६ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। अग्निः।गायत्री, ६ अनुष्टुप्।
वा॒ज॒यन्नि॑व॒ नू रथा॒न् योगाँ॑ अ॒ग्नेरुप॑ स्तुहि । य॒शस्त॑मस्य मी॒ळहुष॑:
॥१॥यः सु॑नी॒थो द॑दा॒शुषे॑ ऽजु॒र्यो ज॒रय॑न्न॒रिम् । चारु॑प्रतीक॒ आहु॑तः
॥२॥य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ । यस्य॑ व्र॒तं न मीय॑ते
॥३॥आ यः स्व१र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ । अ॒ञ्जा॒नो अ॒जरै॑र॒भि
॥४॥अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः । विश्वा॒ अधि॒ श्रियो॑ दधे
॥५॥अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम् । अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः
॥६॥