skipLink.label

तृतीय काण्ड, प्रपाठक 8

तृतीय काण्ड, प्रपाठक 8

तृतीयकाण्डे अष्टमः प्रपाठकः

तृतीयकाण्डे अष्टमः प्रपाठकः

असुराणां वा एषु लोकेषु पुर आसन्न् -

अयस्मय्य् अस्मिंल् लोके,

रजतान्तरिक्षे,

हिरिणी दिवि।

ते देवाः संस्तम्भंसंस्तम्भं पराजयन्त।

अनायतना ह्य् आसन्।

त एताः प्रतिपुरो ऽमन्वित - हविर्धानं दिव्य्, आग्नीध्रम् अन्तरिक्षे, सदः पृथिव्याम्।

ते ऽब्रुवन्न् उपसीदामोपसदा वै महापुरं जयन्तीति।

त उपासीदंस्,

तद् उपसदाम् उपसत्त्वं;

तान् एभ्यो लोकेभ्यः प्राणुदन्त।

त एभ्यो लोकेभ्यः प्रणुत्ता अहर् - अश्रयन्त यत् प्रातर् उपसदम्, उपायन्न् अह्न एनांस् तेन प्राणुदन्त ते ऽह्नः प्रणुत्ता रात्रीम् अश्रयन्त यत् सायम् उपसदम् उपायन् रात्र्या एनांस् तेन प्राणुदन्त ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् उपसदम् उपैत्य् अहोरात्राभ्याम् एव भ्रातृव्यम् एभ्यो लोकेभ्यः प्रणुदते भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् अथ वै तर्हि नेषुर् आसीत् ते देवा एताम् इषुं समस्कुर्वन्न् अग्निं शृङ्गं सोमं शल्यं विष्णुं कुल्मलं ते ऽब्रुवन् क इमाम् इषुम् अवस्रक्ष्यतीति ते देवा अब्रुवन्न् अयम् एव रुद्र इति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अवदन् सो ऽब्रवीन् नैवम् एकश् चनेषुम् अस्ताम् मीमांसाता इति तस्माद् एतस्येषुर् अस्ता न मीमांसितव्या ॥

सत्यंहम् ॥ इत्य् एव ब्रूयात् तां वै रुद्रो व्यसृजद् एष हि देवानां क्रूरतमस् तयेमाः पुरो ऽभिनद् अग्निना वै स तास् तेजसाभिनत् तस्माद् अग्निः प्रथम इज्यते यद् अन्यां देवतां पूर्वां यजेद् अवीर्यवतीः स्युर् अष्टौ कृत्वो जुह्वां गृह्णाति चतुर् उपभृति पूर्वार्धो हीषोः समाहिततमः सकृत् पराङ् अतिक्रामति सकृद् ध्य् एवेषुः पराच्य् अपतद् अतिक्रम्याश्रावयति यज्ञस्याभिजित्यै यद् अनतिक्रम्याश्रावयेद् अनभिजितो ऽस्य यज्ञः स्यात् स्रुवेणोपसदो जुहोति पुरां वा एष जितानाम् अन्वारोह एकाम् एकाहं जुहोत्य् एकाम् एकाहम् एकां हि त एकाहम् अजयन्न् एकाम् एकाहं तिस्र उपसदो जुहोति त्रयो वा इमे लोका एषां लोकानाम् अभिजित्यय् अग्निना वै मुखेन देवा इमांल् लोकान् अन्ववायन्न् उपसद्भिर् असुरान् पराणुद्याग्निना वा एतन् मुखेन यजमान इमांल् लोकान् अन्ववैत्य् उपसद्भिर् भ्रातृव्यं पराणुद्य याः सायम् अनुवाक्यास् ताः प्रातर् याज्याः स्युर् याः प्रातर् अनुवाक्यास् ताः सायं याज्याः स्युस् तथोभयीर् वीर्यवतीर् भवन्ति

॥३.८.१॥

अयः प्रथमायाम् अवधाय जुहोति रजतं मध्यमायां हरितम् उत्तमायाम् एतद् वै बृहस्पतिर् देवेभ्यः पूर्जयनम् अकरोद् यत्र पुरं युध्येयुस् तद् एताभिर् जुहुयात् सरा वा एषा यज्ञस्य तस्माद् यत् किञ्च प्राचीनम् अग्नीषोमीयात् तद् उपांशु चरन्त्य् अथ वा एतद् अग्नीषोमीयं प्रति वाचं विसृजन्ते यज्ञम् एवाप्त्वा वाचं विसृजन्ते घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन् स्रुचौ बाहू तस्मात् स्रुचौ सौमीम् आहुतिं नाशाते अवधिषुर् वा एतत् सोमं यद् अस्य स्रुचौ चाज्यं चान्तिकम् अभार्षुर् यद् आहांशुरंशुष् टे देव सोमाप्यायताम् इति यद् एवास्य घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तद् आप्याययति सर्व ऋत्विजा आप्याययन्ति सर्वे हि तान्तं भिषज्यन्ति यन्ति वा एते ऽस्माल् लोकाद् ये सोमम् आप्याययितुम् उदस्थुः पराञ्चो हि यन्तीश्वराः प्रमेतोर् यद् आहैष्टा राया एष्टा वामानि प्रेषे भगायेति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृता अनयोर् वा एष गर्भ आभ्याम् एष आवृश्चते यः सोमं हन्ति यद् आह नमो दिवे नमः पृथिव्या इत्य् आभ्याम् एव नमो ऽकर् आतिथ्यं वा उपसदां प्रयाजास् तानूनप्त्रम् आशीस् तस्मान् न होतारं वृणीते नार्षेयम् ॥

आह : फ़्न् आहेष्टा wइथ् फ़ोल्लोwइन्ग् एष्टा।

सीद होतः ॥ इत्य् एवाह चतुर्व्रतस् तिस्रश् चत्वारि हीषोः पर्णानि त्रिव्रतस् तिस्रस् त्रिषन्धिर् हीषुः शृङ्गं शल्यः कुल्मलं द्विव्रतस् तिस्रो द्विषन्धिर् हीषुः शल्यश् च कुल्मलं चैकव्रतस् तिस्र एका ह्य् एवेषुर् एषा वै परोवरीयसी दीक्षा कनीयो व्रतम् उपैति ज्यायांसं लोकम् अभिजयत्य् एकव्रतस् तिस्रो द्विव्रतस् तिस्रस् त्रिव्रतस् तिस्रश् चतुर्व्रतस् तिस्र एषा वा उत्क्रामन्ती स्वर्गकामस्योत्तरमुत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद यद् द्वादशाग्निष्टोमस्योपसदः स्युर् अशान्ता निदहेयुर् यत् तिस्रो ऽहिनस्य यथा गरीयान् भार उष्णिहां निशृणात्य् एवं तत् तत् तिस्र एवाग्निष्टोमस्योपसदः कार्या द्वादशाहिनस्य सवीर्यत्वाय

॥३.८.२॥

निशृणात्य् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अभ्यर्धो वै देवेभ्यो यज्ञ आसीत् ते नाविदुर् इह वा स इह वेत्य् अस्ति यज्ञ इति त्व् अविदुस् तेन वै संसृष्टिम् ऐछंस् तं प्रैषम् ऐछन् तन् नाविन्दंस् तं वयांस्य् उपर्युपरि नात्ययतंस् तम् इन्द्र उपर्युपर्य् अत्यक्रामत् तम् अचायत् सो ऽवेद् अचिकेद् वै मेति सो ऽब्रवीत् को ऽसा इत्य् अहं दुर्गे हन्तेत्य् अथ कस् त्वम् असीत्य् अहं दुर्गाद् आहर्तेति सो ऽब्रवीद् दुर्गे वै हन्तावोचथा अयं वराह आमुख एकविंशत्याः पुरां पारे ऽश्ममयीनां तस्मिन्न् असुराणां वसु वामम् अन्तस् तं जहीति तस्येन्द्रो द्रुम्भूल्याभ्यायत्य पुरस्ताद् भित्त्वा हृदयं प्रावृश्चद् एतद् वा एषाभ्यनूक्ता ॥

अतिविद्धा विथुरेणा चिद् अस्तास् त्रिःसप्त सानु संहिता गिरीणाम् ।

न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ॥ इति सो ऽब्रवीद् दुर्गाद् वा आहर्तावोचथा एतम् आहरेति तं वै विष्णुर् आहरद् यज्ञो वै विष्णुर् यज्ञो वै तद् यज्ञम् असुरेभ्यो ऽध्य् आहरद् यज्ञेन वै तद् यज्ञं देवा असुराणाम् अविन्दन्तैतद् वा एषाभ्यनूक्ता ॥

विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः ।

शतं महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ॥ इति तद् वै देवा यज्ञम् अविन्दन् यद् वै तद् यज्ञम् अविन्दंस् तद् देवायजनस्य देवयजनत्वं यद् देवयजनम् इछन्ति यज्ञम् इछन्ति यद् विन्दन्ति यज्ञं विन्दन्ति यद् वाव यजमानो जोषयते तद् देवयजनं यज्ञं वावैतद् यजमानो जोषयते ऽसुराणां वा इयम् अग्र आसीद् यावन् निषद्य परापश्यंस् तद् देवानां ते देवाः सलावृकीम् अब्रुवन् यावद् इयं त्रिः समन्तं पर्येति तद् अस्माकम् इति सा वा इमां त्रिः समन्तं पर्यैत् तद् वै देवा इमाम् अविन्दन्त तद् वेद्या वेदित्वं विष्णुं वै देवा आनयन् वामनं कृत्वा यावद् अयं त्रिर् विक्रमते तद् अस्माकम् इति स वा इदम् एवाग्रे व्यक्रमताथेदम् अथादस् तद् वै देवा इह माम् अविन्दन्त तद् वेद्या वेदित्वं सर्वा वा इयं पृथिवी वेदिर् इयं मेखलम् इति त्व् एवास्या यजमानः परिगृह्णीते यावद्यावद् वै यजमानो वेद्याः कुरुते तावतात्तावत्तात् पृथिव्या जयति तस्मान् महती कार्या ज्यायसीज्यायसी देवाश् च वा असुराश् चास्पर्धन्त तद् यत् किञ्चासुराणां स्वम् आसीत् तद् देवा वेद्याविन्दन्त तद् वेद्या वेदित्वं तेषां यत् प्रियं वस्व् आसीत् तेनापाधावन्न् अनेन चिन् मुच्यामहा इति तद् देवा उत्तरवेद्याविन्दन्त तद् उत्तरं वै श्रेयो ऽविदामहीति तद् उत्तरवेद्या उत्तरवेदित्वं तद् य एवं विद्वान् वेदिं चोत्तरवेदिं च कुरुते ऽभिपूर्वम् एव सपत्नस्य भ्रातृव्यस्य वसु वेदो वृञ्जान एति

॥३.८.३॥

ऽविदामहीति : फ़्न् चोर्रिगेन्द। एद्।: विदामहीति।

षट्त्रिंशत् प्रक्रमाः प्राची चतुर्विंशतिर् अग्रेण त्रिंशज् जघनेन तथा विराजा सम्मिताथो छन्दांसि वै विराट् छन्दांसि वावास्यैतद् यज्ञमुखे युनक्त्य् एतद् वा एषाभ्यनुक्ता ॥

इन्द्राणी पत्या सुजितं जिगायोदंशेन पतिविद्ये बिभेद ।

त्रिंशद् यस्या जघनं योजनान्य् उपस्था इन्द्रं स्थविरं बिभर्ति ॥ इति यद् वाव प्राचीनप्रवणं तद् देवयजनं प्राञ्चं हि तं शयानम् अविदन्न् अथ यत् प्राचीनप्रवणम् उदीचीनापनतं तद् यजेत यः कामयेतोभयोर् लोकयोर् ऋध्नुयाम् इत्य् उभयोर् वा एतल् लोकयोर् उभयोर् एव लोकयोर् ऋध्नोत्य् अथ यस्य देवयजनस्योत्तराद् अन्यद् देवयजनं तद् यजेत यः कामयेताभि मोत्तरो यज्ञो नमेद् इत्य् एतद् वा उत्तरावन् नाम देवयजनम् अभ्य् एनम् उत्तरो यज्ञो नमत्य् अथ यस्य देवयजनस्य मध्यतो बहुला ओषधयस् तत् पशुकामो यजेत पशवो वा ओषधयः पशुमान् भवति यत् समं प्रतिष्ठितं तद् गतश्रीर् यजेत प्रतिष्ठितं वा एतत् प्रतिष्ठित एष यो गतश्रीस् तद् एवैनं प्रतिष्ठापयति पापो हि स ततः प्रच्यवमानो ऽथ यस्य देवयजनस्यापः पुरस्तात् तद् यजेत यः कामयेताभि मोत्तरो यज्ञो नमेद् इत्य् एतद् वै पुरोहविर् नाम देवयजनम् अभ्य् एनम् उत्तरो यज्ञो नमत्य् अथ यस्य देवयजनस्य पन्थाः पुरस्ताद् इरिणं वा कर्तो वा भ्रातृव्यवान् यजेतैतद् वा आप्तं देवयजनं सदेवं यद् धि देवयजनाद् देवयजनम् उञ्शिंषेद् भ्रातृव्याय लोकम् उञ्शिंषेद् अथ यस्य देवयजनस्याहवनीयाद् अन्याः प्राचीर् आपो धावन्ति गार्हपत्याद् अन्याः प्रतीचीस् तद् यजेत यं तल्पे वा पात्रे वा मीमांसेरन्न् अनुषक्तो हि वा एष पाप्मनाथैतन् मीमांसन्त एतद् वै व्यावृत्तं पाप्मना पाप्मनैवैनं व्यावर्तयन्ति यद् वै यज्ञः सन्तिष्ठते प्राचीनम् अस्य समृद्धम् एति प्रतीचीनं व्यृद्धं पशवो वै यज्ञस्य समृद्धम् आपः खलु वै पशवो यत् प्रत्यङ्ङ् अवभृथम् अभ्यवेयाद् यज्ञस्य व्यृध्येन व्यृध्येताथ यत् प्राङ् अवभृथम् अभ्यवैति यज्ञस्य वा एतत् समृध्येन समृध्यते यत् त्र्युन्नतं तद् भ्रातृव्यवान् यजेत यस्याहवनीयं च हविर्धानं चान्तरोन्नतं यस्य हविर्धानं च सदश् चान्तरोन्नतं यस्य सदश् च गार्हपत्यं चान्तरोन्नतम् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते ऽथ यस्य देवयजनस्य दक्षिणत उन्नतं तद् भ्रातृव्यवान् यजेतैतां वै दिशं देवा असुरान् प्रणुद्य स्वर्गं लोकम् आयन्न् अथैभ्यो ऽमुम् आदित्यं परिधिं पर्यदधुर् अपुनराभावायैतां वा एतद् दिशं यजमानो भ्रातृव्यं प्रणुद्य स्वर्गं लोकम् एत्य् अथास्मा अमुम् आदित्यं परिधिं परिदधात्य् अपुनराभावाय स्थले यजेत यः कामयेतोभयेषां देवमनुष्याणां प्रकाशं गछेयम् इति प्रकाशो वै नामैतद् देवयजनम् उभयेषां देवमनुष्याणां प्रकाशं गछत्य् अभिशस्यमानं याजयेत् परोक्षं गुहा वने परोक्षं पृष्ठान्य् अपेयुः परोक्षं वा एष यम् अभिशंसन्ति परोक्षम् एवास्माद् गुहा पापीयां वाचं करोत्य् अथ यस्य होता प्रातरनुवाकम् अनुब्रुवन्न् अग्निम् अपः सूर्यं तानि पश्येत् तद् ब्रह्मवर्चसकामो यजेत ब्रह्मवर्चसं वा अग्निर् ब्रह्मवर्चसम् आपो ब्रह्मवर्चसम् अस्मा आदित्यो ब्रह्मवर्चसम् एव सन्दधाति ब्रह्मवर्चसी भवत्य् अथ यस्य देवयजनस्यान्याअन्या मध्यतो बहुला ओषधयो ऽतो वा अङ्गिरसः पशून् असृजन्त तत् पशुकामो यजेताथ यस्य देवयजनस्य मध्यत उन्नतम् अतो वा अङ्गिरसः स्वर्गं लोकम् आयंस् तत् स्वर्गकामो यजेत निर्वस्के ऽभिचरन् यजेत यथैवैतं निर्णयत्य् एवं तं निर्णयति यम् अभिचरति यत् कार्यम् इव स्यात् तद् यजेत यः कार्य इव स्याद् आत्मा वै देवयजनं करोत्य् एवैनं ये युवान आर्षेया ऋत्विजो वह्नयस् तद् देवयजनं तस्माद् आहुर् युवैवार्त्विजीना इत्य् अग्निर् वाव देवयजनं तद् य एवं विद्वान् यत्रैव क्वचाग्निम् आधाय यजते देवयजन एव यजते

॥३.८.४॥

प्रैभ्यो : फ़्न् एमेन्देद्। एद्।: प्रैभ्यौ।

यद् वा अस्या यज्ञियं मेध्यं यत् सदेवं तद् उत्क्रम्यातिष्ठद् अन्तरा देवासुरान्त् संयतान्त् सिंहीरूपम् इव भूत्वा ते ऽविदुर् यतरान् वा इयम् उपावर्त्स्यति त इदं भविष्यन्तीति तस्यां वा उभय ऐछन्त सा नान्यतरांश्चनोपावर्तत तां देवा अपाशासुर् उप ना आवर्तस्वेति साब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् साब्रवीन् माम् एव पर्वाम् अग्नेर् व्याघारयात् स यत्कामो मां व्याघारयात् तम् एव स कामम् अश्नुवद् इति तां देवाः पूर्वाम् अग्नेर् व्याघारयंस् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतां पूर्वाम् अग्नेर् व्याघारयति भवत्य् आत्मना परास्य भ्रातृव्यो भवति यद् वै तद् उत्क्रम्यातिष्ठद् अन्तरा देवासुरान्त् संयत्तान्त् सिंहीरुपम् इव भूत्वा सा वा उत्तरवेदिस् तप्तायनी मे ऽसीति तप्ता हि ते ताम् अविन्दन्त वित्तायनी मे ऽसीति वित्ता हि ते ताम् अविन्दन्तावतान् मा नाथितम् इति नाथितां हि सा तान् आवद् अवताद् व्यथितम् इति व्यथितां हि सा तान् आवद् एतदेतद् वा एतया देवा असुराणाम् अविन्दन्तैतदेतद् एवैतया यजमानो भ्रातृव्यस्य वृङ्क्ते ऽग्ने अङ्गिरो यो ऽस्यां पृथिव्याम् अध्यसीति य एवैषु त्रिषु लोकेष्व् अग्नयस् तान् एवावरुन्द्धे विदेर् अग्ने नभो नाम यत्ता इति नभो हि नाम सो ऽग्निर् आसीद् जानुदघ्नं खेयमेतावती वा अस्याः पृथिव्या जीवं यज्ञियं तद् एवावरुन्द्धे सिंहीर् असि महिषीर् असीति सिंहीरूपम् इव हि तन् महिषीरूपम् इव भूत्वातिष्ठद् देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेति देवेभ्य एवैनां शुन्धन्ति देवेभ्यः शुम्भन्ति निःसारयति यद् एवास्या उद्घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तन् निःसारयतीन्द्रघोषास् त्वा पुरस्ताद् वसुभिः पान्त्व् इत्य् एतद्देवत्या वा इमा दिशो यथादेवतम् एवैनां प्रौक्षीद् अतो वै देवा असुरान् मनसा विनुद्य स्वर्गं लोकम् आयंस् त एता देवता अन्ततो ऽदधतासुराणाम् अनन्वग्भावायातो वा एतद् यजमानो भ्रातृव्यं मनसा विनुद्य स्वर्गं लोकम् एति स एता देवता अन्ततो धत्ते भ्रातृव्यस्यानन्वग्भावाय ते ऽकामयन्त सपत्नं भ्रातृव्यं सहेमहीति सिंहीर् असि सपत्नसाही स्वाहेति तम् एव तेन कामम् आशुनुवत सपत्नं भ्रातृव्यं साढ्वा ते ऽकामयन्त पशवो नः स्युर् इति सिंहीर् असि रायस्पोषवनिः स्वाहेति तम् एव तेन कामम् आश्नुवत सपत्नं भ्रातृव्यं साढ्वा पशून् भित्त्वा ते ऽकामयन्त प्रजानः स्याद् इति सिंहीर् असि सुप्रजावनिः स्वाहेति तम् एव तेन कामम् आश्नुवत सिंहीर् अस्य् आदित्यवनिः सजातवनिः स्वाहेत्य् आदित्याभिर् हि सा प्रजाभिः सह ते ऽकामयन्त देवा नो यज्ञं विद्युर् इति सिंहीर् अस्य् आवह देवान् देवायते यजमानाय स्वाहेति तम् एव तेन कामम् आश्नुवत भूतेभ्यस् त्वेत्य् उद्दिशति देवा ह्य् एव भूता यत्र वा अदो ऽग्निर् होत्राद् भीषापाक्रामत् स सर्वेषु भूतेष्व् अवसद् यां पशुष्व् अवसत् ताम् अनाछिन्नस्तुकस्यान्तराशृङ्गम् अवसद् यां वनस्पतिषु पूतुद्रौ याम् ओषधीषु तां सुगन्धितेजने यत् सम्भारान्त् सम्भरति यद् एवात्राग्नेर् न्यक्तं तत् सम्भरति यानि वा अदो ऽग्निर् अस्थान्य् अधूनुत स पूतुद्रुर् अभवद् यन् मांसं तद् गुग्गुलु यत् पूयितम् उपश्लिष्टं स सुगन्धितेजनो यद् एते सम्भारा भवन्ति यद् एवात्राग्नेर् न्यक्तं तस्यावरुद्ध्यै विश्वायुर् असि पृथिवीं दृंहेत्य् एषां ह्य् एते लोकानां विधृत्यै परिधीयन्ते ध्रुवक्षितिर् अस्य् अन्तरिक्षं दृंहेत्य् अन्तरिक्षं हि यज्ञो ऽच्युतक्षिद् असि दिवं दृंहेति दिवम् एवैनम् अजीगमद् अग्नेर् भस्मास्य् अग्नेः पुरीषम् असीत्य् अग्नेर् ह्य् एतद् भस्माग्नेः पुरीषं देवपात्रं वा उत्तरवेदि देवेभ्यो देवपात्रं प्रोच्यं वैभ्राजा देवा यद् आह विभ्राड् बृहत् पिबतु सोम्यं मध्व् इति देवेभ्यो वा एतद् देवपात्रं प्राह प्र वसीयसः पात्रम् आप्नोति ब्राह्मणं तु पात्रे न मीमांसेत यः पात्रिय इव स्यात्

॥३.८.५॥

भीषापाक्रामत् : फ़्न् एमेन्देद्। एद्।: होत्रादिषापाक्रामत्।

एतावती वा इयं पृथिवी यावती वेदिर् अपरिमिताद् वा एतद् भ्रातृव्यं निर्भज्य यजमानाय परिगृह्णात्य् ऋक्षं वा अमेध्यम् आपो हविर् यत् प्रोक्षति मेध्यम् एवैनत् करोत्य् ऋक्षं वा अमेध्यं यद् बर्हिः स्तृणाति मेध्याम् एवैनां करोत्य् एतावती वा इयं पृथिवी यावती वेदिः प्रजा बर्हिर् यद् बर्हिः स्तृणात्य् अस्यां वा एतत् प्रजाः प्रतिष्ठापयति यजमानो वै प्रस्तरः प्रजा बर्हिर् यत् प्रस्तरम् उत्तरं बर्हिषः सादयति यजमानं वा एतद् उपरिष्टाद् आसां प्रजानां दधात्य् अथ यत् तृणे अन्तर्दधाति तेन यजमानो यजमानेन व्यावर्तते बहुलं बर्हिः स्तृणात्य् अक्षोधुका अस्य पशवो भवन्ति प्राचीनं बर्हिः स्तृणाति प्राङ् हि यज्ञो यत् प्रतीचीनं स्तृणीयात् प्रत्यादाज्यास्य राष्ट्रं घातुकं स्याद् देवेषुर् वै वेदिर् यत्र वै देवेष्वा सन्नतया कामयते तद् धन्ति यद् वेदिं कल्पयति देवेषुं वा एतत् सन्नमति तया सन्नतया यत्र यजमानः कामयते तद् धन्ति त्रयो वै पूर्वे ऽग्नयः प्राधन्वन् हव्यं देवेभ्यो वहन्तो वषट्कारः प्रावृश्चद् अथ यो ऽयम् इदानीं स भीषापाद्रवद् ईदृग् उ स आरिष्यतीति तं देवा अपाशासुर् उप ना आवर्तस्वेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीत् त्रयो वै मे पूर्वे भ्रातरः प्राधन्वन् हव्यं देवेभ्यो वहन्तो वषट्कारः प्रावृश्चत् तेषां भागो ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीद् यद् एव किञ्चाहुतं बहिष्परिधि स्कन्देत् तद् एव तेषां भागधेयम् असद् इति तेषां वा एतद् भागधेयम् अस्थन्वन्तो हि वै त आसन्न् अथ ते प्राधन्वन् सो ऽब्रवीद् अस्थानि नु धविष्ये ऽथोपावर्त्स्यामीति ते वा अन्वायंस् ते समन्तं पर्यविशन् यज्ञस्य गोपीथायायं वाव यज्ञायोपधीयते ऽयं यजमानायायं भ्रातृव्यायेमौ प्रतरं करोतीमम् अपतरं यज्ञेन वा एतद् यजमानं प्रतरं करोति यज्ञेनास्य भ्रातृव्यम् अपतरं करोति सन्धिं प्रतिजुहोति न ह्य् अग्निम् आहुतिस् तरति मुखत एवैनान् प्रीणात्य् अथो सुतीर्थेन वा एतद् आहुतीस् तारयत्य् अयं वाव भूपतिर् अयं भुवनपतिर् अयं भूतानां पतिर् अथ यो ऽयम् इदानीं स भूतिर् यद् आहुतं बहिष्परिधि स्कन्देत् तद् अभिमन्त्रयेत ॥

करोति : फ़्न् एमेन्देद्। एद्।: करोति

भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा ॥ इति भागधेयं वावैषाम् एतत् प्रीणात्य् एवैनान् अथो हविषा वा एतत् स्कन्नेन द्वितीयाम् आशिषम् अवरुन्द्ध एतद् ध स्म वा आहारुण औपवेशिः किम् उ स यज्ञेन यजेत यो हविषा स्कन्नेन द्वितीयाम् आशिषम् अवरुन्धं न विद्याद् इति तद् द्वितीयाम् एवैतेनाशिषम् अवरुन्द्धे

॥३.८.६॥

ये पुरा ग्रन्थयो भवन्ति तान् विस्रंसयन्ति मानुषस्य व्यावृत्त्यै प्रणेनिजति यद् एवैनयोर् अभिनिषण्णं शमलम् अमेध्यं तञ् शुन्धन्ति युञ्जते मन उत युञ्जते धिया इति जुहोति युक्त्या एव सावित्र्या जुहोति सवितृप्रसूते एव प्रवर्तेते हविर् वै हविर्धाने यद् उपानक्ति हविर्भूत एव प्रवर्तेते अथो अभिवृत्ते एव पत्न्य् उपानक्ति यद् वै पत्नी यज्ञे करोति तन् मिथुनं मिथुनत्वाय वै पत्न्य् उपानक्त्य् एष वै पत्न्या यज्ञस्यान्वारम्भो यद् यज्ञे करोत्य् अन्वारम्भाय वै पत्न्य् उपानक्ति प्राचीनम् उपानक्ति प्राङ् हि यज्ञस् त्रिर् अन्यत् त्रिर् अन्यद् उपानक्त्य् अपरिमितं हि मनुष्या उपाञ्जन्ति दक्षिणत उपानक्त्य् उदीची ह्य् एते मनुष्यलोकम् उपावर्तेते निरृतिगृहीतो वा एष उभयतः सन्दष्टः शुष्को यद् उपानक्ति शमयत्य् एव शुष्को वा एष दुर्वाग् यजमानस्य गृहम् आवदति स ईश्वरो ऽशान्तो यजमानं हिंसितोस् तद् अनुगृह्णन्तो यन्ति यद्य् उत्क्ष्वेदेत् सुवाग् आवद देव दुर्यान् इति वदेच् छमयत्य् एवाथो शमयित्वैवाशिषम् आशास्ते हविर् वै हविर्धाने स्तीर्त्वा वै बर्हिर् हविर् आसादयन्ति तस्मात् प्रस्तरं स्तीर्त्वा प्रवर्तयन्ति हविर् वै हविर्धाने अनूच्यमानासु वै सामिधेनीषु हविर् आसादयन्ति तस्मात् प्रवर्त्यमानयोर् होतान्वाहेमे वा एते इमे वा एतत् प्रवर्तयन्ति यद् धविर्धाने तस्मात् पूर्वस्या जनताता अपरा जनता क्षेत्रम् अभ्यारोहुका ते यर्हि प्रवर्तयेयुस् तर्हि होतानुब्रुवन् मनसा पदा तां जनतां प्रतिनुदेद् अप जन्यं भयं नुदेति विड् वा एषा विशं वा एतत् प्रतिनुदते ऽनभ्यवचारुकास्य विट् क्षेत्रं भवति नीयानं वै रक्षांसि यज्ञम् अवयन्ति यद् वर्त्मनि जुहोति रक्षसाम् अपहत्यै वैष्णव्या जुहोति विष्णुर् वै यज्ञो विष्णुनैव यज्ञेन यज्ञाद् रक्षांस्य् अपहन्ति यद् गायत्र्या जुहोतीमां तेनाक्रमते यत् त्रिष्टुभान्तरिक्षं तेनाथ यद् आहवनीयं गछतः स्वर्गं तेन लोकं त्रीन् प्रक्रमान् प्रतिविक्रमते त्रयो वा इमे लोका इमान् एव लोकान् यजमानायोञ्शिंषति वैष्णवम् असि विष्णुस् त्वोत्तभ्नात्व् इति वैष्णवं हि हविर्धानं दिवो विष्ण उत वा पृथिव्या इति दक्षिणस्य हविर्धानस्य मेथीन् निहन्ति मुखत एव यज्ञस्याशिषम् अवरुन्द्धे यम् अध्वर्युः प्रथमं ग्रन्थिं ग्रथ्नाति तं प्रथमं विस्रंसयति यद् अन्यं पूर्वं विस्रंसयेद् अमेहेन प्रमीयेत विष्णोर् नु कं वीर्याणि प्रवोचम् इत्य् उत्तरस्य हविर्धानस्य मेथीन् निहन्ति वैष्णव्या वैष्णवं हि हविर्धानं स्वयैव देवतया यो अस्कभायद् उत्तरं सधस्थम् इत्य् अदो वा उत्तरं सधस्थम् अमुष्मिन्न् एव हविर्धानं सम्मिनोति ॥

आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः ।

इहाद्य सोमपीतये ॥ इति य एव देवा यज्ञियास् तान् हविर्धाना आसादयति तां श्वो भूते ऽभियजते दण्डो वा एतद् औपरो वषट्कारेण निरहन् यच् छदिर् अभिनिदधात्य् अपिहित्या अछिद्रत्वाय विष्णोः पृष्ठम् असीत्य् अद एव विष्णो रराटम् असीत्य् अद एव विष्णोः शिप्रे स्था इतीमे एव मुखतो वा एतत् स्वया देवतया शिरो यज्ञस्य सम्भरति विष्णोः स्यूर् असीति तस्माद् इदं शिरः षोढाविष्कृतं प्र तद् विष्णुः स्तवते वीर्येणेति प्राङ् उक्त्रम्य वदत्य् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते

॥३.८.७॥

देवस्य त्वा सवितुः प्रसव इति सवितृप्रसूत एवैनाम् आदत्ते ऽश्विनोर् बाहुभ्याम् इत्य् अश्विनौ वै देवानाम् अध्वर्युः पूष्णो हस्ताभ्याम् इति देवताभिर् एवाभ्रिर् असि नारिर् असीति क्रूरम् इव वा एतद् यद् अभ्रिः शमयत्य् एवेदम् अहं रक्षसो ग्रीवा अपिकृन्तामीत्य् आह रक्षसां ध्वरायै रक्षसाम् अन्तरित्यईदम् अहं सोमे समानो यो ऽसमानो ऽरातीयति तस्य ग्रीवा अपिकृन्तामीति समानो वा ह्य् असमानो वारातीयति सर्वम् एवैतया पर्यापत् प्राणा वा उपरवाः शिरो हविर्धानं शीर्षन् वा इमे प्राणास् तस्माद् धविर्धाने ऽन्तर् वा इमे शीर्षन् प्राणास् तस्माद् अन्तश् चत्वारो वा इमे शीर्षन् प्राणास् तस्माच् चत्वारः सन्तृण्णाः परः सन्तृण्णा हि परः प्राणा विधृता उपरिष्टाद् विधृता हीम उपरिष्टात् प्राणाः पूर्वार्धे वा इमे मुखस्य प्राणा एतत् खलु वै हविर्धानस्य पूर्वार्धं यद् दक्षिणं हविर्धानं तस्माद् दक्षिणे हविर्धाने बृहन्न् असि बृहद्राया इति देवा ह्य् एव बृहद् बृहतीम् इन्द्राय वाचं वदेत्य् ऐन्द्रो हि यज्ञो रक्षोहणं वलगहनम् इत्य् आह रक्षसां ध्वरायै रक्षसाम् अन्तरित्यै वैष्णवीम् इति विष्णुर् हि यज्ञो ऽसुरा वा एतान् वलगान् देवेभ्यः प्राणेषु न्यखनंस् तान् बाहुमात्रे ऽन्वविन्दंस् तस्माद् बाहुमात्रं खेयं यद् वाव कृत्या यञ् शफं यद् अभिचरितं तद् एतद् उद्वपति प्राणा वा उपरवास् यद् अवसिञ्चति तस्माद् इम उदन्वन्तः प्राणाः प्राणा वा उपरवा यद् अवस्तृणाति तस्माद् इमे लोमशाः प्राणा अथ यद् अवसिञ्चत्य् अव च स्तृणाति मस्तिष्को वा एष क्रियते हनू अधिषवणे शिरो हविर्धानं शीर्षन् वा इमे हनू तस्माद् धविर्धाने ऽन्तर् वा इमे शीर्षन् हनू तस्माद् अन्तर् इमे वा एते यत् सन्तृन्द्याद् इमे एव सन्तृन्द्यात् तत् सम्पाद्ये एव द्व्यङ्गुलम् अन्तरा कार्यं द्व्यङ्गुलं हीदम् अन्तरा वै नाकेव शिरो हविर्धानं पृष्ठम् आग्नीध्रम् उदरं सदः प्राङ् हि यज्ञः संहितो हनू अधिषवणे जिह्वाधिषवणं ग्रावाणो दन्ता मुखतो वा एतत् प्रजापतेः सोमं पिबन्तीन्द्रो वै वृत्रम् अहन् स इमां प्राविशत् तं देवताः प्रैषम् ऐछंस् तन् नाविदंस् तं भूतान्य् उपारवन्त यो नो ऽधिपतिर् अभूत् तन् न विन्दामा इति तद् उपरवाणाम् उपरवत्वं यत् तद् उपारवन्त तच् चतुर्धावस्ताद् एवैछन्न् एकधा परो ऽन्वविन्दंस् तस्माच् चतुर्धावस्ताद् एकधा परो यद् उपरवान् अनुमृशतीन्द्रियस्यावरुद्ध्यै

॥३.८.८॥

वा : फ़्न् एमेन्देद्। एद्।: वा।

पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति प्रोक्षत्य् एषा ह्य् एषां लोकानां विधृत्यै मीयते त्रिः प्रोक्षति त्रिषत्या हि देवा अथो त्रयो वा इमे लोका एभ्य एवैनां लोकेभ्यः प्रौक्षीद् अन्नं वै यवा ऊर्ग् उदुम्बरो यद् यवमतीभिः प्रोक्षत्य् ऊर्जा वा एतद् अन्नं समर्धयत्य् ऋक्षं वा अमेध्यम् आपो हविर् यद् अवसिञ्चति मेध्यम् एवैनत् करोत्य् ऋक्षं वा अमेध्यं यद् अवस्तृणाति मेध्यम् एवैनत् करोति पितृदेवत्यं वै निखातम् अमेध्यम् अन्यदेवत्यम् अस्याः खलु वा इमा उत्तमार्ध ओषधयो यद् अवस्तृणात्य् अस्या एवैनाम् उत्तमार्धे मिनोत्य् अनिखातैवाभूद् अन्नं वै यवा ऊर्ग् उदुम्बरो यद् यवम् अवास्यत्य् अन्ने वा एतद् ऊर्जं दधाति न ह्य् अन्नम् ऋत ऊर्जो धिनोति नो ह्य् ऊर्ग् ऋते ऽन्नाद् धिनोति नितानस् त्वा मारुतो निहन्त्व् इति मनो वै नितानः प्राणा मारुता मित्रावरुणौ ध्रुवेण धर्मणेति मित्रम् एवैनां दाधार वरुणः कल्पयति विधृत्यै च खलु वा एषां प्रजानां कॢप्त्यै च मीयते मित्रावरुणौ वै देवानां धर्मधारयौ दैवं वा एतद् धर्मम् अदीधरतां यद् औदुम्बरी ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीत्य् आशीर् एवैषा ब्रह्म दृम्ह क्षत्रं दृंहेत्य् आशिष एवैष परिग्रहो घृतेन द्यावापृथिवी आपृणेति घृतेनैव द्यावापृथिवी व्युनत्त्य् उदरं वै सद ऊर्ग् उदुम्बरो यद् औदुम्बर्य् ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च प्रजापतेर् वा एतद् उदरं यत् सदः प्राजापत्य उद्गाता तस्माद् उद्गातान्वारभते यजमानो वा औदुम्बरी वर्षिष्ठा कार्या वर्ष्मैनं समानानां गमयति विश्वजनस्य छायासीति छदिर् अभिनिदधाति गोत्राद्गोत्राद् धि प्रसर्पन्त्य् उदरं वै सदो यद् अन्येनान्येन सम्मिनोति तस्माद् उदरम् अन्येनान्येनामेन सन्तत उदरं वै सदो यद् अनूचीनं मिनुयात् पराचीनं जग्धम् अतीयाद् अथ यत् तिरश्चीनं मिनोति तस्माज् जग्धं सर्वाण्य् अङ्गान्य् अनुवेति प्रजा वा एतत् समीचीनं मिनोति समीचीर् एनं प्रजा अभिसमावर्तते संयात इव स भवति समानं साङ्काशिनं कार्यं समाना हीमे प्राणा यं द्विष्यात् तस्याक्ष्णया मिनुयात् प्राणान् अस्य मोहयति प्रमायुको भवति यदि कामयेत वर्षेत् पर्जन्या इति नीचैः सदो मिनुयाद् वृष्टिम् एव नियछति यदि कामयेत न वर्षेत् पर्जन्या इत्य् उच्चैः सदो मिनुयाद् वृष्टिम् एवापाग्रहीन् नवछदिर् अग्निष्टोमे स्यात् तेजसा त्रिवृता सम्मितं पञ्चदशछदिर् उक्थ्ये पञ्चदशेन वज्रेण सम्मितं सप्तदशछदिर् अतिरात्रे सप्तदशो वै प्रजापतिः प्राजापत्या रात्रिर् आनुष्टुभी यज्ञक्रतूनाम् एवैषा व्यावृत्तिः प्राचीनवंशं हविर्धानं मिनोत्य् ऊर्ध्वा हि द्यौः प्राचीनवंशम् आग्नीध्रम् ऊर्ध्वं ह्य् अन्तरिक्षं तिरश्चीनवंशं सदस् तिरश्ची हीयं यजुषा हविर्धानं मिनोति निरुक्ता हि द्यौर् यजुषा सदो निरुक्ता हीयम् अयजुषाग्नीध्रम् अनिरुक्तम् इव ह्य् अन्तरिक्षम् अर्धम् आग्नीध्रस्यान्तर्वेदि मिनोत्य् अर्धं बहिर्वेद्य् अर्धं ह्य् अन्तरिक्षस्यास्मिंल् लोके ऽर्धम् अमुष्मिन्

॥३.८.९॥

धर्मम् : फ़्न् एमेन्देद्। एद्।: धमम्।

अभिनिदधाति : फ़्न् एमेन्देद्। एद्।: आभनिदधाति।

स : फ़्न् एमेन्देद्। एद्।: स।

सुवाङ् नभ्राड् अङ्घारे बम्भारा इत्य् एते वै देवानां सोमरक्षय एतेभ्यो वा अधि छन्दांसि सोमम् आहरंस् ते सोमपीथेन व्यार्ध्यत त एतानि द्वितीयानि नामान्य् अधत्त मङ्गलेछायै सोमपीथो ना उपनमाद् इति तस्माद् एते द्विनामनस् ते वा अन्वायंस् ते न प्राप्नुवंस् तस्माद् एते ऽतिहाय वषट् क्रियन्ते न हि प्राप्नुवंस् तेषां वा एष लोको यावद् अभि न्युप्यते तद् यो ऽविद्वान् आक्रामत्य् आर्त्तिम् आर्छत्य् अथ य एवं विद्वान् आक्रामति न सदस्याम् आर्त्तिम् आर्छति तेषां वा एष भागो यद् व्याघार्यन्ते त एवास्मै तेनाभीष्टाः प्रीता भवन्ति यज्ञमुखं वै पवमानो यत् पवमाने स्तुते ऽग्नयो विह्रियन्ते यज्ञमुखाद् एवाधिविह्रियन्ते जम्भो वै नामासुर आसीत् स यज्ञम् अगिरत् स आग्नीध्रं न प्राप्नोत् तम् आग्नीध्रात् पुनर् व्यरुजद् एतद् वै जीवं तस्माद् आग्नीध्राद् विह्रियन्ते दक्षिणतो वै देवान् असुरा यज्ञम् अजयंस् त उदञ्चा आग्नीध्रं समातिष्ठंस् तम् आग्नीध्रात् पुनर् अभ्यजयन्न् एतद् वा अनभिजितं तस्माद् आग्नीध्राद् विह्रियन्त एतत् प्रति वै देवान् असुरा यज्ञम् अजयंस् त आग्नीध्राद् अधि बहिष्पवमानेन यज्ञम् अभिजित्याग्नीन् आधाय बर्हिर् अस्तृणत पराजिज्ञाना वा एतत् सर्पन्ति यद् बहिष्पवमानं स्तोष्यन्तः सर्पन्ति यद् बहिष्पवमाने स्तुत आह ॥

मङ्गलेछायै : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अग्नीद् अग्नीन् विहर बर्हिः स्तृणाहि ॥ इत्य् आग्नीध्राद् वा एतद् अधि बहिष्पवमानेन यज्ञम् अभिजित्याग्नीन् आधाय बर्हिः स्तृणते ऽत्र वा एतर्हि यज्ञो यत्रास्तुतं स्तोत्रं यत्रैव यज्ञस् तद् अभिपर्यावृत्य जुहोति शुक्रवती वै पूर्वे सवने अशुक्रं तृतीयं सवनं यज् ज्योतिष्मतीस् तृतीयसवने व्याघारयन्ति तेन तृतीयसवनं शुक्रवत् संवत्सरो वा अग्निष्टोमस् तस्य वा एतास् तन्वो यद् धिष्ण्यास् ता वा अस्यैतत् समुद्धर्षयित्वा ज्योतिष्मतीः कृत्वाथाग्निष्टोमेन स्तुवते संवत्सरो वा अग्निष्टोमो द्वादश मासाः संवत्सरो यत् प्राचीर् आहुतयो हूयन्ते प्रत्यञ्चो धिष्ण्या व्याघार्यन्ते संवत्सरस्य विधृत्यय् उभयतो वै देवान् असुराः परीयत्ता आसन् पुरस्ताद् अन्ये पश्चाद् अन्ये यत् प्राचीर् आहुतयो हूयन्ते ये पुरस्ताद् आसंस् तांस् तेनापानुदन्त यत् प्रत्यञ्चो धिष्ण्या व्याघार्यन्ते ये पश्चाद् आसंस् तांस् तेनापानुदन्त तद् भ्रातृव्यस्य वा एष विनोदो ऽध्वर्युणा वै यज्ञो विधृत इदम् इव वा एतद् यज्ञस्य यद् धिष्ण्या यद् अध्वर्युः प्रत्यङ् धिष्ण्यान् अतीयात् प्राणात् सङ्कर्षेत प्रमायुकः स्याद् यद्य् अतीयाद् यज्ञपरुष्य् अतीयाद् ऐन्द्रीम् अनुब्रूयाद् ऐन्द्रं हि सदः स्वयैवैनद् देवतयोपचरत्य् आत्मनो ऽहिंसायै प्राचीनं वै धिष्ण्येभ्यो ऽध्वर्योर् लोको यद् अध्वर्युः प्रत्यङ् धिष्ण्यान् अतीयाद् अन्यजनतास्य क्षेत्रम् अभ्यारोहुका स्यान् न्य् अन्य उप्यन्ते नान्ये तद् एषां मिथुनं प्रजायति निरुक्ता अन्ये ऽनिरुक्ता अन्ये ये निरुक्तास् ते ऽस्मै लोकाय ये ऽनिरुक्तास् ते ऽमुष्मै क्षयाय यथा वा इदं मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्या एवं वा एते न्युप्यन्ते यज्ञस्य विधृत्यै यत् प्राचीनं धिष्ण्येभ्यस् तद् देवानां यत् प्रतीचीनं तन् मनुष्याणां तस्मात् सोमं पिबते प्राञ्चो धिष्ण्या नातिसृपे जनं ह्य् एति देवलोकम् अभ्यारोहति चात्वालाद् विह्रियन्त एष वा अग्नीनां योनिः स्वाद् एव योनेर् विह्रियन्ते ऽस्कन्नत्वाय तेषां वा एतद् अभ्यवायनं चोदयनं च यद् अन्तरा चात्वालं चाग्नीध्रं चैतद् वै यज्ञस्य तीर्थं तस्माद् एतेन सञ्चरति तेन यो ऽविद्वान्त् सञ्चरत्य् आर्तिम् आर्छत्य् अथ य एवं विद्वान्त् सञ्चरति न सदस्याम् आर्तिम् आर्छति ॥

स्तृणाहि : फ़्न् एमेन्देद्। एद्।: स्तृणाति। त्स्।६।३।१।२: स्तृणाहि, श्ब्।४।२।५।११: स्तृणीहि

इत्य् उपरिकाण्डे असुराणां नाम अष्टमः प्रपाठकः समाप्तः

॥३.८.१०॥