चतुर्थकाण्डे नवमः प्रपाठकः
चतुर्थकाण्डे नवमः प्रपाठकः
देवपुरश् चरस ऋध्यासं त्वा
॥४.९.१॥चरस : फ़्न् ⟨ चरसे
नमो वाचे नमो वाचस्पतये या चोदिता या च नोदिता तस्यै वाचे नमो नमा ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रविद्भ्यो मन्त्रपतिभ्यो मा माम् ऋषयो मन्त्रकृतो मन्त्रविदः प्रादुर् दैवीं वाचम् उद्यासं जुष्टां देवेभ्यः स्वधावरीं पितृभ्यो ऽनुमतान् मनुष्येभ्यस् तन् मा देवा अवन्तु शोभायि पितरो ऽनुमदन्तु ॥
गायत्रीं छन्दः प्रपद्ये त्रिष्टुभं छन्दः प्रपद्ये जगतीं छन्दः प्रपद्ये ऽनुष्टुभं छन्दः प्रपद्ये पङ्क्तिं छन्दः प्रपद्ये छन्दांसि छन्दः प्रपद्ये ॥
तानि नो ऽवन्तु तानि नः पालयन्तु तानि सा ऋछतु यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामो होतर् घर्मम् अभिष्टुह्य् अग्नीद् रजनरोहिणौ पुरोडाशाव् अधिश्रय प्रतिप्रस्थातर् विहर प्रस्तोतः सामानि गाय ॥
यजुर् युक्तं सामभिर् ऋक्तखन्ता विश्वाभिर् धीभिः सम्भृतं दक्षिणाभिः ।
प्रततं पारयिष्णुं स्तुभो वहन्तु सुमनस्यमानाः ॥
भूर् भुवः स्वर् देवस्य सवितुः प्रसवे बृहस्पतिप्रसूता ॥
बृहस्पतिप्रसूता : फ़्न् ह्, ब्ब्: बृहस्पतिः प्रसूता
ॐ इन्द्रवन्तः प्रचरत
॥४.९.२॥यमाय त्वा ॥
मखाय त्वा ॥
सूर्यस्य हरसे त्वा ॥
देवस् त्वा सविता मध्वानक्तु ॥
पृथिव्याः सम्पृचस् पाहि ॥
अर्चिषे त्वा शोचिषे त्वा ज्योतिषे त्वा तपसे त्वा ॥
अर्चिर् असि शोचिर् असि ज्योतिर् असि तपो ऽसि सूर्यस्य तपस् तपः ॥
संसीदस्व महं असि शोचस्व देववीतमः ।
वि धूमम् अग्ने अरुषं मेध्य सृज प्रशस्त दर्शतम् ॥
अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तो नाग्निना तपन्तः ।
पितुर् न पुत्र उपसि प्रेष्ठा आ घर्मो अग्निर् अमृतो न सादि ॥
अनाधृष्टासि पुरस्ताद् अग्नेर् आधिपत्या आयुर् मे दाः पुत्रवती दक्षिणत इन्द्रस्याधिपत्ये प्रजां मे दाः ॥
सुषदा पश्चात् सवितुर् आधिपत्ये चक्षुर् मे दाः ॥
आश्रुतिर् उत्तरतो मित्रावरुणयोर् आधिपत्ये श्रोत्रं मे दाः ॥
विधृतिर् उपरिष्टाद् बृहस्पतेर् आधिपत्ये वाचं मे दाः ॥
ब्रह्म मे दाः क्षत्रं मे दाः पयो मे दाः ॥
मनोर् अश्वासि भूरिपुत्रा सूपसदना विश्वाभ्यो मा दंष्ट्राभ्यस् पाहि
॥४.९.३॥चिद् असि ॥
स्वाहा मरुद्भ्यः परिश्रयस्व ॥
मासि ॥
प्रमासि ॥
प्रतिमासि ॥
विमासि ॥
सम्मासि ॥
उन्मासि ॥
अन्तरिक्षस्यान्तर्धिर् असि ॥
दिवः सम्पृचस् पाहि ॥
अर्हन् बिभर्षि सायकानि धन्वा ।
अर्हन् निष्कं यजतं विश्वरूपम् ।
अर्हन्न् इदं दयसे विश्वम् आ धन्वा ।
ओजीयो रुद्रस् तद् अस्ति ॥
गायत्रो ऽसि ॥
त्रैष्टुभो ऽसि ॥
जागतम् असि ॥
मधु । मधु । मधु ॥
रुचितो घर्मः
॥४.९.४॥दश प्राचीर् दश भासि दक्षिणा दश प्रतीचीर् दश भास्य् उदीचीर् दशोर्ध्वा भासि सुमनस्यमानः ॥
सा नः प्रजां पशून् पाह्य् अरणीयमानः ॥
अग्निष् ट्वा वसुभिः पुरस्ताद् रोचयतु स मा रुचितो रोचय ॥
पितरस् त्वा यमराजानः पितृभिर् दक्षिणतो रोचयन्तु स मा रुचितो रोचय ॥
सविता त्वादित्यैः पश्चाद् रोचयतु स मा रुचितो रोचय ॥
मित्रावरुणौ त्वोत्तरतो मरुद्भी रोचयेतां स मा रुचितो रोचय ॥
बृहस्पतिष् ट्वा विश्वैर् देवैर् उपरिष्टाद् रोचयतु स मा रुचितो रोचय ॥
देव घर्म रुचितस् त्वं देवेष्व् आ सुरुचितं मां देवमनुष्येषु कुरु रुचं मयि धेहि रुचिर् असि रुचो ऽसि स यथा त्वं रुच्या रोचस एवम् अहं रुच्या रोचिषीय तवेव मे रोचमानस्य रोचो भूयासुर् ध्राजिर् असि ध्राजो ऽसि स यथा त्वं ध्राज्या ध्राजस एवम् अहं ध्राज्या ध्राजिषीय तवेव मे ध्राजमानस्य ध्राजो भूयासुर् भ्राजिर् असि भ्राजो ऽसि स यथा त्वं भ्राज्या भ्राजस एवम् अहं भ्राज्या भ्राजिषीय तवेव मे भ्राजमानस्य भ्राजो भूयासुः
॥४.९.५॥अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।
स सध्रीचीः स विषूचीर् वसाना आवरीवर्ति भुवनेष्व् अन्तः ॥
गर्भो देवानां जनिता मतीनां मतिः कवीनां पतिः प्रजानां धर्ता क्षत्रस्य ॥
सं देवो देवेन सवित्रा यजत्र सं सूर्येण रोचते ॥
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ॥
ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यछ ॥
धर्ता दिवो रजसो विभाति धर्ता पृथिव्या धर्तोरोर् अन्तरिक्षस्य धर्ता ॥
देवो देवानाम् अमर्त्यस् तपोजा अप्सु प्रावीः ॥
विश्वासां भुवां पते विश्वस्य भुवनस्पते विश्वस्य मनसस्पते विश्वस्य वचसस्पते विश्वस्य ब्रह्मणस्पते ॥
देवश्रुत् त्वं देव घर्म देवान् पाहि तपोजान् ॥
वाजम् अस्मिन् निधेहि देवायुवम् ॥
मधु माध्वीभ्यां मधु माधूचीभ्यां मधुमान् देववीतये ॥
सम् अग्निर् अग्निनागत सं देवो देवेन सवित्रा यजत्र सं सूर्येणारोचिष्ट स्वाहा ॥
सम् अग्निस् तपसागत सं देवो देवेन सवित्रा यजत्र सं सूर्येणायुक्तायुर्दास् त्वम् अस्मभ्यं घर्म वर्चोदा असि पितासि पिता नो बोधिषीमहि त्वा नमस् ते अस्तु मा मा हिंसीः ॥
त्वष्ट्रिमन्तस् त्वा सपेम
॥४.९.६॥देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ॥
अदित्या रास्नासि ॥
इडा एह्य् अदिता एह्य् असाव् एहि सरस्वत्य् एह्य् असाव् एहि ॥
यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि ॥
अदित्या उष्णीषम् असि ॥
पूषा त्वोपावसीदतु ॥
वायुर् अस्य् अश्विभ्यां प्रधापय ॥
घर्माय शङ्क्ष्व ॥
बृहस्पतिष् ट्वोपसीदतु ॥
दानवः स्थ ॥
प्रेरवः स्थ ॥
अश्विभ्यां पिन्वस्व ॥
सरस्वत्यै पिन्वस्वेन्द्राय पिन्वस्वेन्द्राय पिन्वस्व ॥
उप मेहि सहोर्जो भागेन ॥
मधुहविर् असि स्वाहा त्वा वाताय सूर्यस्य रश्मये सिता वृष्टिसनये सञ्जुहोमि स्वाहा ॥
सूर्यस्य : फ़्न् एमेन्देद्। एद्।: सुर्यस्य।
इन्द्राश्विना मधुनः सारघस्य घर्मं पात वसवो यजत्रा वेट् ॥
गायत्रम् असि ॥
त्रैष्टुभम् असि ॥
जागतासि ॥
द्यावापृथिवीभ्यां त्वा परिगृह्णामि ॥
अन्तरिक्षेणोपयछामि ॥
दिविस्पृङ् मा मा हिंसीः ॥
अन्तरिक्षस्पृङ् मा मा हिंसीः ॥
पृथिवीस्पृङ् मा मा हिंसीः ॥
तेजो ऽसि तेजो ऽनुप्रेहि
॥४.९.७॥सलिलाय त्वा वाताय स्वाहार्णवाय त्वा वाताय स्वाहा सिन्धवे त्वा वाताय स्वाहा समुद्राय त्वा वाताय स्वाहा शिमिद्वते त्वा वाताय स्वाहा कुमुद्वते त्वा वाताय स्वाहावस्यवे त्वा वाताय स्वाहा दुवस्यवे त्वा वाताय स्वाहानाधृष्याय त्वा वाताय स्वाहाप्रतिधृष्याय त्वा वाताय स्वाहाग्नये त्वा वसुमते स्वाहा सोमाय त्वा रुद्रवते स्वाहेन्द्राय त्वा मरुत्वते स्वाहा यमाय त्वा पितृमते ऽङ्गिरस्वते स्वाहा ॥
सवित्रे त्वर्भूमते विभूमते वाजवते बृहस्पतिवते विश्वदेव्यावते स्वाहा ॥
अहः केतुना जुषतां स्वर्ज्योतिर् जुषतां स्वाहा ॥
रात्रिः केतुना जुषतां स्वर्ज्योतिर् जुषतां स्वाहा
॥४.९.८॥दिवि धा इमं यज्ञम् इमं यज्ञं दिवि धाः स्वस्ति घर्माय सवति घर्मपित्वे ॥
विश्वा आशा दक्षिणसद् विश्वान् देवान् अयाड् इह ॥
ॐ श्रावय ॥
अस्तु श्रौषट् ॥
घर्मस्य यज ॥
अश्विना घर्मं पिबतं हार्द्रानुम् अनु मां द्यावापृथिवी अनु मे ऽमंसाताम् इहैव रातयः सन्ति सं यजुर्भिः स्वाहेन्द्राय स्वाहेन्द्राय वट् ॥
स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना घर्मम् अपातम् अश्विना वहद् दिव्याभिर् ऊतिभिः स्वं पेद्रवं यथा वेट् ॥
यथा : फ़्न् एमेन्देद्। एद्।: यथा।
इषे पिपीहि ॥
ऊर्जे पिपीहि ॥
अस्मै ब्रह्मणे पिपीहि ॥
अस्मै क्षत्राय पिपीहि ॥
इष ऊर्जे पिपीहि ॥
सुभूताय पिपीहि ॥
ब्रह्मवर्चसाय पिपीहि ॥
अस्यै विशे मह्यं ज्यैष्ठ्याय पिपीहि ॥
घर्मो ऽसि घर्मम् एम्य् अस्मे ब्रह्माणि धारय ॥
क्षत्रं धारय ॥
विशं धारय ॥
पूष्णे शरसि स्वाहा ॥
ग्रावभ्यः स्वाहा ॥
प्रतिरवेभ्यः स्वाहा ॥
द्यावापृथिवीभ्यां स्वाहा पितृभ्यो घर्मपेभ्यः स्वाहा ॥
रुद्राय रुद्रहोत्रे स्वाहा ॥
हुतं हविर् मधुहविर् असीन्द्रतमे ऽग्नौ स्वाहा ॥
अश्याम ते देव घर्म ऋभूमतो विभूमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतः पितृमतो ऽङ्गिरस्वत उशीमहि त्वा नमस् ते अस्तु मा मा हिंसीः ॥
संसाद्यमानायानुब्रूहि ॥
अह्ने स्वाहा ॥
रात्र्यै स्वाहा
॥४.९.९॥पशूनां ज्योतिर् असि विभृतं देवत्रा ज्योतिर् भा असि ॥
वनस्पतीनाम् अपाम् ओषधीनां रसो वाजिनं त्वा वाजिन्य् अवनयाम्य् ऊर्ध्वं मनः स्वर्ग्यम् ॥
पयो ऽसि पयस्वी भूयासम् ॥
घर्म या ते दिवि शुग् या दिवि या बृहति या स्तनयित्नौ या जागते छन्दसीयं ते ताम् अवयजे तस्यै ते स्वाहा ॥
घर्म या ते ऽन्तरिक्षे शुग् यान्तरिक्षे या वाते या वामदेव्ये या त्रैष्टुभे छन्दसीयं ते ताम् अवयजे तस्यै ते स्वाहा ॥
घर्म या ते पृथिव्यां शुग् या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसीयं ते ताम् अवयजे तस्यै ते स्वाहा ॥
प्रस्तोतः साम गाय ॥
अन्व् अद्य न इत्य् एषा ब्रह्मणस् त्वा परस्पाय क्षत्रस्य तन्वस् पाहि ॥
विशस् त्वा धर्मणा वयम् अनु परिक्रामाम सुविताय नव्यसे ॥
प्रस्तोतः साम गाय ॥
अन्व् अद्य न इत्य् एषा प्राणस्य त्वा परस्पाय चक्षुषस् तन्वस् पाहि ॥
श्रोत्रस्य त्वा धर्मणा वयम् अनु परिक्रामाम सुविताय नव्यसे ॥
प्रस्तोतः साम गाय ॥
अन्व् अद्य न इत्य् एषा दिवस् त्वा परस्पाय ॥ अन्तरिक्षस्य तन्वस् पाहि ॥
पृथिव्यास् त्वा धर्मणा वयम् अनु परिक्रामाम सुविताय नव्यसे चतुःस्रक्तिर् ऋतस्य नाभिः सदो घर्मो विश्वायुः शर्म सप्रथाः ॥
अप द्वेषो अप ह्वरो अन्यव्रतस्य सश्चिम वल्गुर् असि शंयोर्धायाः ॥
शिशुर् जनधायाः ॥
शं च वक्षि ॥
परि च वक्षि ॥
घर्मैतत् ते ऽन्नम् एतत् पुरीषम् ॥
तेन वर्धस्व चाप्यायस्व वर्धिषीमहि च वयमा च प्यायिषीमहि च व्य् असौ यो अस्मान् द्वेष्टि यं च वयं द्विष्मः
॥४.९.१०॥असौ : फ़्न् एमेन्देद्। एद्।: असौ।
रन्तिर् नामासि दिव्यो गन्धर्वस् तस्य ते पद्वद् धविर्धानम् अग्निर् अध्यक्षो रुद्रो अधिपतिर् विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेनान्ववायंस् तद् इन्द्रस्य वै रुद्रो रारहाण आसां परि सूर्यस्य परिधींर् अपोर्णु वीरेभिर् अधि तन् नो गृणानो रजसो विमानो यद् वा घा सत्यम् उत यन् न विद्म ॥
धिय इन्वानो धिय इन् नो अव्यात् ॥
सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अस्मद्रथानाम् ॥
प्रासां गन्धर्वो अमृतानि वोचत् ॥
इन्दुं दक्षं परिददाद् अहीनाम् ॥
वार्षाहरं साम गाय ॥
चिद् असि समुद्रयोनिः ॥
इन्दुर् दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त् सधस्थे ध्रुव आ निषत्तो नमस् ते अस्तु मा मा हिंसीः ॥
सोमपीथानु मेहि ॥
इष्टाहोत्रीयं साम गाय पुनर् ऊर्जा सह रय्येत्य् एके श्यैतं साम गाय ॥
उद् उ त्यं चित्रम् इत्य् एके ॥
वामदेव्यं साम गाय ॥
इमम् उ षु त्वम् अस्माकं सनिं गायत्रं नव्यांसम् ॥
अग्निर् देवेषु प्र वोच ॥
भूः स्वाहा
॥४.९.११॥मा नो घर्म व्यथितो विव्यधीन् मा न आयुः परम् अवरं मानदोनैः ।
मो ष्वत्वम् अस्मान् तराधान् मा रुद्रियासो अभि गुल्बधानः ॥
मा नः क्रतुभिर् हीडिषेभिर् अस्मद्द्विषः सुनीथो मा परा दैः ।
मा नो अग्निं निरृतिर् मा न आष्टान् मा नो द्यावापृथिवी हीडिषेथाम् ॥
उता नो मित्रावरुणा इहागतं मन्मा दीध्याना उता नः सखाया ।
आदित्यानां प्रसृतिर् हेतिर् उग्रा शरा वाष्टाद् धविषा वार्णः ॥
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।
देवस्य पश्य काव्यं महित्वाद्या ममार सह्यः समानः ॥
जगार : फ़्न् प्। एद्।: जगाद।
जरि चेतीद् अभिशिषः पुरा चकृभ्या आतृद ।
सन्धाता सन्धिर् मघवा पुरुवसुर् निष्कर्ता विह्रुतं पुनः ॥
उद् उ तिष्ठ स्वध्वर ऊर्ध्व ऊ षु ण इत्य् एके ॥
स्वध्वरस् : फ़्न् पद। एद्।: ॥। स्वध्वर ऊर्ध्व ॥।
पुनर् ऊर्जा सह रय्येत्य् एके ॥
उद् उ त्यं चित्रम् इत्य् एके ॥
भूः स्वाहा ॥
भुवः स्वाहा ॥
स्वः स्वाहा ॥
भूर् भुवः स्वः स्वाहा
॥४.९.१२॥भूर् भुवः स्वर् मयि तद् इन्द्रियं वीर्यं मयि रायो मयि रक्षो मयि दक्षो मयि क्रतुर् मयि धेहि सुवीर्यम् ॥
तिसृभिर् घर्मो विभात्य् आकूत्या मनसा सह विराजा ज्योतिषा सह तपसा ब्रह्मणा सह तस्य दोहम् अशीमहि तस्य भक्षम् अशीमहि तस्य ता उपहूता उपहूतस्य भक्षयामि
॥४.९.१३॥उद् अस्य शुष्माद् भानोर् नाव्या बिभर्ति भारं पृथिवी न भूमीः ॥
बिभर्ति : फ़्न् एमेन्देद्। एद्।: बिभर्ति
प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाणीः
॥४.९.१४॥सुतष्टो : फ़्न् पद। एद्।: सुतष्टो।
चिद् असि ॥
बृहस्पतिष् ट्वा सादयतु पृथिव्याः पृष्ठे तेन ऋषिणा तेन विधिना तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद
॥४.९.१५॥प्रजापतिष् ट्वा सादयतु पृथिव्याः पृष्ठे तेन ऋषिणा तेन विधिना तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद
॥४.९.१६॥उग्रश् च भीमश् च ध्वान्तश् च धनवांश् च सहसावांश् च सहीयसः ॥
विक्षिपः ॥
विज्ये विव्ये विक्षिपेत्
॥४.९.१७॥संवत्सरो ऽसि परिवत्सरो ऽसीदावत्सरो ऽस्य् उद्वत्सरो ऽसि वत्सरो ऽसि ॥
तस्य ते वसन्तः शिरो ग्रीष्मो दक्षिणं पक्शं वर्षा उत्तरं शरत् पुछम् ॥
हेमन्तो मध्यं शिशिरं प्रतिष्ठानं तस्य ते मासाश् चार्धमासाश् च ऋतवः परिवत्सराः ॥
अहोरात्रे ते कल्पेताम् एहि प्रेहि वीहि समिह्य् उदीची
॥४.९.१८॥असृङ्मुखो रुधिरेणाभ्यक्तो यमस्य दूतश् च वाग् विधावति ॥
गृध्रः सुपर्णः कुणपं निषेवति यमस्य दूतः प्रहित एष एति व्य् असौ यो अस्मान् द्वेष्टि यं च वयं द्विष्मः
॥४.९.१९॥तच् चक्षुर् देवहितं पुरस्ताञ् शुक्रम् उच्चरत् ॥
पश्येम श्रदः शतं जीवेम शरदः शतं प्रब्रुवाम शरदः शतं शृणुयाम शरदः शतम्
॥४.९.२०॥निधायो वा३ निधायो वा३ निधायो वा३ ॐ वा३ ॐ वा३ ॐ वा३ ए ऐ ॐ स्वर्णज्योतिः
॥४.९.२१॥बृहद्भा३ बृहद्भा३ बृहद्भा३ बृहद्भा इम् बृहद्भा इम् बृहद्भा इम् ॥
इम् इम् इम् स्वर्णज्योतिः
॥४.९.२२॥पृथिवी समित् ताम् अग्निः समिन्द्धे साग्निं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥
अन्तरिक्षं समित् तां वायुः समिन्द्धे सा वायुं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥
द्यौः समित् ताम् आदित्यः समिन्द्धे सादित्यं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥
दिशः समित् तां प्रजापतिः समिन्द्धे सा प्रजापतिं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा
॥४.९.२३॥अग्ने व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन शकेयं तेन राध्यासम् ॥
वायो व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन शकेयं तेन राध्यासम् ॥
सूर्य व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन शकेयं तेन राध्यासम् ॥
व्रतानां व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन राध्यासम्
॥४.९.२४॥पृथिवी समित् ताम् अग्निः समिन्धिष्ट साग्निं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥
अन्तरिक्षं समित् तां वायुः समिन्धिष्ट सा वयुं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥
द्यौः समित् ताम् आदित्यः समिन्धिष्ट सादित्यं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥
दिशः समित् तां प्रजापतिः समिन्धिष्ट सा प्रजापतिं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा
॥४.९.२५॥अग्ने व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥
वायो व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥
सूर्य व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥
व्रतानां व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम्
॥४.९.२६॥शं नो वातो ऽभिवातु शं नस् तपतु सूर्यः ॥
अहानि शं भवन्तु नः शं रात्री प्रतिधीयताम् ॥
पृथिवी शान्तिः सौषधीभिः शान्तिर् अन्तरिक्षं शान्तिस् तद् वायुना शान्तिर् द्यौः शान्तिः सा वृष्ट्या शान्तिर् आपः शान्तिर् ओषधयः शान्तिर् वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिर् ब्राह्मणाः शान्तिः शान्तिः सर्वशान्तिस् त्वयाहं शान्त्या सर्वशान्त्या मह्यं द्विपदे च चतुष्पदे च शान्तिं करोमि शान्तिर् बभूव शान्तिर् असि शान्तिर् नो अस्त्व् अभयं नो अस्तु ॥
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥
ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् ।
अपो याताम् अभेषजं ता नः कृण्वन्तु भेषजम् ॥
कया नश् चित्र आभुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥
कस् त्वा सत्यो मदानां मंहिष्ठो मत्सद् अन्धसः ।
दृढा चिद् आरुजे वसु ॥
अभी षु णः सखीनाम् अविता जरित्πणाम् ।
शतं भवास्य् ऊतिभिः ॥
त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवेहवे सुहवं शूरम् इन्द्रम् ।
हुवे नु शक्रं पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥
स्वस्ति ना इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥
यथादित्या अंशुम् आप्याययन्ति यथाक्षितिम् अक्षितयः पिबन्ति ।
एवास्मान् इन्द्रो वरुणो बृहस्पतिर् आप्याययन्तु भुवनस्य गोपाः ॥
उद् वयं तमसस् परि ज्योतिः पश्यन्ता उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
मित्रस्य वश् चक्षुषा समीक्षामहे ॥
मित्रस्य वश् चक्षुषा समीक्षध्वम् ॥
ब्रह्मण उपस्तरणम् असि ब्रह्मणे त्वोपस्तृणामि
॥४.९.२७॥