्रति॑ष्ठित्यै।
अयु॑ङ्गायुङ्गान्मु॒ष्टीं लु॑नोति।
मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै।
सु॒स॒म्भृता᳚ त्वा॒ सम्भ॑रा॒मीत्या॑ह।
ब्रह्म॑णै॒वैन॒थ्सम्भ॑रति॥१२॥
अदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह।
इ॒यं वा अदि॑तिः।
अ॒स्या ए॒वैन॒द्रास्नां᳚ करोति।
इ॒न्द्रा॒ण्यै स॒न्नह॑न॒मित्या॑ह।
इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑ना॒ꣳ॒ सम॑नह्यत।
साऽऽर्ध्नो᳚त्।
ऋद्ध्यै॒ सन्न॑ह्यति।
प्र॒जा वै ब॒र्॒हिः।
प्र॒जाना॒मप॑रावापाय।
तस्मा॒थ्स्नाव॑सन्तताः प्र॒जा जा॑यन्ते॥१३॥
पू॒षा ते᳚ ग्र॒न्थिं ग्र॑थ्ना॒त्वित्या॑ह।
पुष्टि॑मे॒व यज॑माने दधाति।
स ते॒ मास्था॒दित्या॒हाहिꣳ॑सायै।
प॒श्चात्प्राञ्च॒मुप॑गूहति।
प॒श्चाद्वै प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते।
प॒श्चादे॒वास्मै᳚ प्रा॒चीन॒ꣳ॒ रेतो॑ दधाति।
इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छ॒ इत्या॑ह।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति।
बृह॒स्पते᳚र्मू॒र्ध्ना ह॑रा॒मीत्या॑ह।
ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑॥१४॥
ब्रह्म॑णै॒वैन॑द्धरति।
उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ गत्यै᳚।
दे॒व॒ङ्ग॒मम॒सीत्या॑ह।
दे॒वाने॒वैन॑द्गमयति।
अन॑धः सादयति।
गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय।
तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः।
उ॒परी॑व॒ नि द॑धाति।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॥१५॥
अनुवाक 3
पू॒र्वे॒द्युरि॒ध्माब॒र्॒हिः क॑रोति।
य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति।
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत।
तस्यो॒खे अ॑स्रꣳसेताम्।
य॒ज्ञो वै प्र॒जाप॑तिः।
यथ्सा᳚न्नाय्यो॒खे भव॑तः।
य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्यप्र॑स्रꣳसाय।
शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह।
दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति।
मा॒त॒रिश्व॑नो घ॒र्मो॑ऽसीत्या॑ह॥१६॥
अ॒न्तरि॑क्षं॒ वै मा॑त॒रिश्व॑नो घ॒र्मः।
ए॒षां लो॒कानां॒ विधृ॑त्यै।
द्यौर॑सि पृथि॒व्य॑सीत्या॑ह।
दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ सम्भृ॑ता।
यदु॒खा।
तस्मा॑दे॒वमा॑ह।
वि॒श्वधा॑या असि पर॒मेण॒ धाम्नेत्या॑ह।
वृष्टि॒र्वै वि॒श्वधा॑याः।
वृष्टि॑मे॒वाव॑ रुन्धे।
दृꣳह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚॥१७॥
वसू॑नां प॒वित्र॑म॒सीत्या॑ह।
प्रा॒णा वै वस॑वः।
तेषां॒ वा ए॒तद्भा॑ग॒धेयम्᳚।
यत्प॒वित्रम्᳚।
तेभ्य॑ ए॒वैन॑त्करोति।
श॒तधा॑रꣳ स॒हस्र॑धार॒मित्या॑ह।
प्रा॒णेष्वे॒वायु॑र्दधाति सर्व॒त्वाय॑।
त्रि॒वृत्प॑लाशशा॒खायां᳚ दर्भ॒मयं॑ भवति।
त्रि॒वृद्वै प्रा॒णः।
त्रि॒वृत॑मे॒व प्रा॒णं म॑ध्य॒तो यज॑माने दधाति॥१८॥
सौ॒म्यः प॒र्णः स॑योनि॒त्वाय॑।
सा॒क्षात्प॒वित्रं॑ द॒र्भाः।
प्राख्सा॒यमधि॒नि द॑धाति।
तत्प्रा॑णापा॒नयो॑ रू॒पम्।
ति॒र्यक्प्रा॒तः।
तद्दर्श॑स्य रू॒पम्।
दा॒र्श्यꣴ ह्ये॑तदहः॑।
अन्नं॒ वै च॒न्द्रमाः᳚।
अन्नं॑ प्रा॒णाः।
उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय॥१९॥
तस्मा॑द॒यꣳ स॒र्वतः॑ पवते।
हु॒तः स्तो॒को हु॒तो द्र॒फ्स इत्या॑ह॒ प्रति॑ष्ठित्यै।
ह॒विषोऽस्क॑न्दाय।
न हि हु॒तꣴ स्वाहा॑कृत॒ꣴ॒ स्कन्द॑ति।
दि॒वि नाको॒ नामा॒ग्निः।
तस्य॑ वि॒प्रुषो॑ भाग॒धेयम्᳚।
अ॒ग्नये॑ बृह॒ते नाका॒येत्या॑ह।
नाक॑मे॒वाग्निं भा॑ग॒धेये॑न॒ सम॑र्धयति।
स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह।
द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति॥२०॥
प॒वित्र॑व॒त्यान॑यति।
अ॒पां चै॒वौष॑धीनां च॒ रस॒ꣳ॒ सꣳसृ॑जति।
अथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ष्ठापयति।
अ॒न्वा॒रभ्य॒ वाचं॑ यच्छति।
य॒ज्ञस्य॒ धृत्यै᳚।
धा॒रय॑न्नास्ते।
धा॒रय॑न्त इव॒ हि दु॒हन्ति॑।
काम॑धुक्ष॒ इत्या॒हाऽऽतृ॒तीय॑स्यै।
त्रय॑ इ॒मे लो॒काः।
इ॒माने॒व लो॒कान् यज॑मानो दुहे॥२१॥
अ॒मूमिति॒ नाम॑ गृह्णाति।
भ॒द्रमे॒वासां॒ कर्मा॒ विष्क॑रोति।
सा वि॒श्वायुः॒ सा वि॒श्वव्य॑चाः॒ सा वि॒श्वक॒र्मेत्या॑ह।
इ॒यं वै वि॒श्वायुः॑।
अ॒न्तरि॑क्षं वि॒श्वव्य॑चाः।
अ॒सौ वि॒श्वक॑र्मा।
इ॒माने॒वैताभि॑र्लो॒कान् य॑थापू॒र्वं दु॑हे।
अथो॒ यथा᳚ प्रदा॒त्रे पुण्य॑मा॒शास्ते᳚।
ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति।
तस्मा॒त्प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्तः॑ प॒शून्दु॑हन्ति॥२२॥
ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विरिति॒ वाचं॒ विसृ॑जते।
य॒था॒दे॒व॒तमे॒व प्रसौ॑ति।
दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्यै।
त्रिरा॑ह।
त्रिष॑त्या॒ हि दे॒वाः।
अवा॑चं य॒मोऽन॑न्वार॒भ्योत्त॑राः।
अप॑रिमितमे॒वाव॑ रुन्धे।
न दा॑रुपा॒त्रेण॑ दुह्यात्।
अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम्।
यद्दा॑रुपा॒त्रेण॑ दु॒ह्यात्॥२३॥{ण॑}%for spacing!
या॒तया᳚म्ना ह॒विषा॑ यजेत।
अथो॒ खल्वा॑हुः।
पु॒रो॒डाश॑मुखानि॒ वै ह॒वीꣳषि॑।
नेत इ॑तः पुरो॒डाशꣳ॑ ह॒विषो॒ यामो॒ऽस्तीति॑।
काम॑मे॒व दा॑रुपा॒त्रेण॑ दुह्यात्।
शू॒द्र ए॒व न दु॑ह्यात्।
अस॑तो॒ वा ए॒ष सम्भू॑तः।
यच्छू॒द्रः।
अह॑विरे॒व तदित्या॑हुः।
यच्छू॒द्रो दोग्धीति॑॥२४॥
अ॒ग्नि॒हो॒त्रमे॒व न दु॑ह्याच्छू॒द्रः।
तद्धि नोत्पु॒नन्ति॑।
य॒दा खलु॒ वै प॒वित्र॑म॒त्येति॑।
अथ॒ तद्ध॒विरिति॑।
सम्पृ॑च्यध्वमृतावरी॒रित्या॑ह।
अ॒पां चै॒वौष॑धीनां च॒ रस॒ꣳ॒ सꣳ सृ॑जति।
तस्मा॑द॒पां चौष॑धीनां च॒ रस॒मुप॑जीवामः।
म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह।
पुष्टि॑मे॒व यज॑माने दधाति।
सोमे॑न॒ त्वात॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह॥२५॥
सोम॑मे॒वैन॑त्करोति।
यो वै सोमं॑ भक्षयि॒त्वा।
सं॒व॒थ्स॒रꣳ सोमं॒ न पिब॑ति।
पु॒न॒र्भक्ष्यो᳚ऽस्य सोमपी॒थो भ॑वति।
सोमः॒ खलु॒ वै सा᳚न्ना॒य्यम्।
य ए॒वं वि॒द्वान्थ्सा᳚न्ना॒य्यं पिब॑ति।
अ॒पु॒न॒र्भक्ष्यो᳚ऽस्य सोमपी॒थो भ॑वति।
न मृ॒न्मये॒नापि॑ दध्यात्।
यन्मृ॒न्मये॑नापिद॒ध्यात्।
पि॒तृ॒दे॒व॒त्यꣴ॑ स्यात्॥२६॥
अ॒य॒स्पा॒त्रेण॑ वा दारुपा॒त्रेण॒ वाऽपि॑ दधाति।
तद्धि सदे॑वम्।
उ॒द॒न्वद्भ॑वति।
आपो॒ वै र॑क्षो॒घ्नीः।
रक्ष॑सा॒मप॑हत्यै।
अद॑स्तमसि॒ विष्ण॑वे॒ त्वेत्या॑ह।
य॒ज्ञो वै विष्णुः॑।
य॒ज्ञायै॒वैन॒दद॑स्तं करोति।
विष्णो॑ ह॒व्यꣳ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚।
अन॑धः सादयति।
गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय।
तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः।
उ॒परी॑व॒ निद॑धाति।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॥२७॥
अनुवाक 4
कर्म॑णे वां दे॒वेभ्यः॑ शकेय॒मित्या॑ह॒ शक्त्यै᳚।
य॒ज्ञस्य॒ वै सन्त॑ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते।
य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते।
य॒ज्ञस्य॒ सन्त॑तिरसि य॒ज्ञस्य॑ त्वा॒ सन्त॑त्यै स्तृणामि॒ सन्त॑त्यै त्वा य॒ज्ञस्येत्याह॑व॒नीया॒थ्सं त॑नोति।
यज॑मानस्य प्र॒जायै॑ पशू॒नाꣳ सन्त॑त्यै।
अ॒पः प्रण॑यति।
श्र॒द्धा वा आपः॑।
श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
अ॒पः प्रण॑यति।
य॒ज्ञो वा आपः॑॥२८॥
य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
अ॒पः प्रण॑यति।
वज्रो॒ वा आपः॑।
वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति।
अ॒पः प्रण॑यति।
आपो॒ वै र॑क्षो॒घ्नीः।
रक्ष॑सा॒मप॑हत्यै।
अ॒पः प्रण॑यति।
आपो॒ वै दे॒वानां᳚ प्रि॒यं धाम॑।
दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति॥२९॥
अ॒पः प्रण॑यति।
आपो॒ वै सर्वा॑ दे॒वताः᳚।
दे॒वता॑ ए॒वाऽऽरभ्य॑ प्र॒णीय॒ प्रच॑रति।
वेषा॑य॒ त्वेत्या॑ह।
वेषा॑य॒ ह्ये॑नदाद॒त्ते।
प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह।
रक्ष॑सा॒मप॑हत्यै।
धूर॒सीत्या॑ह।
ए॒ष वै धुर्यो॒ऽग्निः।
तं यदनु॑पस्पृश्याती॒यात्॥३०॥
अ॒ध्व॒र्युं च॒ यज॑मानं च॒ प्रद॑हेत्।
उ॒प॒स्पृश्यात्ये॑ति।
अ॒ध्व॒र्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय।
धूर्व॒ तं यो᳚स्मान्धूर्व॑ति॒ तं धू᳚र्व॒ यं व॒यं धूर्वा॑म॒ इत्या॑ह।
द्वौ वाव पुरु॑षौ।
यं चै॒व धूर्व॑ति।
यश्चै॑नं॒ धूर्व॑ति।
तावु॒भौ शु॒चाऽर्प॑यति।
त्वं दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं॒ वह्नि॑तमं देव॒हूत॑म॒मित्या॑ह।
य॒था॒य॒जुरे॒वैतत्॥३१॥
अह्रु॑तमसि हवि॒र्धान॒मित्या॒हाना᳚र्त्यै।
दृꣳह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚।
मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्ष॒ इत्या॑ह मित्र॒त्वाय॑।
मा भेर्मा संवि॑क्था॒ मा त्वा॑ हिꣳसिष॒मित्या॒हाहिꣳ॑सायै।
यद्वै किं च॒ वातो॒ नाभि॒ वाति॑।
तथ्सर्वं॑ वरुणदेव॒त्यम्᳚।
उ॒रु वाता॒येत्या॑ह।
अवा॑रुणमे॒वैन॑त्करोति।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै।
अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह॥३२॥
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म्।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚।
अ॒ग्नये॒ जुष्टं॒ निर्व॑पा॒मीत्या॑ह।
अ॒ग्नय॑ ए॒वैनां॒ जुष्टं॒ निर्व॑पति।
त्रिर्यजु॑षा।
त्रय॑ इ॒मे लो॒काः।
ए॒षां लो॒काना॒माप्त्यै᳚।
तू॒ष्णीं च॑तु॒र्थम्।
अप॑रिमितमे॒वाव॑ रुन्धे।
स ए॒वमे॒वानु॑पू॒र्वꣳ ह॒वीꣳषि॒ निर्व॑पति॥३३॥
इ॒दं दे॒वाना॑मि॒दमु॑ नः स॒हेत्या॑ह॒ व्यावृ॑त्यै।
स्फा॒त्यै त्वा॒ नारा᳚त्या॒ इत्या॑ह॒ गुप्त्यै᳚।
तम॑सीव॒ वा ए॒षो᳚ऽन्तश्च॑रति।
यः प॑री॒णहि॑।
सुव॑र॒भि वि ख्ये॑षं वैश्वान॒रं ज्योति॒रित्या॑ह।
सुव॑रे॒वाभि वि प॑श्यति वैश्वान॒रं ज्योतिः॑।
द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम्।
दृꣳह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह।
गृ॒हाणां॒ द्यावा॑पृथि॒व्योर्धृत्यै᳚।
उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ गत्यै᳚।
अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह।
इ॒यं वा अदि॑तिः।
अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति।
अग्ने॑ ह॒व्यꣳ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚॥३४॥
अनुवाक 5
इन्द्रो॑ वृ॒त्रम॑हन्।
सो॑ऽपः।
अ॒भ्य॑म्रियत।
तासां॒ यन्मेध्यं॑ य॒ज्ञिय॒ꣳ॒ सदे॑व॒मासी᳚त्।
तदपोद॑क्रामत्।
ते द॒र्भा अ॑भवन्।
यद्द॒र्भैर॒प उ॑त्पु॒नाति॑।
या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आपः॑।
ताभि॑रे॒वैना॒ उत्पु॑नाति।
द्वाभ्या॒मुत्पु॑नाति॥३५॥
द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै।
दे॒वो वः॑ सवि॒तोत्पु॑ना॒त्वित्या॑ह।
स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति।
अच्छि॑द्रेण प॒वित्रे॒णेत्या॑ह।
अ॒सौ वा आ॑दि॒त्योऽच्छि॑द्रं प॒वित्रम्᳚।
तेनै॒वैना॒ उत्पु॑नाति।
वसोः॒ सूर्य॑स्य र॒श्मिभि॒रित्या॑ह।
प्रा॒णा वा आपः॑।
प्रा॒णा वस॑वः।
प्रा॒णा र॒श्मयः॑॥३६॥
प्रा॒णैरे॒व प्रा॒णान्थ्सं पृ॑णक्ति।
सा॒वि॒त्रि॒यर्चा।
स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑।
स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति।
प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑।
आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह।
रू॒पमे॒वासा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे।
अग्र॑ इ॒मं य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह।
अग्र॑ ए॒व य॒ज्ञं न॑यन्ति।
अग्रे॑ य॒ज्ञप॑तिम्॥३७॥
यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्य॒ इत्या॑ह।
वृ॒त्रꣳ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे।
आपो॒ हेन्द्रं॑ वव्रिरे।
सं॒ज्ञामे॒वासा॑मे॒तथ्सामा॑नं॒ व्याच॑ष्टे।
प्रोक्षि॑ताः॒ स्थेत्या॑ह।
तेनाऽऽपः॒ प्रोक्षि॑ताः।
अ॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षा᳚म्य॒ग्नीषोमा᳚भ्या॒मित्या॑ह।
य॒था॒दे॒व॒तमे॒वैना॒न्प्रोक्ष॑ति।
त्रिः प्रोक्ष॑ति।
त्र्या॑वृ॒द्धि य॒ज्ञः॥३८॥
अथो॒ रक्ष॑सा॒मप॑हत्यै।
शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह।
दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति।
त्रिः प्रोक्ष॑ति।
त्र्या॑वृ॒द्धि य॒ज्ञः।
अथो॑ मेध्य॒त्वाय॑।
अव॑धूत॒ꣳ॒ रक्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह।
रक्ष॑सा॒मप॑हत्यै।
अदि॑त्या॒स्त्वग॒सीत्या॑ह।
इ॒यं वा अदि॑तिः॥३९॥
अ॒स्या ए॒वैन॒त्त्वचं॑ करोति।
प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै।
पु॒रस्ता᳚त्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑।
तस्मा᳚त्पु॒रस्ता᳚त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते।
तस्मा᳚त्प्र॒जा मृ॒गं ग्राहु॑काः।
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत।
कृष्णो॑ रू॒पं कृ॒त्वा।
यत्कृ॑ष्णाजि॒ने ह॒विर॑ध्यव॒हन्ति॑।
य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते।
ह॒विषोऽस्क॑न्दाय॥४०॥
अ॒धि॒षव॑णमसि वानस्प॒त्यमित्या॑ह।
अ॒धि॒षव॑णमे॒वैन॑त्करोति।
प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह सय॒त्वाय॑।
अ॒ग्नेस्त॒नूर॒सीत्या॑ह।
अ॒ग्नेर्वा ए॒षा त॒नूः।
यदोष॑धयः।
वा॒चो वि॒सर्ज॑न॒मित्या॑ह।
य॒दा हि प्र॒जा ओष॑धीनाम॒श्ञन्ति॑।
अथ॒ वाचं॒ विसृ॑जन्ते।
दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह॥४१॥
दे॒वता॑भिरे॒वैन॒थ्सम॑र्धयति।
अद्रि॑रसि वानस्प॒त्य इत्या॑ह।
ग्रावा॑णमे॒वैन॑त्करोति।
स इ॒दं दे॒वेभ्यो॑ ह॒व्यꣳ सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै᳚।
हवि॑ष्कृ॒देहीत्या॑ह।
य ए॒व दे॒वानाꣳ॑ हवि॒ष्कृतः॑।
तान् ह्व॑यति।
त्रिर्ह्व॑यति।
त्रिष॑त्या॒ हि दे॒वाः।
इष॒माव॒दोर्ज॒माव॒देत्या॑ह॥४२॥
इष॑मे॒वोर्जं॒ यज॑माने दधाति।
द्यु॒मद्व॑दत व॒यꣳ स॑ङ्घा॒तं जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै।
मनोः᳚ श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक्।
य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टाऽऽसीत्।
तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑तामु॒पाशृ॑ण्वन्।
ते परा॑भवन्।
तस्मा॒थ्स्वानां॒ मध्ये॑ऽव॒साय॑ यजेत।
याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑मु॒द्वद॑तामुपशृ॒ण्वन्ति॑।
ते परा॑ भवन्ति।
उ॒च्चैः स॒माह॑न्त॒ वा आ॑ह॒ विजि॑त्यै॥४३॥
वृ॒ङ्क्त ए॑षामिन्द्रि॒यं वी॒र्यम्᳚।
श्रेष्ठ॑ एषां भवति।
व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धं वे॒त्त्वित्या॑ह।
व॒र्॒षवृ॑द्धा॒ वा ओष॑धयः।
व॒र्॒षवृ॑द्धा इ॒षीकाः॒ समृ॑द्ध्यै।
य॒ज्ञꣳ रक्षा॒ꣴ॒स्यनु॒ प्रावि॑शन्।
तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त।
तुषै॒रोष॑धीभ्यः।
परा॑पूत॒ꣳ॒ रक्षः॒ परा॑पूता॒ अरा॑तय॒ इत्या॑ह।
रक्ष॑सा॒मप॑हत्यै॥४४॥
रक्ष॑सां भा॒गो॑ऽसीत्या॑ह।
तुषै॑रे॒व रक्षाꣳ॑सि नि॒रव॑दयते।
अ॒प उप॑स्पृशति मेध्य॒त्वाय॑।
वा॒युर्वो॒ विवि॑न॒क्त्वित्या॑ह।
प॒वित्रं॒ वै वा॒युः।
पु॒नात्ये॒वैनान्॑।
अ॒न्तरि॑क्षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति।
ये शूर्पा᳚त्।
दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै।
ह॒विषोऽस्क॑न्दाय।
त्रिष्फ॒लीक॑र्त॒वा आ॑ह।
त्र्या॑वृ॒द्धि य॒ज्ञः।
अथो॑ मेध्य॒त्वाय॑॥४५॥
अनुवाक 6
अव॑धूत॒ꣳ॒ रक्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह।
रक्ष॑सा॒मप॑हत्यै।
अदि॑त्या॒स्त्वग॒सीत्या॑ह।
इ॒यं वा अदि॑तिः।
अ॒स्या ए॒वैन॒त्त्वचं॑ करोति।
प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै।
पु॒रस्ता᳚त्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑।
तस्मा᳚त्पु॒रस्ता᳚त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते।
तस्मा᳚त्प्र॒जा मृ॒गं ग्राहु॑काः।
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॥४६॥
कृष्णो॑ रू॒पं कृ॒त्वा।
यत्कृ॑ष्णाजि॒ने ह॒विर॑धिपि॒नष्टि॑।
य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते।
ह॒विषोऽस्क॑न्दाय।
द्यावा॑पृथि॒वी स॒हास्ता᳚म्।
ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैताꣳ॑ शम्यामा॒त्रमेक॒महः॑।
दि॒वः स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह।
द्यावा॑पृथि॒व्योर्वीत्यै᳚।
धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वः स्क॑म्भ॒निर्वे॒त्त्वित्या॑ह।
द्यावा॑पृथि॒व्योर्विधृ॑त्यै॥४७॥
धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वित्या॑ह।
द्यावा॑पृथि॒व्योर्धृत्यै᳚।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै।
अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म्।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्त्यै᳚।
अधि॑वपा॒मीत्या॑ह।
य॒था॒दे॒व॒तमे॒वैना॒नधि॑ वपति।
धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह।
ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण॥४८॥
याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका᳚।
ताव॒दाहु॑तिः प्रथते।
न हि तदस्ति॑।
यत्ताव॑दे॒व स्यात्।
याव॑ज्जु॒होति॑।
प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वेत्या॑ह।
प्रा॒णाने॒व यज॑माने दधाति।
दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒मित्या॑ह।
आयु॑रे॒वास्मि॑न्दधाति।
अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति।
यानि॑ दृ॒षदः॑।
दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै।
ह॒विषोऽस्क॑न्दाय।
असं॑वपन्ती पिꣳषा॒णूनि॑ कुरुता॒दित्या॑ह मेध्य॒त्वाय॑॥४९॥
अनुवाक 7
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै᳚।
अपा᳚ग्ने॒ऽग्निमा॒मादं॑ जहि॒ निष्क्र॒व्यादꣳ॑ से॒धा दे॑व॒यजं॑ व॒हेत्या॑ह।
य ए॒वाऽऽमात्क्र॒व्यात्।
तम॑प॒हत्य॑।
मेध्ये॒ऽग्नौ क॒पाल॒मुप॑दधाति।
निर्द॑ग्ध॒ꣳ॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह।
रक्षाꣴ॑स्ये॒व निर्द॑हति।
अ॒ग्नि॒वत्युप॑दधाति।
अ॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्ते।
अङ्गा॑र॒मधि॑ वर्तयति॥५०॥
अ॒न्तरि॑क्ष ए॒व ज्योति॑र्धत्ते।
आ॒दि॒त्यमे॒वामुष्मिँ॑ल्लो॒के ज्योति॑र्धत्ते।
ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति।
य ए॒वं वेद॑।
ध्रु॒वम॑सि पृथि॒वीं दृ॒ꣳ॒हेत्या॑ह।
पृ॒थि॒वीमे॒वैतेन॑ दृꣳहति।
ध॒र्त्रम॑स्य॒न्तरि॑क्षं दृ॒ꣳ॒हेत्या॑ह।
अ॒न्तरि॑क्षमे॒वैतेन॑ दृꣳहति।
ध॒रुण॑मसि॒ दिवं॑ दृ॒ꣳ॒हेत्या॑ह।
दिव॑मे॒वैतेन॑ दृꣳहति॥५१॥
धर्मा॑सि॒ दिशो॑ दृ॒ꣳ॒हेत्या॑ह।
दिश॑ ए॒वैतेन॑ दृꣳहति।
इ॒माने॒वैतैर्लो॒कान्दृꣳ॑हति।
दृꣳह॑न्तेऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑।
य ए॒वं वेद॑।
त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति।
त्रय॑ इ॒मे लो॒काः।
ए॒षां लो॒काना॒माप्त्यै᳚।
एक॒मग्रे॑ क॒पाल॒मुप॑ दधाति।
एकं॒ वा अग्रे॑ क॒पालं॒ पुरु॑षस्य स॒म्भव॑ति॥५२॥
अथ॒ द्वे।
अथ॒ त्रीणि॑।
अथ॑ च॒त्वारि॑।
अथा॒ष्टौ।
तस्मा॑द॒ष्टाक॑पालं॒ पुरु॑षस्य॒ शिरः॑।
यदे॒वं क॒पाला᳚न्युप॒दधा॑ति।
य॒ज्ञो वै प्र॒जाप॑तिः।
य॒ज्ञमे॒व प्र॒जाप॑ति॒ꣳ॒ सꣴस्क॑रोति।
आ॒त्मान॑मे॒व तथ्सꣴस्क॑रोति।
तꣳ सꣴस्कृ॑तमा॒त्मानम्᳚॥५३॥
अ॒मुष्मिँ॑ल्लो॒केऽनु॒ परै॑ति।
यद॒ष्टावु॑प॒दधा॑ति।
गा॒य॒त्रि॒या तथ्सम्मि॑तम्।
यन्नव॑।
त्रि॒वृता॒ तत्।
यद्दश॑।
वि॒राजा॒ तत्।
यदेका॑दश।
त्रि॒ष्टुभा॒ तत्।
यद्द्वाद॑श॥५४॥
जग॑त्या॒ तत्।
छन्दः॑ सम्मितानि॒ स उ॑प॒दध॑त्क॒पाला॑नि।
इ॒माँल्लो॒कान॑नुपू॒र्वं दिशो॒ विधृ॑त्यै दृꣳहति।
अथाऽऽयुः॑ प्रा॒णान्प्र॒जां प॒शून् यज॑माने दधाति।
स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान्क॑रोति।
चितः॒ स्थेत्या॑ह।
य॒था॒य॒जुरे॒वैतत्।
भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्व॒मित्या॑ह।
दे॒वता॑नामे॒वैना॑नि॒ तप॑सा तपति।
तानि॒ ततः॒ सꣴस्थि॑ते।
यानि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा वि मु॑ञ्चति।
चतु॑ष्पादः प॒शवः॑।
प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑ तिष्ठति॥५५॥
अनुवाक 8
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै।
अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म्।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚।
सं व॑पा॒मीत्या॑ह।
य॒था॒दे॒व॒तमे॒वैना॑नि॒ संव॑पति।
समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह।
आपो॒ वा ओष॑धीर्जिन्वन्ति।
ओष॑धयो॒ऽपो जि॑न्वन्ति।
अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति॥५६॥
तस्मा॑दे॒वमा॑ह।
सꣳ रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिः सृज्यध्व॒मित्या॑ह।
आपो॒ वै रे॒वतीः᳚।
प॒शवो॒ जग॑तीः।
ओष॑धयो॒ मधु॑मतीः।
आप॒ ओष॑धीः प॒शून्।
ताने॒वास्मा॑ एक॒धा स॒ꣳ॒सृज्य॑।
मधु॑मतः करोति।
अ॒द्भ्यः परि॒ प्रजा॑ताः स्थ॒ सम॒द्भिः पृ॑च्यध्व॒मिति॑ प॒र्याप्ला॑वयति।
यथा॒ सुवृ॑ष्ट इ॒माम॑नुवि॒सृत्य॑॥५७॥
आप॒ ओष॑धीर्म॒हय॑न्ति।
ता॒दृगे॒व तत्।
जन॑यत्यै त्वा॒ संयौ॒मीत्या॑ह।
प्र॒जा ए॒वैतेन॑ दाधार।
अ॒ग्नये᳚ त्वा॒ऽग्नीषोमा᳚भ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै।
म॒खस्य॒ शिरो॒ऽसीत्या॑ह।
य॒ज्ञो वै म॒खः।
तस्यै॒तच्छिरः॑।
यत्पु॑रो॒डाशः॑।
तस्मा॑दे॒वमा॑ह॥५८॥
घ॒र्मो॑ऽसि वि॒श्वायु॒रित्या॑ह।
विश्व॑मे॒वायु॒र्यज॑माने दधाति।
उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह।
यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति।
त्वचं॑ गृह्णी॒ष्वेत्या॑ह।
सर्व॑मे॒वैन॒ꣳ॒ सत॑नुं करोति।
अथा॒ऽऽप आ॒नीय॒ परि॑मार्ष्टि।
मा॒ꣳ॒स ए॒व तत्त्वचं॑ दधाति।
तस्मा᳚त्त्व॒चा मा॒ꣳ॒सं छ॒न्नम्।
घ॒र्मो वा ए॒षोऽशा᳚न्तः॥५९॥
अ॒र्ध॒मा॒से᳚ऽर्धमासे॒ प्रवृ॑ज्यते।
यत्पु॑रो॒डाशः॑।
स ई᳚श्व॒रो यज॑मानꣳ शु॒चा प्र॒दहः॑।
पर्य॑ग्नि करोति।
प॒शुमे॒वैन॑मकः।
शान्त्या॒ अप्र॑दाहाय।
त्रिः पर्य॑ग्नि करोति।
त्र्या॑वृ॒द्धि य॒ज्ञः।
अथो॒ रक्ष॑सा॒मप॑हत्यै।
अ॒न्तरि॑त॒ꣳ॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह॥६०॥
रक्ष॑साम॒न्तर्हि॑त्यै।
पु॒रो॒डाशं॒ वा अधि॑श्रित॒ꣳ॒ रक्षाꣴ॑स्यजिघाꣳसन्।
दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा।
स ए॒वास्मा॒द्रक्षा॒ꣴ॒स्यपा॑हन्।
दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह।
स॒वि॒तृप्र॑सूत ए॒वैनꣴ॑ श्रपयति।
वर्षि॑ष्ठे॒ अधि॒ नाक॒ इत्या॑ह।
रक्ष॑सा॒मप॑हत्यै।
अ॒ग्निस्ते॑ त॒नुवं॒ माऽति॑धा॒गित्या॒हाऽन॑तिदाहाय।
अग्ने॑ ह॒व्यꣳ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚॥६१॥
अवि॑दहन्तः श्रपय॒तेति॒ वाचं॒ विसृ॑जते।
य॒ज्ञमे॒व ह॒वीꣴष्य॑भिव्या॒हृत्य॒ प्रत॑नुते।
पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्त्यै॑ करोति।
म॒स्तिष्को॒ वै पु॑रो॒डाशः॑।
तं यन्नाभि॑ वा॒सये᳚त्।
आ॒विर्म॒स्तिष्कः॑ स्यात्।
अ॒भिवा॑सयति।
तस्मा॒द्गुहा॑ म॒स्तिष्कः॑।
भस्म॑ना॒ऽभिवा॑सयति।
तस्मा᳚न्मा॒ꣳ॒सेनास्थि॑ छ॒न्नम्॥६२॥
वे॒देना॒भिवा॑सयति।
तस्मा॒त्केशैः॒ शिर॑श्छ॒न्नम्।
अख॑लतिभावुको भवति।
य ए॒वं वेद॑।
प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑।
स नाय॒जुष्क॑मभि॒वास्यः॑।
वृथे॑व स्यात्।
ई॒श्व॒रा यज॑मानस्य प॒शवः॒ प्रमे॑तोः।
सं ब्रह्म॑णा पृच्य॒स्वेत्या॑ह।
प्रा॒णा वै ब्रह्म॑॥६३॥
प्रा॒णाः प॒शवः॑।
प्रा॒णैरे॒व प॒शून्थ्सम्पृ॑णक्ति।
न प्र॒मायु॑का भवन्ति।
यज॑मानो॒ वै पु॑रो॒डाशः॑।
प्र॒जा प॒शवः॒ पुरी॑षम्।
यदे॒वम॑भिवा॒सय॑ति।
यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॒ सम॑र्धयति।
दे॒वा वै ह॒विर्भृ॒त्वाऽब्रु॑वन्।
कस्मि॑न्नि॒दं म्र॑क्ष्यामह॒ इति॑।
सो᳚ऽग्निर॑ब्रवीत्॥६४॥
मयि॑ त॒नूः सं निध॑ध्वम्।
अ॒हं व॒स्तं ज॑नयिष्यामि।
यस्मि॑न्म्र॒क्ष्यध्व॒ इति॑।
ते दे॒वा अ॒ग्नौ त॒नूः सन्न्य॑दधत।
तस्मा॑दाहुः।
अ॒ग्निः सर्वा॑ दे॒वता॒ इति॑।
सोऽङ्गा॑रेणा॒ऽ॒ऽ॒पः।
अ॒भ्य॑पातयत्।
तत॑ एक॒तो॑ऽजायत।
स द्वि॒तीय॑म॒भ्य॑पातयत्॥६५॥
ततो᳚ द्वि॒तो॑ऽजायत।
स तृ॒तीय॑म॒भ्य॑पातयत्।
तत॑स्त्रि॒तो॑ऽजायत।
यद॒द्भ्योऽजा॑यन्त।
तदा॒प्याना॑माप्य॒त्वम्।
यदा॒त्मभ्योऽजा॑यन्त।
तदा॒त्म्याना॑मात्म्य॒त्वम्।
ते दे॒वा आ॒प्येष्व॑मृजत।
आ॒प्या अ॑मृजत॒ सूर्या᳚भ्युदिते।
सूर्या᳚भ्युदितः॒ सूर्या॑भिनिम्रुक्ते॥६६॥
सूर्या॑भिनिम्रुक्तः कुन॒खिनि॑।
कु॒न॒खी श्या॒वद॑ति।
श्या॒वद॑न्नग्रदिधि॒षौ।
अ॒ग्र॒दि॒धि॒षुः प॑रिवि॒त्ते।
प॒रि॒वि॒त्तो वी॑र॒हणि॑।
वी॒र॒हा ब्र॑ह्म॒हणि॑।
तद्ब्र॑ह्म॒हणं॒ नात्य॑च्यवत।
अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुद्ध्यै।
उल्मु॑केना॒भि गृ॑ह्णाति शृत॒त्वाय॑।
शृ॒तका॑मा इव॒ हि दे॒वाः॥६७॥
अनुवाक 9
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसू᳚त्यै।
अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म्।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚।
आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति।
स॒हस्र॑भृष्टिः श॒तते॑जा॒ इत्या॑ह।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे।
वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह।
तेजो॒ वै वा॒युः॥६८॥
तेज॑ ए॒वास्मि॑न्दधाति।
वि॒षाद्वै नामा॑सु॒र आ॑सीत्।
सो॑ऽबिभेत्।
य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑।
स पृ॑थि॒वीम॒भ्य॑वमीत्।
सा मे॒ध्याऽभ॑वत्।
अथो॒ यदिन्द्रो॑ वृ॒त्रमहन्॑।
तस्य॒ लोहि॑तं पृथि॒वीमनु॒ व्य॑धावत्।
सा मे॒ध्याऽभ॑वत्।
पृथि॑वि देवयज॒नीत्या॑ह॥६९॥
मेध्या॑मे॒वैनां᳚ देव॒यज॑नीं करोति।
ओष॑ध्यास्ते॒ मूलं॒ मा हिꣳ॑सिष॒मित्या॑ह।
ओष॑धीना॒महिꣳ॑सायै।
व्र॒जं ग॑च्छ गो॒स्थान॒मित्या॑ह।
छन्दाꣳ॑सि॒ वै व्र॒जो गो॒स्थानः॑।
छन्दाꣴ॑स्ये॒वास्मै᳚ व्र॒जं गो॒स्थानं॑ करोति।
वर्ष॑तु ते॒ द्यौरित्या॑ह।
वृष्टि॒र्वै द्यौः।
वृष्टि॑मे॒वाव॑ रुन्धे।
ब॒धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वतीत्या॑ह॥७०॥
द्वौ वाव पुरु॑षौ।
यं चै॒व द्वेष्टि॑।
यश्चै॑नं॒ द्वेष्टि॑।
तावु॒भौ ब॑ध्नाति पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशैः᳚।
यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गित्या॒हानि॑म्रुक्त्यै।
अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत्।
स पृ॑थि॒व्यामुप॑म्लुप्तोऽशयत्।
तं दे॒वा अप॑हतो॒ऽररुः॑ पृथि॒व्या इति॑ पृथि॒व्या अपा᳚घ्नन्।
भ्रातृ॑व्यो॒ वा अ॒ररुः॑।
अप॑हतो॒ऽररुः॑ पृथि॒व्या इति॒ यदाह॑॥७१॥
भ्रातृ॑व्यमे॒व पृ॑थि॒व्या अप॑हन्ति।
ते॑ऽमन्यन्त।
दिवं॒ वा अ॒यमि॒तः प॑तिष्य॒तीति॑।
तम॒ररु॑स्ते॒ दिवं॒ माऽस्का॒निति॑ दि॒वः पर्य॑बाधन्त।
भ्रातृ॑व्यो॒ वा अ॒ररुः॑।
अ॒ररु॑स्ते॒ दिवं॒ मा स्का॒निति॒ यदाह॑।
भ्रातृ॑व्यमे॒व दि॒वः परि॑बाधते।
स्त॒म्ब॒य॒जुर्ह॑रति।
पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒मप॑हन्ति।
द्वि॒तीयꣳ॑ हरति॥७२॥
अ॒न्तरि॑क्षादे॒वैन॒मप॑हन्ति।
तृ॒तीयꣳ॑ हरति।
दि॒व ए॒वैन॒मप॑हन्ति।
तू॒ष्णीं च॑तु॒र्थꣳ ह॑रति।
अप॑रिमितादे॒वैन॒मप॑हन्ति।
असु॑राणां॒ वा इ॒यमग्र॑ आसीत्।
याव॒दासी॑नः परा॒पश्य॑ति।
ताव॑द्दे॒वाना᳚म्।
ते दे॒वा अ॑ब्रुवन्।
अस्त्वे॒व नो॒ऽस्यामपीति॑॥७३॥
क्य॑न्नो दास्य॒थेति॑।
याव॑थ्स्व॒यं प॑रिगृह्णी॒थेति॑।
ते वस॑व॒स्त्वेति॑ दक्षिण॒तः पर्य॑गृह्णन्।
रु॒द्रास्त्वेति॑ प॒श्चात्।
आ॒दि॒त्यास्त्वेत्यु॑त्तर॒तः।
ते᳚ऽग्निना॒ प्राञ्चो॑ऽजयन्।
वसु॑भिर्दक्षि॒णा।
रु॒द्रैः प्र॒त्यञ्चः॑।
आ॒दि॒त्यैरुद॑ञ्चः।
यस्यै॒वं वि॒दुषो॒ वेदिं॑ परिगृ॒ह्णन्ति॑॥७४॥
भव॑त्या॒त्मना᳚।
परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति।
दे॒वस्य॑ सवि॒तुः स॒व इत्या॑ह॒ प्रसू᳚त्यै।
कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह।
इ॒षि॒तꣳ हि कर्म॑ क्रि॒यते᳚।
पृ॒थि॒व्यै मेध्यं॑ चामे॒ध्यं च॒ व्युद॑क्रामताम्।
प्रा॒चीन॑मुदी॒चीनं॒ मेध्यम्᳚।
प्र॒ती॒चीनं॑ दक्षि॒णाऽमे॒ध्यम्।
प्राची॒मुदी॑चीं प्रव॒णां क॑रोति।
मेध्या॑मे॒वैनां᳚ देव॒यज॑नीं करोति॥७५॥
प्राञ्चौ॑ वेद्य॒ꣳ॒सावुन्न॑यति।
आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै।
प्र॒तीची॒ श्रोणी᳚।
गार्ह॑पत्यस्य॒ परि॑गृहीत्यै।
अथो॑ मिथुन॒त्वाय॑।
उद्ध॑न्ति।
यदे॒वास्या॑ अमे॒ध्यम्।
तदप॑हन्ति।
उद्ध॑न्ति।
तस्मा॒दोष॑धयः॒ परा॑भवन्ति॥७६॥
मूलं॑ छिनत्ति।
भ्रातृ॑व्यस्यै॒व मूलं॑ छिनत्ति।
मूलं॒ वा अ॑ति॒तिष्ठ॒द्रक्षा॒ꣴ॒स्यनूत्पि॑पते।
यद्धस्ते॑न छि॒न्द्यात्।
कु॒न॒खिनीः᳚ प्र॒जाः स्युः॑।
स्फ्येन॑ छिनत्ति।
वज्रो॒ वै स्फ्यः।
वज्रे॑णै॒व य॒ज्ञाद्रक्षा॒ꣴ॒स्यप॑हन्ति।
पि॒तृ॒दे॒व॒त्याऽति॑खाता।
इय॑तीं खनति॥७७॥
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताम्।
वेदि॑र्दे॒वेभ्यो॒ निला॑यत।
तां च॑तुरङ्गु॒लेऽन्व॑विन्दन्।
तस्मा᳚च्चतुरङ्गु॒लं खेया᳚।
च॒तु॒र॒ङ्गु॒लं ख॑नति।
च॒तु॒र॒ङ्गु॒ले ह्योष॑धयः प्रति॒तिष्ठ॑न्ति।
आ प्र॑ति॒ष्ठायै॑ खनति।
यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति।
द॒क्षि॒ण॒तो वर्षी॑यसीं करोति।
दे॒व॒यज॑नस्यै॒व रू॒पम॑कः॥७८॥
पुरी॑षवतीं करोति।
प्र॒जा वै प॒शवः॒ पुरी॑षम्।
प्र॒जयै॒वैनं॑ प॒शुभिः॒ पुरी॑षवन्तं करोति।
उत्त॑रं परिग्रा॒हं परि॑गृह्णाति।
ए॒ताव॑ती॒ वै पृ॑थि॒वी।
याव॑ती॒ वेदिः॑।
तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्य॑।
आ॒त्मन॒ उत्त॑रं परिग्रा॒हं परि॑गृह्णाति।
ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॒सीत्या॑ह।
य॒था॒य॒जुरे॒वैतत्॥७९॥
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति।
यद्वेदिं॑ क॒रोति॑।
धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै᳚।
उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह।
उ॒र्वीमे॒वैनां॒ वस्वीं᳚ करोति।
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्नित्या॑ह मेध्य॒त्वाय॑।
उ॒दा॒दाय॑ पृथि॒वीं जी॒रदा॑नु॒र्यामैर॑यं च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह।
यदे॒वास्या॑ अमे॒ध्यम्।
तद॑प॒हत्य॑।
मेध्यां᳚ देव॒यज॑नीं कृ॒त्वा॥८०॥
यद॒दश्च॒न्द्रम॑सि॒ मेध्यम्᳚।
तद॒स्यामेर॑यति।
तां धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै।
प्रोक्ष॑णी॒रा सा॑दय।
इ॒ध्माब॒र्॒हिरुप॑सादय।
स्रु॒वं च॒ स्रुच॑श्च॒ सम्मृ॑ड्ढि।
पत्नी॒ꣳ॒ सन्न॑ह्य।
आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै।
प्रोक्ष॑णी॒रा सा॑दयति।
आपो॒ वै र॑क्षो॒घ्नीः॥८१॥
रक्ष॑सा॒मप॑हत्यै।
स्फ्यस्य॒ वर्त्म᳚न्थ्सादयति।
य॒ज्ञस्य॒ सन्त॑त्यै।
उ॒वाच॒ हासि॑तो दैव॒लः।
ए॒ताव॑ती॒र्वा अ॒मुष्मिँ॑ल्लो॒क आप॑ आसन्।
याव॑तीः॒ प्रोक्ष॑णी॒रिति॑।
तस्मा᳚द्ब॒ह्वीरा॒साद्याः᳚।
स्फ्यमु॒दस्यन्॑।
यं द्वि॒ष्यात्तं ध्या॑येत्।
शु॒चैवैन॑मर्पयति॥८२॥
अनुवाक 10
वज्रो॒ वै स्फ्यः।
यद॒न्वञ्चं॑ धा॒रये᳚त्।
वज्रे᳚ऽध्व॒र्युः क्ष॑ण्वीत।
पु॒रस्ता᳚त्ति॒र्यञ्चं॑ धारयति।
वज्रो॒ वै स्फ्यः।
वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒ꣴ॒स्यप॑हन्ति।
अ॒ग्निभ्यां॒ प्राच॑श्च प्र॒तीच॑श्च।
स्फ्येनोदी॑चश्चाध॒राच॑श्च।
स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मानं॒ भ्रातृ॑व्यमप॒हत्य॑।
उ॒त्क॒रेऽधि॒ प्रवृ॑श्चति॥८३॥
यथो॑प॒धाय॑ वृ॒श्चन्त्ये॒वम्।
हस्ता॒वव॑ नेनिक्ते।
आ॒त्मान॑मे॒व प॑वयते।
स्फ्यं प्रक्षा॑लयति मेध्य॒त्वाय॑।
अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्गं छि॑नत्ति।
इ॒ध्माब॒र्॒हिरुप॑सादयति॒ युक्त्यै᳚।
य॒ज्ञस्य॑ मिथुन॒त्वाय॑।
अथो॑ पुरो॒रुच॑मे॒वैतां द॑धाति।
उत्त॑रस्य॒ कर्म॒णोऽनु॑ख्यात्यै।
न पु॒रस्ता᳚त्प्र॒त्यगुप॑सादयेत्॥८४॥
यत्पु॒रस्ता᳚त्प्र॒त्यगु॑पसा॒दये᳚त्।
अ॒न्यत्रा॑ऽऽहुतिप॒थादि॒ध्मं प्रति॑पादयेत्।
प्र॒जा वै ब॒र्॒हिः।
अप॑राध्नुयाद्ब॒र्॒हिषा᳚ प्र॒जानां᳚ प्र॒जन॑नम्।
प॒श्चात्प्रागुप॑सादयति।
आ॒हु॒ति॒प॒थेने॒ध्मं प्रति॑पादयति।
स॒म्प्र॒त्ये॑व ब॒र्॒हिषा᳚ प्र॒जानां᳚ प्र॒जन॑न॒मुपै॑ति।
दक्षि॑णमि॒ध्मम्।
उत्त॑रं ब॒र्॒हिः।
आ॒त्मा वा इ॒ध्मः।
प्र॒जा ब॒र्॒हिः।
प्र॒जा ह्या᳚त्मन॒ उत्त॑रतरा ती॒र्थे।
ततो॒ मेध॑मुप॒नीय॑।
य॒था॒दे॒व॒तमे॒वैन॒त्प्रति॑ष्ठापयति।
प्रति॑ तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः॥८५॥