skipLink.label

सूक्तम् 7 — श्रेष्ठ (6 मन्त्राः)

सूक्त 7

६ सोमाहुतिर्भार्गवः। अग्निः। गायत्री।

श्रेष्ठं॑ यविष्ठ भार॒ताऽग्ने॑ द्यु॒मन्त॒मा भ॑र । वसो॑ पुरु॒स्पृहं॑ र॒यिम्

॥१॥

मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च । पर्षि॒ तस्या॑ उ॒त द्वि॒षः

॥२॥

विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑ गाहेमहि॒ द्विष॑:

॥३॥

शुचि॑: पावक॒ वन्द्यो ऽग्ने॑ बृ॒हद् वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः

॥४॥

त्वं नो॑ असि भार॒ताऽग्ने॑ व॒शाभि॑रु॒क्षभि॑: । अ॒ष्टाप॑दीभि॒राहु॑तः

॥५॥

द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः

॥६॥