तृतीयकाण्डे षष्ठः प्रपाठकः
तृतीयकाण्डे षष्ठः प्रपाठकः
आग्नावैष्णवम् एकादशकपालं निर्वपेद् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धाग्निर् वै यज्ञस्यान्तो ऽवस्ताद् विष्णुः पुरस्ताद् उभयत एव यज्ञस्यान्ता आलब्ध तद् आहुर् न ऋत इन्द्राद् यज्ञो ऽस्त्व् इति यद् अष्टाकपलस् तेनाग्नेयो यत् त्रिकपालस् तेन वैष्णवो यद् एकादशकपालः सम्पद्यते तेनैन्द्रो ऽग्निर् वै यज्ञस्य पवित्रं विष्णुर् यज्ञः पवित्रपूतम् एव यज्ञम् आलब्ध मेधस्य वा एतद् यज्ञस्य रूपं यत् पुरोडाशस् तस्मात् पुरोडाश एव कार्यश् चरू कुर्वन्ति धेन्वा वै घृतं पयो ऽनडुहस् तण्डुलास् तन् मिथुनं मिथुनम् एवास्य यज्ञमुखे दधाति तेजो वै घृतं तेजस एव प्रजायते पुरुषो वा एष मेधायालभ्यते पुरुषस्येव ह्य् एषा प्रतिमा यत इव हि रूपं तस्माच् चरुर् एव कार्यो वेदिमति दीक्षते विन्दा इति वै वेदिमति दीक्षते विन्दते ह वै यो वेदिमति दीक्षते ऽथो यज्ञपथ एवादीक्षिष्ट वेद्या वै देवा इमम् असुराणाम् अविन्दतेमाम् एव विन्दते यो वेदिमति दीक्षते ऽथो यज्ञपथम् एवालब्ध प्राचीनवंशं कुर्वन्ति दिशो यद् इमां व्यकल्पयन्न् इमाम् एव देवेभ्यो ऽकल्पयन्न् इमां पितृभ्य इमाम् असुरेभ्य इमां मनुष्येभ्यो देवताम् एष उपैति यो दीक्षते देवानाम् एव दिशम् उपावर्तते प्राचीनाम् एव दिशम् उपावर्तते ऽथो देवक्षेत्रम् एव प्रावस्यति परिश्रयन्त्य् अन्तर्हितो वै दैवात् क्षयान् मानुषः क्षयो मानुषाद् एवैनं क्षयाद् अन्तर्दधत्य् अथो रक्षसाम् अनन्ववायायैति वा एषो ऽस्माल् लोकाद् यो दीक्षते जनं ह्य् एति देवलोकम् अभ्यारोहति परिश्रयन्तो ऽतिरोकान् कुर्वन्ति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृतः पुरस्तात् प्रायणं कुर्यात् स्वर्गकामस्यासौ वा आदित्यः स्वर्गो लोको ऽमुष्यैनम् आदित्यस्य सामक्षं गमयति दक्षिणतः प्रायणं कुर्याद् यं कामयेत पितृलोक ऋध्नुयाद् इत्य् एषा वै पित्πणां दिक् पितृलोक एव ऋध्नोति पश्चात् प्रायणं कुर्यात् प्रजाकामस्य पश्चाद् वै रेतो धीयते रेतो दीक्षितो रेतो ऽस्मिन् दधात्य् उत्तरतः प्रायणं कुर्याद् यं कामयेत मनुष्यलोक ऋध्नुयाद् इत्य् एषा वै मनुष्याणां दिङ् मनुष्यलोक एव ऋध्नोत्य् उत्तरतः पुरस्तात् प्रायणं कुर्याद् यं कामयेतोभयोर् लोकयोर् ऋध्नुयाद् इत्य् उभयोर् वा एतल् लोकयोर् उभयोर् एव लोकयोर् ऋध्नोति सर्वतः प्रायणं कुर्याद् यं कामयेत सर्वासु दिक्ष्व् इत्य् ऋध्नुयाद् इति सर्वासु दिक्ष्व् इत्य् ऋध्नोति
॥३.६.१॥दीक्षते : फ़्न् चोर्रिगेन्द। एद्।: दीक्षते।
दीक्षते : फ़्न् चोर्रिगेन्द। एद्।: दीक्षते।
केशश्मश्रु वपते दतो धावते नखान् निकृन्तते स्नाति मृता वा एषा त्वग् अमेध्यं वा अस्यैतद् आत्मनि शमलं तद् एवापहते मेध्य एव मेधम् उपैत्य् अप्सु दीक्षां प्रवेशयित्वा देवाः स्वर्गं लोकम् आयन् यद् अप्सु स्नाति ताम् एव दीक्षाम् आलभते ऽथ यद् अपो ऽवभृथम् अभ्यवैति तां वा एतद् दीक्षां पुनर् अप्सु प्रवेशयत्य् ओषधे त्रायस्वैनम् इत्य् आह त्रात्या एव स्वधिते मैनं हिंसीर् इति वज्रो वै स्वधितिः स ईश्वरो ऽशान्तो यजमानं हिंसितोर् यत् तृणम् अन्तर्दधाति यजमानस्याहिंसायै देवश्रुद् इमान् प्रवपा इति देवश्रुद् ह्य् एतान् प्रवपते स्वस्त्य् उत्तरं अशीयेति स्वस्त्य् अस्य यज्ञस्योदृचम् अशीयेति वा एतद् आहापो मा मातरः सूदयन्त्व् इत्य् आपो हि यज्ञो घृतेन मा घृतप्वः पुनन्त्व् इति देवताभिर् एवात्मानं पावयते विश्वं हि रिप्रं प्रवहन्तु देवीर् इति यद् एवास्य रिप्रम् अमेध्यम् आत्मनि शमलं तद् अस्माद् अधि प्रवहन्त्य् उद् इद् आभ्यः श्रुचिर् आ पूत एमीति श्रुचिर् एवाभ्यो यज्ञियो मेध्यः पूत उदेति हविर् वै दीक्षितो यदा वै हविर् यजुषा प्रोक्षत्य् अथ हविर् भवति यद् यजुषा स्नपयति हविर् एवैनम् अकर् अश्नाति प्राणा वा अशनं प्राणान् एवात्मन् धित्वा दीक्षते सुषिरो वै पुरुषः स वै तर्ह्य् एव सर्वो यर्ह्य् आशितो यद् आशितो भवति मेध्य एव मेधम् उपैति यथा वा इह दीक्षित एवं वा एषो ऽमुष्मिंल् लोक एव वा अत्याशितस्य तिष्ठति तस्मान् नात्याशितेन भवितव्यं तन् न सूर्क्ष्यम् आशितेनैव भवितव्यं यथैव कनीयःकनीयो ऽश्नीयाद् एवम् अश्नीयाद् यद् धि दीक्षितः सन् कनीयो ऽश्नाति तेन दीक्सित आङ्क्ते ऽभ्यङ्क्ते वासः परिधत्त एता वै पुरुषस्य तन्वः सतनूर् एव मेध्यम् उपैति नवनीतेनाभ्यङ्क्ते घृतं देवानाम् आयुतं मनुष्याणां निष्पक्वं गन्धर्वाणां स्वयंविलीनं पित्πणां सर्वदेवत्यं वा एतत् तस्मान् नवनीतेनाभ्यङ्क्ते दर्भपिञ्जुलाभ्यां समायौति तत् स्विद् अभ्यञ्जनम् अकर् अथो अभ्य् एवैतद् घारयति मेधत्वाय महीनां पयो ऽसीत्य् आह महीनां ह्य् एतत् पयो ऽपाम् ओषधीनां रसा इत्य् अपां ह्य् एष ओषधीनां रसो वर्चोधा असि वर्चो मे धेहीत्य् आशिषम् एवाशास्ते
॥३.६.२॥अन्तर्दधाति : फ़्न् एमेन्देद्। एद्।: अन्तर् दधाति
स्विद् : फ़्न् एमेन्देद्। एद्।: स्विद्
प्रस्वाङ्क्ते प्रजात्यईषीकयाङ्क्ते शलस्या हि मनुष्या आञ्जते सतूलयाङ्क्ते ऽपतूलया हि मनुष्या आञ्जते दक्षिणं पूर्वम् आङ्क्ते सव्यं हि पूर्वं मनुष्या आञ्जते त्रिर् अन्यत् त्रिर् अन्यद् आङ्क्ते ऽपरिमितं हि मनुष्या आञ्जते न पुनर् निषेवयति पुनरावर्तं हि मनुष्या आञ्जत इन्द्रो वै वृत्रम् अहंस् तस्य कनीनिका परापतत् सा त्रिककुभम् अगछत् तदाञ्जनं त्रैककुभम् आङ्क्ते सत्यं वै चक्षुर् नेव वाचे श्रद् दधाति सत्यम् एवालभ्य दीक्षाम् उपैत्य् अन्तर् अहं त्वया द्वेषो अन्तरारातीर् दधे महता पर्वतेनेति पर्वतेन वा एतद् द्वेषो ऽरातीर् अन्तर् धत्ते चक्षुःपा असि चक्षुर् मे पाहीत्य् आशिषम् एवाशास्त ऊर्ध्वं चावाञ्चं च पावयत्य् ऊर्ध्वश् च ह्य् अयम् अवाङ् च प्राणो यं द्विष्यात् तम् अक्ष्णया पावयेत् प्राणान् अस्य मोहयति प्रमायुको भवति चित्पतिस् त्वा पुनात्व् इति यज्ञो वै चित्पतिर् वाचस्पतिस् त्वा पुनात्व् इति वाचस्पतिर् एवैनं यज्ञाय पावयति देवस् त्वा सविता पुनात्व् इति सवितृप्रसूत एवैताभिर् देवताभिर् मेधायात्मानं पावयते ऽछिद्रेण पवित्रेणेत्य् एतद् वा अछिद्रं पवित्रं यत् सूर्यस्य रश्मयो ऽछिद्रेणैवैनं पवित्रेण पुनाति तस्य ते पवित्रपते पवित्रेणेति यज्ञो वै पवित्रपतिर् यज्ञाय खलु वा एष कम् आत्मानं पावयते ॥
आङ्क्ते : फ़्न् एमेन्देद्। एद्।: आङ्क्ते।
यज्ञं शकेयम् ॥ इतीन्द्रो वै वृत्रम् अप्स्व् अध्यहंस् तासां यद् यज्ञियं मेध्यम् आसीत् तद् उदक्रामत् ता इमा ओषधयो ऽभवंस् तासां वा एतत् तेजो यद् दर्भा एता वै शुष्का आपो यद् एवासांस् तेजस् तद् अवरुन्द्धे त्रयीर् वा आपो दिव्याः पार्थिवाः समुद्रियास् ताः सर्वा दर्भो विवस्थैत् तस्माद् दर्भः पवित्रं द्वाभ्यां पावयति द्वे पवित्रे द्विपाद् यजामानो यावान् एवास्यात्मा तं पावयति त्रिः पावयति त्रिषत्या हि देवा अथो त्रयो वा इमे प्राणाः प्राणो ऽपानो व्यानो यावान् एवास्यात्मा तं पावयति सप्तभिः पावयति सप्त वै छन्दांसि छन्दोभिर् एवैनं पावयत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैवैनं पावयत्य् एकविंशत्या पावयति दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशो यावान् एवास्यात्मा तं पावयति त्रया वै नैरृता अक्षाः स्त्रियः स्वप्नो यद् दीक्षते तेनाक्षैश् च स्त्रीभिश् च व्यावर्तते यां प्रथमां दीक्षितो रात्रीं जागर्ति तया स्वप्नेन व्यावर्तते यां प्रथमां दीक्षितो वसति यज्ञं तयावरुन्द्धे यां सोमे क्रीते प्रजां तया यां श्वःसुत्यया पशूंस् तया
॥३.६.३॥आकूत्यै प्रयुजे अग्नये स्वाहेत्य् आकूत्या वा आकूतिर् यक्ष्यते स्य इति प्रयुजः खलु वा एनं यज्ञाय प्रयुञ्जते मेधायै मनसे अग्नये स्वाहेति मेधया हि मनसा यज्ञम् अश्नुते दीक्षायै तपसे अग्नये स्वाहेति दीक्षया हि तपसा यज्ञम् अश्नुते सरस्वत्यै पूष्णे अग्नये स्वाहेति वाग् वै सरस्वती वाचा व्याहरति यक्ष्यते स्य इति पूषा खलु वा एनं यज्ञं प्रापिपद् य एनम् अपूपुषद् आपो देवीर् बृहतीर् विश्वशम्भुवा इत्य् आपो हि यज्ञो द्यावापृथिवी उरो अन्तरिक्षेति द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रितस् तत एव यज्ञम् आलब्ध बृहस्पतिर् नो हविषा वृधातु स्वाहेति ब्रह्म वै बृहस्पतिर् ब्रह्मणा वा एतत् पुरस्तात् सर्वान् कामान् आप्त्वा दीक्षाम् आलभते यत्र वा अस्य यज्ञः श्रितो यत्रयत्रोपश्रितस् ततस्ततो वा एतत् सर्वं ब्रह्मणा यज्ञं सम्भृत्यालब्ध न वा एकाहुतिर् दीक्षितं करोति यद् एतानि जुहोति द्वितीयत्वाय प्रजापतिर् वै यत् किञ्च मनसादीधेत् तद् आधीतयजुर्भिर् एवाप्नोत् तद् आधीतयजुषाम् आधीतयजुष्ट्वं तद् य एवं विद्वान् आधीतयजूंषि जुहोति यद् एव किञ्च मनसा दीध्यज् जुहोति तद् आप्नोत्य् एते वै यज्ञस्य सम्भारा एष ह त्व् एव सम्भृतसम्भारेण यज्ञेन यजते यस्यैतानि हूयन्त एतद् ध स्म वा आहारुण औपवेशिः किम् उ स यज्ञेन यजेत यो यज्ञस्य सम्भारान् न विद्याद् इति पञ्चभिर् जुहोति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध षड्भिर् जुहोति षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठति यज्ञो वै सृष्टः प्र सामाव्लिनात् प्र यजुस् तं वा ऋग् एवायछद् एका वा एनम् ऋग् अयछद् द्वादश यजूंषि नव सामानि तस्मान् नवभिर् बहिष्पवमाने स्तुवते नव ह्य् एनं सामान्य् अयछंस् तस्माद् वात्सम्बन्धविदो द्वादशभिर् औद्ग्रभणं जुह्वति द्वादश ह्य् एनं यजूंष्य् आयछन्न् एतर्हि खलु वा एष सृज्यते यर्हि दीक्षते यद् ऋचौद्ग्रभणं जुहोति यज्ञं वा एतत् सृष्टम् ऋचायछति तस्माद् आरुणिविद ऋचौद्ग्रभणं जुह्वत्य् एका ह्य् एनम् ऋग् अयछत्
॥३.६.४॥प्रापिपद् : फ़्न् चोर्रिगेन्द। एद्।: प्रापिबद्।
यज्ञो वै प्रजापतिः प्राजापत्यम् एतच् छन्दो यद् अनुष्टुभ् यद् अनुष्टुभा जुहोति स्वेनैवैनं छन्दसावरुन्द्ध एकया जुहोत्य् एको हि प्रजापतिर् अनिरुक्तया जुहोत्य् अनिरुक्तो हि प्रजापतिः पूर्णया जुहोति पूर्णो हि प्रजापतिर् यद् ऊनया जुहुयाद् भ्रातृव्याय लोकम् उञ्शिंषेद् अथ यत् पूर्णया जुहोति न भ्रातृव्याय लोकम् उञ्शिंषत्य् ऊर्जो वा एतद् रूपं यत् पूर्णं यत् पूर्णया जुहोति यज्ञे वा एतद् ऊर्जं दधाति विश्वो देवस्य नेतुर् इति सावित्रं मर्तो वुरीत सख्यम् इति पितृदेवत्यं विश्वो राय इषुध्यतीति वैश्वदेवं द्युम्नं वृणीतेति बार्हस्पत्यं पुष्यसा इति पौष्णं सारस्वतः स्वाहाकारः सर्वदेवत्या वा एषा ऋक् तस्माद् एषैका सत्यौद्ग्रभणं परिबभूव सर्वाभ्यो देवताभ्यो यज्ञ आलभ्या इत्य् आहुः सर्वदेवत्या वा एषा ऋग् यद् एतया ऋचौद्ग्रभणं जुहोति सर्वाभ्यो वा एतद् देवताभ्यो यज्ञम् आलभते ऽनुष्टुभो वा एतस्याः सत्यास् त्रीण्य् अष्टाक्षराणि पदान्य् एकं सप्ताक्षरं यत् सप्ताक्षरं तस्य चत्वार्य् अक्षराण्य् एकस्मिन् पद उपयन्ति त्रीण्य् एकस्मिन् यत्र चत्वार्य् उपयन्ति सा जगती यत्र त्रीणि सा त्रिष्टुब् यद् अष्टाक्षरं तेन गायत्री यद् अनुष्टुप् तेनानुष्टुप् सर्वैर् एवास्य छन्दोभिर् हुतं भवति छन्दःप्रतिष्ठानो वै यज्ञश् छन्दःसु वावास्यैतद् यज्ञं प्रतिष्ठापयाम् अकः स्वाहाकारेण खलु वा एषा पङ्क्तिः पाङ्क्तो यज्ञः पङ्क्तिप्रायणः पङ्क्त्युदयनः पङ्क्तिप्रायणम् एवास्य यज्ञं पङ्क्त्युदयनम् अकर् अथो वाग् वै छन्दांसि वाचं वा एतन् मध्यत आप्त्वावरुन्द्धे तस्माद् इयं वाङ् मध्यतो वदति मध्यतो हीयं वाक् प्रजापतिर् वै स्वां दुहितरम् अध्यैद् उषसं तस्य रेतः परापतत् ते देवा अभिसमगछन्त तस्माद् दीक्षितो न ददाति न पचत्य् अथैनम् अभिसङ्गछन्ते तद् उदगृभ्णंस् तद् औद्ग्रभणस्यौद्ग्रभणत्वं तेन यज्ञम् अतन्वन्त यज्ञो यद् अग्रे व्यभवत् स त्रेधा व्यभवत् स वा ऋक्ष्व् एव तृतीयेनाश्रयत सामसु तृतीयेन यजुःषु तृतीयेन या वा अस्य प्रिया तनूर् आसीत् तया यजुर् अश्रयतोच्चैर् ऋचा क्रियत उच्चैः साम्नोपांशु यजुषा यज्ञस्य ह्य् अत्र प्रिया तनूर् यद् यजुषोच्चैः कुर्याद् यज्ञस्य प्रियां तन्वम् उद्धृतां कुर्याद् अब्रह्मवर्चसी स्यान् नग्नम्भावुकः
॥३.६.५॥आहिताग्निर् वा एष सन् नाग्निहोत्रं जुहोति न दर्शपूर्णमासौ यजते तद् या आहुतिभाजो देवतास् ता अनुध्यायिनीः करोति कर्शयत आत्मानं तेनैवास्य तद् धुतं भवति देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त तेषाम् असवो मनुष्यान् प्राविशंस् तद् इदं रिप्रं पुरुषे ऽन्तर् अथो कृष्णम् इव चक्षुष्य् अन्तस् तन् नाश्नीयाद् असुर्यम् एवापहते यदा वै पुरुषे न किञ्चनान्तर् भवति यदास्य कृष्णं चक्षुषोर् नश्यत्य् अथ मेध्यो यदि कुर्यान् नक्तं कुर्याद् असुर्यो वै रात्रिर् असूर्यम् एवासूर्यं क्रियते वाचं वा एतद् दीक्षयन्तीति ह स्माहारुण औपवेशिर् य उताञ्जानो ऽभ्यञ्जानो ऽथ दीक्षितवादं वदति स वाव दीक्षित इति सायं प्रातर् वै मनुष्याणां देवहितम् अशनम् अतिनीय सायमशनम् अतिनीय प्रातरशनं व्रतं व्रतयति मानुषस्य व्यावृत्त्यय् अदन्तीति वै गा आहुर् अश्नन्तीति मनुष्यान् जुहुधीति देवेभ्यो ऽथवा एतम् आहुः ॥
नाग्निहोत्रं : फ़्न् एमेन्देद्। मित्त्wएदे। एद्।: नाग्निहोत्रं
प्रातर् : फ़्न् एमेन्देद्। एद्।: प्रातर्।
व्रतम् उपेहि व्रत्य ॥ इति व्रतं ह्य् एतस्य व्रतेन यज्ञः सन्ततो व्रतेनैव यज्ञं सन्तनोत्य् अभ्यर्धो वा ऋक्सामे यज्ञाद् आस्तां तयोर् यौ महिमाना आस्तां ता अपनिधाय यज्ञम् उपावर्तेतां तौ महिमाना अहोरात्रे अभवतां तयोर् वा एतद् रूपं यत् कृष्णाजिनस्य यञ् शुक्लं तद् अह्नो रूपं यत् कृष्णं तद् रात्रेस् तौ वा एतन् महिमाना अन्वारभते सम्पारणाय सं मा पारयता इत्य् अहोरात्रे मिथुनं समभवतां तयोस् तेजो ऽपाक्रामत् तत् कृष्णं प्राविशत् तद् वा एतद् अन्वारभते द्यावापृथिवी मिथुनं समभवतां तयोर् वीर्यम् अपाक्रामत् तत् कृष्णं प्राविशत् तद् वा एतद् अन्वारभते यथा वा इदं नावं पारं तरिष्यन्न् आरोहत्य् एवं वा एतद् ऋक्सामे आरुक्षत् ते एनम् आ यज्ञस्योदृचः सम्पारयतो यतो वै लोमानि कृष्णाजिनस्य ततो यज्ञो यतो यज्ञस् ततो देवता यद् बहिर्लोमं पर्यूर्णुवीतान्तर्हितो दीक्षितो यज्ञात् स्याद् यद् अन्तर्लोमम् अन्तर्हितो यज्ञो देवताभ्यो द्वे विषूची प्रतिमुच्ये अनन्तर्हितो दीक्षितो यज्ञाद् भवत्य् अनन्तर्हितो यज्ञो देवताभ्यो यद्य् एकं स्याद् अन्तं प्रतिभुजेत् तेनैव तद् उभयम् आप्नोति हविर् वै दीक्षितो यद् अन्यत्र क्षृणाजिनाद् आसीत यथा हविः स्कन्नम् एवं स्याद् यथा हविषे स्कन्नाय प्रायश्चित्तिम् इछत्य् एवम् अस्मै प्रायश्चित्तिम् इछेयुश् छन्दांसि च वा एष देवताश् चाभ्यारोहति तान्य् एनम् ईश्वराणि प्रतिनुदो यद् आह नमस् ते अस्तु मा मा हिंसीर् इति नमस्कारो वा एषो ऽप्रतिनोदाय देवता वै यज्ञस्य शर्म यज्ञो यजमानस्य यद् आह विष्णोः शर्मासि शर्म मे यछेति देवता वा एतद् यज्ञस्य शर्माकर् यज्ञं यजमानस्य प्रोर्णुते प्रावृत इव हि दीक्षितो ऽथो एतद् इव हि दीक्षितस्य रूपं यत् प्रावृतं तस्मात् प्रोर्णुते वासः परिधत्ते सर्वदेवत्यं वै वासः सर्वाभिर् वा एतद् देवताभिर् आत्मानं परिश्रयन्ति
॥३.६.६॥आस्तां : ⟨ आस्ताम्
आस्तां : फ़्न् एमेन्देद्। मित्त्wएदे। एद्।: आस्ताम्।
अपनिधाय : फ़्न् एमेन्देद्। मित्त्wएदे। एद्।: अपिनिधाय।
यज्ञस्य वै सृष्टस्योल्बम् अन्वलम्बत तद् वासः क्षौमम् अभवत् तस्मात् क्षौमेण दीक्षयन्ति यज्ञस्य सयोनित्वाय प्राचीनमात्रा पत्नी दीक्षयन्तीन्द्रस्य वै प्राचीनमात्रेन्द्रियं स्त्रियाः प्रजा यत् प्राचीनमात्रा पत्नी दीक्षयन्तीन्द्रियम् अस्यां दधाति योनिर् वै दीक्षितस्य दीक्षितविमितं जरायु कृष्णाजिनम् उल्बं दीक्षितवासो नाभिर् मेखला गर्भो दीक्षितः स्वं वा एतद् योनिं दीक्षित आशये तस्माद् दीक्षितेन दीक्षितविमितान् नानृतुभिः क्रम्यम् एष ह्य् एतस्य योनिर् अतो ह्य् एषो ऽधि प्रजायते गर्भो दीक्षितो यद् ऋत आविःकुर्वीत दत्वन्तो गर्भा जायेरन् यद् अनृतु स्मयेत तेजो ऽस्य परापातुकं स्यात् तस्मान् नानृतु स्मेतव्यं तेजसो ऽपरापातायाजातो वै पुरुषः स वै यज्ञेनैव जायते स वै तर्ह्य् एव जायते यर्ह्य् अदः सोमे क्रीते प्रोर्णुता इतो ऽग्रे प्रोर्णुते ऽथो ह्य् अग्रे पुरुषो जायते स वै तर्ह्य् एव सर्वो जायते यर्ह्य् अदो ऽपो ऽवभृथम् अभ्यवैति तर्हि स तस्मात् सर्वो निर्मुच्यते त्रिवृता वै स्तोमेन प्रजापतिः प्रजा असृजत यत् त्रिवृन् मेखला भवति प्रजननाय त्रिवृद् वै वज्र उदरं वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य यन् मेखलां पर्यस्यते वज्रम् एव सपत्नाय भ्रातृव्याय प्रहरति यं द्विष्यात् तं तर्हि मनसा ध्यायेद् वज्रम् एवास्मै प्रहरति स्तृणुत एवाङ्गिरसो वै स्वर्यन्तो यत्र मेखलाः सन्न्यास्यंस् ततः शरो ऽजायत तस्माञ् शरमय्य् ऊर्ग् वा ओषधय ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च योक्त्रेण पत्नी सन्नह्यते मेखलया दीक्षितो ऽथो मिथुनत्वायोर्ध्वं वै पुरुषस्य नाभेर् मेध्यम् अवाचीनम् अमेध्यं यन् मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्यै देवताभ्यो वा एष मेधायात्मानम् आलभते यो दीक्षते बध्नीत इव वा एतद् आत्मानं यन् मेखलां पर्यस्यते तस्माद् वा एतस्यान्नम् अन्नाद्यम् आर्त इव ह्य् एष बद्धस् तस्माद् उ बद्धस्यान्नम् अन्नाद्यं यथा वा इह गरगीर् एवं वा एषो ऽमुष्मिंल् लोके यो दीक्षितस्यान्नम् अत्ति यज्ञेन त्व् एवास्य तता उन्मुक्तिर् हविर् वै दीक्षितो यद् अस्य जुहुयात् तम् एव जुहुयात् प्रमायुकः स्यात् सर्वाभ्यो वा एष देवताभ्या आप्यायते यो दीक्षते यद् अस्य जुहुयाद् यज्ञम् अस्य विदुह्याद् उपधीतो ऽस्य यज्ञः स्यात् तं वा एतद् आगते काले सर्वं संस्फीतं यज्ञं देवताभ्यो दुहेत् त्रेधा वा एतस्य पाप्मानं विभजन्ते यो दीक्षते यो ऽस्यान्नम् अत्ति स तृतीयं यो ऽस्याश्लीलं कीर्तयति स तृतीयं या एनं पिपीलिका दशन्ति तास् तृतीयं तस्माद् वा एतस्यान्नम् अन्नाद्यं तस्माद् अस्याश्लीलं न कीर्तयितव्यं तस्माद् दीक्षितवासो ऽभर्तव्यम् अत्र हि ताः पिपीलिका या एनं दशन्ति
॥३.६.७॥आशये : फ़्न् एमेन्देद्। एद्।: आशयेत्
दक्षिणा वै देवेष्व् आसीद् यज्ञो ऽसुरेषु तां दक्षिणां यज्ञो ऽभ्यकामयत ताम् अभिपर्यावर्तत तां समभवत् स इन्द्रो ऽवेद् यो वा अस्माद् योनेः सम्भविष्यति स इदं भविष्यतीति ताम् इन्द्रः प्राविशत् तता इन्द्रः समभवत् तता इन्द्रो ऽजायत स जायमानो ऽवेद् यो वा अस्माद् योनेर् अन्यो मत् सम्भविष्यति मादृक् सम्भविष्यतीति तया सहोपवेष्टयन्न् अजायत यन् न्यवेष्टयत् तस्मान् निवेष्टिता यन् निवेष्ट्यमाना श्यावाभवत् तस्मात् कृष्णेन्द्रं च वा एष प्रेप्सति दक्षिणां चेन्द्रस्य च खलु वा एतद् योनिम् आलब्ध दक्षिणायाश् चात्मानम् अथो सयोनिम् एव यज्ञम् आलभते कृषिं सुसस्याम् उत्कृषा इति विषाणया भूम्याम् उपहन्ति कृषिम् एवास्य सस्येन समर्धयति यजुषा कण्डूयते यजुषा हि मनुष्याः कण्डूयन्ते व्यावृत्त्यै यजुषा कण्डूयते तस्माद् प्रजा अपामम्भविष्णवः पामम्भविष्णवः प्रजाः स्युर् यद् अयजुषा कण्डूयेत सुपिप्पला ओषधीस् कृधीति शिरः कण्डूयत ओषधीर् एव फलं ग्राहयति तस्माद् ओषधयः शीर्षन् फलं गृह्णन्ति वाग् वै सृष्टा चतुर्धा व्यभवत् ततो या अत्यरिच्यत सा वनस्पतीन् प्राविशत् सैषा याक्षे या दुन्दुभौ या तूणवे या वीणायां दण्डं प्रयछति ताम् एवास्मै वाचं प्रयछत्य् अथो वज्रम् एवास्मै प्रयछति गोपीथायास्यदघ्नं प्रयछत्य् एतावती हीयं वाग् वदत्य् अथो एतावती हि वाचा वीर्यं क्रियते यद् वर्षीयांसं प्रयछेत् स्वां वाचं मैत्रावरुणो विभजेत् तं श्वःसुत्यायां मैत्रावरुणाय प्रयछति तां श्वो भूते मैत्रावरुण ऋत्विग्भ्यो विभजति ॥
होतर् यज पोतर् यज नेष्टर् यज ॥ इति सा सह वषट्कारेणाहवनीयं गछति तां पुरो ऽध्वर्युर् विभजति ॥
होतर् यज पोतर् यज नेष्टर् यज ॥ इत्य् अध्वर्युः पुरो वाचं विभजति मैत्रावरुणः पश्चात् ॥
स्वाहा यज्ञं मनसा ॥ इति मनसा यज्ञम् अभिगछन्ति तत एव यज्ञम् आलब्ध स्वाहा दिवः स्वाहा पृथिव्याः इति द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रितस् तत एव यज्ञम् आलब्ध स्वाहोरोर् अन्तरिक्षाद् इत्य् अन्तरिक्षं वै यज्ञो यदि वातो यदि वा पशवस् तत एव यज्ञम् आलब्ध स्वाहा वातात् परिगृह्णामि स्वाहेत्य् अयं वाव यः पवत एष यज्ञस् तम् एवालब्ध वाचं यछति यज्ञं वा एतद् यछति यद् वाचं विसृजेद् यज्ञं विसृजेत् तद् आहुः पुनर् दीक्षयित्वा वाग् यन्तव्येति यत् पुनर् दीक्षयेद् आहुतीर् अतिरेचयेद् वैष्णवीम् अनूच्य वाग् यन्तव्या विष्णुर् वै यज्ञो यज्ञम् एवालब्धाग्नावैष्णवीम् अनूच्य वाग् यन्तव्याग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्ध सारस्वतीम् अनूच्य वाग् यन्तव्या वाग् वै सरस्वती वाचा यज्ञः सन्ततो वाचैव यज्ञं सन्तनोति बार्हस्पत्याम् अनूच्य वाग् यन्तव्या ब्रह्म वै बृहस्पतिर् ब्रह्मणा यज्ञः संहितो ब्रह्मणैव यज्ञं सन्दधाति
॥३.६.८॥इति : फ़्न् थिस् सन्धि चोमेस् फ़्रोम् मनसस् अन्द् इति। च्फ़्। १।२।२:११।१३
दीक्षितो ऽयम् असा आमुष्यायणः ॥ इत्य् उद्वदति वा आह प्रियो वै देवानां दीक्षितो देवेभ्य एवैनं प्राह त्रिर् आह त्रिषत्या हि देवा अथो त्रयो वा इमे लोका एभ्य एवैनं लोकेभ्या आवेदयति तस्माद् दीक्षितं दूराञ् शृण्वन्त्य् एभ्यो ह्य् एनं लोकेभ्या आवेदयति नक्षत्रं दृष्ट्वा वाचं विसृजते द्वौ वा ऋतू अहश् च रात्रिश् चान्यम् एव ऋतुं सम्प्राप्य वाचं विसृजते व्रतं चरतेति वाचं विसृजते व्रतं ह्य् एतस्य व्रतेन यज्ञः सन्ततो व्रतेनैव यज्ञं सन्तनोति दैवीं धियं मनामहा इति यजुषा हस्ता अवनेनिक्ते यजुषा हि मनुष्या अवनेनिजते व्यावृत्त्यै ब्रह्मणः सदेवत्वायाथो आपो मे दीक्षां नेत् प्रमुष्णान् इत्य् अन्नं वै मनुष्येभ्या उदबीभत्सत तद् एवा मनुष्येष्व् अदिधीर्षंस् तद् आपो ऽब्रुवन् वयं व एतां शुन्धामाथोपावर्तस्वेति ततो ऽन्नं मनुष्यान् उपावर्तन्त त इदम् अन्नं मनुष्येषु धृतं तस्माद् ब्राह्मण आहार्या आहृते हस्ता अवनेनिजीतान्नाद्यस्यावरुद्ध्यय् अथो अन्नाय वा एतद् आत्मानं पावयते ये देवा मनुजाता मनोयुजा इति व्रतं व्रतयत्य् एते वै देवा मनुजाता मनोयुजो यद् इमे प्राणा एषा वा अस्मिन्न् एतर्हि देवता तां प्रीणाति तस्यां हुतं व्रतयति यद् एतो ऽन्यथा व्रतयेत् प्राणैर् एनं व्यर्धयेत् प्रमायुकः स्यात् त्वम् अग्ने व्रतपा असीति वदेत् स्वप्स्यन्त् सुप्त्वा वा प्रबुध्य यदि वा दीक्षितवादं वदेद् अग्निर् वै देवानां व्रतपतिस् तस्माद् एवाधि व्रतम् आलभते नोत्तानः शयीत यद् उत्तानः शयीतेमे लोका ययेयुर् नाग्नेर् अधि पराङ् पर्यावर्तेत यत् पर्यावर्तेत यज्ञात् पर्यावर्तेत नान्यत्रदीक्षितं दीक्षितविमितान्त् सूर्यो ऽभिनिम्रोचेन् नाभ्युदियाद् दीक्षितव्रतम् एव तद् यज्ञो वै देवानां न समभवत् तं भृत्या समभावयन् यद् भृतिं वनुते यज्ञस्य सम्भूत्यै रास्वेयत् सोमेति यद् ब्रूयाद् एतावद् अस्य स्यान् न भूयो यद् आहा भूयो भरेत्य् अपरिमितस्यावरुद्ध्यै देवः सविता वसोर् वसुदावेति सवितृप्रसूत एवैताभिर् देवताभिर् उप प्रतिगृह्णात्य् आत्मनो ऽहिंसायै वायुर् गोपास् त्वष्टाधिपतिः पूषा प्रतिग्रहीतेति वायुम् एवासां गोप्तारम् अकस् त्वष्टारम् अधिपतिं पूषणं प्रतिग्रहीतारम् आपो वै यज्ञो यद् अपो दीक्षितो ऽवगाहेत यज्ञम् अवकृश्नीयाद् यद् आह देवीर् आपो अपां नपाद् इति यद् एवासां यज्ञियं मेध्यं तन् नाक्रामति यद् अपो दीक्षितो ऽवगाहेत विह्रदिनीः स्युस् तस्मान् नावगाहेत यद्य् अवगाहेत लोष्टं विमृणंस् तरेत् तम् एव सेतुम् अनुसन्तरति न वै दीक्षितं तरन्तं देवता अनुतरन्त्य् अरणिभ्यां सह तरति सहैव देवताभिस् तरति न वै दीक्षितं तरन्तं यज्ञो ऽनुतरति रथाङ्गेन सह तरति सहैव यज्ञेन तरति
॥३.६.९॥अमुं वा आदित्यं सर्वा वाचो गछन्ति ता उद्यति सर्वाः सृज्यन्ते यद् आह याः पशूनाम् ऋषभे वाचा इति सृज्यमानां वा एतद् वाचं पुनर् आलभते वायवे त्वेति नष्टाम् अनुदिशति वरुणाय त्वेत्य् अप्सु मग्नां रुद्राय त्वेति महादेवाहतां निरृत्यै त्वेत्य् अवसन्नाम् इन्द्राय त्वेति व्लेष्कहतां या वा संशीयेत मरुद्भ्यस् त्वेति ह्रादुनिहताम् एते वै देवा भृत्या स्कन्नभागास् तान् एव प्रीणाति देवेभ्यो वा अन्या दक्षिणा दीयन्ते मनुष्येभ्यो ऽन्या एता वै देवेभ्यः प्रत्यक्षं दक्षिणा दीयन्त एताभिर् वै भूयो ऽवरुन्द्धे यद् उ चेतराभिर् देवाश् च वा असुराश् चास्पर्धन्तैतावान् वै तर्हि यज्ञ आसीद् अग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि ते देवा यज्ञम् अपश्यंस् तेनादीक्षन्त तेषां यद् अग्निहोत्रम् आसीत् तद् व्रतम् उपायंस् तस्माद् विव्रतेन भवितव्यं द्विर् ह्य् अग्निहोत्रं हूयते यद् अग्नीषोमीयं पूर्णमासे हविर् आसीत् तम् अग्नीषोमीयं पूर्वेद्युः पशुम् आलभन्त यद् ऐन्द्राग्नम् अमावास्यायां तम् आग्नेयं श्वो भूते पशुम् आलभन्त वैश्वदेवं प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यन्दिनं सवनं साकमेधान् पितृयज्ञं त्र्यम्बकास् तत् तृतीयसवनं तस्मात् तृतीयसवने विश्वं रूपं शस्यते विश्वं ह्य् एतद् रूपं तम् एषां यज्ञम् असुरा णान्ववायंस् तेन वा एनान् अपानुदन्त ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति ते ऽध्वृतो ऽयम् अभूद् इत्य् अपाक्रामंस् तद् अध्वरस्याध्वरत्वं तस्माद् एकव्रतेन भवितव्यं सकृद् ध्य् अग्निहोत्रं हूयते ॥
संशीयेत : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
इति तृतीयकाण्ड आग्नावैष्णवं नाम षष्ठः प्रपाठकः
॥३.६.१०॥