चतुर्थकाण्डे तृतीयः प्रपाठकः
चतुर्थकाण्डे तृतीयः प्रपाठकः
अरातीयन्ति वा अन्ये पुरुषाय नान्ये ये ऽरातीयन्ति सा निरृतिर् ये नारातीयन्ति सानुमतिस् तेभ्य उभयेभ्यः सह निर्वपन्त्य् उभौ सह शृतौ कुर्वन्ति नैरृतेन पूर्वेण प्रचरन्ति दक्षिणा परेत्य स्वकृता इरिण एतद् वै निरृतिगृहीतं पृथिव्या निरृतिगृहीत एव निरृतिं निरवदयत एकोल्मुकं निधाय विस्रंसिकायाः काण्डाभ्यां जुहोति जुषाणा निरृतिर् वेतु स्वाहा वासः कृष्णं भिन्नान्तं दक्षिणेत्य् एतद् धि निरृत्या रूपम् अर्धं वै पुरुषस्य निरृतिगृहीतम् अर्धम् अनिरृतिगृहीतं यन् निरृतिगृहीतं तद् एवास्मात् तेन निरवदयते पुनर् एत्यानुमत्या अष्टाकपालेन प्रचरन्ति निरृतिम् एव निरवदायेयं वा अनुमतिर् वाग् वय् अनुमतम् एवैनं सवम् आक्रमयत्य् अष्टाकपालो भवति गायत्री हीयं गायत्री वाग् धेनुर् दक्षिणैतद् ध्य् अनुमत्या रूपम् अथ य उदञ्चः शम्याम् अतिशीयन्ते तान् उदङ् परेत्य वल्मीकवपाम् उद्रुज्य जुहुयाद् इदम् अमुष्यामुष्यायणस्य क्षेत्रियम् अवयजा इति तत् पुनर् अपिदधातीदम् अहम् अमुष्यामुष्यायणस्य क्षेत्रियम् अपिदधामीति क्षेत्रियं वा एतं गृह्णाति ये चैनम् अन्व् इयं क्षेत्रस्य पत्न्य् अस्याम् एव क्षेत्रियम् अवयज्याथैनं सवम् आक्रमयति श्वो भूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुर् इत्य् आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् तेभ्य एव प्रोच्य स्वर्गं लोकम् एत्य् आदित्या वा अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन्न् उभयोर् एव लोकयोर् ऋध्नोति वरो दक्षिणा वरेणैव स्वर्गं लोकम् अभ्यारोहति श्वो भूत आग्नावैष्णव एकादशकपाला इत्य् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धाग्निर् वै यज्ञस्यान्तो ऽवस्ताद् विष्णुः परस्ताद् उभयत एव यज्ञस्यान्ता उदग्रहीद् उभयत एव यज्ञस्यान्ता उद्गृह्य यथोत्सङ्ग आवपेतैवं वा एतद् यज्ञम् आवपते तस्य यथाकामं निर्वपमाण एत्य् अनड्वान् वामनो दक्षिणा यद् वही तेनाग्नेयो यद् वामनस् तेन वैष्णवो रूपेणैवैनं समर्धयति श्वो भूते ऽग्नीषोमीया एकादशकपाला इत्य् अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् वृत्रं खलु वा एष हन्ति यो राजसूयेनाभिषिञ्चते तद् वार्त्रघ्नम् एवैतद् धिरण्यं दक्षिणा सत्यं वै हिरण्यं सत्येनैव हन्ति श्वो भूत ऐन्द्राग्न एकादशकपाला इत्य् अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् स ओजसा वीर्येण व्यार्ध्यत स एतम् ऐन्द्राग्नम् अपश्यत् तेनौजो वीर्यम् आत्मन्न् अधत्तौजसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चत ओजो वीर्यम् इन्द्राग्नी ओजसैवैनं वीर्येण समर्धयतो ऽनड्वान् ऋषभो दक्षिणा यद् वही तेनाग्नेयो यन् मुष्करस् तेनैन्द्रो रूपेणैवैनं समर्धयति श्वो भूत आग्नेयो ऽष्टाकपालो माहेन्द्रं दधीत्य् ऋद्ध्या एवाग्नेय इन्द्रो वै वृत्रम् अहन् सो ऽन्यान् देवान् अत्यमन्यत स महेन्द्रो ऽभवत् स एतम् उद्धारम् उदहरद् वृत्रं हत्वा तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजयत् पयसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते यत् पयः पयसैवैनं समर्धयतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते यद् ऐन्द्रम् इन्द्रियेणैवैनं वीर्येण समर्धयति देवताभिर् वा एष व्यृध्यते यो राजसूयेनाभिषिञ्चते सर्वदेवत्यं वै वासो यद् वासः क्षौमं दक्षिणा देवताभिर् एवैनं समर्धयति
॥४.३.१॥वै : फ़्न् एमेन्देद्। एद्।: वा
देवा ओषधीषु पक्वास्व् आजिम् अयुः स इन्द्रो ऽवेद् अग्निर् वावेमाः प्रथम उज्जेष्यतीति सो ऽब्रवीद् यतरो नौ पूर्व उज्जयेत् तन् नौ सहेति ता अग्निर् उदजयत् तद् इन्द्रो ऽनूदजयत् तस्माद् ऐन्द्राग्नम् अथो आहुर् आग्नेन्द्रं कार्यम् इत्य् अग्निर् हि ता अग्र उदजयत् तद् उज्जित्या एवाग्रायणो द्वादशकपालो भवति द्वादश मासाः संवत्सरः संवत्सराद् धि तद् अध्य् अभवत् सप्तदश सामिधेनीः कार्याः पञ्च ऋतवो द्वादश मासा एष संवत्सरः संवत्सराद् धि तद् अधि भवत्य् एका वै तर्हि यवस्य मुष्टिर् आसीद् एका व्रीहेर् एका माषस्यैका तिलस्य तद् विश्वे देवा अब्रुवन् वयं व एतत् प्रथयिष्यामो भागो नो ऽस्त्व् इति तद् विश्वे देवा अप्रथयंस् तद् भूम्न एव वैश्वदेवो ऽथो प्रथयत्य् एवैतेन पयसि स्याद् वैश्वदेवो वैश्वदेवं हि पयो ऽथ वा इयम् अब्रवीन् मयि वा एतद् अध्य् असौ वृष्ट्या पचति नैतद् इतो ऽध्य् उज्जेष्यथ भागो ना अस्त्व् इति तद् आभ्यां वावैष भागः क्रियत उज्जित्यय् अथो प्रतिष्ठित्या एव यद् द्यावापृथिवीयः सौमीर् वा ओषधयः सोमा ओषधीनाम् अधिराजस् तस्य वा एष भागो यद् अकृष्टपच्यं तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजते ग्राम्या वा अन्या ओषधय आरण्या अन्यास् ता एवास्यैतेनोभयीर् अवेष्टा भवन्ति याः फालकृष्टास् तासाम् एतेनाग्रायणं करोति या आरण्यास् तासाम् उत्तरेणानीतो वा एष देवानां य आहिताग्निर् यद् अकृत्वाग्रायणं नवस्याश्नीयाद् देवानां भागं प्रतिकॢप्तम् अश्नीयाद् आर्तिम् आर्छेत् सर्वेभ्यो वा एषो ऽन्येभ्यो ऽभिषिच्यते यो राजसूय आग्रायणो ऽन्नाद्यस्यावरुद्ध्यै वत्सः प्रथमजो दक्षिणा रेत इव ह्य् एषो ऽप्रजातः प्रजात्यै
॥४.३.२॥अथैतानि चातुर्मास्यानि संवत्सरं वै चातुर्मास्यानि परीज्यन्ते संवत्सराद् एवैनान्य् अध्य् आप्त्वावरुन्द्ध उत्सन्नयज्ञो वा एष संवत्सराद् वा अध्य् उत्सन्नयज्ञो ऽवरुध्यते संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे पशवो वा एते चातुर्मास्येभ्यो ऽध्य् अतिरिच्यते यञ् शुनासीर्यं तान् एवाप्नोति वर्ष्य उदके यजेतैतद् धि पशूनां नेदिष्ठम् अथैतानि पञ्च हवींषि सन्तत्यै ग्रामकामो यजेत वायुर् वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते यद् वायवे वायुर् एवास्मै नस्योतां विशं निनयत्य् अन्नकामो यजेत संवत्सरो वा इन्द्रः शुनासीरः संवत्सरो ऽन्नाद्यस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मा अन्नाद्यं प्रयछति वर्ष्य उदके यजेतैतद् ध्य् अन्नाद्यस्य नेदिष्टं वृष्टिकामो यजेत वायुर् वा इमे समीरयति स आप्याययति ततो वर्षति संवत्सरो वा इन्द्रः शुनासीरः संवत्सरम् अनुवर्षति
॥४.३.३॥देवाश् च वा असुराश् चास्पर्धन्त स वृत्र इन्द्रम् अब्रवीत् त्वं देवानां श्रेष्ठो ऽस्य् अहम् असुराणां संशक्नवाव मा ना अन्यो ऽन्यं वधीद् इति तौ वै समामेताम् अनभिद्रोहाय ते देवा वृत्रम् अमन्यन्तायं वावेदं भविष्यतीति त इन्द्र ऐछन् हनामेमम् इति सो ऽब्रवीत् सन्धा वै मे संहितान् अभिद्रोहायेति तम् अग्निर् अब्रवीद् अहम् एव त्वेतः पास्यामीति पृथिव्या अहम् अन्तरिक्षाद् इति वरुणो ऽहं दिव इति रुद्रस् ततो वै देवा वृत्रम् अघ्नन् वृत्रं खलु वा एष हन्ति यो राजसूयेनाभिषिञ्चते तद् वार्त्रघ्नम् एवैतद् देवाश् च वा असुराश् च समयतन्त तान् अग्निस् त्रेधात्मानं कृत्वा प्रत्ययतत अग्निर् एवास्मिंल् लोके भूत्वा वरुणो ऽन्तरिक्षे रुद्रो दिवि स इन्द्रो ऽमन्यतायं वावेदं भविष्यतीति सो ऽब्रवीद् अहं विश्वाभ्या आशाभ्या इति ततो वा अजयंस् तज् जित्या एवैतद् एतेनैव याजयेत् सङ्ग्रामे जयति सङ्ग्रामम् एतेनैव याजयेद् भ्रातृव्यवन्तं यो वास्य प्रियः स्यात् तं भवत्य् आत्मना परास्य भ्रातृव्यो भवति यद् वै तद् इन्द्रस् तुरीय उपसमपद्यत तस्माद् इन्द्रतुरीयं धेनुर् अनड्वाही दक्षिणा यद् वहिनी तेनाग्नेयी यद् धेनुः सती दान्ता तेन वारुणी यद् गौस् तेन रौद्री यत् पयस् तेनैन्द्री रूपैर् एवैनां समर्धयतीन्द्रो वै नमुचिं नालभत स रश्मीन् कुलायं कृत्वान्वारोहद् अमुम् आदित्यं तं वा अन्वमन्त्रयत सखाया असावेति सो ऽब्रवीन् नाहं हनिष्यामीति सो ऽब्रवीत् सन्धां ते सन्दधै यथा त्वा न दिवा हनानि न नक्तं न शुष्केण नार्द्रेणेति तस्य वा उपोदये सूर्यस्य नीहारं सन्तत्यापां फेनेन शिरो ऽछिनत् तद् वा एनम् अन्ववर्तत मित्रद्रुग् असीति पाप्मा वै नमुचेः शिरः पाप्मा वा एनं तद् अन्ववर्तत पाप्मानं वै स तेनापाहत तत् पाप्मानम् एवैतेनापहते ऽपां न्ययनाद् अपामार्गान् आहरन्त्य् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति रक्षसाम् अपहत्यै वरो दक्षिणा वरेणैव वरं स्पृणोत्य् आत्मा हि वर आत्मानं हि तस्य तद् अन्ववर्तत ये देवाः पुरःसदो अग्निनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहेत्य् एतद्देवत्या वा इमा दिशो यथादेवतं वा एतद् आभ्यो दिग्भ्यो ऽधि रक्षांस्य् अपहन्त्य् अनुपरिक्रामं जुहोति सर्वाभ्य एव दिग्भ्यो ऽधि रक्षांस्य् अपहन्तीदम् अहं रक्षोभिः समूहाम्य् अग्ने सन्दह रक्षः सन्दग्धं रक्षा इत्य् आह रक्षसां ध्वरायै रक्षसाम् अन्तरित्यय् अथ यत् पुनः समूह्य जुहोति याभ्य एव दिग्भ्यो ऽधि रक्षांस्य् अपावधीत् ता भागिनीः करोत्य् अहिंसायै रथः पञ्चवाही दक्षिणा पञ्च दिशः पञ्च देवताः समृद्ध्यै
॥४.३.४॥असुराणां : ⟨ असुराणाम्
असुराणां : फ़्न् एमेन्देद्। एद्।: असुराणम्।
वधीद् : फ़्न् एमेन्देद्। एद्।: ऽवधीद्।
सोमेनेजानं याजयेत् संवत्सरं वा एतस्य छन्दांसि यातयामानि भवन्ति यः सोमेन यजते छन्दांसि वै देविकाश् छन्दांसि वावास्मा एतद् अयातयामानि पुनर्यामाणि करोति राजसूयेनाभिषिषिचानं याजयेत् पष्ठौही दक्षिणाशां वा एष उपाभिषिञ्चत आशा पष्ठौह्य् आशाम् एवास्मा अकः पशुकामं याजयेच् छन्दांसि वै देविकाः पशवश् छन्दांसि गायत्र्य् अनुमतिस् त्रिष्टुब् राका जगती सिनीवाली कुहूर् अनुष्टुब् धाता वषट्कारो या पूर्वा पौर्णमासी सानुमतिर् योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूश् चन्द्रमा एव धाता यद् द्वे अवरे द्वे परे तन् मिथुनं यत् पूर्यते ऽन्यां नान्यां तन् मिथुनं यत् पश्यन्त्य् अन्यां नान्यां तन् मिथुनं यद् अमावास्याया अधि चन्द्रमाः प्रजायते तन् मिथुनं तस्माद् एवास्मै मिथुनात् पशून् प्रजनयति प्रजाकामं याजयेद् धातारम् उत्तमं कुर्यात् स्त्रियो वै देविकाः पुमान् धाता पराचीर् वै प्रजा रेतो दधते पराचीष्व् एवासु रेतो दधाति तद् आहुर् न वै तेन पराधत्ते यद् अन्तरा प्रवीयता इति व्यवदध्याद् धातारं मध्यतः सर्वा एवैना वृषमोदिनीः करोति तद् आहुर् जायत एव पश्चाच्चर इव तु भवति स्त्रीभ्यो ह्य् एनं पश्चात् परिणयन्तीति स यदा जायेताथ धात्रे पुरस्तान् निर्वपेद् अग्रं वै धाताग्रम् एवैनं परिणयति
॥४.३.५॥आमयाविनं याजयेद् धातारं मध्यतः कुर्यात् संवत्सरो वै धाता संवत्सरो हि वा एतस्य मुग्धो ऽथैतस्यामयति संवत्सरं वावास्मा एतन् मध्यतो ऽचीकॢपद् अथैनम् एतस्मान् मिथुनात् प्रजनयतीश्वराणि वा एतम् एतानि छन्दांस्य् ऋते पशोर् अशान्तानि निर्मृजः पशुर् अप्य् आलभ्यः शान्त्या अनिर्मार्गायैते वै पशवो यद् व्रीहयश् च यवाश् च यद् व्रीहिमयः पुरोडाशो भवति तेनैव पशुर् आलभ्यते शान्त्या अनिर्मार्गाय वीरस्था वा अन्ये पशवो ऽवीरस्था अन्ये ये पुरस्तात्पुरोडाशास् ते वीरस्था ये पश्चात्पुरोडाशास् ते ऽवीरस्था ये पुरस्तात्पुरोडाशा भुञ्जतस् त उपतिष्ठन्ते प्रजापतिं ह्य् एते प्रतिष्ठाम् अभ्यसृज्यन्त ये पश्चात्पुरोडाशाः परा ते भवन्ति यासु स्थालीषु सोमाः स्युस् ते चरवः स्युः सोमो वै रेतोधाः प्रजननाय सर्ववेदसेनेजानं याजयेत् पशुभिर् वा एष व्यृध्यते यः सर्वं ददात्य् अत्र वा एष जघन्यं पशून् पश्यति यत्रैनान् विभजति यत्रैवैनान् विभजति तत एनान् पुनर् अवरुन्द्धे य एव कश् च सोमेन यजेत तं याजयेत् संवत्सरं वा एतस्य छन्दांसि यातयामानि भवन्ति यः सोमेन यजते छन्दांसि वै देविकाश् छन्दांसि वावास्मा एतद् अयातयामानि पुनर्यामाणि करोति
॥४.३.६॥अथैतत् त्रिषंयुक्तं यत् पूर्वं त्रिषंयुक्तम् इत एवास्मै तेनोर्ध्वान् इमांल् लोकान् दाधार यद् उत्तरं त्रिषंयुक्तम् अमुत एवास्मै तेनार्वाच इमांल् लोकान् दाधार तद् एषां वावैते लोकानां विधृत्यै यत् पूर्वं त्रिषंयुक्तं वीरजननं तद् यद् उत्तरं पशुजननं तद् यत् पूर्वं त्रिषंयुक्तं वीरान् एवास्मै तेन जनयति यद् उत्तरं पशूंस् तेन यत् पूर्वं त्रिषंयुक्तं रेत एव तेन दधाति यद् उत्तरं प्र तेन जनयति यत् पूर्वं त्रिषंयुक्तं तेन यज्ञकामो यजेताग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धैन्द्रो वै यज्ञो विष्णुर् यज्ञस् तद् यज्ञस्यैवैष आरम्भो ऽथ यद् वैष्णवो विष्णुर् वै यज्ञो यज्ञ एव प्रतितिष्ठति यद् उत्तरं त्रिषंयुक्तं तेन पशुकामो यजेत सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयतीन्द्रियेण वै पशवः प्रजायन्ते पूषा प्रजनयतीन्द्रियेणैवास्मै पूषा पशून् प्रजनयत्य् अथ यत् पौष्णः पशवो वै पूषा पशुष्व् एव प्रतितिष्ठत्य् अथैतद् वैश्वानरवारुणं संवत्सरो वा अग्निर् वैश्वानरस् तस्य वा एते स्वा यद् ऋतवस् तेषां वा एषो ऽभिषिक्तो राजाभिषिक्तो वै देवानां वरुण एतौ वै देवानां सूतव् एतौ सवपती एतौ सवस्येशाते ता एनं सुवाते यावन्तो वा एतस्य स्वा अनुका वै त एतम् अनुका देवा वरुणं यावन्त एवास्य स्वास् तान् अस्मा अनुकान् अविवादिनः करोतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणान् मुक्त्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोति तस्माद् राजसूयाभिषिक्तस्य जरसा दन्ता अवशीयन्ते संवत्सरे ह्य् एनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोति यो ज्योगामयावी स्यात् तम् एतेन याजयेद् वरुणेन हि वा एष पाप्मना गृहीतो ऽथैतस्य ज्योग् आमयति यद् वारुणो वरुणाद् एवैनं तेन मुञ्चतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणान् मुक्त्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोति
॥४.३.७॥अथैते रत्निनः क्षत्रस्य वा एतान्य् अङ्गानि यस्य वा एतान्य् ओजस्वीनि भवन्ति तद् राष्ट्रम् ओजस्वी भवति तान्य् एवास्यौजस्वीनि करोति क्षत्रस्य वा एतान्य् अङ्गानि यस्य वा एतानि तेजस्वीनि भवन्ति तद् राष्ट्रं तेजस्वी भवति तान्य् एवास्य ब्रह्मणा तेजस्वीनि करोति बार्हस्पत्यश् चरुर् ब्रह्मणो गृह इति ब्रह्म वै बृहस्पतिर् बृहस्पतिपुरोहित खलु वै राष्ट्रम् ऋध्नोति ब्रह्म वा एतत् पुरस्ताद् राष्ट्रस्यात्यौहीद् अथो ब्रह्मण एव राष्ट्रम् अनुकं करोत्य् ऐन्द्र एकादशकपालो राज्ञो गृह इतीन्द्रियं वा इन्द्र इन्द्रिय एव प्रतितिष्ठत्य् आदित्यश् चरुर् महिष्या गृह इतीयं वा अदितिर् अस्या एवैनं मात्रां गमयतीमाम् एवैनं प्रजाभ्य उपजीवनीयं करोति धेनुर् दक्षिणैतद् ध्य् अदित्या रूपं नैरृतश् चरुर् नखावपूतानां परिवृक्त्या गृह इति निरृतिगृहीता हि वा एषाथैतां परिवृञ्जन्ति निरृतिम् एव निरवदायेयं वा अनुमतिर् अस्या एवैनं मात्रां गमयतीमाम् एवैनं प्रजाभ्य उपजीवनीयं करोति श्येनी वण्डापस्फुरा दक्षिणैतद् धि निरृत्या रूपम् आग्नेयो ऽष्टाकपालः सेनान्यो गृह इत्य् अग्निर् वै सर्वा देवता देवताभिर् एवास्य सेनामुखं जित्यै संश्यति हिरण्यं दक्षिणा सत्यं वै हिरण्यं सत्येनैव जयत्य् आश्विनो द्विकपालः सङ्ग्रहीतुर् गृह इति रथरेषम् एवास्मात् तेन निरवदयते सवत्यौ दक्षिणेति सवत्या इव हि सव्यस्थसारथी रथम् अभि सावित्रो ऽष्टाकपालः क्षत्तुर् गृहे प्रसूत्यय् अथो सवितेव ह्य् एष प्रजाभ्यः प्रसुवति वारुणो यवमयो दशकपालः सूतस्य गृहे मारुतः सप्तकपालो वैश्यस्य ग्रामण्यो गृह इति सूतमुखा वै विट् क्षत्रम् उपतिष्ठते सूतमुखां वावास्मा एतद् विशं मुखतो ऽन्नाद्यायोपदधाति पौष्णश् चरुर् भागदुघस्य गृह इति पुष्टिर् वै पूषा पुष्टिम् एवास्य भागे दधाति वैष्णवस् त्रिकपालस् तक्षरथकारयोर् गृह इति विष्णुर् वै यज्ञो यज्ञ एव प्रतितिष्ठति रौद्रो गावीधुकश् चरुर् अक्षावापस्य गृहे गोविकर्तस्य चेत्य् अन्तत एवास्मात् तेन रुद्रं निरवदयते ऽथो रुद्र इव ह्य् एतौ पशू अभिमन्यते एकादश वा एतानि हवींष्य् एकादशाक्षरा त्रिष्टुब् वीर्यं त्रिष्टुब् वीर्य एव प्रतितिष्ठति नाना वा एत एतेषाम् आशिषो ऽवरुन्धते यत् सह निर्वपेयुर् अरत्निनः स्युर् ऐन्द्र एकादशकपालो राज्ञो गृह इतीन्द्रियं वा इन्द्र एकधा वा एतद् यजमाने यज्ञस्याशीः प्रतितिष्ठत्य् ऐन्द्रो हि यजमानः
॥४.३.८॥अभिमन्यते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
इन्द्रायांहोमुचा एकादशकपालं निर्वपेद् यद् एव किञ्चार्वाचीनं जनितोर् एनः करोति तत एनम् अंहोमुङ् मुञ्चतीन्द्राय सुत्राम्णा एकादशकपालं य एवोपवादी यो ऽभिदासति तत एनं सुत्रामा त्रायते ऽथैतन् मैत्राबार्हस्पत्यं सत्यं वै मित्रो ब्रह्म बृहस्पतिः सत्यं चैव ब्रह्म चालभ्य दीक्षते क्षत्रं वै मित्रो ब्रह्म बृहस्पतिः क्षत्रं चैव ब्रह्म चालभ्य दीक्षते यस्य राष्ट्रं शिथिरम् इव स्यात् तम् एतेन याजयेन् मैत्राबार्हस्पत्येन क्षत्रं वै मित्रो ब्रह्म बृहस्पतिर् ब्रह्मणि वा एतत् क्षत्रं प्रतिष्ठापयति द्रढिम्ने ऽशिथिरत्वायाथैते देवस्व एते वै देवानां सूता एते सवपतय एते सवस्येशते त एनं सुवते तस्माद् वा एतम् आहुः पूर्वेद्युर् वा एष सूयते ऽभितश् च सिच्यता इत्य् अथैष मारुत एकविंशतिकपालस् त्रिर् वै सप्तसप्त मरुतो विण् मरुतो विशो वा एतन् मध्यतः सूयते तस्माद् वा एष विशः प्रियो विशो हि मध्यतः सूयते वरुणस्य वा अभिषिच्यमानस्येन्द्रियं वीर्यम् अपाक्रामत् तत् त्रेधाभवद् भृगुस् तृतीयम् अभवच् छ्रायन्तीयं तृतीयं सरस्वतीं तृतीयं प्राविशद् यद् भार्गवो होता भवति श्रायन्तीयं ब्रह्मसामं सारस्वतीर् आपस् तद् एवेन्द्रियं वीर्यं तेज आप्नोति वाचा वा एतम् अभिषिञ्चन्ति यम् अभिषिञ्चन्ति वाक् सरस्वती सारस्वतीर् आपो यत् सारस्वतीभिः सूयते यावत्य् एव वाक् तया सूयते
॥४.३.९॥अपां वा एतानि चित्राण्य् अपां वा एतच् चित्राणि सम्भरन्त्य् अपाम् एनं चित्रैर् अभिषिञ्चन्ति चित्रम् अस्मिन् दधति तस्माद् वा एषो ऽभिषिक्तश् चित्रं राजेति श्रूयते ऽपां ह्य् एनं चित्रैर् अभिषिञ्चन्ति चित्रम् अस्मिन् दधति यथा वा इदं मधुकृतो मधु सम्भरन्त्य् एवं वा एतद् अपाम् ओषधीनां रसं सम्भरन्त्य् अपाम् एनम् ओषधीनां रसेनाभिषिञ्चन्ति रसम् अस्मिन् दधति तस्माद् वा एतम् आहुर् असी राजा पुण्या इत्य् अपां ह्य् एनम् ओषधीनां रसेनाभिषिञ्चन्ति रसम् अस्मिन् दधति वरुणसवो वा एष वारुणीर् आपो यद् अद्भिर् अभिषिञ्चति वरुणम् एवैनम् अकर् विषुवान् वै सरस्वती सारस्वतीर् आपो यत् सारस्वतीभिः सूयते विषुवान् भवति षोडश ग्रहा गृह्यन्ते षोडश होमा हूयन्ते तद् द्वात्रिंशद् द्वात्रिंशदक्षरानुष्टुब् यावत्य् एव वाक् तया सूयते
॥४.३.१०॥