तृतीयकाण्डे पञ्चमः प्रपाठकः
तृतीयकाण्डे पञ्चमः प्रपाठकः
आ वा एष प्रजापतये वृश्चते यः शिर उपदधाति नेतराण्य् अङ्गान्य् अस्थिचिद् अस्य श्मशानचिद् भवति यद् एतां पुरुषचितिम् उपदधाति न प्रजापतया आवृश्चते ऽनस्थिचिद् अस्याश्मशानचिद् भवति षट्त्रिंशतम् एता उपदधाति षट्त्रिंशदक्षरा बृहती बार्हताः पशवो बार्हतः पुरुषः पुरुषस्य प्रतिमोपधीयते स ह्य् एष धीयत एष ह त्व् एव यजमानो ऽमुं लोकं नाति प्रमीयते यस्यैता उपधीयन्ते
॥३.५.१॥अथैताः पञ्चापञ्चीनाः शिथिर इव वा अग्निश् चित्यो यत् पञ्चापञ्चीना उपदधात्य् अग्नेर् धृत्या अशिथिरत्वाय पञ्चोपदधाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध भूयस्कृद् असि वरिवस्कृद् असीत्य् अग्ना एव भूमानं दधाति भूयान् प्रजया पशुभिर् भवत्य् अप्सुषद् असि गृध्रसद् असीति वयो वा अग्निः समिक्ष्यम् एवैनं वयः करोति वयो भूत्वा स्वर्गं लोकम् एति यस्यैता उपधीयन्ते
॥३.५.२॥चितः स्थ परिचितः स्थेति शर्कराः परिश्रयति यञ् शर्करा अपरिश्रित्य सिकता निवपेद् रेतः सिक्तं परासिच्येताथ यञ् शर्करा अपरिश्रित्य सिकता निवपति रेतसः सिक्तस्य परिगृहीत्यै
॥३.५.३॥वि वा एष यज्ञश् छिद्यते यद् असंस्थितं पशुम् उत्सृजन्ति सं ह स्म वा एतम् आशोकेयः स्थापयत्य् आज्येन संस्थाप्यं यज्ञस्य सन्तत्या अविछेदाय
॥३.५.४॥स्वर्गं वा एष लोकम् अन्वारोहति यो ऽग्निं चिनुते यद् अन्वारोहान् जुहोति स्वर्गम् एवैनं लोकं गमयित्वाथ कामं चरति ॥
इत्य् उपरिकाण्डे पञ्चमः प्रपाठकः
॥३.५.५॥