चतुर्थकाण्डे चतुर्थः प्रपाठकः
चतुर्थकाण्डे चतुर्थः प्रपाठकः
प्रतीपम् अन्य ऊर्मिर् युध्यत्य् अन्वीपम् अन्यो मिथुनत्वाय यत् तस्य गृह्णाति यः प्रतीपं युध्यत्य् ओजसा वा एष वीर्येण प्रतीपं युध्यत्य् ओजसा वा एतद् वीर्येण राष्ट्र ओजो वीर्यं दधात्य् अथ यत् तस्य गृह्णाति यो ऽन्वीपम् ईरयति माहिषं तेन तोकं प्रजनयत्य् अथ यन् नदीपतेर् अपां वा एतन् मिथुनम् अपां वा एतन् मिथुनेन राष्ट्रे मिथुनं दधात्य् अथ यद् अप्रहावरीणां मध्यमेष्ठेयं तेनावरुन्द्धे ऽथ यत् परिवाहिणीनां पारेवस्यन्त्यास् तेन तोकं प्रजनयत्य् अथ या आपो ऽञ्शेरा ओजसा वा एता वीर्येणापो ऽञ्शेरा ओजसा वा एतद् वीर्येण राष्ट्र ओजो वीर्यं दधात्य् अथ यत् कूप्यानाम् उभयीस् तेनापो ऽवरुन्द्धे याश् च समुद्रिया याश् चासमुद्रिया ईश्वरा वा एतम् एता स्रोतस्या आपो ऽशान्ता निर्मृजो यत् स्थावराणां गृह्णाति शान्त्या अनिर्मार्गाय या आतपति वर्षति याश् च परिददृश्रे ता आपो ब्रह्मवर्चस्यास् ताभी राष्ट्रे ब्रह्मवर्चसं दधात्य् अथ यद् ध्रादुनीनां विशस् तेन वीर्यम् अवरुन्द्धे ऽथ यत् पुष्पाणाम् आरण्यं तेनाथ यद् उल्ब्यानां वज्रो वै पशवो वज्रा उल्ब्या वज्रेण वा एतद् राष्ट्रे वज्रं दधात्य् अथ यत् पयसः पयसा वा एतद् राष्ट्रे पयो दधात्य् अथ यद् घृतस्यैता वा आपो ऽनाधृष्यास् ताभी राष्ट्रम् अनाधृष्यं करोत्य् अथ यन् मधोर् अपां वा एष ओषधीनां रसो ऽपां वा एतद् ओषधीनां रसेन राष्ट्रे रसं दधाति षोडश वा एते ग्रहाः प्राजापत्याः समानीतः सप्तदशः प्रजापतिः सप्तदशः प्रजापतिम् एवाप्नोति
॥४.४.१॥देवीर् आपो मधुमतीः संसृज्यध्वं महि क्षत्रं क्षत्रियाय वन्वाना इत्य् एता हि क्षत्रस्य वन्त्रीर् अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीर् इत्य् एता हि क्षत्रस्य धात्रीर् अनिभृष्टम् असीत्य् अनिभृष्टं ह्य् एव राष्ट्रम् अकस् तपोजा इति तपोजा हि राष्ट्रं सोमस्य दात्रम् इति सोमस्य ह्य् एतद् दात्रं शुक्रा वः शुक्रेण पुनामि चन्द्रा वश् चन्द्रेण पुनामीत्य् आयुर् वै हिरण्यम् आयुष्या एवैना अकर् वर्चो वै हिरण्यं वर्चस्या एवैना अकर् देवो वः सविता पुनात्व् अछिद्रेण पवित्रेणेत्य् एतद् वा अछिद्रं पवित्रं यत् सूर्यस रश्मयो ऽछिद्रेणैवैनाः पवित्रेण पुनाति स्वाहा राजसूया इति राजसूया ह्य् एताः सधमादो द्युम्न्या ऊर्जा एका इति व्यानयति वारुण्या वारुणीर् ह्य् आपः स्वयैव देवतया रुद्र यत् ते गिरिपरं नामेति रुद्रम् एवास्मात् तेन निरवदयते तस्मिन् हुतम् असि यमेष्टम् असि स्वाहेति मृत्युर् वै यमो मृत्युम् एवास्मात् तेन निरवदयते सोमा इन्द्रो वरुणो मित्रो अग्निस् ते देवा धर्मधृतो धर्मं धारयन्त्व् इत्य् एते वै देवा धर्मधृतो यद् इमे प्राणा यद् एनम् एतेभ्यो ऽप्रोच्याभिषिञ्चेयुर् अपरोधुका एनं स्युर् अथ यद् एनम् एतेभ्यः प्रोच्याभिषिञ्चन्ति तथा हैनम् अनपरोधुका भवन्ति पर्णस्य वा अग्रे ऽन्ते ब्रह्म समवदन्त तद् वाव सुश्रवा यत् तद् अशृणोत् पर्णमयेनाभिषिञ्चति ब्रह्माभिषिञ्चति ब्रह्मवर्चसेनैवैनम् अभिषिञ्चत्य् अथो ब्रह्म वै ब्रह्मा ब्रह्मणैवैनं ब्रह्माभिषिञ्चत्य् आश्वत्थेन वैश्यो विशो वीर्यम् अपाक्रामत् तद् अश्वत्थं प्राविशत् स तेन वीर्येण भर्भराभवत् तद् विश एवैतेन वीर्यम् अवरुन्द्ध औदुम्बरेण भ्रातृव्य ऊर्ग् वा उदुम्बरा ऊर्जं वा एतद् अन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते यो जन्यो मित्रं स नैयग्रोधेन मित्रेण वै क्षत्रं व्यवततम् अवरोधैर् न्यग्रोधो मित्रेण वा एतत् क्षत्रं व्यवतनोति द्रढिम्ने ऽशिथिरत्वाय
॥४.४.२॥शुक्रा : फ़्न् एमेन्देद्। एद्।: श्रुक्रा। च्फ़्।२।६।८:६८।१२
स्वाहेति : फ़्न् एमेन्देद्। एद्।: स्वाहेसि।
क्षत्रस्य योनिर् असि क्षत्रस्योल्बम् असि क्षत्रस्य नाभिर् असीतीन्द्रो वै यद् अजायत तस्य वा एष योनिर् आसीद् यत् तार्प्यम् उल्बं पाण्डरं नाभिर् उष्णीषः सूतवशाया अध्यजायत सूना चतुःपद्य् ऊधर् आसीन् नीवाराः पीयूषस् तस्मान् नैवारः पुरोडाशः पञ्चाशतम् अन्यस्मिन्न् अक्षण्य् आनक्त्य् एकपञ्चाशतम् अन्यस्मिन् शतायुर् वै पुरुषः शतवीर्या आयुर् एव वीर्यम् आप्नोत्य् अप उपस्पृशत्य् अमृतं वा आपो ऽमृतेनैवैनं संरम्भयत्य् आवित्तो अग्निर् गृहपतिर् इति गार्हपत्यायैवैनम् आवेदयत्य् आवित्ता इन्द्रो वृद्धश्रवा इतीन्द्रियं वा इन्द्र इन्द्रियायैवैनम् आवेदयत्य् आवित्तौ मित्रावरुणौ धृतव्रता इत्य् अहोरात्रे वै मित्रावरुणव् अहोरात्राभ्याम् एवैनम् आवेदयत्य् आवित्ते द्यावापृथिवी ऋतावृधा इति द्यावापृथिवीभ्याम् एवैनम् आवेदयत्य् आवित्तः पूषा विश्ववेदा इति पशवो वै पूषा पशुभ्य एवैनम् आवेदयत्य् आवित्ता देव्य् अदितिर् इत्य् आदित्या वा इमाः प्रजास् ताभ्य एवैनम् आवेदयत्य् आवित्तो ऽयम् असा आमुष्यायणो ऽमुष्याः पुत्रो ऽमुष्यां विशीति विश एवैनम् आवेदयति तस्माद् वा एष विशः प्रियो विशे ह्य् एनम् आवेदयत्य् एष ते जनते राजेति जनताया एवैनम् आवेदयति सोमो ऽस्माकं ब्राह्मणानां राजेति ब्रह्मोद्धरति सर्वेभ्य एवैनम् अन्येभ्यो भूतेभ्य आवेदयति ब्रह्मोद्धरति तस्माद् आहुर् ब्रह्मोद्धृतम् इति ब्रह्म ह्य् उद्धरतीन्द्रस्य वर्जो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्याद् इति धनुः प्रयच्छति वज्रो वै धनुर् वज्रो राजन्यो वज्रेणैव वज्रं समर्धयति शत्रुबाधनाः स्थेति बाणवतो ऽन्तो वै बाणवन्तो ऽन्तो राजन्यो ऽन्तेनैवान्तं समर्धयति त्रीन् प्रयच्छति तिस्रो वै शरव्या दिव्या पार्थिवा समुद्रिया ता अस्माद् योयाव पात प्राञ्चं पात प्रत्यञ्चं पात तिर्यञ्चं पातान्वञ्चं पातोर्धं दिग्भ्य एनं पातेति दिग्भ्य एनं पान्ति मित्रो ऽसीतीमम् अभिमन्त्रयते मित्रस्य ह्य् एतद् रूपं वरुणो ऽसीतीमं वरुणस्य ह्य् एतद् रूपं हिरण्यवर्णम् उषसो व्युष्टा इत्य् उद्वता अभिमन्त्रयेतोर्ध्वबाहुं तिष्ठन्तम् अभिषिञ्चति बृहत् साम भवति स्वर्गम् एवैनं लोकम् अभिसन्तनोति
॥४.४.३॥रूपं : ⟨ रूपम्
रूपं : फ़्न् एमेन्देद्। एद्।: रपम्।
ऊर्ध्वबाहुं : फ़्न् एमेन्देद्। एद्।: ऊर्ध्वबाहुस्। धर्मधिकरि, प्।४८५
दिश एनं व्यास्थापयति वज्रेण वा एतद् इमा दिशो ऽभिजयति तस्माद् वा एतस्य सर्वा दिशो ऽभिजिता यांयाम् अभिपर्यावर्तते दिशो वै स्वर्गो लोक एतद्देवत्या वा इमा दिशो यथादेवतं वा एतद् आभ्यो दिग्भ्यो ऽधि स्वर्गं लोकम् एति सोमस्य त्विषिर् असि त्विषिमत् तवेव मे त्विषिर् भूयाद् इति व्याघ्रचर्मं विवेष्टयति सोमे वा एका त्विषिर् व्याघ्र एका सर्प एका ता एवावरुन्द्धे प्रत्यस्तं नमुचेः शिरा इति सीसं पण्डगाय प्रत्यस्यति पाप्मा वै नमुचेः शिरः पाप्मानं वावास्मा एतत् प्रत्यस्यति स्वर्गं लोकम् अभ्यारोहन्न् अवेष्टा दन्दशूका इति लोहितायसं केशवापाय दन्दशूकान् एवास्मात् तेन निरवदयते तस्माद् वा एतस्य नाभिचारो ऽस्ति यावन्तो हि मृत्यवस् तान् अस्मान् निरवदयते मृत्योः पाहीति रजतं रुक्मम् अधस्ताद् उपोहते मृत्योर् वा एतद् रूपं यद् व्याघ्रो ऽमृतं हिरण्यम् अमृतेनैव मृत्युम् अन्तर्धत्ते दिदिवः पाहीति हरितं रुक्मम् उपरिष्टाद् अध्यूहते दिव्याया एवैनम् अशन्या योयावेयं वै रजतासौ हरिण्य् आभ्याम् एवैनं परिगृह्यायुर् वै हिरण्यम् आयुष्या एवैनम् अभ्यतिक्षरन्ति वर्चो वै हिरण्यं वर्चस्या एवैनम् अभ्यतिक्षरन्ति वरुणस्य वा अभिषिच्यमानस्याप इन्द्रियं वीर्यं निरघ्नन् यद् रुक्मम् अन्तर्दधातीन्द्रियस्य वीर्यस्यानिर्घाताय शतमानो भवति शतक्षरः शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति
॥४.४.४॥अथैतानि पार्थानि संवत्सरो वै पार्थानि संवत्सरं वा एतन् मध्यतः प्रविशति तस्माद् वा एष दुःपराणोदः संवत्सरं हि मध्यतः प्रविशति गिरी वा एतौ राजसूयस्य बार्हस्पत्यम् अन्येषाम् उत्तमं भवत्य् ऐन्द्रम् अन्येषां प्रथमं वीर्यं वै बृहस्पतिर् वीर्यम् इन्द्रो वीर्य एवैनम् अभिसन्धत्त आदित्यनामानि वा एतान्य् आदित्या वा इमाः प्रजास् ताभ्य एव सूयते सोमस्य त्वा द्युम्नेनाग्नेस् तेजसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामीत्य् एतैर् एवैनम् इन्द्रियैर् एताभिर् देवताभिर् अभिषिञ्चतीन्द्रस्य योनिर् असि जनयेत्य् अतो वा अधीन्द्रो ऽजायत स्वाद् एवैनं योनेर् जनयत्य् अति द्यून् पाहीत्य् आह स्वर्गस्य लोकस्य समष्ट्यै समाववृत्रन्न् अधराग् उदक् ता इति समुन्मार्ष्टीन्द्रियं वा एतद् वीर्यम् अभिषिच्यमानस्य व्यवैति तद् एव समुन्मार्ष्टि तेनैनं समर्धयत्य् ऐन्द्र्या त्रिष्टुभा ब्रह्मान्वेत्य् ऐन्द्रो वै राजन्यस् त्रिष्टुप्छन्दाः स्वेनैवैनं छन्दसान्वेत्य् अथो प्रजापतिर् वै ब्रह्मा यज्ञस्य प्रजापतेर् अधीन्द्रो ऽसूयत प्रजापतेर् एवाधि सूयत इन्द्रस्य वज्रो ऽसि वाजसनिस् त्वयायं वाजं सेद् इति रथम् उपावहरति स्वयैव देवतया मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मीति युनक्ति स्वयैव देवतया विष्णोः क्रमो ऽसि सपत्नहेति रथम् अभ्यातिष्ठत्य् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते मरुतां प्रसवे जयेति मारुत एव गणो भूत्वोज्जयति राजन्यं जिनात्य् अन्तम् एवाक्रमीत् तद् अस्य न कश्चनाज्येय उञ्शिष्यते तस्मै ताम् इषुम् अस्यति तद् अस्यामोघायास्तम् अभूद् आप्तं मनः सम् इन्द्रियेणेत्य् उक्त्वा वर्तते ऽन्तम् एव गत्वावर्तत आत्मनो ऽहिंसायय् एष वज्रो वाजसातमस् तेन नौ पुत्रो वाजं सेद् इति पत्न्यै धन्वार्तिं प्रयछत्य् एष वै पत्न्या यज्ञस्यान्वारम्भः सह स्वर्गे लोके भवतः
॥४.४.५॥इयद् अस्य् आयुर् अस्य् आयुर् मे धेहीत्य् आयुर् एवास्मिन् दधाति युङ्ङ् असि वर्चो ऽसि वर्चो मे धेहीति वर्च एवास्मिन् दधात्य् ऊर्ग् अस्य् ऊर्जं मयि धेहीतीयं वै रजतासौ हरिणीमे एवालभ्योर्ग् वा उदुम्बर ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च मित्रो ऽसीतीमम् उपावहरति मित्रस्य ह्य् एतद् रूपं वरुणो ऽसीतीमं वरुणस्य ह्य् एतद् रूपं सद् असि सम् अहं विश्वैर् देवैर् इति हस्ता आमिक्षाम् अभ्यवहरति सद् वा आमिक्षा सद् एवाभ्यवहरति तत्र ते हिरण्ये ददाति सा दक्षिणा हिनस्ति खलु वा एष पशून् पृथिवीम् अभ्यवरोहन् नमो मात्रे पृथिव्या इति वाराही उपानहा अभ्यवरोहत्य् आरण्यान् एव पशून् अभ्यवरोहति वराहस् त्व् एवैतं सग्धुम् अर्हति तद् वराह एवैनं सघ्नोति प्रति त्यन् नाम राज्यम् अधायि स्वां तन्वं वरुणो ऽसुषोद् इति वरुणसवो वा एष वरुणायैवैनं प्राह नि त्रितो जरिमाणं न आनड् इति जरिमाणम् एवास्मिन् युनक्ति स्योनासि सुषदेति स्योना ह्य् एषा सुषदा स्योनाम् आसीद सुषदाम् आसीदेति सुषदैवैनं सादयति ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥ इति वरुणसवो वा एष वरुणम् एवैनम् अकर् अग्नये स्वाहा सोमाय स्वाहेन्द्रस्यौजसे स्वाहा मरुतां बलाय स्वाहेति रथविमोचनीयं जुहोति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते हंसः शुचिषद् वसुर् अन्तरिक्षसद् इति रथं वा एतत् परिवदति सह सारथिना रथवाहने रथम् आदधति सर्वत्वायैव प्रसवाय ब्रह्मा३ंस् त्वं ब्रह्मासीति किम् अभूं किम् अभूम् इति वा एतद् आह सवितासि सत्यसवा इतीदम् असीदम् असीति वावैनम् एतद् आह यद्यद् भवत्य् एष वज्रस् तेन मे रध्येति स्फ्यं प्रयछति वज्रो वै स्फ्यो वज्रेण वा एतद् राष्ट्रं रन्धयते तम् अवरस्परं प्रयछति तेनावरस्परं राष्ट्रं रन्धयमाण एति तस्माद् वा एत एतस्मा अवरस्परं रद्धा बलिं हरन्ति तेन स्फ्येनाधिदेवनं कुर्वन्ति तत्र पष्ठौहीं विदीव्यन्त आशां वा एष उपाभिषिञ्चत आशा पष्ठौह्य् आशाम् एवास्मा अकस् ततश् चतुःशतम् अक्षाण् अवोह्याह ॥
उद्भिन्नं राज्ञः ॥ इति चत्वारो वै पुरुषा ब्राह्मणो राजन्यो वैश्यः शूद्रस् तेषाम् एवैनम् उद्भेदयति ततः पञ्चाक्षान् प्रयछन्न् आह दिशो अभ्यभूद् अयम् इतीमा एवास्मै पञ्च दिशो ऽन्नाद्याय प्रयछति क्षेत्रं ददाति तेन क्षेत्रे धृतो भवति वरं वृणीते सो ऽस्मै कामः समृध्यते यत्कामो भवति मङ्गल्यनाम्नो ह्वयति यत् पूर्वं व्याहार्षं तन् नेन् मोघम् असद् इत्य् असा अमुष्य पुत्रो ऽमुष्यासौ पुत्र इति नामनी व्यतिषजति स्वर्गस्य लोकस्य समष्ट्यै
॥४.४.६॥समानो वा एष यज्ञक्रतुः संवत्सरं भवति वि वा एतद् दशपेयश् छिद्यते यद् अवभृथम् अवयन्ति यद् अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहेति जुह्वत आयन्ति यज्ञस्य सन्तत्या अविछेदाय यज्ञो वै देवेभ्यस् तिरो ऽभवत् तं देवाः संसृप्स्व् अन्वैछन् यत् सावित्रः सवितृप्रसूता एवान्वैछन् यत् सारस्वतो वाग् वै सरस्वती वाच्य् एवान्वैछन् यत् पौष्णः पशवो वै पूषा पशुष्व् एवान्वैछन् यद् बार्हस्पत्यो ब्रह्म वै बृहस्पतिर् ब्रह्मण्य् एवान्वैछन् यद् ऐन्द्र इन्द्रियं वा इन्द्र इन्द्रिय एवान्वैछन् यद् वारुणो वरुण एवान्वैछन् यत् त्वाष्ट्रः संवत्सरो वै त्वष्टा संवत्सर एवान्वैछन् यद् आग्नेयो ऽग्निर् वै सर्वा देवता देवतास्व् एवान्वैछन् यत् सौम्यः सौमीर् वा ओषधय ओषधीष्व् एवान्वैछन् यद् वैष्णवो विष्णुर् वै यज्ञो यज्ञ एवान्वैछंस् तं विष्णा अविन्दन् दशमे तस्माद् एष दशमो दशमे ह्य् अविन्दन् दश चमसा दश चमसाध्वर्यवो दशदश चमसान् अभिता आ दशमात् पुरुषाद् अन्वाचष्टे समृद्ध्यै दशसमृद्धो ह्य् एष यज्ञ एतं वै ते तद् यज्ञम् अन्वैछंस् त आर्ध्नुवंस् तद् य एतेन यजत ऋध्नोति सप्तदशः सर्वो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोत्य् उत्सन्नयज्ञो वा एष संवत्सराद् वा अध्य् उत्सन्नयज्ञो ऽवरुध्यते संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्ध इन्द्रो वै वृत्रम् अहंस् तस्येमे रूपाण्य् उपैतां चित्राणीयम् नक्षत्राण्य् असौ नक्षत्राणां वा अवकाशे पुण्डरीकं जायते क्षत्रस्य वा एतद् रूपं क्षत्रस्यैव रूपं प्रतिमुञ्चते द्वादशपुण्डरीका भवन्ति द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे
॥४.४.७॥रूपं : फ़्न् एमेन्देद्। एद्।: रपम्।
रुक्मो होतुर् आग्नेयो वै होता न वा एतस्मै व्युछति व्य् एवास्मै वासयति स्रग् उद्गातुः सौर्यो वा उद्गाताथो अमुम् एवास्मा आदित्यम् आप्त्वोन्नयति प्रावेपा अध्वर्योर् यमा इव ह्य् अध्वर्युः ॥
अश्वः प्रस्तोतुः प्राजापत्यो वा अश्वः प्राजापत्यः प्रस्तोताथो प्रेव ह्य् एष प्रोथति प्रेव प्रस्तोता धेनुः प्रतिहर्तुः प्रतीवा ह्य् एषा हरति प्रतीव प्रतिहर्ता वशा मैत्रावरुणस्य वशं मा नयाद् इत्य् ऋषभो ब्राह्मणाञ्शंसिनः सेन्द्रियत्वाय वासः पोतुः पवित्रत्वायानड्वान् नेष्टुर् अग्नीधो ऽन्यो युक्त्या एव स्थूरि यवाचितम् अछावाकस्य स्थूरीर् इव ह्य् एषा होत्रा स्वर्ग्या यद् अछावाक्याथो निर्वरुणत्वायैव यवा न वा अस्यै तर्हि सदस्येभ्यो दक्षिणा दीयन्ते त एवास्यै तेनाभीष्टाः प्रीता भवन्ति द्वादश पष्ठौहीर् गर्भिणीर् ब्रह्मणो वाग् वै धेनुर् गर्भो मन्त्रो वाच्य् एवास्य मन्त्रं दधात्य् आमन्त्रणीयो ह भवति धेनुम्भव्या भवन्ति द्वादश वै पयांसि तान्य् अस्मिन् दधाति तस्माद् वा एतम् आहुः पयस्वी राजा पुण्या इति यावद् धि पयस् तद् अस्मिन् धीयते
॥४.४.८॥श्रायन्तीयं ब्रह्मसामं भवत्य् अनुष्टुप्सु यज्ञायज्ञियं प्रोहन्ति वारवन्तीयम् अग्निष्टोमसामम् इन्द्रो वै वृत्रम् अहन् स ओजसा वीर्येण व्यार्ध्यत स एतत् सामापश्यत् तेनात्मानं समश्रयतौजसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते तद् एतेनैवात्मानं संश्रयते ब्रह्म वै यद् अग्रे व्यभवद् ऋक् साम यजुस् तस्य वा एष रसो यद् यज्ञायज्ञियं यद् यज्ञायज्ञियं गायते ब्रह्मण्य् एव रसं दधाति वाचा वा एष व्यृध्यते यो राजसूयेनाभिषिञ्चते वाग् अनुष्टुब् यद् अनुष्टुप्सु यज्ञायज्ञियं भवति वाच्य् एवास्य रसं दधातीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चत इन्द्रियं वीर्यं वारवन्तीयं यद् वारवन्तीयम् अग्निष्टोमसामं भवतीन्द्रियस्य वीर्यस्यावरुद्ध्यय् अश्रयन् वाव श्रायन्तीयेनावारयन्त वारवन्तीयेन तद् इन्द्रियस्यैवैते वीर्यस्य परिगृहीत्यै यत्र वा एनम् अदो दिशो व्यास्थापयति तत् स्वर्गं लोकम् अभ्यारोहति यद् इमं लोकं पुनर् नोपावरोहेद् अतिजनं वा गछेद् उद् वा माद्येद् यद् एता दिशाम् अवेष्टय इमं वा एतल् लोकं पुनर् उपावरोहत्य् अन्नकामो यजेतैतद्देवत्या वा इमा दिशो यथादेवतं वा एतद् आभ्यो दिग्भ्यो ऽध्य् अन्नाद्यम् अवरुन्द्धे यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेद् यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रम् एकधैवास्मिन्न् अन्नाद्यं प्रतिष्ठापयति समानो वा एष यज्ञक्रतुः संवत्सरं भवति वि वा एतद् यज्ञश् छिद्यते यत् सन्तिष्ठते यद् एताः प्रयुज उपैति सायम् अन्याः प्रातर् अन्या द्वौ वा ऋतू अहश् च रात्रिश् च ता एव प्रयुङ्क्ते षड् अन्याः षड् अन्याः षड् वा ऋतव ऋतून् एव प्रयुङ्क्ते ता उभयीर् द्वादश द्वादश मासाः संवत्सरः संवत्सरम् एव प्रयुङ्क्ते ऽनड्वाहौ दक्षिणा युक्त्या एव मारुती पृश्निः पष्ठौही गर्भिणीति विड् वै मरुतो विशो वा एनम् एतद् गर्भं करोति तस्माद् वा एष विशः प्रियः प्रियो हि गर्भ आदित्याजा मलिहा गर्भिणीतीयं वा अदितिर् अस्या वा एनम् एतद् गर्भं करोति तस्माद् वा एष दुःपराणोदो ऽस्या हि गर्भो ऽथैते सत्यदूताः प्रसवाय सावित्रो देवा असुरैर् विजयम् उपयन्तो ऽश्विनोः पूषणि सत्यं न्यदधत वाग् वै सरस्वती वाचा सत्यं प्रहिणोति ॥
एतल् : फ़्न् एमेन्देद्। एद्।: एतं
अभ्यषिक्षि राजाभूम् ॥ इति श्रद् धास्मै सुषुवाणाय दधति संवत्सरम् अग्निहोत्रं जुहोत्य् अनुसन्तत्यै
॥४.४.९॥अग्निष्टोमम् अग्रे ज्योतिष्टोमम् आहरति यज्ञमुखं वा अग्निष्टोमो यज्ञमुखम् एवालभ्य सवम् आक्रमते ऽथैष त्रिष्टोमस् तस्य त्रिवृत् प्रातःसवनं पञ्चदशं माध्यन्दिनं सवनं तेजो वै त्रिवृत् क्षत्रं पञ्चदशस् तेज एवास्य क्षत्रे दधाति न वा अत्रापि सप्तदशस् तायते प्रजापतिर् वै सप्तदशो यज्ञः प्रजापतिर् यद् यज्ञस् तायते तेन सप्तदशो ऽनन्तरितः पञ्चदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनम् इति विड् वा एकविंशः क्षत्रं पञ्चदशो विशि वावास्यैतत् क्षत्रं प्रतिष्ठापयाम् अकः सर्वे चतुस्त्रिंशाः पवमाना अभिषेचनीयस्य त्रयस्त्रिंशद् देवतास् ता एवास्यैतेनाभीष्टाः प्रीता भवन्त्य् अथ य एष चतुस्त्रिंशः प्रजापतिर् वै चतुस्त्रिंशः प्रजापतिम् एवाप्नोति संशरो वा एष स्तोमानाम् अयथापूर्वं यद् विषमाः स्तोमा यत् समाः पवमानास् तेनैवासंशरस् तेन यथापूर्वम् आत्मना वा अग्निष्टोमेन ऋध्नोत्य् आत्मना पुण्यो भवति प्रजा वा उक्थानि पशव उक्थानि यद् उक्थ्यो ऽनुसन्तत्यै यो वै सवाद् एति नैनं सव उपनमति यः सामभ्या एति पापीयान्त् सुषुवाणो भवति यानि देवराजानां सामानि यत् तेभ्यो नैति तेनैव सवान् नैत्य् एतानि वै सामानि यत् पृष्ठानि यत् पृष्ठान्य् उपयन्ति तेनैव सामभ्यो नैति यानि देवराजानां सामानि तैर् अस्मिंल् लोक ऋध्नोति यानि मनुष्यराजानांस् तैर् अमुष्मिंस् तद् उभयोर् एवैतैर् लोकयोर् ऋध्नोत्य् अस्मिंश् चामुष्मिंश् चोद्वतीषु स्रुवत उद्वद् वा अनुष्टुभो रूपम् आनुष्टुभो राजन्यस् तस्माद् उद्वतीषु स्रुवते ऽनुष्टुप् प्रथमा भवत्य् अनुष्टुब् उत्तमा वाग् वा अनुष्टुब् वाचा वा एतत् प्रयन्ति वाचोद्यन्ति सौर्य् अनुष्टुब् उत्तमा भवति स्वर्गस्य लोकस्य समष्ट्यय् एकविंशं केशवपनीयस्य बहिष्पवमानम् एकविंशम् अभिषेचनीयस्योत्तमम् इति विड् वा एकविंशः क्षत्रं सप्तदशो विशो वा एतन् मध्यतः सूयते तस्माद् वा एष विशः प्रियो विशो हि मध्यतः सूयते यत्र वा एनम् अदो दिशो व्यास्थापयति तत् स्वर्गं लोकम् अभ्यारोहति यद् इमं लोकं पुनर् नोपावरोहेद् अतिजनं वा गछेद् उद् वा माद्येद् यद् एष प्रतीचीनस्तोम इमं वा एतल् लोकं पुनर् उपावरोहति
॥४.४.१०॥