चतुर्थकाण्डे त्रयोदशः प्रपाठकः
चतुर्थकाण्डे त्रयोदशः प्रपाठकः
तं धीरासः कवया उन्नयन्ति स्वाध्यो मनसा देवयन्तः
॥४.१३.१॥अभि त्वा देव सवितर् इति त्रयोदश होता यक्षद् अग्निं समिधा सुषमिधा समिद्धं नाभा पृथिव्याः सङ्गथे वामस्य वर्ष्मन् दिव इडस् पदे वेत्व् आज्यस्य होतर् यज होता यक्षत् तनूनपातम् अदितेर् गर्भं भुवनस्य गोपां मध्वाद्य देवो देवेभ्यो देवयानान् पथो अनक्तु वेत्व् आज्यस्य होतर् यज होता यक्षन् नराशंसं नृशस्तं नॄंष्प्रणेत्रं गोभिर् वपावान्त् स्याद् वीरैः शक्तीवान् रथैः प्रथमयावा हिरण्यैश् चन्द्री वेत्व् आज्यस्य होतर् यज होता यक्षद् अग्निम् इड ईडितो देवो देवं आ च वक्षद् दूतो हव्यवाड् अमूरा उपेमं यज्ञम् उपेमां देवो देवहूतिम् अवतु वेत्व् आज्यस्य होतर् यज होता यक्षद् बर्हिः सुष्टरीमोर्णम्रदा अस्मिन् यज्ञे वि च प्र च प्रथतां स्वासस्थं देवेभ्य एम् एनद् अद्य वसवो रुद्रा आदित्याः स्वदन्तु प्रियम् इन्द्रस्यास्तु वेत्व् आज्यस्य होतर् यज होता यक्षद् दुर ऋष्वाः कवष्यो कोशधावनीर् उद् आताभिर् जिहतां वि पक्षोभिः श्रयन्तां सुप्रायणा अस्मिन् यज्ञे विश्रयन्ताम् ऋतावृधो व्यन्त्व् आज्यस्य होतर् यज होता यक्षद् उषासानक्ता बृहती सुपेशसा नॄंष् पतिभ्यो योनिं कृण्वाने संस्मयमाने इन्द्रेण देवैर् एदं बर्हिः सीदतां वीताम् आज्यस्य होतर् यज होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा स्विष्टम् अद्यान्यः करद् इषा स्वभिगूर्तम् अन्य ऊर्जा सतवसेमं यज्ञं दिवि देवेषु धत्तां वीताम् आज्यस्य होतर् यज होता यक्षत् तिस्रो देवीर् अपसाम् अपस्तमो ऽछिद्रम् अद्येदम् अपस् तन्वतां देवेभ्यो देवीर् देवम् अपो व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् त्वष्टारम् अचिष्टुम् अपाकं रेतोधां विश्रवसं यशोधां पुरुरूपम् अकामकर्शनं सुपोषः पोषैः स्यात् सुवीरो वीरैर् वेत्व् आज्यस्य होतर् यज होता यक्षद् वनस्पतिम् उपावस्रक्षद् धियो जोष्टारं शशमन् नरः स्वदात् स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यावाड् वेत्व् आज्यस्य होतर् यज
॥४.१३.२॥देवहूतिम् : फ़्न् एमेन्देद्। एद्।: देवहतिम्।
समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश् चकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥
तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व ।
मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥
नराशंसस्य महिमानम् एषाम् उपस्तोषाम यजतस्य यज्ञैः ।
ये सुक्रतवः शुचयो धियन्धाः स्वदन्तु देवा उभयानि हव्या ॥
आजुह्वाना ईड्यो वन्द्यश् चायाह्य् अग्ने वसुभिः सजोषाः ।
त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् ।
व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥
व्यचस्वतीर् उर्विया विश्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥
आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती ।
तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः सदन्तु ॥
य इमे द्यावापृथिवी जन्त्री रूपैर् अपिंशद् भुवनानि विश्वा ।
तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥
उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।
वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन
॥४.१३.३॥अग्निर् होता नो अध्वरे वाजी सन् परिणीयते ।
देवो देवेषु यज्ञियः ॥
परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव ।
आ देवेषु प्रयो दधत् ॥
परि वाजपतिः कविः ॥
अजैद् अग्निर् असनद् वाजं नि देवो देवेभ्यो हव्यावाट् प्राञ्जोभिर् हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः प्रतिरन्न् उपप्रेष्य होतर् हव्या देवेभ्यो दैव्याः शमितार उत मनुष्या आरभध्वम् उपनयत मेध्या दुर आशासाना मेधपतये मेधं प्रास्मा अग्निं भरत स्तृणीत बर्हिर् अन्व् एनं माता मन्यताम् अनु पितानु भ्राता सङ्गर्भ्यो ऽनु सखा सयूथ्य उदीचीनां अस्य पदो निधत्तात् सूर्यं चक्षुर् गमयताद् वातं प्राणम् अन्ववसृजताद् अन्तर्क्षम् असुं पृथिवीं शरीरम् एकधास्य त्वचम् आछ्यतात् पुरा नाभ्या अपिशसो वपाम् उत्खिदताद् अन्तर् एवोष्माणं वारयताच् छ्येनम् अस्य वक्षः कृणुतात् प्रशसा बाहू शला दोषणी कश्यपेवांसाछिद्रे श्रोणी कवषोरू स्रेकपर्णाष्ठीवन्ता षड्विंशतिर् अस्य वङ्क्रयस् ता अनुष्ठुयोच्च्यावयताद् गात्रङ्गात्रम् अस्यानूनं कृणुताद् ऊवध्यगोहं पार्थिवं खनताद् अस्ना रक्षः संसृजताद् वनिष्टुम् अस्य मा राविष्टोरूकं मन्यमाना नेद् वस् तोके तनये रविता रवद् अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वम् अध्रिगो ॥
अध्रिगुश् च विपापश् च देवानां शमितारौ ।
ता एनं प्रविद्वांसौ श्रपयतं यथास्य श्रपणं तथा
॥४.१३.४॥जुषस्व सप्रथस्तमम् ॥
इमं नो यज्ञम् अमृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान पह्रथमो निषद्य ॥
घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेदसः ।
स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥
तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य ।
ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥
तुभ्यं श्चोतन्त्य् अध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य ।
कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥
ओजिष्ठं ते मध्यतो मेदा उद्भृतं प्र ते वयं ददामहे ।
श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥
होता यक्षद् अग्निं स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानां स्वाहा स्वाहाकृतीनां स्वाहा हव्यसूक्तीनां स्वाहा देवा आज्यपा जुषाणा अग्ना आज्यस्य व्यन्तु होतर् यज ॥
सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः ।
अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥
अग्निर् वृत्राणि जङ्घनत् ॥
होता यक्षद् अग्निम् आज्यस्य जुषतां हविर् होतर् यज ॥
त्वं सोमासि सत्पतिः ॥
होता यक्षत् सोमम् आज्यस्य जुषतां हविर् होतर् यज ॥
शुचिं नु स्तोमम् ॥
होता यक्षद् इन्द्राग्नी छागस्य वपाया मेदसो जुषेतां हविर् होतर् यज ॥
श्नथद् वृत्रम् उभा वाम् इन्द्राग्नी ॥
होता यक्षद् इन्द्राग्नी पुरोडाशस्य जुषेतां हविर् होतर् यज ॥
प्र चर्षणिभ्य इडाम् अग्ने होता यक्षद् अग्निं पुरोडाशस्य जुषतां हविर् होतर् यज ॥
अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेड्यं जातवेदः ।
त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य नाभिम् ॥
इडोपहूतोपहूतेडोपास्मं इडा ह्वयताम् इडोपहूता मानवी घृतपदी मैत्रावरुणी ॥
ब्रह्म देवकृतम् उपहूतं दैव्या अध्वर्यवा उपहूता उपहूता मनुष्या य इमं यज्ञम् अवान् ये च यज्ञपतिं वर्धान् उपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे उपहूतो ऽयं यजमाना उत्तरस्यां देवयज्यायाम् उपहूतो भूयसि हविःकरणे दिव्ये धामन्न् उपहूतो देवा म इदं हविर् जुषन्ताम् इति तस्मिन्न् उपहूतः
॥४.१३.५॥उपहूता : फ़्न् ⟨ उपहूतास्
उपहूता : फ़्न् एमेन्देद्। एद्।: उपहूता।
देवयज्यायाम् : फ़्न् एमेन्देद्। एद्।: देवयाज्यायाम्
त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥
अधा होता न्यसीदो यजीयान् इडस् पद इषयन्न् ईड्यः सन् ।
त्वं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनुग्मन् ॥
वृतेव यन्तं बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनुग्मन् ।
रुशन्तम् अग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥
पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् ।
नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त सन्दृष्टौ ॥
त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।
त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम् ॥
सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो निषसादा यजीयान् ।
तं त्वा वयं दमा आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ॥
तं त्वा वयं सुध्यो नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः ।
त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥
विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।
प्रेतीषणिम् इषयन्तं पावकं राजन्तम् अग्निं यजतं रयीणाम् ॥
सो अग्न ईजे शशमे च मर्तो यस् ता आनट् समिधा हव्यदातिम् ।
य आहुतिं परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ॥
अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः ।
वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ यतेम ॥
आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्यस् तरुत्रः ।
बृहद्भिर् वाजैः स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं विभाहि ॥
नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः ।
पूर्वीर् इषो बृहतीर् आरेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥
पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् ।
पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे
॥४.१३.६॥आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर् अग्ने अर्वाक् ।
युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः ॥
होता यक्षद् इन्द्राग्नी छागस्य हविषा आत्ताम् अद्य मध्यतो मेदा उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासेअज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतो ऽङ्गादङ्गाद् अवत्तानां करत एवेन्द्राग्नी जुषेतां हविर् होतर् यज ॥
गीर्भिर् विप्रः प्रमतिम् इछमाना ईट्टे रयिं यशसं पूर्वभाजम् ।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं देष्णैः ॥
देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस् ते अर्थम् ।
प्रदक्षिणिद् रशनया नियूय ऋतस्य वक्षि पथिभी रजिष्ठैः ॥
होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्ठया रशनयाधित यत्राग्नेर् आज्यस्य प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि यत्रेन्द्राग्न्योश् छागस्य हविषः प्रिया धामानि यत्र वनस्पतेः प्रिया पाथांसि यत्र देवानाम् आज्यपानां प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतं प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद् रभीयांसम् इव कृत्वी करद् एवं देवो वनस्पतिर् जुषतां हविर् होतर् यज ॥
वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।
वहा देवत्रा दधिषो हवींषि प्र च दातारम् अमृतेषु वोचः ॥
पिप्रीहि देवान् ॥
होता यक्षद् अग्निं स्विष्टकृतम् अयाड् अग्निर् अग्नेः प्रिया धामान्य् अयाट् सोमस्याज्यस्य हविषः प्रिया धामान्य् अयाड् इन्द्राग्न्योश् छागस्य हविषः प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथांस्य् अयाड् देवानाम् आज्यपानां प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वं महिमानम् आयजताम् एज्या इषः कृणोतु सो अध्वराञ् जातवेदा जुषतां हविर् होतर् यज ॥
अग्ने यद् अद्येडोपहूता
॥४.१३.७॥देवं बर्हिः सुदेवं देवैः स्यात् सुवीरं वीरैर् वस्तोर् वृज्येताक्तोः प्रभ्रियेतात्य् अन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज देवं बर्हिर् वसुवने वसुधेयस्य वेतु देवीर् द्वारः सङ्घाते वीड्वीर् यामञ् शिथिरा ध्रुवा देवहूतौ वत्स ईम् एनास् तरुणा आमिमीयात् कुमारो वा नवजातो मैना अर्वा रेणुककाटः प्रणग् वसुवने वसुधेयस्य व्यन्तु यज देवीर् द्वारो वसुवने वसुधेयस्य व्यन्तु देवी उषासानक्ताद्यास्मिन् यज्ञे प्रयत्य् अह्वेताम् अपि नूनं दैवीर् विशः प्रायासिष्टां सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज देवी उषासानक्ता वसुवने वसुधेयस्य वीतां देवी जोष्ट्री वसुधिती ययोर् अन्याघा द्वेषांसि यूयवद् आन्या वक्षद् वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज देवी जोष्ट्री वसुवने वसुधेयस्य वीतां देवी ऊर्जाहुती इषम् ऊर्जम् अन्या वक्षत् सग्धिं सपीतिम् अन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं ताम् ऊर्जम् ऊर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज देवी ऊर्जाहुती वसुवने वसुधेयस्य वीतां देवा दैव्या होतारा पोतारा नेष्टारा हताघशंसा आभरद्वसू वसुवने वसुधेयस्य वीतां यज देवा दैव्या होतारा वसुवने वसुधेयस्य वीतां देवीस् तिस्रस् तिस्रो देवीर् इडा सरस्वती भारती द्यां भारत्य् आदित्यैर् अस्पृक्षत् सरस्वतीमं रुद्रैर् यज्ञम् आवीद् इहैवेडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य व्यन्तु यज देवीस् तिस्रस् तिस्रो देवीर् वसुवने वसुधेयस्य व्यन्तु देवो नराशंसस् त्रिशीर्षा षडक्षः शतम् इद् एनं शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पतिः स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज देवो नराशंसो वसुवने वसुधेयस्य वेतु देवो वनस्पतिर् वर्षप्रावा घृतनिर्णिग् द्याम् अग्रेणास्पृक्षद् आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृंहीद् वसुवने वसुधेयस्य वेतु यज देवो वनस्पतिर् वसुवने वसुधेयस्य वेतु देवं बर्हिर् वारितीनां निधेधासि प्रच्युतीनाम् अप्रच्युतं निकामधरणं पुरुषस्पार्हं यशस्वद् एना बर्हिषान्या बर्हींष्य् अभिष्याम वसुवने वसुधेयस्य वेतु यज देवं बर्हिर् वारितीनां वसुवने वसुधेयस्य वेतु देवो अग्निः स्विष्टकृद् यज देवो अग्निः स्विष्टकृत्
॥४.१३.८॥अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं गृह्णन्न् अग्नया आज्यं गृह्णन्त् सोमायाज्यं बध्नन्न् इन्द्राग्निभ्यां छागं सूपस्था अद्य देवो वनस्पतिर् अभवद् अग्नया आज्येन सोमायाज्येनेन्द्राग्निभ्यां छागेनाघस्तां तं मेदस्तः प्रतिपचताग्रभीष्टाम् अवीवृधेतां पुरोडाशेन त्वाम् अद्य ऋष आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्या आ सङ्गतेभ्य एष मे देवेषु वसु वार्यायक्ष्यता इति ता या देवा देवदानान्य् अदुस् तान्य् अस्मा आ च शास्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीदं द्यावापृथिवी भद्रम् अभूद् आर्ध्म सूक्तवाकम् उत नमोवाकम् ऋध्यास्म सूक्तोच्यम् अग्ने त्वं सूक्तवाग् अस्य् उपश्रुति दिवस् पृथिव्योर् ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्तां शङ्गवी जीरदानू अत्रस्नू अप्रवेदे असम्बाधे उरुगव्यूती अभयङ्कृतौ वृष्टिद्यावा रीत्यापा शम्भुवौ मयोभुवऊर्जस्वती च पयस्वती च सूपचरणा च स्वधिचरणा च तयोर् आविद्य् अग्निर् इदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृत सोम इदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृतेन्द्राग्नी इदं हविर् अजुषेताम् अवीवृधेतां महो ज्यायो ऽक्रातां वनस्पतिर् इदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृत देवा आज्यपा आज्यम् अजुषन्तावीवृधन्त महो ज्यायो ऽक्रत अग्निर् होत्रेणेदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृतास्याम् ऋधद् धोत्रायां देवङ्गमायाम् आशास्ते ऽयं यजमान आयुर् आशास्ते सुप्रजास्त्वम् आशास्ते विश्वं प्रियम् आशास्ते यद् अनेन हविषाशास्ते तद् अश्यात् तद् ऋध्यात् तद् अस्मै देवा रासन्तां तद् अग्निर् देवो देवेभ्यो वनुतां वयम् अग्नेर् मानुषा इष्टं च वीतं चोभे च नो द्यावापृथिवी अंहसस् पाताम् एह गतिर् वामस्येदं नमो देवेभ्यः
॥४.१३.९॥होतर् : फ़्न् प्। एद्।: होतर्। च्फ़्। त्ब्।३।६।१५।१
तञ् शंयोर् आवृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिर् अस्तु नः सवस्तिर् मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
आप्यायस्व सं ते पयांसि ॥
इह त्वष्टारम् अग्रियं विश्वरूपम् उपह्वये ।
अस्माकम् अस्तु केवलः ॥
तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व ।
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
देवानां पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये ।
याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यछत ॥
उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी राट् ।
आ रोदषी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥
राकाम् अहं यास् ते राके सिनीवालि या सुपाणिः कुहूम् अहं कुहूर् देवानाम् ॥
अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।
देवानाम् उत यो मर्त्यानां यजिष्ठः स प्रयजताम् ऋतावा ॥
हव्यवाड् अग्निर् इडोपहूता
॥४.१३.१०॥