skipLink.label

तृतीय काण्ड, प्रपाठक 7

तृतीय काण्ड, प्रपाठक 7

तृतीयकाण्डे सप्तमः प्रपाठकः

तृतीयकाण्डे सप्तमः प्रपाठकः

अकॢप्तं वा इदम् आसीद् दिशो वा इमा न प्राजानंस् तद् देवा अन्यो ऽन्यस्मिन्न् ऐछंस् तन् नाविन्दंस् ते देवा अदितिम् अब्रुवंस् त्वया मुखेनेमा दिशः प्रजानामेति साब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् साब्रवीन् मद्देवत्यम् एव प्रायणीयम् असन् मद्देवत्यम् उदयनीयं माम् एवानुप्रायाथ माम् अनूदयाथेति स एष आदित्यश् चरुर् अदितिं वा एतद् अनुप्रयन्त्य् अदितिम् अनूद्यन्ति ततो वा इमा दिशः प्राजानन् पथ्यां यजति इमाम् एव तेन दिशः प्राजानन् यद् अग्निम् इमां तेन यत् सोमम् इमां तेन यत् सवितारम् इमां तेन यद् अदितिम् इयं वा अदितिर् ऊर्ध्वा वा अस्या दिग् ऊर्ध्वाम् एव तेन दिशं प्राजानंस् ततो वा अकल्पताकॢप्तस्य वै कॢप्त्यै प्रायणीयस् तद् य एवं विद्वान् प्रायणीयेन चरति कल्पते कल्पन्ते हास्मा ऋतवस् ततो वा इमा दिशो ऽन्वपश्यन् यत् पथ्यां यजतीमाम् एव तेन दिशम् अन्वपश्यन् यद् अग्नीषोमौ चक्षुषी वा अग्नीषोमव् अनु ताभ्यां समपश्यन् यत् सवितारं सवितृप्रसूता एवेमा दिशो ऽन्वपश्यन् यद् अदितिम् इयं वा अदितिर् अस्यां वै प्रतिष्ठाय देवा यज्ञम् अतन्वत यत् प्रथ्यां यजति वाग् वै पथ्या वाचम् एवावरुन्द्धे यद् अग्निं देवतास् तेन यत् सोमं यज्ञं तेन यत् सवितारं प्रसूत्यै यद् अदितिम् आदित्या वा इमाः प्रजास् ता एवावारुद्ध ता आद्या अकृत यद् वै यज्ञस्यान्तर्यन्ति तच् छिद्रं तेन यज्ञः स्रवति तेन यजमानो ऽग्नये समवद्यत्य् अग्निर् वै समिष्टिर् अग्निः प्रतिष्ठितिः समिष्ट्या एव प्रतिष्ठित्या अग्निं प्रथमं यजत्य् अग्निम् उत्तमं समानी वा एषा देवता पाङ्क्तत्वाय पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध स्वस्तिं यजति यज्ञस्य स्वस्त्यै पथ्यां यजति वाग् वै पथ्या वाचम् एवानुप्रयन्ति ताम् उत्तमाम् उदयनीये यजति वाग् वै पथ्या वाचम् एवानूद्यन्ति मरुत्वतीः पथ्याया ऋचो भवन्ति देवविशा वै मरुतो देवविशाम् एवाचीकॢपत् तां शान्तां कॢप्तां मनुष्यविशा अनुकल्पन्ते स्तेनभविष्णुर् हविर् भवति

॥३.७.१॥

प्राजानन् : फ़्न् चोर्रिगेन्द। एद्।: इमानप्रजानन्।

साब्रवीत् : फ़्न् चोर्रिगेन्द। एद्।: सो ऽब्रवीत्

एवावारुद्ध : फ़्न् एमेन्देद्। एद्।: एवावरुद्ध। च्फ़्। १।५।१०:७९।३, १।५।११:७९।१०

जुषाणेनान्य आज्यभागा इज्यन्ते ऽथात्र ऋचोभयतो यजति द्रढिम्ने ऽशिथिरत्वाय सप्तदश सामिधेनीः कार्याः पञ्च ऋतवो द्वादश मासा एष संवत्सरः संवत्सराद् एवाधि यज्ञमुखं प्रतनुते तद् आहुः पञ्चदश सामिधेनीः कार्या न सप्तदश संवत्सरीयस्यैवायनस्य सप्तदश कार्याः संवत्सरस्या ऋद्ध्या इति तन् न सूर्क्ष्यं सपतदशैव कार्याः प्रयाजवत् स्यात् प्रायणीयम् अननुयाजम् अनुयाजवत् स्याद् उदयनीयम् अप्रयाजम् उभयतो वा एतत् प्रयाजानुयाजा यज्ञम् अभिसन्धीयते समानो ह्य् एष यज्ञो निष्काषं च मेक्षणं च निदधाति तेन यज्ञः सन्तत आत्मा वै प्रयाजाः प्रयाजानुयाजा देवक्षेत्रं यज्ञो देवक्षेत्रम् आक्रममाणः प्रजाम् अन्तरियाद् यद् अनुयाजान् अन्तरियात् प्रयाजवत् स्यात् प्रायणीयम् अनुयाजवद् अनुयाजवत् स्याद् उदयनीयं प्रयाजवत् पयसि प्रायणीयः स्यात् पयस्य् उदयणीयो ऽपां वा एतञ् शुक्रियम् अपाम् एव शुक्रियम् अवरुन्द्धे पशवो वै शुक्रियं पशून् एवावरुन्द्धे ऽथो प्रायणे च वावास्मा एतद् उदयने च पशून् दधात्य् आदित्यः प्रायणीयः स्याद् आदित्य उदयनीय इयं वा अदितिर् अस्यां वा एतद् यज्ञमुखेन प्रतितिष्ठत्य् अस्याम् उपरिष्टाद् यत्र वै यज्ञस्यार्धे ऽग्रे समृद्धं क्रियते क्रियमाणङ्क्रियमानं ह वा अस्य समृध्यते संस्थाप्यं प्रायणीयं यज्ञस्य समृद्ध्यै याः प्रायणीये ऽनुवाक्यास् ता उदयनीये याज्याः स्युर् या उदयनीये ऽनुवाक्यास् ताः प्रायणीये याज्याः स्युः पथः प्रतिप्रज्ञात्यय् अथो अनुसन्तत्यै यद् अतो ऽन्यथा कुर्युश् छम्बट्कुर्युः

॥३.७.२॥

इयं वै कद्रूर् वाक् सुपर्णी छन्दांसि सौपर्णानि गायत्री त्रिष्टुब् जगती सा वै कद्रूः सुपर्णीम् आत्मानम् अजयत् साब्रवीत् सोमम् आहर तेनात्मानं निष्क्रीणीस्वेति सा छन्दांसि प्रैष्यद् अमुतः सोमम् आहरत तेन मा निष्क्रीणीतेति ततो जगत्य् उदपतत् सा पशुभिश् चागछद् दीक्षया च तस्मात् पशवा इति जगतीम् आहुस् तस्माद् यदा पशून् विन्दते ऽथ दीक्षते ततस् त्रिष्टुब् उदपतत् सा दक्षिणया चागछत् तपसा च तस्मात् त्रिष्टुभो लोके दक्षिणा दीयन्ते तस्माद् उ मध्यन्दिने तपस् तपनीयम् इति ततो गायत्र्य् उदपतत् सा सोमम् आहरत् तम् आह्रियमाणं सामिगन्धर्वो विश्वावसुर् आमुष्णात् स तिस्रो रात्रीर् उपहृतो ऽवसत् तस्मात् तिस्रो रात्रीः क्रीतो वसति ते ऽब्रुवन् पुनर् याचामहा इति ते देवा अब्रुवन् स्त्रीकामा वै गन्धर्वा वाचम् एव सम्भृत्य यथा योषिद् अनपक्षेयतमेव तया निष्क्रीणामेति तं वै निरक्रीणंस् तस्माद् आहुर् वाग् वै सोमक्रयणी वाचं वा एतद् गवा निष्क्रीणातीति ते ऽब्रुवन्न् अन्व् ऋतीयामहा इति ताम् अन्व् आर्तीयन्त तद् अनृतस्य जन्म तद् य एवं विद्वान्त् सत्यानृतां वाचं वदति न हैनं द्रुणाति ते ऽब्रुवन् विह्वयामहा इति तां व्यह्वयन्त गाथां देवा अगायन् ब्रह्म गन्धर्वा अवदन् सा देवान् उपावर्तत तस्माद् विवाहे गाथा गीयते तस्माद् गायन्त् स्त्रियाः प्रियस् तद् य एवं विद्वान् गाथां गायन् हस्तं गृह्णाति सं हि जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतस् तद् आहुर् आ वै सा पुनर् अगछन् नैव किं चन सोमक्रयणीति

॥३.७.३॥

अजयत् : फ़्न् चोर्रिगेन्द। एद्।: अयजत्।

या द्विरूपा सा वार्त्रघ्नी यत् तया क्रीणीयाज् जायुकम् अस्य राष्ट्रं स्याद् अथ यस्य तादृश्य् अनुस्तरणी भवति ताजग् एषाम् अपरः प्रमीयते या रोहिणी कृष्णाक्षी कृष्णवाला कृष्णशफा सा पितृदेवत्या यत् तया क्रीणीयात् प्रमायुको यजमानः स्याद् अथ यस्य तादृश्य् अनुस्तरणी भवत्य् ऋतुमद् एषाम् अपरः प्रमीयते यारुणा बभ्रुलोम्नी श्वेतोपकाशा शुच्यदक्षी तत् सोमक्रयण्या रूपं स्वेनैव रूपेण क्रीयते काणा स्याद् अखर्वा श्रोणा सप्तशफा तथा सर्वया क्रीयत एकहायन्याक्रय्या वाग् वै सोमक्रयणी तस्मात् प्रजाः संवत्सरे वाचं वदन्त्य् अप्सु क्रय्य ओषधयो वै सोम आपा ओषधीनां रसस् तथा स रसः क्रियते क्रये वा अहं सोमस्य तृतीयं सवनम् अवरुन्धे वेदेति ह स्माहारुण औपवेशिः पशवो वै तृतीयं सवनं पशूनां चर्म यच् चर्मणि निवपति तेनैव तृतीयं सवनम् अवरुन्द्धे रोहिते निवपति तस्मात् पशूनां रोहितरूपम् आनडुहे निवपत्य् अनड्वान् वै सर्वाणि वयांसि पशूनां सर्वान्य् एव वयांसि पशूनाम् आप्त्वावरुन्द्धे ऽथो बह्व् एव यज्ञस्यावरुन्द्धे सोमं विचिन्वन्ति पापवसीयस्य व्यावृत्त्यय् अथो देवेभ्य एवैनं शुन्धन्ति नाध्वर्युः सोमं विचिनुयान् न यजमानो न यजमानस्य पुरुषा नोपद्रष्टारो विचीयमानस्य स्युर् यद् उपद्रष्टारो विचीयमानस्य स्युः क्षुधं प्रजा नीयुर् अवर्तिर् यजमानं गृह्णीयात् क्षोधुको ऽध्वर्युः स्यात् ॥

विचिन्वन्ति : फ़्न् एमेन्देद्। एद्।: विचिन्वन्ति

शुन्ध सोमम् आपन्नं निरस्य ॥ इति ब्रूयाद् ग्रसितं वा एतत् सोमस्य यद् आपन्नं ग्रसितम् एते सोमस्य निष्खिदन्ति ये सोमं विचिन्वन्ति तस्मात् सोमविक्रयिणो बहु क्रीणन्तो बहु विन्दमानाः क्षोधुका ग्रसितं ह्य् एते सोमस्य निष्खिदन्त्य् आस्माको ऽसीत्य् अभित्सार एवास्यैष शुक्रस् ते ग्रहा इति शुक्रम् एवास्य गृह्णात्य् अभि त्यं देवं सवितारम् इति सवितृप्रसूत एव गृह्णात्य् अतिछन्दसा गृह्णाति सर्वाणि वै छन्दांस्य् अतिछन्दाः सर्वैर् एवैनं छन्दोभिर् गृह्णाति वर्ष्म वा एषा छन्दसां वर्ष्मैनं समानानां गमयति पञ्चभिर् गृह्णाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धैकैकाम् उत्सर्जं मिमीते ऽयातयाम्न्यायातयाम्न्यैव मिमीत एतावती वा आसाम् एकैकस्या वीर्यम् आप्यते तस्माद् इमाः कामं प्रसारयति कामं प्रत्यञ्चति दश कृत्वो मिमीते दशाक्षरा विराड् विराजम् एवाप्नोत्य् अथो वैराजाः पशवः पशून् एवावरुन्द्धे द्विर् गृह्णाति द्वे हि सवने यावान् वै सोमो गृहीतः स यजमानस्य यम् अभ्यूहति स सदस्यानां प्रजाभ्यस् त्वेत्य् अभ्य्·हति गोत्राद्गोत्राद् धि प्रसर्पन्त्य् ओषधयो वै सोमो ऽपरिमितं जीवनं यत् परिमितं गृह्णीयात् परिमितं जीवनं स्याद् अथ यद् अभ्यूहत्य् अपरिमितस्यावरुद्ध्यै यजमानो वै प्रजापतिः प्रजा अंशवो यत् सोमम् उपनह्यति प्रजानां वा एतत् प्राणम् उपनह्यति यद् आह प्रजास् त्वानुप्राणन्त्व् इति प्राणम् आसु दाधार क्षौमम् उपनह्यत्य् औषधं वै क्षौमम् ओषधयः सोमस्य योनिः स्व एवैनं योनौ दधाति यज्ञो यद् अग्रे देवानाम् अगछत् तं रक्षांस्य् अजिघांसन् स देवता व्यवासर्पत् सर्वदेवत्यं वै वासो यत् क्षौमम् उपनह्यति सर्वाभिर् वा एतद् देवताभिर् यज्ञाद् रक्षांस्य् अपहन्त्य् अथो सर्वाभिर् एव देवताभिर् यज्ञं समर्धयति

॥३.७.४॥

आपन्नं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

निष्खिदन्ति : फ़्न् एमेन्देद्। एद्।: निष्खिदन्ति

चतुर्गृहीतम् आज्यं भवति चतुष्पादो वै पशवः पशून् एवावरुन्द्धे हिरण्यम् अवधाय जुहोत्य् आग्नेयं घृतम् अग्निजं हिरण्यं सतनूर् एव सतेजा हूयत एषा वा अग्नेः प्रिया तनूर् यद् घृतं तेजो हिरण्यं यद् धिरण्यम् अवधाय जुहोत्य् अग्नेर् वा एतत् प्रियां तन्वं तेजसा समर्धयत्य् अथो रूपाण्य् एव ग्राहयति पशवो वै घृतं रेतो हिरण्यं यद् धिरण्यम् अवधाय जुहोति पशुषु वा एतद् रेतो दधाति तस्माद् अनस्थकाद् रेतसो ऽस्थान्वन्तः पशवः प्रजायन्ते बद्धेन जुहोति तस्मात् पशूनां गर्भा अप्रपादुकाः प्रपादुकाः पशूनां गर्भाः स्युर् यद् अबद्धेन जुहुयाद् जूर् असीति यद् वाव जवत इत्थम् असा३द् इत्थम् असा३द् इति तद् अस्या जूत्वं धृता मनसेति मनसा हि वाचं दाधार जुष्टा विष्णवा इति यज्ञायैवैनां जुष्टां विष्णवे ऽकस् तस्यास् ते सत्यसवसः प्रसव इति वाचा हि प्रसूतं क्रियते तन्वो यन्त्रम् अशीय स्वाहेत्य् आशिषम् एवाशास्ते शुक्रम् असि चन्द्रम् असीत्य् उद्धरति स्वर्गस्य लोकस्य समष्ट्यै वाग् वै सोमक्रयणी शास्ति वावैनाम् एतत् तस्मात् प्रजाः सृष्ट्वा प्रजायन्ते वत्सो जातः स्तनम् इछति स्तनं कुमार इछति चिद् असीति यद् वाव चिकित्सत इत्थम् असा३द् इत्थम् असा३द् इति तद् अस्याश् चित्त्वं मनासीति यद् धि मनसा मन्यते यन् मनसाभिगछति तद् वाचा वदति धीर् असीति यद् वाव ध्यायतीइत्थम् असा३द् इत्थम् असा३द् इति तद् अस्या धीत्वं दक्षिणासीति यत् स्विद् वाचा दीयते तद् अस्या दक्षिणात्वं यज्ञियासीति वाग् घि यज्ञिया क्षत्रियासीति यं हि वाग् जुषते स क्षत्रियो ऽदितिर् अस्य् उभयतःशीर्ष्णीति यत् स्विद् आदित्यः प्रायणीय आदित्य उदयनीयस् तद् अस्या उभयतःशीर्षत्वं सा नः सुप्राची सुप्रतीची भवेति सुप्राची ह्य् एषा प्रायणीये सुप्रतीच्य् उदयनीये

॥३.७.५॥

असा३द् : फ़्न् एमेन्देद्। एद्।: असा३द्

यत् कर्णगृहीतया क्रीणीयाद् वार्त्रघ्नी स्याद् यञ् शृङ्गाभिहितया मनुष्यदेवत्या यत् पदि बद्धया पितृदेवत्या यद् अबद्धयायता स्याद् यद् आह मित्रस् त्वा पदि बध्नात्व् इति मित्रस्यैवैनां पाशेन यछति पूषाध्वनः पात्व् इतीयं वै पूषेयम् एवास्या अध्वानं सम्भरतीन्द्रायाध्यक्षायेतीन्द्रो वै देवानाम् ओजिष्ठस् तम् एवास्या अध्यक्षम् अकर् अनु त्वा माता मन्यताम् अनु पितेत्य् अनुमत एवैनं मात्रा पित्रा भ्रात्रा सख्या क्रीणाति सा देवि देवम् अछेहीति देवी ह्य् एषा देवः सोम इन्द्राय सोमम् इतीन्द्राय ह्य् एषा सोमम् अछैति रुर्द्रस् त्वावर्तयत्व् इति रुद्रम् एवास्याः परस्ताद् दधाति स्वस्ति सोमसखा पुनर् एहीति प्रत्यक्षम् एवालब्ध रुद्राय वा एतत् पशून् अपिदधाति यद् आह रुद्रस् त्वावर्तयतु यद् आह स्वस्ति सोमसखा पुनर् एहीति स्वस्तिम् एवास्यै पुनर् आवृत्तायै दधाति वाग् वै सोमक्रयणी सा देवरूपाणि प्रविशति यद् आह वस्व्य् असि रुद्रासीतीदम् असीदम् असीति वाग् वैनाम् एतद् आह यद्यद् भवति यद् वा एतत् किञ्च वदत्य् एतां वा एतद् आप्त्वावरुन्द्धे षट् पदान्य् अनु निष्क्रामति षड् वा अहानि वाग् विभज्यते न वै षष्ठम् अहर् वाग् अतिवदति सर्वा वै षष्ठे ऽहन् वाग् आप्यते यावत्य् एव वाक् ताम् आप्नोति दक्षिणेनार्धेन दक्षिणम् अर्धम् अनु निष्क्रामति तस्माद् दक्षिणेन हस्तेनान्नम् अद्यते तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यवत्तरस् तस्माद् दक्षिणम् अर्धं वयांस्य् अनु पर्यावर्तन्ते सप्तमे पदे जुहोति सप्त छन्दांसि छन्दांसि वाग् यावत्य् एव वाक् ताम् आहुत्याप्त्वावरुन्द्धे सप्त छन्दांसि सप्त होत्राः सप्त ग्राम्याः पशवः पशूंस् तान् एवावरुन्द्धे बृहस्पतिष् ट्वा सुम्ने रम्णात्व् इति ब्रह्म वै बृहस्पतिर् ब्रह्मणैवैनां यछति रुद्रो वसुभिर् आचक इति रुद्रम् एवास्या वसुभिर् आकर्तारम् अकः पृथिव्यास् त्वा मूर्धन्न् आजिघर्मीत्य् एष वै पृथिव्या मूर्धा यद् देवयजनम् इडायास् पद इति गौर् वा इडा तस्या वा एतत् पदं घृतवति स्वाहेति स्वाहाकारेणैवैनां यछति

॥३.७.६॥

इति : फ़्न् स्होउल्द् बे आचका इति (आचके अन्द् इति)

हिरण्यं निधाय जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयात् पशवो वै घृतं पशवः पदं वज्रं स्फ्यो यत् स्फ्येन पदं परिलिखति वज्रेण वा एतद् यजमानाय पशून् परिगृह्णाति विषाणयानुपरिलिखति सयोनीन् एवास्मै पशून् परिगृह्णाति स्थाल्यां पदं संवपत्य् अस्या वा एषाधिक्रियत इयं हि पशूनां योनिः स्व एवैनान् योनौ दधाति शोचन्ति वा एतत् पशवो योनेश् छिन्ना यद् अप उपसृजति शमयत्य् एव यजमानाय पदं प्रयछति तद् अध्वर्युर् अपशुर् भवति यजमानाय हि पशून्त् सम्प्रादाद् यद् आह तव राया इति तद् अध्वर्युं पशुष्व् आभजति तेनाध्वर्युः पशुमान् गृहेषु पदं निदधाति गृहेष्व् एवास्य पशून् दधाति स्वर्गो वै लोक आहवनीयो यद् आहवनीय उपवपेद् अन्यलोके ऽस्य पशून् दध्याद् गार्हपत्या उपवपति गार्हपत्यं हि पशवो ऽनूप तिष्ठन्ते पशुभिर् एवैनं सम्यञ्चं दधाति पशवो वै पदम् अग्नी रुद्रो यद् अग्निमत्य् उपवपेद् रुद्रायास्य पशून् दध्याद् यत्र शान्तं तद् उपोप्यं पशूनाम् अप्रदाहाय यत् सोमक्रयण्या पत्नीं सङ्क्शापयन्ति मिथुनत्वाय त्वष्ट्रिमन्तस् त्वेति त्वष्टा हि रूपाणि विकरोति सपेमेति सपाद् धि प्रजाः प्रजायन्ते सूर्यस्य चक्षुर् आरुहम् इत्य् एष वा अपरिपरः पन्था अरक्षस्यो येनासा आदित्य एत्य् अमुष्य वा एतद् आदित्यस्य पथ इति वृणक्ति विन्दते वस्व् इति वसो ह्य् एष विन्दते यः सोमं क्रीणाति ॥

सोमविक्रयिन्त् सोमं ते क्रीणानि महान्तं बह्व् अर्हं बहु शोभमानं कलया ते क्रीणानि कुष्टया ते क्रीणानि शफेन ते क्रीणानि पदा ते क्रीणानि ॥ इति गोर् वा एतन् महिमानम् उदाचष्टे ऽथो महयत्य् एवैनाम् अथो अक्षरशो वा एतद् यज्ञं मिमीते सुवाङ् नभ्राड् अङ्गारे बम्भारा इत्य् एते वै देवानां सोमरक्षय एतेभ्यो वा अधि छन्दांसि सोमम् आहरंस् तेभ्य एवैनाम् अनुदिशत्य् अथो यद् एवात्र यज्ञस्योपश्लिष्टं तत् परिक्रीणीते दशभिः क्रीणाति दशाक्षरा विराट् तथा वैराजः क्रियत एकादशभिः क्रीणाति दश वै पशोः प्राणा आत्मैकादशस् तथा सर्वः क्रियते धेन्वा क्रीणात्य् आशिरम् एवास्य क्रीणात्य् अथो वाचम् एव गृह्णाति हिरण्येन क्रीणाति शुक्रम् एवास्य क्रीणात्य् अथो तेज एव गृह्णाति वाससा क्रीणाति सर्वदेवत्यम् एवास्य क्रीणात्य् अजया क्रीणाति तप एवास्य क्रीणाति यत्र वा अदश् छन्दांसि सोमम् आहरंस् तानि तमसा न प्राजानंस् ततो गायत्र्य् अजाम् आदायोदपतत् सा वा एभ्यः प्रारोचयत् ततो वै छन्दांसि सोमम् आहरंस् तत् सोमं ना आजाम् इति वावाजानडुहा क्रीणाति वह्न्य् एवास्य क्रीणात्य् ऋषभेण क्रीणाति सेन्द्रम् एव क्रीणाति यद् ऋषभेण क्रीणीयात् प्रजापतिना विक्रीणीत वत्सतरेण साण्डेन क्रय्यस्येन्द्रम् अहः क्रीणाति न प्रजापतिना विक्रीणीते मिथुनाभ्यां गोभ्यां क्रीणाति मिथुनम् एवास्य क्रीणाति

॥३.७.७॥

सोमविक्रयिन्त् : फ़्न् चोर्रिगेन्द। एद्।: सोमविक्रयित्।

विक्रीणीत : फ़्न् एमेन्देद्। एद्।: विक्रीणीते

क्रीणाति : फ़्न् च्फ़्। ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। २५फ़्।

सोमो वा अमुत्रासीत् ते देवा गायत्रीं प्राहिण्वन्न् अमुं सोमम् आहरेति सा विततं यज्ञम् अवापश्यत् सैक्षत यद् यज्ञस्यान्तरेष्याम्य् आत्मानम् अन्तरेष्यामीति तस्यै वा एतं सोमो जीवग्रहं प्राब्रवीत् स्वजा असि स्वभूर् असीति सोमस्य वा एष जीवग्रहः सोमस्य वा एतज् जीवग्रहं गृह्णीते नाध्वर्युः सन् नार्तिम् आर्छति य एवं वेद वरुणो वा एष एतर्हि वरुणदेवत्यो यर्ह्य् उपनद्धो वरुण एनं भूत्वा प्रविशेद् यद् आह मित्रो ना एहि सुमित्रधा इति मित्रम् एवैनम् अकः शमयत्य् एवेन्द्रस्योरुम् आविश दक्षिणम् इत्य् ऐन्द्रो वै यज्ञ इन्द्रः सोमस्य योनिः स्व एवैनं योनौ दधातीन्द्रो वा एतम् अग्रा आगतम् ऊरू न्यगृह्णीत तां वा एतद् अनुकृतिम् ऊरा आसादयते ऽपोर्णुते यथा श्रेयस्य् आयत्य् अपोर्णुत एवं तद् उर्व् अन्तरिक्षं वीहीत्य् अन्तरिक्षदेवत्यो वा एष एतर्हि प्रच्युत इतो ऽप्राप्तो ऽमुत्रादित्याः सदा आसीदेत्य् आदित्यो वै यज्ञो ऽदितिः सोमस्य योनिः स्व एवैनं योनौ दधाति वरुणं वा एनम् एतत् सन्तं मित्रम् अकस् तद् एनं स्वया देवतया व्यर्धयति यद् आह ॥

अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणं पृथिव्याः ।

आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥

इति वरुणम् एवैनम् अकः स्वयैवैनं देवतया समर्धयति वनेषु व्य् अन्तरिक्षं ततानेति वाससा पर्याणह्यति सर्वदेवत्यं वै वासः सर्वाभिर् वा एतद् देवताभिर् यज्ञं क्रीतं परिश्रयति धूर् असि ध्वर ध्वरन्तम् इत्य् आह रक्षसां ध्वरायै रक्षसामन्तरित्यै वारुणम् असि वरुणस् त्वोत्तभ्नात्व् इति वारुणं ह्य् एष एतर्हि वरुणदेवत्यं मनसाछ यन्ति महिमानम् एवास्याछ यन्त्य् अनसा वहन्ति तस्माद् अनोवाह्यम् ओषधयः फलं पच्यन्ते शीर्षाहार्यम् ओषधयः फलं पच्येरन् यत् सोमं क्रीतं शीर्ष्णा हरेयुस् तस्माद् गिरा ओषधयः शीर्षाहार्यं फलं पच्यन्ते शीर्ष्णा हि सोमं क्रीतं हरन्ति प्रच्यवस्व भुवनस्पता इति भूतानां ह्य् एष पतिर् विश्वान्य् अभि धामानीति विश्वानि ह्य् एष धामान्य् अभि प्रच्यवते मा त्वा परिपरिणो मा परिपन्थिनो मा त्वा वृका अघायवो विदन्न् इति यत्र वा एनम् अद आह्रियमाणं सामिगन्धर्वो विश्वावसुर् अमुष्णात् तादृशेभ्यो वावास्मा एतद् रक्षोभ्यो भीषा स्वस्तिम् अकर् वरुणो वा एष क्रीतो यजमानस्य गृहम् ओह्यते स ईश्वरो ऽशान्तो यजमानं हिंसितोर् यद् आह नमो मित्रस्य वरुणस्य चक्षसा इति शमयत्य् एव शान्त एवोह्यते यजमानस्याहिंसायै सर्वाभ्यो वा एष देवताभ्या उह्यते यद् एकोल्मुकेन प्रतितिष्ठेत् पितृदेवत्यो ऽस्य यज्ञः स्याद् अग्निर् महत् समाधेयो ऽग्निर् वै सर्वा देवताः सर्वाभिर् वा एतद् देवताभिर् यज्ञम् आयन्तं प्रतितिष्ठत्य् अग्नीषोमौ वा एतौ सम्भवतो यजमानं वा एता अभिसम्भवेतां यजमानस्य वा पशूंस् तद् य एष पशुर् धार्यते तम् एव भागधेयम् अभिसम्भवतो देवता वा एतं पशुं धार्यमाणं नाभिप्राच्यवन्तास्मिन् यज्ञ आशंसमानाद् यो ऽयम् इतरस् तम् अग्नीषोमा उपप्राच्यवेतां तस्माद् एषो ऽग्नीषोमीयो ऽग्नीषोमाभ्यां वा एष मेधायात्मानम् आलभते यो दीक्षते स वा एतेनैव पशून् आत्मानं निष्क्रीणीते स्थूलः पीवा स्याद् आत्मनो निष्क्रीत्यै तस्माद् अग्नीषोमीयस्य पशोर् नाशितव्यं पुरुषो ह्य् एतेनात्मानं निष्क्रीणीते तस्माद् अग्नीषोमीये संस्थिते यजमानस्य गृहे ऽशितव्यं तर्हि निष्क्रीतो ऽनृणो वार्त्रघ्नं वा एतत् सोमो वै वृत्रः पूर्वेद्युर् वा इन्द्रो वृत्रम् अहन् पूर्वेद्युर् वावैनम् एतत् सृत्वाथापरेद्युर् अभिषुणोति वरुणपाशाभ्यां वा एषो ऽभिधीयते यो दीक्षते ऽहोरात्रे वरुणपाशौ यद् दिवा संस्थापयेद् अनुन्मुक्तो वरुणपाशाभ्यां स्यान् नक्तं संस्थाप्यो वरुणपाशाभ्याम् एवोन्मुच्यत आत्मनो ऽहिंसायै

॥३.७.८॥

युक्तो ऽन्यो ऽनड्वान् भवति विमुक्तो ऽन्यो ऽथातिथ्यं निर्वपति यज्ञस्य सन्तत्यै पत्न्या हस्तान् निर्वपति पत्नी वै पारीणह्यस्येशे पत्न्यैव रातम् अनुमतं क्रियते यद् वै पत्नी यज्ञे करोति तन् मिथुनं मिथुनत्वाय वै पत्न्या हस्तान् निर्वपत्य् एष वै पत्न्या यज्ञस्यान्वारम्भो यद् यज्ञे करोत्य् अन्वारम्भाय वै पत्न्या हस्तान् निर्वपत्य् अग्नेस् तनूर् असि विष्णवे त्वेति गायत्रीं तेन छन्दसा गृह्णाति सोमस्य तनूर् असि विष्णवे त्वेति त्रिष्टुभं तेनातिथेर् आतिथ्यम् असि विष्णवे त्वेति जगतीं तेनाग्नये त्वा रायस्पोषदे विष्णवे त्वेत्य् अनुष्टुभं तेन श्येनाय त्वा सोमभृते विष्णवे त्वेति गायत्री वै श्येनः सोमभृत् तां वा एतत् पुनर् आलभते ऽयातयाम्नीं पाङ्क्तत्वाय पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धैतद् वै छन्दांस्य् अग्रहीत् तैश् छन्दोभिर् गृहीतैर् यज्ञं गृह्णाति यावन्तो वा अतिथिम् अन्वायन्त्य् अपि तेषां भागश् छन्दांसि वा एतम् अमुतो ऽन्वायन्ति तेभ्य एष भागः क्रीयते वरुणो वै यज्ञः क्रीतो विष्णुः प्रततः प्रततो वा एतर्हि यज्ञस् तस्माद् वैष्णवो नवकपालो भवति त्रिवृतं वा एतद् यज्ञमुखे व्यायातयन्ति त्रिवृता प्रयन्ति ते वै त्रयस् त्रिकपालास् त्रिकपालो वैष्णवो देवतया विष्णुं वै देवा आनयन् वामनं कृत्वा यावद् अयं त्रिर् विक्रमते तद् अस्माकम् इति स वा इदम् एवाग्रे व्यक्रमताथेदम् अथादस् तस्मात् त्रिकपालो वैष्णवः सोमस्य वा एतद् आतिथ्यं यद् आतिथ्यम् अथवा एतद् अग्नेर् आतिथ्यं यद् अग्ना अग्निं मन्थन्त्य् अथो यज्ञाय वा एतत् क्रीताय देवतां जनयन्त्य् अथो तेज एवास्मै जनयन्त्य् अथो उपसत्सु वावास्मा एतद् वीरं जनयन्त्य् आ हास्य वीरो जायते ये वै देवाः साध्या यज्ञम् अत्यमन्यन्त तेषां वा एतद् यद् अतिरिक्तं यज्ञे क्रियते ऽतिरिक्तं वा एतद् यज्ञे क्रियते यद् अग्ना अग्निं जुह्वति यच् चषालाद् उपर्यूपस्य तद् एवैनां स्पृशति संस्थाप्या३न् न संस्थाप्या३म् इति मीमांसन्ते यत् संस्थापयेद् यज्ञमुखे यज्ञं संस्थापयेद् आतिथ्यं वा उपसदां प्रयाजास् तानूनप्त्रम् आशीस् तस्माद् इडान्तम् एव कार्यम् आतिथ्यं वा उपसदां प्रयाजास् तस्मात् ता अप्रयाजा उपसदो वा आतिथ्यस्यानुयाजास् तस्मात् तास् तिस्रस् त्रयो ह्य् अनुयाजाः शिरो वा आतिथ्यं ग्रीवा उपसदो ऽथैष इतरो यज्ञः संहितः प्रजापतेर् वा एतानि पक्ष्माणि यद् अश्ववारा अस्य भ्रुवा इक्षुकाण्डे यज्ञमुखं प्रजापतिर् यज्ञमुखाद् एवाधि यज्ञमुखं प्रतनुते ऽश्वो वै मेध्यो यज्ञस् प्रजापतिः प्राजापत्यो ऽश्वस् तस्माद् आश्ववारः प्रस्तरः कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसाम् अपहत्यै

॥३.७.९॥

पारीणह्यस्येशे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

देवा अन्योन्यस्य श्रैष्ठ्ये तिष्ठमानाश् चतुर्धा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैस् तान् वा एतेन बृहस्पतिर् अयाजयत् तेषाम् इन्द्रो ऽभवत् तद् य एतेन यजते भवति ते वा अन्योन्यस्याभिद्रोहाद् अबिभयुस् तेषां याः प्रियास् तन्वा आसंस् ताः समवाद्यंस् ताः समवामृशन् ॥

श्रैष्ठ्ये : फ़्न् एमेन्देद्। एद्।: श्चैष्ठ्ये।

यो नस् तन् नपाद् यो नो ऽन्योन्यस्मै द्रुह्याद् इत एव सं निरृछात् ॥ इति ते यदा समवामृशंस् ततो देवा अभवन् परासुरास् तद् य एवं विद्वांसः समवमृशन्ति भवन्त्य् आत्मना परैषां भ्रातृव्या भवन्ति यं कामयेत ऋध्नुयाद् इति तं प्रथमम् अवमर्शयेद् ऋध्नोति यदि कामयेत सर्वे सदृशाः स्युर् इति सर्वान्त् सहावमर्शयेत् सर्वे ह सदृशा भवन्ति ये वै ते समवामृशन्न् अपि वा इदानीं ते ऽन्योन्यस्मै न द्रुह्यन्ति तस्मात् सतानूनप्त्रिणे न द्रोग्धवै यद् द्रुह्येत् प्रियायै तन्वै द्रुह्येत् ते वा अमुष्मिन्न् आदित्ये प्रियास् तन्वः सन्न्यदधत तस्माद् एष तेजिष्ठं तपति तस्मात् सूर्यदेवत्या हि सर्वे सोमा गृह्यन्ते ऽथो अत्र वै देवानां प्रियास् तन्वस् ता एवावरुन्द्ध आपतये त्वा गृह्णामीत्य् अग्नये तेन वसुभ्यो गृह्णाति परिपतये त्वेति सोमाय न रुतेद्रेभ्यस् तनूनप्त्रा इतीन्द्राय तेन मरुद्भ्यः शक्मने शाक्वरायेति वरुणाय तेनादित्येभ्य एतेभ्यो वै तद् देवेभ्यो ऽग्रे गृह्यते तेभ्य एवैनद् गृह्णाति चतुर् गृह्णाति चतुर्धा हि ते व्युदक्रामन्न् आपतये त्वा गृह्णामीत्य् आत्मानम् एव तेन गृह्णाति परिपतये त्वेति प्रजां तेन तनूनप्त्रा इति यज्ञं तेन शक्मने शाक्वरायेति पशूंस् तेन यो वै देवान्त् साध्यान् वेद सिध्यति ह वा अस्मै यत्र कामयेत इह मे सिध्येद् इतीमे वै लोका देवाः साध्या आत्मानम् एव दीक्षया स्पृणोति प्रजाम् अवान्तरदीक्षया सन्तराम् मेखलाम् आयछते कनीयो व्रतम् उपैत्य् अन्तरा ह्य् आत्मानं प्रजा द्विव्रतेन भवितव्यं द्वौ वा ऋतू अहश् च रात्रिश् च यद् एकव्रतः स्यात् पत्नीम् अन्तरियाद् या ते अग्ने रुद्रिया तनूर् इति व्रतं व्रतयत्य् एषा वा अस्मिन्न् एतर्हि देवता तां प्रीणाति तस्यां हुतं व्रतयति यद् एतो ऽन्यथा व्रतयेद् रुद्र एनम् अभिमानुकः स्याद् देवताभिर् वा एष सायुज्यं गछति यो दीक्षते यञ् शीताभिर् मार्जयेत शमयेयुर् अथो यथेदम् अद्भिर् अग्निर् उपसृष्ट एवं स्याद् अथ यत् तप्ताभिर् मार्जयते शान्त्यय् अथो तेजो वै मदन्तीस् तेज एवावरुन्द्धे ॥

यो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

कामयेत : फ़्न् सन्धि इस् नोत् wओर्किन्ग् हेरे।

एतो : फ़्न् म्स्स्। एद्।: यदेतो

इत्य् उपरिकाण्डे सप्तमः प्रपाठकः

॥३.७.१०॥