skipLink.label

सूक्तम् 26 — सुप्रावीरिद् (4 मन्त्राः)

सूक्त 26

४ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। ब्रह्मणस्पतिः। जगती।

ऋ॒जुरिच्छंसो॑ वनवद् वनुष्य॒तो दे॑व॒यन्निददे॑वयन्तम॒भ्य॑सत् ।

सु॒प्रा॒वीरिद् व॑नवत् पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम्

॥१॥

यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये॑ ।

ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे

॥२॥

स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभि॑: ।

दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म्

॥३॥

यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त् प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पति॑: ।

उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३ ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः

॥४॥