skipLink.label

तृतीय काण्ड, प्रपाठक 16

तृतीय काण्ड, प्रपाठक 16

तृतीयकाण्डे षोडशः प्रपाठकः

तृतीयकाण्डे षोडशः प्रपाठकः

इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रतिगृभ्णन्त्य् अश्वम्

॥३.१६.१॥

धनयीद् : फ़्न् मित्त्wएदे, तेxत्क्रितिस्छे बेमेर्कुन्गेन् ज़ुर् क्ः प्। १५५: ध्वनयीद्

समिद्धो अञ्जन् कृदरं मतीनां घृतम् अग्ने मधुमत् पिन्वमानः ।

वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधस्थम् ॥

तनूनपात् सं पथो देवयानान् प्रजानन् वाज्य् अप्येतु देवान् ।

अनु त्वा सप्ते प्रदिशः सचन्तां स्वधां देवैर् यजमानाय धेहि ॥

ईड्यश् चासि वन्द्यश् चासि वाजिन्न् आशुश् चासि मेध्यश् चासि सप्ते ।

अग्निष् ट्वा देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥

स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।

देवेभिर् अक्तम् अदितिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥

एता उ वः सुभगा विश्ववारा वि पक्षोभिः श्रयमाणा उद् आतैः ।

ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥

अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने ।

उषासा वां सुहिरण्ये सुशिल्पे ऋतस्य योना इह सादयामि ॥

प्रथमा वां सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।

अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥

आदित्यैर् नो भारती वष्टु यज्ञं सरस्वती सह रुद्रैर् न आवीत् ।

इडोपहूता वसुभिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥

त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत आशुर् अश्वः ॥

त्वष्टेमा विश्वा भुवना जजान बहोः कर्तारम् इह यक्षि होतः ॥

अश्वो घृतेन त्मन्या समक्ता उप देवं ऋतुशः पाथ एतु ।

वनस्पतिर् देवलोकं प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥

प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने ।

स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः

॥३.१६.२॥

युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।

रोचन्ते रोचना दिवि ॥

युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।

शोणा धृष्णू नृवाहसा ॥

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।

सम् उषद्भिर् अजायथाः ॥

जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे ।

अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥

धन्वना गा धन्वन् आजिं जयेम धन्वना तीव्राः समदो जयेम ।

धनुः शत्रोर् अपकामं कृणोतु धन्वना सर्वाः पृतना जयेम ॥

वक्ष्यन्तीवेद् आगनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।

योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती ॥

ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे ।

अप शत्रून् विध्यतः संविदाने आर्त्नी इमे विस्फुरन्ती अमित्रान् ॥

बहूनां पिता बहुर् अस्य पुत्रः चिश्चा कृणोति समनावगत्य ।

इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥

रथे तिष्ठन् नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।

अभीशूनां महिमानं पनायत मनः पश्चाद् अनुयछन्ति रश्मयः ॥

तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः ।

अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रून्र् अनपव्ययन्तः ॥

वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।

गोभिः सन्नद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥

दिवस् पृथिव्याः पर्य् अन्तरिक्षाद् वनस्पतिभ्यः पर्य् आवृतं सहः ।

अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥

इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।

सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥

स्वादुषंसदः पितरो वयोधाः कृछ्रेश्रितः शक्तीवन्तो गभीराः ।

चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥

ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी उभे स्ताम् ।

पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशम्स ईशत ॥

ऋजीते परिवृङ्ग्धि नो ऽश्मा भवतु नस् तनूः ।

सोमो अधिब्रवीतु नो ऽदितिः शर्म यछतु ॥

सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता ।

यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यंसन् ॥

अहिर् इव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।

हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परिपातु विश्वतः ॥

आजङ्घन्ति सान्व् एषां जघनं उपजिघ्नतु ।

अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु नोदय ॥

उपश्वासय पृथिवीम् उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।

सं दुन्दुभे सजूर् इन्द्रेण देवैर् आराद् दवीयो अपसेध शत्रून् ॥

आक्रन्दय बलम् ओजो ना आधा निष्टनिहि दुरिता बाधमानः ।

अपप्रोथ दुन्दुभे दुछुना इत इन्द्रस्य मुष्टिर् असि वीडयस्व ॥

इन्द्रस्य : फ़्न् एमेन्देद्। एद्।: इन्द्रस्य।

आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति ।

सम् अश्वपर्णाश् चरन्तु नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु

॥३.१६.३॥

समिद् दिशाम् आशयानः स्वर्विन् मधु रेतो माधवः पात्व् अस्मान् ।

अग्निर् देवो दुष्टरीतुर् अदब्ध इदं क्षत्रं रक्षतु पात्व् अस्मान् ॥

रथन्तरं सामभिः पात्व् अस्मान् गायत्री छन्दसां विश्वरूपा ।

त्रिवृन् नो विष्ठया स्तोमो अह्ना समुद्रो वात इदम् ओजः पिपर्तु ॥

उग्रा दिशाम् अभिभूतिर् वयोधाः शुचिः शुक्रे अहन्न् ओजसीने ।

इन्द्राधिपत्यैः पिपृताद् अतो नो महि क्षत्रं विश्वतो धारयेदम् ॥

बृहत् साम क्षत्रभृद् वृद्धवृष्णं त्रिष्टुभौजः शुभितम् उग्रवीरम् ।

इन्द्रः स्तोमेन पञ्चदशेन मध्यम् इदं वातेन सगरेण रक्षतु ॥

प्राची दिशां सहयशा यशस्वती विश्वे देवाः प्रावृषाह्नां स्वर्वती ।

वैरूपे सामन्न् अधि तञ् शकेयं जगत्यैनं विक्ष्व् आवेशयामि ॥

इदं क्षत्रं दुष्टरम् अस्त्व् ओजो ऽनाधृष्टं सहस्यं सहस्वत् ।

विश्वे देवाः सप्तदशेन वर्च इदं क्षत्रं सलिलवातम् उग्रम् ॥

धर्त्री दिशां क्षत्रम् इदं दाधारोपस्थाशानां मित्रवद् अस्त्व् ओजः ।

मित्रावरुणा शरदाह्ना चिकित्तम् अस्मे राष्ट्राय महि शर्म यछतम् ॥

वैराजे सामन्न् अधि मे मनीषानुष्टुभा सम्भृतं वीर्यं सहः ।

इदं क्षत्रं मित्रवद् आर्द्रदानु मित्रावरुणा रक्षतम् आधिपत्यैः ॥

सम्राड् दिशां सहसाम्नी सहस्वत्य् ऋतुर् हेमन्तो विष्ठया नः पिपर्तु ।

अवस्युवाता बृहती न शक्वरी दिशां तेव्य् अवतु नो घृताची ॥

स्वर्वती सुदुघा नः पयस्वतीमं यज्ञम् अवतु या घृताची ।

त्वं गोपाः पुरएतोत पश्चाद् बृहस्पते याम्यां युङ्ग्धि वाचम् ॥

ऊर्ध्वा दिशां रन्तीर् आशौषधीनां संवत्सरेण सविता नो अह्ना ।

रेवत् सामातिछन्दा उ छन्दो ऽजातशत्रुः स्योना नो अस्तु ॥

स्तोमस् त्रयस्त्रिंशे भुवनस्य पत्नी विवस्वद्वाते अभि नो गृणीहि ।

घृतवती सवितुर् आधिपत्ये पयस्वती रातिर् आशा नो अस्तु ॥

अन्व् अद्य नो अनुमतिर् यज्ञं देवेषु मन्यताम् ।

अग्निश् च हव्यवाहनो भवतं दाशुषे मयः ॥

अन्व् इद् अमुमते त्वं मन्यासै शं च नस् कृधि ।

क्रत्वे दक्षाय नो हिनु प्र ना आयूंषि तारिषत् ॥

वैश्वानरो न ऊत्या प्रयातु परावतः ।

अग्निर् उक्थेन वाहसा ॥

पृष्टो दिवि ॥

ध्रुवा दिशां विष्णुपत्न्य् अघोरास्येशाना सहसो या मनोता ।

बृहस्पतिर् मातरिश्वोत वायुः सन्ध्वाना वाता अभि नो गृणन्तु ॥

विष्टम्भो दिवो धरुणा पृथिव्या अस्येशाना जगतो विष्णुपत्नी ।

व्यचस्वतीषयन्ती सुभूतिः शिवा नो अस्त्व् अदितेर् उपस्थे ॥

कया नः ॥

को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।

आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्याम् ऋणधत् स जीवात्

॥३.१६.४॥

अग्नेर् मन्वे प्रथमस्यामृतानां यं पाञ्चजन्यं बहवः समिन्धते ।

विश्वस्यां विशि प्रविविशिवांसम् ईमहे स नो मुञ्चत्व् अंहसः ॥

यस्येदं प्राणन् निमिषद् यद् एजति यस्य जातं जनमानं च केवलम् ।

स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥

इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्नः स्तोमा उप माम् उपागुः ।

यो दाशुषः सुकृतो हवम् उप गन्ता स नो मुञ्चत्व् अंहसः ॥

यः सङ्ग्रामं नयति सं वशी युधे यः पुष्टानि सम्मृजति त्रयाणि ।

स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥

मन्वे वां मित्रावरुणा तस्य वित्तं सत्यौजसा दुर्हृणा यं नुदेथे ।

या राजाना सरथं यात उग्रा ता नो मुञ्चतम् आगसः ॥

यो वां रथ ऋजुरश्मिः सत्यधर्मा मिथुचरन्तम् उपयाति दूषयन् ।

स्तौमि मित्रावरुणौ नाथितो जोहवीमि ता नो मुञ्चतमागसः ॥

वायोः सवितुर् विदथानि मन्महे या आत्मन्वद् बिभृतो यौ च रक्षतः ।

यौ विश्वस्य परिभू बभूवथुस् ता नो मुञ्चतम् आगसः ॥

उप श्रेष्ठा न आशिरो देवयोर् धर्मा अस्थिरन् ।

स्तौमि वायुं सवितारं नाथितो जोहवीमि ता नो मुञ्चतम् आगसः ॥

रथीतमौ रथीनाम् अह्व ऊतये शुभं गमिष्ठौ सुयमेभिर् अश्वैः ।

ययोर् वां देवौ देवेष्व् अनिषितम् ओजस् ता नो मुञ्चतम् आगसः ॥

यद् अयातं वहतुं सूर्यायास् त्रिचक्रेण संसदम् इछमानौ ।

स्तौमि देवा अश्विनौ नाथितो जोहवीमि ता नो मुञ्चतम् आगसः ॥

मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे ।

आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥

तिग्मम् आयुधं वीडितं सहस्वद् दिव्यं शर्धः पृतनासु जिष्णु ।

स्तौमि देवान् मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥

देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे ।

आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥

यद् इदं माभिशोचति पौरुषेयेण दैव्येन ।

स्तौमि विश्वान् देवान् आथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥

अन्व् अद्य नो अनुमतिर् अन्व् इद् अनुमते त्वं वैश्वानरो न ऊत्या ॥

त्वम् अग्ने शोचिषा शोशुचाना आ रोदसी अपृणा जायमानः ।

त्वं देवं अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥

उर्वी रोदसी वरिवस् कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रुवाथः ।

स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अंहसः ॥

ये अप्रथेताम् अमितेभिर् ओजोभिर् ये प्रतिष्ठे अभवतां वसूनाम् ।

स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अंहसः ॥

यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच्चिद् आगः ।

कृधी ष्व् अस्मं अदितेर् अनागान् एनांसि शिश्रथो विष्वग् अग्ने ॥

यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः ।

एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्रतार्य् अग्ने प्रतरं ना आयुः

॥३.१६.५॥