skipLink.label

सूक्तम् 53 — वीत (23 मन्त्राः)

सूक्त 53

२४ गाथिनो विश्वमित्रः। इन्द्रः, १ इन्द्रपर्वतौ, १५, १६ वाक्,(ससर्परी),१७-२० रथाङ्गानि, २१-२४ अभिशापः। त्रिष्टुप्, १०, १६ जगती, १३ गायत्री, १२, २०, २२ अनुष्टुप्, १८ बृहती।

इन्द्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीरा॑: ।

वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता

॥१॥

तिष्ठा॒ सु कं॑ मघव॒न् मा परा॑ गा॒: सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि ।

पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः

॥२॥

शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा॑य॒ वाह॑: कृणवाव॒ जुष्ट॑म् ।

एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम्

॥३॥

जा॒येदस्तं॑ मघव॒न् त्सेदु॒ योनि॒स्तदित् त्वा॒ यु॒क्ता हर॑यो वहन्तु ।

य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑

॥४॥

परा॑ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् ।

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥ ५

अपा॒: सोम॒मस्त॑मिन्द्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ ।

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत्

॥६॥

इ॒मे भो॒जा अङ्गि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।

वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयु॑:

॥७॥

रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१ परि॒ स्वाम् ।

त्रिर्यद् दि॒वः परि॑ मुहू॒र्तमागा॒त् स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा॑

॥८॥

म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त् सिन्धु॑मर्ण॒वं नृ॒चक्षा॑: ।

वि॒श्वामि॑त्रो॒ यदव॑हत् सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्र॑:

॥९॥

हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद॑न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ ।

दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑

॥१०॥

उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दास॑: ।

राजा॑ वृ॒त्रं ज॑ङ्घन॒त् प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः

॥११॥

य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् ।

वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन॑म्

॥१२॥

वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ । कर॒दिन्न॑: सु॒राध॑सः

॥१३॥

किं ते॑ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पन्ति घ॒र्मम् ।

आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खं म॑घवन् रन्धया नः

॥१४॥

स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता ।

आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यम्

॥१५॥

स॒स॒र्प॒रीर॑भर॒त् तूय॑मे॒भ्योऽधि॒ श्रव॒: पाञ्च॑जन्यासु कृ॒ष्टिषु॑ ।

सा प॒क्ष्या॒३ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः

॥१६॥

स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि ।

इन्द्र॑: पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि न॑: सचस्व

॥१७॥

बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः ।

बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑

॥१८॥

अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पन्द॒ने शिं॒शपा॑याम् ।

अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः

॥१९॥

अ॒यम॒स्मान् वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् ।

स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात्

॥२०॥

इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवञ्छूर जिन्व ।

यो नो॒ द्वेष्ट्यध॑र॒: सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु

॥२१॥

प॒र॒शुं चि॒द् वि त॑पति शिम्ब॒लं चि॒द् वि वृ॑श्चति ।

उ॒खा चि॑दिन्द्र॒ येष॑न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति

॥२२॥

न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः ।

नावा॑जिनं वा॒जिना॑ हासयन्ति॒ न ग॑र्द॒भं पु॒रो अश्वा॑न्नयन्ति

॥२३॥

इ॒म इ॑न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् ।

हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयन्त्या॒जौ

॥२४॥