चतुर्थकाण्डे प्रथमः प्रपाठकः
चतुर्थकाण्डे प्रथमः प्रपाठकः
प्रतीचीं शाखाम् उपगूहति तस्माद् ग्राम्याः पशवः सायम् अरण्याद् ग्रामम् आयन्ति प्रत्यञ्च एनं पशवो भवन्ति य एवं वेद
॥४.१.१॥देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददा इति सवितृप्रसूत एवैनां देवताभिर् आदत्ते प्रजापतिर् वा ओषधीः परुश्शो वेद प्राजापत्यो ऽश्वो यद् अश्वपरश्वा बर्हिर् दात्य् ओषधीनाम् अहिंसायै गोषद् असीति रयिं यजमाने दधाति प्रत्युष्टं रक्षा इति रक्षसाम् अपहत्यै प्रेयम् अगाद् धिषणा बर्हिर् अछेति विद्या वै धिषणा विद्ययैवैनद् अछैति मनुना कृता स्वधया वितष्टेति मनुना ह्य् एषा कृता स्वधया वितष्टा तयावहन्ते कवयः पुरस्ताद् इति ब्राह्मणाः कवय ऋषयः कवयः ॥
तयावहन्ते : फ़्न् एमेन्देद्। एद्।: तया वहन्ते। च्फ़्। म्स्।१।१।२:१।७।
देवेभ्यो जुष्टम् इह बर्हिर् आसदे ॥ इति देवेभ्य एवैनं जुष्टं करोति देवानां परिषूतम् असीति यद् वा इदं किञ्च तद् देवानां परिषूतं यथा श्रेयसे प्रोच्य कर्म करोत्य् एवं वा एतद् देवेभ्यः प्रोच्य बर्हिर् दाति यावत् परिदिशति तत् सर्वं दाति यत् तत् सर्वं न दाति यज्ञस्य तद् अतिरेचयति यद् वै यज्ञस्यातिरिच्यते भ्रातृव्यं तेन वर्धयत्य् एकं स्तम्बं परिदिशति तं सर्वं दाति यज्ञस्यानतिरेचाय विष्णोः स्तुप इति विष्णोर् वै स्तुपो ऽछिद्यत स पृथिवीं प्राविशद् यत् प्रथमं नोत्सृजेद् आर्तिम् आर्छेद् देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर् देवसदनं दामीति सवितृप्रसूत एवैनद् देवताभिर् दाति ॥
माधो मोपरि परुस्त ऋध्यासम् ॥ इत्य् ओषधीनाम् अहिंषायै ॥
आछेत्ता ते मार्षम् ॥ इति यावद्यावद् एवम् अविद्वान् अध्वर्युर् बर्हिर् दाति तावद् अस्यात्मनो मीयते नास्यात्मनो मीयते य एवं वेदातस् त्वं ब्र्हिः शतवल्शं विरोहेत्य् ओषधीष्व् एव भूमानं दधाति सहस्रवल्शा वि वयं रुहेमेत्य् आशिषम् एवाशास्ते ऽदित्या रास्नासीतीयं वा अदितिर् अस्या एवैनद् रास्नां करोतीन्द्राण्याः सन्नहनम् इतीन्द्राणी वा अग्रे देवतानां समनह्यता ऋद्धिकामा सार्ध्नोद् ऋद्ध्यय् ऋध्नोति य एवं वेद बर्हिः सन्नह्यति प्रजा वै बर्हिः प्रजानां सन्तत्यै प्रजानाम् अपरावापाय तस्मात् स्नाव्ना प्रजाः सन्तताः पूषा ते ग्रन्थिं ग्रथ्नात्व् इति पुष्टिर् वै पूषा पुष्टिं यजमाने दधाति स ते मा स्थाद् इति यजमानस्याहिंसायै ॥
सहस्रवल्शा : फ़्न् एमेन्देद्। एद्।: सहस्रवलिशा। च्फ़्। म्स्।१।१।२:२।१।
आपस् त्वाम् अश्विनौ त्वाम् ऋषयः सप्त मामृजुः ।
बर्हिः सूर्यस्य रश्मिभिर् उषसां केतुम् आरभे ॥ इति अश्विनौ वै देवानां भिषजौ ता एनद् भिषज्यत इन्द्रस्य त्वा बाहुभ्याम् उद्यछा इतीन्द्रस्यैवैनद् बाहुभ्याम् उद्यछते बृहस्पतेर् मूर्ध्नाहरामीति ब्रह्म वै बृहस्पतिर् ब्रह्मणैवैनद् धरत्य् उर्व् अन्तरिक्षम् इति समिष्ठ्या एवादित्यास् त्वा पृष्ठे सादयामीतीयं वा अदितिर् अस्याम् एवैनद् असीषदत् ॥
बर्हिर् असि देवङ्गमम् ॥ इत्य् आसन्नम् अभिमन्त्रयते बहु वा एतस्य पूर्वेद्युर् आह्रियमाणस्येह चेह च स्कन्दत्य् अस्कन्नम् एनद् देवताभ्यः सम्प्रादाद् यजमानस्याहिंसायै
॥४.१.२॥पूर्वेद्युर् इध्मा बर्हिः कुर्वन्ति यज्ञम् एवारभ्योपवसति प्रजापतिः प्रजा असृजत तस्योखे अस्रंसेतां स एताभ्याम् उखाभ्यां प्रत्यधत्त यद् एते उखे भवतः प्रजापतेर् एवोखे प्रतिदधाति शुन्धध्वं दैव्याय कर्मणा इति देवेभ्य एवैनानि शुन्धति वसूनां पवित्रम् असीति वसूनां वा एतद् भागधेयं तेभ्य एवैनत् करोति पवित्रम् अपिदधात्य् ओषधीनां च पशूनां च पयः संसृजति वाचं यछति यज्ञस्य धृत्यै धारयन्न् आस्ते धारयन्त इव हि दुहन्ति द्यौर् असि पृथिव्य् असीत्य् आभ्याम् एवैनां प्रवृणक्ति मातरिश्वनो घर्म इत्य् अन्तरिक्षं वै मातरिश्वनो घर्मो ऽन्तरिक्षस्य धृत्यै काम् अधुक्षः सा विश्वायुः सा विश्वभूः सा विश्वकर्मेत्य् असौ वाव विश्वायुर् अन्तरिक्षं विश्वभूर् इयं विश्वकर्मेमान् वा एतल् लोकान् यथापूर्वं प्रदापयत इमांल् लोकान् यथापूर्वं प्रत्तान् दुहे य एवं वेद तिस्रो यजुषाभिमन्त्रयते त्रयो वा इमे लोका एषु वा एतल् लोकेषु रसं दधाति तस्माद् इमांल् लोकान् प्रजा उपजीवन्ति हुतः स्तोको हुतो द्रप्स इत्य् अभिमन्त्रयते अस्कन्दाय ॥
एतल् : फ़्न् एमेन्देद्। एद्।: एतं
इन्द्राय देवेभ्यो हविर् बहु दुग्धि ॥ इति त्रिर् उद्वदति त्रिषत्या हि देवा न दारुपात्रेण दुह्याद् अग्निमद् वै दारुपात्रं यातयामेन हविषा यजेत तद् ध स्माहुर् दात्रेयाः पुरोडाशमुखं हविर् न वा इतैतः पुरोडाशं हविषो यामो ऽस्ति दोग्धव्यम् एवेति न शूद्रो दुह्याद् असतो वा एष सम्भूतो ऽसन्त् स्याद् यद् वै पवित्रम् अत्येति तद् धविर् अग्निहोत्रम् एव शूद्रो न दुह्यात् तद् धि नोत्पुनन्ति ॥
सम्पृच्यध्वम् ऋतावरीर् ऊर्मिणा मधुमत्तमाः ।
पृञ्चतीः पयसा पयो मन्द्रा धनस्य सातये ॥
इति प्रतिनयति शृतत्वाय शृतकामा हि देवा इन्द्राय त्वा भागं सोमेनातनच्मीति सोमम् एवैनत् करोति तस्य ह त्वै सोमपीथः सन्ततो य एवं विद्वान्त् सान्नाय्यं पिबति ॥
अदस्तम् असि विष्णवे त्वा ॥ इति यज्ञो वै विष्णुर् यज्ञायैवैनद् अदस्तं करोति विष्णो हव्यं रक्षस्वेति यथाहैष ते भागस् तं रक्षस्वेत्य् एवं वा एतद् विष्णुम् आहैतत् ते हव्यं तद् रक्षस्वेति न मृत्पात्रेणापिदध्यात् पितृदेवत्यं हविः स्याद् दारुपात्रेणापिदध्याद् अग्निमद् वै दारुपात्रम् अग्निर् एव हव्यं रक्षत्य् उदन्वत् कार्यम् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति रक्षसाम् अपहत्यै
॥४.१.३॥यो वै श्रद्धाम् अनालभ्य यजते नास्य देवमनुष्या इष्टाय श्रद्दधत्य् अपः प्रणयत्य् आपो वै श्रद्धा श्रद्धाम् एवालभ्य यजत आपो यज्ञो यज्ञं तत्वा प्रचरत्य् आपो देवानां प्रियं धाम देवानां प्रियं धाम प्रणीय प्रचरत्य् आपः सत्यं सत्यम् एवालभ्य यजत आपो रक्षोघ्नीर् रक्षसाम् अपहत्यय् आपो वज्रो वज्रं भ्रातृव्याय प्रहरति स्तृत्यय् आपः श्रद्धा श्रद् धास्य देवाः श्रन् मनुष्या इष्टाय दधते यस्यैवं विदुष एवं विद्वान् अपः प्राणयति देवीर् आपो ऽग्रेगुवा इति यज्ञम् एव प्रणयति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददा इति सवितृप्रसूत एवैनद् देवताभिर् आदत्त उर्व् अन्तरिक्षम् इति समिष्ट्या एव प्रत्युष्टं रक्षा इति रक्षसाम् अपहत्यै धूर् असि ध्वर ध्वरन्तम् इति धुर्यो वै नामैषो ऽग्निर् यद् अनालभ्यातीयाद् यजमानं शुचार्पयेद् द्वौ वाव पुरुषस्य भ्रातृव्यौ यं द्वेष्टि यश् चैनं द्वेष्टि ता एव शुचार्पयति
॥४.१.४॥देवानाम् असि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् इति देवेभ्य एवैनद् वह्नितमं सस्नितमं पिप्रितमं जुष्टतमं देवहूतमं करोत्य् अह्रुतम् असि हविर्धानं दृंहस्व मा ह्वार् इति दृंहत्य् एवैनद् विष्णोः क्रमो ऽस्य् उरु वातायेति यद् वै किञ्च वातो नाभिवाति तद् वरुणस्यावरुण्यम् एवैनत् करोति मित्रस्य वश् चक्षुषा प्रेक्षा इति मित्रम् एवैनान् कुरुते ॥
ऊर्जं गृह्णीत ॥ इत्य् ऊर्जं यजमाने दधाति ॥
प्रभूत्यै वः ॥ इति प्रैवैनान् भावयति देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां यछन्तु पञ्च गोपीथाय वो नारातये ऽग्नये वो जुष्टान् निर्वपामीति सवितृप्रसूत एवैनान् देवताभिर् निर्वपति यछन्तु पञ्चेति पञ्च वा ऋतव ऋतून् वा एतत् प्रीणाति ते ऽस्मै प्रीताः कल्पन्ते गोपीथाय वो नारातया इति रक्षसाम् अपहत्यय् अग्नये वो जुष्टान् इत्य् अग्नय एवैनान् जुष्टान् करोत्य् अथो यस्यै देवतायै निर्वपति तस्या एनान् जुष्टान् करोतीदं देवानाम् इदम् उ नः सहेति व्यावृत्त्यै दृंहन्तां दुर्या इति हविषो गृहीताद् इमे लोका उदवेपन्त तान् देवा एतेन यजुषादृंहन् यद् एतद् यजुर् वेदत्य् एषां लोकानां धृत्यै निर् वरुणस्य पाशाद् अमुक्षीति वरुणपाशाद् एव निर्मुच्यत आत्मनो ऽहिंसायै स्वर् अभिव्यक्शम् इति तम इव वा एष प्रपद्यते परीणहं स्वर् एवाभिविपश्यति ज्योतिर् वैश्वानरम् इत्य् असौ वा आदित्यो ज्योतिर् वैश्वानरम् ॥
उर्व् अन्तरिक्षम् अन्वेमि ॥ इति यद् वीहीति ब्रूयाद् व्यायुको ऽध्वर्युः स्यात् ॥
उर्व् अन्तरिक्षम् अन्वेमि ॥ इत्य् अव्यायुको ऽध्वर्युर् भवत्य् अदित्या व उपस्थे सादयामीतीयं वा अदितिर् अस्याम् एवैनान् असीषदत् ॥
अग्ने हव्यं रक्षस्व ॥ इति पुर उपसादयत्य् अग्निर् एव हव्यं रक्षते
॥४.१.५॥विष्णोर् मनसा पूते स्थः ॥ इति यज्ञो वै विष्णुर् यज्ञायैवैने पुनाति देवो वः सवितोत्पुनात्व् इति सवितृप्रसूत एवैना उत्पुनात्य् अग्नये वो जुष्टान् इत्य् अग्नय एवैनान् जुष्टान् करोत्य् अथो यस्यै देवतायै प्रोक्षति तस्या एनान् जुष्टान् करोति यद् वो ऽशुद्ध आलेभे तञ् शुन्धध्वम् इति शुन्धत्य् एवैनान्य् अदित्यास् त्वग् असीतीयं वा अदितिर् अस्या एवैनत् त्वचं करोत्य् अवधूतं रक्षा इति रक्षसाम् अपहत्यै प्रतीचीनग्रीवं कृष्णाजिनम् उपस्तृणाति तस्मात् प्रत्यञ्चः पशवो मेधम् उपतिष्ठन्ते पृथुग्रावासि वानस्पत्य इति ग्रावाणम् एवैनत् करोत्य् अग्नेर् जिह्वासि वाचो विसर्जनम् इत्य् अग्नेर् ह्य् एषा जिह्वा वाचो विसर्जनं यदा हि पशवा ओषधीनाम् अश्नन्त्य् अथ वाचं विसृजन्त आयुषे वा इत्य् आयुर् यजमाने दधाति बृहद्ग्रावासि वानस्पत्य इति ग्रावाणम् एवैनत् करोति देवेभ्यो हव्यं शमीष्वेति देवेभ्य एवैनत् करोति ॥
अपहतं रक्षः ॥ इति रक्षसाम् अपहत्यै ॥
हविष्कृद् एहि ॥ इति यो देवानां हविष्कृत् तं ह्वयति त्रिर् ह्वयति त्रिषत्या हि देवा मनोर् वै श्रद्धादेवस्य यजमानस्यासुरघ्नी वाग् यज्ञायुधानि प्रविष्टासीत् तस्या वदन्त्या यावन्तो ऽसुरा उपाशृण्वंस् तावन्तस् तद् अहर् नाभवन्न् एवं विद्वान् ब्राह्मणो भ्रातृव्याणां मध्ये ऽवसाय यजेत यावन्त एवास्य भ्रातृव्या यज्ञायुधानाम् उपशृण्वन्ति तेषां तेज इन्द्रियं वीर्यं वृङ्क्ते कुटरुर् असि मधुजिह्वस् त्वया वयं सङ्घातंसङ्घातं जेष्मेति सङ्घातंसङ्घातं वावैतेन यजमानो भ्रातृव्यं जयतीषम् आवदोर्जम् आवद रायस्पोषम् आवदेत्य् आशिषम् एवाशास्ते
॥४.१.६॥वर्षवृद्धम् असि प्रति त्वा वर्षवृद्धं वेत्व् इति प्रतिष्ठित्यय् अस्ना वै देवाः पशुभ्यो रक्षांसि निरवादयन्त तुषैर् ओषधीभ्यो यद् आह परापूतं रक्षः परापूतारातिर् इत्य् एतावतैव यज्ञस्य रक्षांसि निरवदयते ॥
देवो वः सविता विविनक्तु ॥ इति सवितृप्रसूत एवैनान् विविनक्ति ॥
सुविचा विविच्यध्वम् ॥ इत्य् आशिषम् एवाशास्ते सुफलीकृतान् कुर्यान् मेध्यान् एनान् यज्ञियान् करोति त्रिः फलीकरोति त्रिषत्या हि देवा अदित्यास् त्वग् असीतीयं वा अदितिर् अस्या एवैनत् त्वचं करोत्य् अवधूतं रक्षा इति रक्षसाम् अपहत्यै प्रतीचीनग्रीवं कृष्णाजिनम् उपस्तृणाति तस्मात् प्रत्यञ्चः पशवो मेधम् उपतिष्ठन्ते ऽदित्याः स्कम्भो ऽसीति शम्याम् उपदधातीमे वै सहास्तां ते शम्यामात्रंशम्यामात्रं व्यैतां यञ् शम्याम् उपदधात्य् अनयोर् एव विधृत्यै धान्यम् असि धिनुहि देवान् इत्य् एतस्य वै यजुषो वीर्येण यावद् एका देवता कामयते यावद् एका तावद् अस्या आहुतिः प्रथते प्रथते प्रजया पशुभिर् य एवं वेद प्राणाय त्वापानाय त्वा व्यानाय त्वेति प्राणम् अपानं व्यानं तान् यजमाने दधाति दीर्घाम् अनु प्रसृतिं संस्पृशेथाम् आयुषे वा इत्य् आयुर् अस्मिन् दधाति मित्रस्य वश् चक्षुषावेक्षा इति मित्रम् एवैनान् कुरुते देवो वः सविता हिरण्यपाणिर् उपगृह्णात्व् इति सवितृप्रसूत एवैनान् उपगृह्णाति
॥४.१.७॥निर्दग्धं रक्षा इति रक्षसाम् अपहत्यै यद् अधस्ताद् अङ्गारम् उपवर्तयत्य् अस्मिंस् तेन लोके ज्योतिर् धत्ते यद् उपरिष्टाद् अन्तरिक्षे तेनासा अस्मा आदित्यो ऽमुष्मिंल् लोके ज्योतिर् भवत्य् अथो दिवैवास्मा अमुष्मिंल् लोके भवति सर्वे ऽस्मा इमे लोका ज्योतिष्मन्तो भवति य एवं वेद त्रीणि समीचीनान्य् उपदधाति त्रयो वा इमे लोका एषां लोकानां धृत्यय् अपाग्ने ऽग्निम् आमादं जहीति य आमात् क्रव्यात् तम् अपहत्य देवयजने यज्ञिया उपदधाति ध्रुवम् असि पृथिवीं दृंहेति पृथिवीम् एव दृंहति धरुणम् अस्य् अन्तरिक्षं दृंहेत्य् अन्तरिक्षम् एव दृंहति ध्रत्रम् असि दिवं दृंहेति दिवम् एव दृंहति धर्मासि विश्वा विश्वानि दृंहेति दिश एव दृंहति प्रजापतिर् वै यत् समभवत् स एतावञ्श एव समभवद् एकं वा अग्रे शीर्ष्णः कपालं सम्भवत्य् अथ द्वितीयम् अथ तृतीयम् अथ चतुर्थम् अथ पञ्चमम् अथ षष्ठम् अथ सप्तमम् अथाष्टमं यद् अष्टा उपदधात्य् आत्मानं वा एतद् यजमानः संस्कुरुते तं संस्कृतम् अमुष्मिंल् लोके ऽनुपरैति यद् अष्टा उपदधाति गायत्रीं तेन छन्द आप्नोति यद् एकादश त्रिष्टुभं तेन यद् द्वादश जगतीं तेनाथो सर्वाण्य् एव छन्दःसम्मितान्य् उपदधाति ॥
चितः स्थ परिचितः स्थ ॥ इति यजुष्मन्ति करोति वसूनां रुद्राणाम् आदित्यानां भृगूणाम् अङ्गिरसां घर्मस्य तपसा तप्यध्वम् इति एतासाम् एनानि देवतानां तपसा तपति ॥
यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः ।
पूष्णस् तान्य् अपि व्रत इन्द्रवायू विमुञ्चताम् ॥ इति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते
॥४.१.८॥देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां संवपामीति सवितृप्रसूत एवैनां देवताभिः संवपति पवित्रवत् संवपति हविः करोति देवो वः सवितोत्पुनात्व् इति सवितृप्रसूत एवैना उत्पुनात्य् अप उपसृजत्य् अमृतं वा आपो ऽमृतम् एव हविः करोति सम् आपा ओषधीभिर् गछन्तां सम् ओषधयो रसेन सं रेवतीर् जगतीर् इत्य् अन्या वा एतासाम् अन्या जिन्वन्त्य् आपा ओषधीर् जिन्वन्त्य् ओषधीर् अपः शिवाः शिवाभिः समसृक्षतापा इत्य् आपो वै रेवतीर् ओषधयो मधुमतीः पशवो जगतीर् अप ओषधीः पशूंस् तान् अस्मै संसृज्यैकधा मधुमतः करोति ॥
मखस्य शिरो ऽसि ॥ इत्य् आह यज्ञो वै मखस् तस्य वा एतञ् शिरः क्रीयते सीदन्तु विशो जनयत्यै त्वेति मिथुनम् एव करोति घर्मो ऽसि विश्वायुर् घर्म घर्मे श्रयस्वोरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इति प्रथयत्य् एवैनं ॥
प्रति प्रथस्व पृथिवीम् उत द्याम् ॥ इतीमे एव प्रथयति घर्मो वा एषो ऽर्धमासेऽर्धमासे प्रवृज्यते स ईश्वरो ऽशान्तस् तेजसा यजमानस्य पशून् निर्दहो यत् पर्यग्निं करोति पशुम् एव करोति शान्त्या अनिर्दाहाय त्रिः पर्यग्निं करोति त्रयो वा इमे लोका एभ्य एवैनं लोकेभ्यः शमयति पुरोडाशं वा अधिश्रितं रक्षांस्य् अजिघांसन् स नाको नाम दिवि रक्षोहाग्निः सो ऽस्माद् रक्षांस्य् अपाहन् यद् आह देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके पृथिव्या इति रक्षसाम् अपहत्यै शिरो वा एतद् यज्ञस्य यत् पुरोडाशः केशा वेदो यथा शीर्ष्णः कपालान्य् एवं कपालानि यथा मस्तिष्क एवं पुरोडाशः सुशृतः कार्यो मेध्यत्वाय यत् पुरोडाशं नाभिवासयेद् आविर् मस्तिष्कः स्याद् यद् अभिवासयति तस्माद् गुहा मस्तिष्कस् त्वचं ग्राहयति तस्मान् मस्तिष्कः परिततो भस्मनाभ्य्·हति तस्मान् मांसेनास्थि छिन्नं ज्वालैर् अभिवासयति तस्मात् केशैः शिरश् छिन्नं यत् त्वचम् अग्राहयित्वा भस्मनाभिवासयेत् पलितम्भावुको ऽध्वर्युः स्याद् ज्वालैर् अभिवासयत्य् अपलितम्भावुको ऽध्वर्युर् भवति ते वै देवास् तं नाविन्दन् यस्मिन् यज्ञस्य क्रूरम् आर्क्ष्यामहा इति सो ऽग्निर् अब्रवीद् अहं वस्तं जनयिष्यामि यस्मिन् यज्ञस्य क्रूरम् आर्क्षध्वा इति सो ऽपो ऽङ्गारेणाभ्यपातयत् तत एकतो ऽजायत द्वितीयं ततो द्वितस् तृतीयं ततस् त्रितो यद् अद्भ्यो ऽधिनिरमिमीत तद् आपेयानाम् आपेयत्वं यद् आत्मनो ऽधिनिरमिमीत तद् आत्मेयानाम् आत्मेयत्वम् अन्तर्वेदि जुहोति तद् एवावरुन्द्ध उपरिष्टाद् अभिघारयति शृतत्वाय शृतकामा हि देवास् ते देवा अतिमृजाना आयन् सूर्याभ्युदिते ते ऽमृजत यं सुप्तं सूर्यो ऽभ्युदेति सूर्याभ्युदितः सूर्याभिनिम्रुक्ते सूर्याभिनिम्रुक्तः श्यावदति श्यावदन् कुनखिनि कुनख्य् अग्रेदधुष्य् अग्रेदधुः परिवित्ते परिवित्तः परिविविदाने परिविविदानो वीरहणि वीरहा भ्रूणहनम् एनो नात्येति
॥४.१.९॥पुरोडाशं : फ़्न् एमेन्देद्। एद्।: परोडाशम्।
भस्मनाभिवासयेत् : फ़्न् एमेन्देद्। एद्।: भस्मनाभिवासयेत्।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददा इति सवितृप्रसूत एवैनं देवताभिर् आदत्ते सहस्रभृष्टिः शततेजा इति वज्रं वा एतत् संश्यति भ्रातृव्याय प्रहरिष्यन् पृथिवि देवयजनि मा हिंसिषं ता ओषधीनां मूलम् इत्य् ओषधीनाम् अहिंसायै व्रजं गछ गोस्थानम् इति छन्दांसि वै व्रजो गोस्थानश् छन्दांस्य् एवास्मै व्रजं गोस्थानं करोति वर्षतु ते पर्जन्या इति पर्जन्याद् एव वृष्टिं वनुते बधान देव सवितः शतेन पाशैः परमस्यां परावतीति द्वौ वाव पुरुषस्य भ्रातृव्यौ यं द्वेष्टि यश् चैनं द्वेष्टि ता एव बध्नाति परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचीत्य् आशिषम् एवाशास्ते द्रप्सस् ते दिवं मा स्कान् इति यो वा अस्या रसः स द्रप्सस् तम् इमं प्रजा उपजीवन्ति तम् अस्यां यछत्य् अस्कन्दाय ॥
अररुस् ते द्यां मा पप्तत् ॥ इत्य् अररुर् वै नामासुर आसीत् स पृथिवीम् उपम्रुच्याशयत् तम् इन्द्रो ऽचायत् तम् अपाररुं पृथिव्या अदेवयजनम् इत्य् अपाहन् स दिवम् अपिपतिषत् तम् ॥ अररुस् ते द्यां मा पप्तत् ॥ इति दिवः प्रत्यनुदत य एवं विद्वां स्तम्बयजुर् हरत्य् एभ्यो वा एतल् लोकेभ्यो यजमानो भ्रातृव्यं निर्भजति त्रिः कृत्वो हरति त्रयो वा इमे लोका एभ्य एव लोकेभ्यो भ्रातृव्यं निर्भजति तूष्णीं चतुर्थं हरति यो लोको निरुक्तो ऽपरिमितस् तस्माद् भ्रातृव्यं निर्भजत्य् असुराणां वा इयं पृथिव्य् आसीत् ते देवा अब्रुवन् दत्त नो ऽस्याः पृथिव्या इति ते वै स्वयम् एव ब्रूध्वम् इति ततो वै वसवः प्राचीं दिशम् उदजयन् रुद्रा दक्षिणाम् आदित्याः प्रतीचीं मरुता उदीचीं ततो वै देवा इमाम् असुराणाम् अविन्दन्त ततो देवा असुरान् एभ्यो लोकेभ्यो निरभजंस् ततो देवा अभवन् परासुरा यद् एवम् एताभिर् देवताभिर् वेदिं परिगृह्णातीमां वा एतद् यजमानो भ्रातृव्यस्य वृङ्क्ते ऽस्या भ्रातृव्यं निर्भजति भवत्य् आत्मना परास्य भ्रातृव्यो भवति पृथिव्या वै मेध्यं चामेध्यं च व्युदक्रामत् प्राचीनम् उदीचीनं मेध्यम् उदक्रामद् दक्षिणा प्रतीचीनम् अमेध्यं प्राचीम् उदीचीं वेदिं प्रवणां कुर्यान् मेध्यान् एनान् यज्ञियान् करोत्य् अथो यद् एवास्या उद्घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तञ् शमयत्य् अथो मेध्यस्य चैवामेध्यस्य च व्यावृत्त्यै प्राञ्चौ बाहू नयत्य् आहवनीयं तेन परिगृह्णाति प्रतीची श्रोणी गार्हपत्यं परिगृह्णाति मूलं वै रक्षांस्य् अनूत्पिबन्ति यन् नखेन छिन्द्यात् कुनखी स्यात् स्फ्येन छिनत्ति वज्रो वै स्फ्यो वज्रेणैव रक्षांसि हन्ति
॥४.१.१०॥यो वै स्रुचां योगम् अविद्वान् अध्वर्या इति हूतः प्रतिशृणोत्य् आ देवताभ्यो वृश्चते ऽपशुर् भवत्य् अथ यः स्रुचां योगं विद्वान् अध्वर्या इति हूतः प्रतिशृणोति न देवताभ्या आवृश्चते पशुमान् भवति द्यौर् जुहूर् अन्तरिक्षम् उपभृत् पृथिवी ध्रुवा दिश आज्यधान्य् असा आदित्यः स्रुवः स यत् ॥ ॐ श्रावय ॥ इत्य् आह जुह्वं तेन युनक्ति ॥
अस्तु श्रौषट् ॥ इत्य् उपभृतम् ॥
यज ॥ इति ध्रुवाम् ॥
ये यजामहे ॥ इत्य् आज्यधानीं वषट्कारेण स्रुवं जुह्वा अधि ध्रुवाम् अभिघारयति ध्रुवाया अधि जुह्वम् असौ ह्य् अस्यै प्रयच्छतीयम् अमुष्यै सन्ततम् अस्मा अन्नाद्यम् अव्यवछिन्नं प्रदीयते ऽस्मिंस् च लोके ऽमुष्मिंश् च पूर्वास्य जनतामायतः कीर्तिर् आगछति य एवं वेद
॥४.१.११॥घृतं च वै मधु च प्रजापतिर् आसीद् यतो मध्व् आसीत् ततः प्रजा असृजत तस्मान् मधोः प्रजाननम् अस्ति तस्मान् मधुना न प्रचरन्ति यातयामं हि तद् आज्येन प्रचरन्त्य् अयातयामं वा एतत् प्राजापत्यं घृतम् अयातयामा देवानां प्रजापतिर् गार्हपत्ये ऽधिश्रयति पत्न्य् अवेक्षते ऽन्वारम्भो वा एष यज्ञस्य पत्न्या यज्ञम् एनाम् अन्वारम्भयत्य् अथो यत् पत्नी यज्ञे करोति मिथुनं वा एतत् क्रियते प्रजात्यय् अमेध्यं वा एतद् अयज्ञियं यत् पत्न्य् अवेक्षत आहवनीये ऽधिश्रयति पुनात्य् एवैनान् मेध्यम् एनद् यज्ञियं करोति स्फ्यस्य वर्त्म सादयति रक्षसाम् अपहत्यै देवस् त्वा सवितोत्पुनात्व् इति सवितृप्रसूत एवैनद् उत्पुनाति हविर् असि वैश्वानरम् इति द्वादशैता व्याहृतयो द्वादश मासाः संवत्सरः संवत्सरेण वा एतत् तेज इन्द्रियं वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्त उभयतो वैश्वानरं भवत्य् उभयतो वैश्वानरं ह्य् एतन् निष्टेजा अस्य निर्वीर्यो भ्रातृव्यो जायते ऽथो मृध्रतर एव भवति देवाश् च वा असुराश् च संयत्ता आसन् स इन्द्र एतम् अवकाशम् अपश्यत् तेनासुरान् अभ्यभवद् अभि भ्रातृव्यं यज्ञेन भवति य एवं विद्वान् यजत आज्येनान्यानि हवींष्य् अभिघारयन्ति केनाज्यम् इति ब्रह्मवादिनो वदन्ति सत्येन वा आज्यम् अभिघृतं यद् आह सत्येन त्वाभिघारयामीति चक्षुर् वै सत्यं चक्षुर् यजमानः प्रदधाति सम्मील्यैतद् यजुर् वदति न चक्षुः प्रदधात्य् आज्यं वै यज्ञो यज्ञस् विष्णुः ॥
इदं विष्णुर् विचक्रमे त्रेधा निदधे पदा ।
समूढम् अस्य पांसुरे ॥ इति यद् ओदनपचने ऽधिश्रित्याथ गार्हपत्ये ऽथाहवनीये ऽधिश्रयत्य् एतद् वाव तत् त्रिर् विष्णुर् विक्रमते प्रत्युष्टं रक्षा इति रक्षसाम् अपहत्यै स्रुचः सम्मार्ष्टि पुनात्य् एवैना मेध्या एना यज्ञियाः करोति ॥
अनिशिताः सपत्नक्षयणीः । इत्य् अनिशिता ह्य् एताः सपत्नक्षयणीः स्रुवं सम्मार्ष्टि पुमांसं वा आसां तद् अग्रे संश्यत्य् अथ जुह्वम् अथोपभृतम् अथ ध्रुवाम् असा आदित्यः स्रुवो द्यौर् जुहूर् अन्तरिक्षम् उपभृत् पृथिवी ध्रुवेमान् वा एतल् लोकान् यथापूर्वं सम्मार्ष्ट्य् एभ्यो लोकेभ्य आत्मानं परिदत्ते ऽहिंसायै जुह्वम् अग्रे सम्मार्ष्ट्य् आत्मा वै जुहूर् आत्मानम् एवोपैत्य् अथोपभृतं प्रजा वा उपभृत् प्रजाम् एवोपैति परेव ह्य् आत्मनः प्रजाथ ध्रुवां पशवो वै ध्रुवा पशून् एवोपैति पर इव हि प्रजायाः पशवो यद् उत्तानाः सम्मृज्याद् अप्रतिष्ठायुकं रेतः स्याद् यन् नीचीर् अप्रतिष्ठायुकं रेतः स्यात् तिरश्चीः सम्मार्ष्टि तिर्यग् वै रेतः सिच्यते प्रतिष्ठायुकं रेतो भवति यद् अग्रेण मुखं दण्डं च सम्मृज्याद् रक्षोभ्यश् चाभुवेभ्यश् च समदं दध्याद् अग्रेण मुखं सम्मार्ष्टि जघनेन दण्डं न रक्षोभ्यश् चाभुवेभ्यश् च समदं दधात्य् अन्तरतो जुह्वं प्राचीं सम्मार्ष्टि बहिष्टात् प्रतीचीं बहिष्टाद् उपभृतं प्राचीम् अन्तरतः प्रतीचीं सर्वतः समाहार्य ध्रुवां प्राणान् एवास्य यथापूर्वं कल्पयति यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्योपभृच् चतुर् गृह्णञ् जुह्वां भूया आज्यं गृह्णात्य् अष्टौ गृह्णन्न् उपभृति कनीय उपस्तिं भ्रातृव्यम् अकृत
॥४.१.१२॥आत्मानं : फ़्न् एमेन्देद्। एद्।: आत्मान।
समाहार्य : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
बह्वीर् आसादयेद् यावतीर् वै प्रोक्षणीर् आसादयति तावतीर् अस्यामुष्मिंल् लोक आपस् तस्माद् बह्वीर् आसाद्या अग्नेर् मेध्यो ऽपाक्रामत् स कृष्णो भूत्वा वनस्पतीन् प्राविशद् यद् आह कृष्णो ऽस्य् आखरेष्ठा अग्नये घृतं भवेति तम् एव मेधम् अवरुन्द्धे वेदिर् असि बर्हिषे त्वा जुष्टं प्रोक्षामीति प्रजा वै बर्हिः पृथिवी वेदिर् अस्यां वा एतत् प्रजा स्वगाकरोति यद् उपरिष्टात् प्रोक्ष्याधस्तात् प्रोक्षति तस्माद् उपरिष्टाद् वृष्टाद् अधस्ताद् ओषधयो जायन्ते ।
ऊर्जा पृथिवीं यछत । इत्य् अस्याम् ऊर्जम् अधात् तस्माद् इमां प्रजा उपजीवन्ति विष्णोः स्तुपो ऽसीति मुखतः प्रस्तरं गृह्णाति मुख्यम् एनं तेन शीर्षण्यं करोति यावद् धस्तेन पर्याप्नुयात् तावन्तं गृह्णीयाद् अक्षोधुको यजमानो भवति नोर्ध्वम् उन्मृज्याद् यद् अस्य वित्तं वेद्यं तत् प्रमृज्यान् नावाचीनम् अवमृज्याद् यद् एनम् आगमिष्यत् तत् प्रतिनुदेत न विधूनुयात् प्रजां पशून् विधूनुयाद् यद् उपतिष्ठेत् तद् उपसङ्गृह्णीयाद् यथाशितायोपचिनोत्य् एवम् एव तद् दक्षिणतः शुल्बं स्तृणाति तस्माद् दक्षिणतो नीवीर् उरु प्रथस्वोर्णम्रदम् इति प्रथयत्य् एवैनत् स्वासस्थं देवेभ्या इति देवेभ्य एवैनत् करोति प्रस्तरं धारयन् परिधीन् परिदधाति स्वयं वा एतद् यजमान आत्मानं परिधत्ते ऽहिंसायै न पुरस्तात् परिदधात्य् उद्यन् वा असा आदित्यो रक्षांस्य् अपाहतोद्यन्न् एवास्मा असा आदित्यो रक्षांस्य् अपहन्त्य् ऊर्ध्वे समिधा आदधात्य् उपरिष्टाद् अस्मात् तेन रक्षांस्य् अपहन्ति द्वे आदधाति मिथुनत्वाय विधृती स्था इति विधृती एवैने करोति ॥
अदित्यास् त्वोपस्थे सादयामि ॥ इतीयं वा अदितिर् अस्याम् एवैनम् असीषदद् वसूनां रुद्राणाम् आदित्यानां सदो ऽसीत्य् एता वा एताम् अग्रे देवताम् अभ्यजयंस् ताभ्य एवैनत् सदः करोति द्यौर् असि जन्मना जुहूर् नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीदेत्य् एतद् वा आसां प्रियं नाम यद् घृतवत् तद् एवावरुन्द्धे ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञन्यम् इति यथाहैष ते भागस् तं रक्षस्वेत्य् एवं वा एतद् विष्णुम् आहैतत् ता आज्यं तद् रक्षस्वेति वेदिर् देवेभ्यो ऽपाक्रामत् तां देवा वेदेनाविन्दंस् तद् वेदस्य वेदत्वं स्त्री वेदिः पुमान् वेदो यद् वेदेन वेदिं सम्मार्ष्टि मिथुनत्वाय सन्ततम् आहवनीयात् स्तृणन्न् एति यज्ञस्य सन्तत्यै तं सन्ततम् उत्तरे ऽर्धमासे ऽभियजते वनस्पतीनां वा एष परिवेष्टा यद् उपवेष ऋद्धा अस्य वेशा भवन्ति य एवं वेद पुरस्तात् प्रत्यञ्चम् उपहन्ति तस्मात् प्रतीचीनावसिता वेशाः स्थविमत उपहन्त्य् अनतिवादिन एनं वेशा भवन्ति सर्वस्मै वै यज्ञे क्रीयते सर्पो वा उपवेषो वल्मीक उत्करो यद् उपवेषम् उत्कर उपहन्ति तस्मात् सर्पाणां वल्मीको गृहाः
॥४.१.१३॥यथाहैष : फ़्न् एमेन्देद्। एद्।: यथाहैष।
भुवनम् असि ॥ इति भूतिम् आशास्ते ॥
विप्रथस्व ॥ इति प्रथयत्य् एवैनद् इत इन्द्रस् तिष्ठन् वीर्यम् अकृणोद् देवताभिः समारभ्येत्य् अतो हीन्द्रस् तिष्ठन् वीर्यम् अकृणोद् देवताभिः समारभ्य ॥
जुह्व् एह्य् अग्निष् ट्वा ह्वयति देवान् यक्ष्यावो देवयज्यायय् उपभृद् एहि देवस् त्वा सविता ह्वयति देवान् यक्ष्यावो देवयज्यायै ॥ इति न वा एते अविदुषा स्वादाने इव वरुणपाशान् ह्य् आक्रामत्य् एताभिर् एने देवताभिर् आदत्ते वरुणपाशानाम् अनाक्रमाय विष्णोः क्रमो ऽसीत्य् अतिक्रामति यज्ञस्यानवक्रामायोर्ध्वो अध्वरो दिविस्पृग् अह्रुतो यज्ञो यज्ञपतेर् इत्य् ऋजुम् ऊर्ध्वम् आघारम् आघारयति यज्ञस्याहूर्छायेन्द्रवान्त् स्ववान् इति सेन्द्रं यज्ञम् अकृताथो इन्द्रियं तेनावरुन्द्धे ॥
वसुमतस् ते छायाम् उपस्थेषम् ॥ इत्य् अग्निर् वै वसुमान् अग्नेर् एव छायाम् उपतिष्ठत ऋजुम् ऊर्ध्वम् आघारम् आघारयेत् प्राणो वा आघारः सर्वम् आयुर् यजमान एति यं द्विष्यात् तस्याघार्य कृधु छिन्द्यात् प्राणम् अस्य छिनत्ति ताजक् प्रमीयते शिरो वा एतद् यज्ञस्य यद् आघार आत्माज्यं यद् आघारम् आघार्योपभृता समञ्ज्याञ् शिरो यज्ञस्य प्रछिन्द्याद् आज्यधान्या समनक्ति ॥ समक्तम् अग्निना हविः समक्तं हविषा घृतम् ॥ इत्य् आत्मन् यज्ञस्य शिरः प्रत्यधाद् अथो मन एव यज्ञे प्रतिदधाति स्तनं स्तनिनीः प्रजा उपजीवन्ति किम् अस्तना इति ब्रह्मवादिनो वदन्त्य् अप्तुभी रिहाणा व्यन्तु वया इत्य् एतद् वाव ता उपजीवन्ति वशा पृश्निर् भूत्वा मरुतो गछेति मरुतो वै वृष्ट्या ईशते ते ऽस्मै वृष्टिं निनयन्ति ततो नो वृष्ट्यावतेति मरुद्भ्य एव वृष्टिं वनुते चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहीति चक्षुर् एवास्य पाति श्रोत्रपा अग्ने ऽसि श्रोत्रं मे पाहीति श्रोत्रम् एवास्य पाति तनूपा अग्ने ऽसि तन्वं मे पाहीति तन्वम् एवास्य पाति यन् मे अग्न ऊनं तन्वस् तन् मा आपृणेत्य् आशिषम् एवाशास्ते ॥
यं परिधिं पर्यधत्था अग्ने देव पणिभिर् वीयमानः ।
तं त एतम् अनु जोषं भरामि नेद् एष युष्मद् अपचेतयातै ॥ इति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते संस्रावभागाः स्थेषा बृहन्ता इति परिधीन् प्रहृत्याभिजुहोत्य् अग्नयो वा एते तान् प्रीणाति ताञ् शमयति भागधेयेन ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यो यतो यज्ञं प्रयुङ्क्ते तत् प्रतिष्ठापयतीति देवा गातुविदो गातुं वित्त्वा गतुम् इत मनसस्पते सुधात्व् इमं यज्ञं दिवि देवेषु वाते धाः स्वाहेत्य् अतो वा अध्वर्युर् यज्ञं प्रयुङ्क्ते तद् एवैनं प्रतिष्ठापयति
॥४.१.१४॥