skipLink.label

सूक्तम् 13 — ऋतुर्जनित्री (13 मन्त्राः)

सूक्त 13

१३ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। इन्द्रः। जगती, १३ त्रिष्टुप्।

ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द् यासु॒ वर्ध॑ते ।

तदा॑ह॒ना अ॑भवत् पि॒प्युषी॒ पयों॒ ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्य॑म्

॥१॥

स॒ध्रीमा य॑न्ति॒ परि॒ बिभ्र॑ती॒: पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रन्त॒ भोज॑नम् ।

स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑:

॥२॥

अन्वेको॑ वदति॒ यद् ददा॑ति॒ तद् रू॒पा मि॒नन्तद॑पा॒ एक॑ ईयते ।

विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑:

॥३॥

प्र॒जाभ्य॑: पु॒ष्टिं वि॒भज॑न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव॑न्तमाय॒ते ।

असि॑न्व॒न् दंष्ट्रै॑: पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑:

॥४॥

अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक् प॒थः ।

तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न् त्सास्यु॒क्थ्य॑:

॥५॥

यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद् दु॒दोहि॑थ ।

स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्य॑:

॥६॥

यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णा ऽधि॒ दाने॒ व्य१वनी॒रधा॑रयः ।

यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भित॒: सास्यु॒क्थ्य॑:

॥७॥

यो ना॑र्म॒रं स॒हव॑सुं॒ निह॑न्तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः ।

ऊ॒र्जय॑न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त् सास्यु॒क्थ्य॑:

॥८॥

श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ ।

अ॒र॒ज्जौ दस्यू॒न् त्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो॑ अभव॒: सास्यु॒क्थ्य॑:

॥९॥

विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन॑म् ।

षळ॑स्तभ्ना वि॒ष्टिर॒: पञ्च॑ सं॒दृश॒: परि॑ प॒रो अ॑भव॒: सास्यु॒क्थ्य॑:

॥१०॥

सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१ यदेके॑न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ ।

जा॒तूष्ठि॑रस्य॒ प्र वय॒: सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा॑स्यु॒क्थ्य॑:

॥११॥

अर॑मय॒: सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिम् ।

नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न् त्सास्यु॒क्थ्य॑:

॥१२॥

अ॒स्मभ्यं॒ तद् व॑सो दा॒नाय॒ राध॒: सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् ।

इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑:

॥१३॥