skipLink.label

चतुर्थ काण्ड (खिल), प्रपाठक 12

चतुर्थ काण्ड (खिल), प्रपाठक 12

चतुर्थकाण्डे द्वादशः प्रपाठकः

चतुर्थकाण्डे द्वादशः प्रपाठकः

वाचस्पतिर् बला तेषां तन्वो ऽद्य दधातु मे

॥४.१२.१॥

अग्निः प्रथमो वसुभिर् नो अव्यात् सोमो रुद्रैर् अभिरक्षतु त्मना ।

इन्द्रो मरुद्भिर् ऋतुथा कृणोत्व् आदित्यैर् नो वरुणः शर्म यंसत् ॥

सम् अग्निर् वसुभिर् नो अव्यात् सं सोमो रुद्रियाभिस् तनूभिः ।

सम् इन्द्रो रातहव्यो मरुद्भिः सम् आदित्यैर् वरुणो विश्ववेदाः ॥

अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् ।

शिशीहि नः सूनुमतः ॥

दा नो अग्ने शतिनो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपावृधि ।

प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर् ण शुक्रम् उषसो विदिद्युतुः ॥

हिरण्यपाणिम् ऊतये सवितारम् उपह्वये ।

स चेत्ता देवता पदम् ॥

वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यं सावीः ॥

वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥

प्र वायुं प्र याभिः ॥

स्योना पृथिवि भवानृक्षरा निवेशनी ।

यछा नः शर्म सप्रथः ॥

बड् इत्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।

प्र या भूमिं प्रवत्वति मह्ना हिनोषि महिनि ॥

पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परियातो अध्वरम् ।

विश्वान्य् अन्यो भुवना विचष्ट ऋतूंर् अन्यो विदधज् जायते पुनः ॥

नवोनवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रम् ।

भागं देवेभ्यो विदधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः ॥

यथादित्या अंशुम् आप्याययन्ति यथाक्षितिम् अक्षितयः पिबन्ति ।

एवास्मान् इन्द्रो वरुणो बृहस्पतिर् आप्याययन्तु भुवनस्य गोपाः ॥

प्राच्यां दिशि त्वम् इन्द्रासि राजोतोदीच्यां वृत्रहन् व्रात्रहासि ।

यत्र यन्ति स्रोत्यास् तज् जितं ते दक्षिणतो वृषभो हव्य एधि ॥

अस्येद् एव प्ररिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् ।

स्वराड् इन्द्रो दमा आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ॥

त्वम् इन्द्रास्य् अधिराजस् त्वं भवाधिपतिर् जनानाम् ।

दैवीर् विशस् त्वम् उता विराजौजस्वत् क्षत्रम् अजरं ते अस्तु ॥

आ यस्मिन्त् सप्त वासवा रोहन्ति पूर्व्या रुहः ।

ऋषिर् ह दीर्घश्रुत्तमा इन्द्रस्य घर्मो अतिथिः ॥

मदो न यः सोम्यो बोधिचक्षा वातश् च नु च्यवन इन्दुविक्षाः ।

स तप्नुः शुचसे न सूरः स स्वेदयुः शुशुचानो न घर्मः ॥

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।

इन्द्र तानि ता आवृणे ॥

अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये ।

अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥

अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रं पुरुहूत द्युमन्तम् ।

ब्रह्माणा इन्द्रं महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥

वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः ।

अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून्

॥४.१२.२॥

विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः ।

अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥

अंहोमुचे प्रभरेमा मनीषां भूयिष्ठदाव्ने सुमतिम् आवृणानः ।

इदम् इन्द्र प्रति हव्यं जुषस्व सत्याः सन्तु यजमानस्य कामाः ॥

त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवेहवे सुहवं शूरम् इन्द्रम् ।

हुवे नु शक्रं पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥

मा ते अस्यां सहसावन् परिष्टा अघाय भूम हरिवः परादैः ।

त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥

अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् ।

करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥

अनु द्यावापृथिवी तत् ता ओजो ऽमर्त्या जिहत इन्द्र देवाः ।

कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ॥

अभि प्रभर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् ।

अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥

अस्मा इद् उ प्रभरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः ।

गोर् न पर्व विरदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥

वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः ।

अधस्पदं तम् ईं कृधि यो अस्मं अभिदासति ॥

मृगो न भीमः कुचरो गिरिष्ठाः परावता आजगन्था परस्याः ।

सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥

आकरे वसोर् जरिता पनस्यते ऽनेहसः स्तुभा इन्द्रो दुवस्यति ।

विवस्वतः सदना आ हि पिप्रिये सत्रासाहम् अभिमातिहनं स्तुहि ॥

त्वं सपत्नान् पृतनासु जिष्णुर् इन्द्राभिषाड् अभिमातीर् अपघ्नन् ।

पिबा सोमं वज्रबाहो विषह्यास्मभ्यं पणींर् अर्वस्व् आमुखाय ॥

पुरुष्टुतस्य नामभिः शतेन महयामसि ।

इन्द्रस्य चर्षणीसहः ॥

पुरुष्टुतस्य : फ़्न् एमेन्देद्। एद् Ṛव्।३।३७।४: पुरुष्टुतस्य।

नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे ।

इन्द्राभिमातिषाह्ये ॥

अर्वावतो ना आगहि परावतश् च वृत्रहन् ।

इमा जुषस्व नो गिरः ॥

यद् अन्तरा परावतम् अर्वावतं च हूयसे ।

इन्द्रेह तता आगहि ॥

एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।

वर्षिष्ठम् ऊतये भर ॥

प्रससाहिषे पुरुहूत शत्रून् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु ।

इन्द्राभर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥

इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः ।

शूरो नृषाता श्रवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥

हृदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।

त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम् ॥

अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः ।

इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधींर् इव त्रितः ॥

तम् इन्द्रं वाजयामसि युजे रथम् ॥

वृत्रतुरं मघवानं शचीपतिम् इन्द्रं गिरो बृहतीर् अभ्यनूषत ।

वावृधानं पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं दिवेदिवे ॥

वृत्रतुरं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। एद् (व्च्): वृत्रतरम्।

अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन ।

स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ॥

वृत्रतरं : फ़्न् एमेन्देद्। एद्।: वृन्त्रतरम्।

अभितिष्ठ पृतन्यतो ऽधरे सन्तु शत्रवः ।

इन्द्र इव दस्युहा भवापः क्षेत्राणि सञ्जय ॥

आशीर् ना ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणं सवर्चसम् ।

सञ्जयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्यं अधरान्त् सपत्नान् ॥

त्वम् इन्द्रास्य् अधिराजः ॥

इन्द्रो जयति न पराजयते अधिराजो राजसु राजयते ।

विश्वा अभिष्टिः पृतना जयत्य् उपसद्यो नमस्यो यथासत् ॥

आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः ।

पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्यग् विचारीत् ॥

यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् ।

यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनासा इन्द्रः ॥

मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो विश्ववेदाः ।

मन्युं विश ईडते मानुषीर् या अवा नो मन्यो तपसा सजोषाः ॥

त्वं हि मन्यो अभिभूत्योजाः स्वयञ्जो भामो अभिमातिषाहः ।

विश्वचर्षणिः सहुरिः सहावान्त् स हूयमानो अमृताय गछत् ॥

इडाम् अग्ने त्वं नो अग्ने किम् इत् ते विष्णो प्र तत् ते अद्य ॥

दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयछसि ।

यजमानाय सुन्वते ॥

भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र ।

का ते निषत्तिः किम् उ नो ममत्सि किं नोद् उद् उ हर्षसे दातवा उ

॥४.१२.३॥

निषत्तिः : फ़्न् एमेन्देद्। एद्।: निषत्रिः। च्फ़्। Ṛव्।४।२१।९।

इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यछतम् ।

दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥

सम्राड् अन्यः स्वराड् अन्य उच्यते वां महान्ता इन्द्रावरुणा महावसू ।

विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सं बलं दधुः ॥

विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिहृताः सनुयाम वाजम् ।

तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

एनां मुखेन वायुम् इन्द्रवन्तो ऽचिष्याम वृजने विश्व ऊती ।

तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने ।

अर्हन्तश् चिद् यम् इन्धते सञ्जनयन्ति जन्तवः ॥

सं यद् इषो वनामहे सं हव्या मानुषाणाम् ।

उत द्युम्नस्य शवस ऋतस्य रश्मिम् आददे ॥

यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् ।

वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥

उद् वां पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहञ् शुक्रम् अर्णः ।

यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥

उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे ।

अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ॥

सम् अन्या यन्ति ॥

अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः ।

तस्य ज्येष्ठं महिमानं वहन्तीर् हिरण्यवर्णाः परियन्ति यह्वीः ॥

तम् अस्मेरा युवतयो युवानं मर्मृज्यमानाः परियन्त्य् आपः ।

स शुक्रेभिः शिक्वभी रेवद् अग्निर् दीदायानिध्मां घृतनिर्णिग् अप्सु ॥

अग्ना आयूंषि पवसे ॥

आयुर्दा देव जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।

घृतं पिबन्न् अमृतं चारु गव्यं पितेव पुत्रं जरसे म एमम् ॥

गयस्फानो अमीवहा ॥

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् ।

गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्रचरा सोम दुर्यान् ॥

सुत्रामानं महीम् ऊ ष्व् इमं मे वरुण तत् त्वा यामि वैश्वानरो न ऊत्या पृष्टो दिव्य् अभि त्वा शूर नोनुमस् त्वाम् इद् धि हवामहे ॥

आपप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।

अस्मं अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः ॥

बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।

इमा ब्रह्म सधमादे जुषस्व ॥

रेवतीर् नः सधमादा इन्द्रे सन्तु तुविवाजाः ।

क्षुमन्तो याभिर् मदेम ॥

प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत ।

अभीके चिद् उलोककृत् सङ्गे समत्सु वृत्रहा ।

अस्माकं बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥

आ नो अग्ने सुचेतुना ॥

आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।

विश्वासु पृत्सु दुष्टरम् ॥

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।

तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ॥

मदेमदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः ।

सङ्गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आभर ॥

ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।

व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥

ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।

प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥

घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् ।

तत् ते रुक्मो न रोचत स्वधावः ॥

ओभे सुश्चन्द्र विश्पते ॥

आर्यमा याति वृषभस् तुराषाड् दाता वसूनि विदधे तनूपाः ।

सहस्राक्षो गोत्रभिद् वज्रबाहुर् अस्मासु देवो द्रविणं दधातु ॥

ये ते ऽर्यमन् बहवो देवयानाः पन्थानो राजन् दिव आचरन्ति ।

तेभिर् नो देव महि शर्म यछ शं नो भव द्विपदे शं चतुष्पदे ॥

उद् अग्ने शुचयस् तवायम् अग्निर् वीरतमस् तत् सूर्यस्य भद्रा अश्वाः सप्त त्वा हरितो रथे तरणिर् विश्वदर्शतः ॥

चक्षुर् नो धेहि चक्षुषे चक्षुर् विख्यै तनूभ्यः ।

सं चेदं वि च पश्येम ॥

सुसन्दृशं त्वा वयं प्रति पश्येम सूर्य ।

वि पश्येम नृचक्षसः

॥४.१२.४॥

युवं सुरामम् अश्विना ॥

होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रं सुराम्णां सोमानां पिबतु मदन्तां व्यन्तु होतर् यज ।

पुत्रम् इव पितरौ ॥

इन्द्रः सुत्रामा स्ववं अवोभिः सुमृडीको भवतु विश्ववेदाः ।

बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।

स सुत्रामा स्ववं इन्द्रो अस्मद् आराच् चिद् द्वेषः सनुतर् युयोतु ॥

अग्ने वाजस्य गोमतः ॥

भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।

भद्रा उत प्रशस्तयः ॥

संसम् इद् एना वो अग्निम् आ ते अग्ना इधीमह्य् अग्ने त्री ते वाजिना त्री षधस्था ॥

त्रिर् अग्निर् बलभिद् बलं भित्त्वा सहस्रम् ऐरयत् ।

शूरो जेतापराजितः ॥

त्रिर् अह्नः पवते वृषा सोमः शुक्राभिर् ऊतिभिः ।

वाजी सहस्रसातमः ॥

सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य ।

जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥

उभा जिग्यथुः ॥

इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् ।

शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् ॥

उत माता महिषम् अन्ववेनद् अमी त्वा जहति पुत्र देवाः ।

अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं विक्रमस्व ॥

त्रीण्य् आयूंषि तव जातवेदः ॥

अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म आसन् ।

अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥

विद्मा ते अग्ने त्रेधा त्रयाणि ॥

वृषणं त्वा त्रिककुभं त्रिमूर्धानं त्रिसन्दृशम् ।

वर्ष्मन् पृथिव्या ईमहे अग्ने हव्याय वोढवे ॥

अतिविद्धास्येद् एवा ॥

एवा : फ़्न् पद: । विद्धास्ये । देव ।

पर्जन्याय प्रगायत दिवस् पुत्राय मीढुषे ।

स नो यवसम् इछतु ॥

प्र वाता वान्ति पतयन्ति विद्युता उद् ओषधीर् जिहते पिन्वते स्वः ।

इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥

यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण ।

तं प्रत्नासा ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥

विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् ।

बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत्पतन्ति ।

त आववृत्रन्त् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्युद्यते ॥

आ ते सुपर्णा अमिनन्त एवैः कृष्णो नोनाव वृषभो यदीदम् ।

शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिहः स्तनयन्त्य् अभ्रा ॥

वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति ।

यद् एषां वृष्टिर् असर्जि ॥

पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः ।

यत् क्रीडथ मरुत ऋष्टिमन्ता आप इव सध्र्यञ्चो धवध्वे ॥

सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे ।

ते भानुभिर् वितस्थिरे ॥

बहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म ।

दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः ॥

सूर्यो अपो विगाहते रश्मिभिर् वाजसातमः ।

बोधात् स्तोमैर् वयो दधत्

॥४.१२.५॥

अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।

त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥

प्र वा एको मिमय भूर्य् आगो यन् मा पितेव कितवं शशास ।

आरे पाशा आरे अघानि देवा मा माधि पुत्रे विम् इव ग्रभीष्ट ॥

आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।

येषाम् इन्द्रो युवा सखा ॥

याभ्यां स्वर् अजनन्न् अग्र एव या आतस्थतुर् भुवनानि विश्वा ।

प्र चर्षणी वृषणा वज्रबाहुम् अग्निम् इन्द्रं वृत्रहणं हुवेम ॥

अग्ना इन्द्रश् च दाशुषो दुरोणे सुतावतो यज्ञम् इहोपयातम् ।

अमर्धन्ता सोमपेयाय देवा ॥

अन्व् अद्य नो अनुमतिर् अन्व् इद् अनुमते त्वम् ॥

राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।

सीव्यत्व् अपः सूच्याछिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥

यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि ।

ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥

रराणा : फ़्न् एमेन्देद्। एद्।: रराण। च्फ़्। Ṛव्।२।३२।५।

सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।

जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः ॥

या सुपाणिः स्वङ्गुरिः सुषूमा बहुसूवरी ।

तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥

कुहूम् अहं सुकृतं विद्मनापसम् अस्मिन् यज्ञे सुहवां जोहवीमि ।

सा नो ददातु श्रवणं पित्πणां तस्यै ते देवि हविषा विधेम ॥

कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु ।

स दाशुषे किरतु भूरि वामं रायस्पोषं चिकितुषे दधातु ॥

धाता दधातु नो रयिं प्राचीं जीवातुम् अक्षिताम् ।

वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ॥

धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे ।

तस्मै देवा अमृताः संव्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥

प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् ।

उतान्यो अस्मद् यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् ॥

प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्राद् अररुषः पिबातः ।

प्रातर् हि यज्ञम् अश्विना दधाते प्रशंसन्ति कवयः पूर्वभाजः ॥

इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।

हुवेम वाजसातये ॥

यन् निर्णिजा ॥

त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे ।

कविर् गृहपतिर् युवा ॥

हव्यवाड् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे ।

सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्यक् सम्मिमीहि श्रवांसि ॥

त्वं च सोम नो वशो जीवातुं न मरामहे ।

प्रियस्तोत्रो वनस्पतिः ॥

ब्रह्मा देवानां पदवीः कवीनां कविर् विप्राणां महिषो मृगाणाम् ।

श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्येति रेभन् ॥

आ विश्वदेवं सत्पतिं सूक्तैर् अद्या वृणीमहे ।

सत्यसवं सवितारम् ॥

आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।

हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन् ॥

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।

गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥

हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् ।

बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वं अगायत् ॥

त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।

इन्द्र ज्यैष्ठ्याय सुक्रतो ॥

भुवस् त्वम् इन्द्र ब्रह्मणो महान् भुवो विश्वेषु सवनेषु यज्ञियः ।

भुवो नॄंश् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रो विश्वचर्षणे ॥

प्र स मित्रानमीवासः ॥

मित्र : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् ।

मिनीमसि द्यविद्यवि ॥

यत् किञ्चेदं वरुण दैव्ये जने ऽभिद्रोहं मनुष्याश् चरामसि ।

अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥

यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे ।

यथा तोकाय रुद्रियम् ॥

मा नस् तोके तनये मा ना आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।

वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥

य इमा विश्वा जातान्य् आश्रावयति श्लोकेन ।

प्र च सुवाति सविता ॥

विश्वा रूपाणि ॥

अश्विना यज्ञम् आगतं दाशुषः पुरुदंससा ।

पूषा रक्षतु नो रयिम् ॥

इमं यज्ञम् अश्विना वर्धयन्तेमौ वीर्यं यजमानाय धत्ताम् ।

इमौ पशून् रक्षतां विश्वतो नः पूषा नः पातु सदम् अप्रयुछन् ॥

प्र ते महे सरस्वति सुभगे वाजिनीवति ।

सत्यवाचे भरे मतिम् ॥

इदं ते हव्यं घृतवत् सरस्वति सत्यवाचे प्रयतेमा हवींषि ।

इमानि त उदिता शन्तमानि तेभिर् वयं सुभगासः स्याम

॥४.१२.६॥