skipLink.label

तृतीय काण्ड, प्रपाठक 15

तृतीय काण्ड, प्रपाठक 15

तृतीयकाण्डे पञ्चदशः प्रपाठकः

तृतीयकाण्डे पञ्चदशः प्रपाठकः

शादं दद्भिर् अवकान् दन्तमूलैर् मृदं बर्स्वै स्तेगान् दंष्ट्राभ्याम् अवक्रन्देन तालु वाजं हनुभ्यां सरस्वत्या अग्रजिह्वं जिह्वाया उत्सादम् अप आस्येन वृषणा आण्डाभ्याम् आदित्याञ् श्मश्रुभिः पन्थां भ्रूभ्यां द्यावापृथिवी वर्तोभ्यां विद्युतं कनीनिकाभ्यां कर्णाभ्यां श्रोत्रे श्रोत्राभ्यां कर्णव् अवार्याणि पक्ष्माणि पार्या इक्षवः पार्याणि पक्ष्माण्य् अवार्या इक्षवः

॥३.१५.१॥

बर्स्वै : फ़्न् ⟨ बर्स्वैस्

वातं प्राणेनापानेन नासिकाम् उपयामम् अधरेणौष्ठेन सद् उत्तरेण शुक्लाय स्वाहा कृष्णाय स्वाहा स्तनयित्नुं निर्बाधेन मूर्धानं निवेष्येणाशनिं मस्तिष्केण विद्युतं कनीनिकाभ्यां प्रकाशेनान्तरम् अनुकाशेन बाह्यं तेदनीम् अधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिर् अदितिं शीर्ष्णा निरृतिं निर्जल्पेन शीर्ष्णा प्राणान्त् सङ्क्रोषैर् रेष्माणं स्तूपेन

॥३.१५.२॥

मशकान् केशैर् इन्द्रं स्वपसा वहेन बृहस्पतिं शकुनिसादेन कूर्माञ् शफैर् आक्रमणं स्थूराभ्यां बलं कुष्टाभ्यां जवं जङ्घाभिर् अध्वानं बाहुभ्यां जाम्बिलेनारण्यम् अग्निम् अतीरुग्भ्यां रुद्रं रोराभ्यां पूषणं दोर्भ्याम् अश्विना अंसाभ्याम्

॥३.१५.३॥

अग्नेः पक्षतिर् वायोर् निपक्षतिः सोमस्य तृतीयापां चतुर्थ्य् अदित्याः पञ्चम्य् अग्नीषोमयोः षष्ठी मरुतां सप्तमी बृहस्पतेर् अष्टमी पूष्णो नवमी त्वष्टुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी

॥३.१५.४॥

इन्द्राग्न्योः पक्षतिः सरस्वत्या निपक्षतिर् इन्द्रस्य तृतीया बृहस्पतेश् चतुर्थी निरृत्याः पञ्चमीन्द्राण्याः षष्ठी सर्पाणां सप्तमी विष्णोर् अष्टम्य् अर्यम्णो नवमी धातुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यास् त्रयोदशी द्यावापृथिव्योर् दक्षिणं पार्श्वं विश्वेषां देवानाम् उत्तरम्

॥३.१५.५॥

मरुतां स्कन्धा विश्वेषां देवानां म्प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीया वायोः पुछम् अग्नीषोमयोर् भासदौ क्रुञ्चौ श्रोणिभ्यां मित्रावरुणा ऊरुभ्याम् इन्द्रावरुणा अल्गाभ्याम् आक्रमणं कुष्ठाभ्याम् अत्सराभिः कपिञ्जलान्

॥३.१५.६॥

इन्द्रस्य क्रोडो ऽदित्याः पाजस्यं दिशां जत्रवो ऽदित्या भसद् जीमूतान् हृदयौपशाभ्याम् अन्तरिक्षं पुलीतता नभ उदर्येण वल्मीकान् क्लोम्ना ग्लौभिर् गुल्मांश् चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां हिराभिः स्रवन्तीर् गिरीन् प्लाशिभ्याम् उपलान् प्लीह्ना ह्रदान् कुक्षिभ्यां समुद्रम् उदरेण वैश्वानरं भस्मना

॥३.१५.७॥

विधृतिं नाभ्या घृतं रसेनापो यूष्णा मरीचीर् विप्रुषा नीहारम् ऊष्मणा शीनं वसया ह्रादुनीर् दूषीकाभिः प्रुष्वा अश्रुभिर् अस्ना रक्षांसि चित्राण्य् अङ्गैर् नक्षत्राणि रूपैः पृथिवीं त्वचा जुम्बकाय स्वाहा

॥३.१५.८॥

पूषणं वनिष्ठुनान्धाहीन्त् स्थूरगुदया सर्पान् गुदाभिर् विह्रुत आन्त्रैर् अप आस्येन वृषणा आण्डाभ्यां शेषो वाजिनेन प्रजां रेतसा चाषान् पित्तेन प्रदरान् पायुना कूष्माञ् शकपिण्डैः

॥३.१५.९॥

अग्नये गायत्राय त्रिवृते राथन्तराय वासन्तिकाय पुरोडाशम् अष्टाकपालं निर्वपतीन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रैष्माय पुरोडाशम् एकादशकपालं विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यः पुरोडाशं द्वादशकपालं मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविंशाभ्यां वैराजाभ्यां शारदाभ्यां पयस्यां बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय चरुं सवित्र आतिछन्दसाय त्रयस्त्रिंशाय रैवताय शैशिराय पुरोडाशं द्वादशकपालम् अनुमत्यै चरुं वैश्वानरं द्वादशकपालम् अदित्यै विष्णुपत्न्यै चरुं कायम् एककपालम्

॥३.१५.१०॥

अग्नये ऽंहोमुचे पुरोडाशम् अष्टाकपालं निर्वपतीन्द्रायांहोमुचे पुरोडाशम् एकादशकपालं मित्रावरुणाभ्याम् आगोमुग्भ्यां पयस्यां वायुसवितृभ्याम् आगोमुग्भ्यां पयो ऽश्विभ्याम् आगोमुग्भ्यां धाना मरुद्भ्य एनोमुग्भ्यः पुरोडाशं सप्तकपालं विश्वेभ्यो देवेभ्य एनोमुग्भ्यः पुरोडाशं द्वादशकपालम् अनुमत्यै चरुं वैश्वानरं द्वादशकपालं द्यावापृथिवीभ्याम् अंहोमुग्भ्यां पुरोडाशं द्विकपालम् ॥

इति तृतीयकाण्डे पञ्चदशमः प्रपाठकः

॥३.१५.११॥