skipLink.label

तृतीय काण्ड, प्रपाठक 10

तृतीय काण्ड, प्रपाठक 10

तृतीयकाण्डे दशमः प्रपाठकः

तृतीयकाण्डे दशमः प्रपाठकः

विश्वेभ्यो देवेभ्यः स्वाहा ॥ इत्य् उपरिष्टात् तथास्य त उभये ऽवरुद्धा भवन्ति पशोर् वै मार्यमाणस्य प्राणाञ् शुग् ऋछति प्राणान्त् सङ्गृह्य वपाम् उपविसृजेद् अत्मा वपा पशोर् आत्मन्न् एवास्य प्राणान् दधाति दक्षिणस्य पूर्वपदस्यावदेयम् इति ह स्माहुर् दाक्षायणास् तथास्य सर्वस्य पशोर् अवत्तं भवतीति स्वाहोर्ध्वनभसं मारुतं देवं गछतम् इति वपाश्रपणी अनुप्रास्यत्य् ऊर्ध्वनभसो वा एते मारुतस्य भागधेयं तम् एवैनेन गमयतीमे वा एते विषूची अनुप्रास्यत्य् अनयोर् विधृत्यै

॥३.१०.१॥

शुग् : फ़्न् एमेन्देद्। एद्।: शग्।

पुरुषं वै देवा मेधायालभन्त तस्य मेधो ऽपाक्रामत् सो ऽश्वं प्राविशत् ते ऽश्वम् आलभन्त तस्य मेधो ऽपाक्रामत् स गां प्राविशत् ते गाम् आलभन्त तस्य मेधो ऽपाक्रामत् सो ऽविं प्राविशत् ते ऽविमालभन्त तस्य मेधो ऽपाक्रामत् सो ऽजं प्राविशत् ते ऽजम् आलभन्त तस्य मेधो ऽपाक्रामत् स यवं प्राविशत् ते यवम् आलभन्त तस्य मेधो ऽपाक्रामत् स व्रीहिं प्राविशत् ते व्रीहिम् आलभन्त तं व्रीहा आप्नुवन् यद् व्रीहिमयः पुरोडाशो भवति मध्यतो वा एतत् पशोर् मेधो धीयते सुषिरो वै तर्हि पशुर् यर्हि वपाम् उत्खिदन्ति यद् व्रीहिमयः पुरोडाशो भवत्य् अपिहित्या असुषिरत्वाय द्वादशकपालो भवति द्वादश मासाः संवत्सरः संवत्सरम् अनु पशवः प्रजायन्ते प्रजननायैकादशकपालः कार्य एकादशाक्षरा त्रिष्टुब् ऐन्द्रम् एतच् छन्दो यत् त्रिष्टुब् ऐन्द्राः पशवः पशुष्व् एवास्य पशून् दधाति देवा अन्योन्यस्मै पशुम् आलभं स्वर्गं लोकम् आयंस् ते ऽमन्यन्तानेन वै नो ऽन्ये लोकम् अन्वारोक्ष्यन्तीति तस्य मेधं प्लाक्षारयन् स प्लक्षो ऽभवत् तत् प्लक्षस्य प्लक्षत्वं क्लोम्नो वै तं हृदयात् प्लाक्षारयंस् तस्माद् एतत् सुषिरं यत् प्लक्षशाखाया अवद्यति मेधाद् एवाध्यवद्यति पृषदाज्यस्योपहत्य परैति ॥ शृतं हविः शमिता ॥ इति शृतत्वाय त्रिर् आह त्रिषत्या हि देवा अथो यथेदं ब्राह्मणेभ्य ओदनं पक्वं प्राहैवं वा एतद् देवेभ्यो हविः शृतं प्राहोत्तरतः परीत्याभिघारयति पशूनाम् अवरुद्ध्यै प्राणापानौ वै पृषदाज्यम् आत्मा हृदयं यत् पृषदाज्येन हृदयम् अनक्ति मध्यतो वा एतत् पशोः प्राणापानौ दधाति सोमस्य वा एतद् बर्हिर् यद् बर्हिर् अथ वा एतत् पशोर् यद् उत्तरबर्हिर् बर्हिः श्रद् वा एतद् धव्यम् अकर् अस्कन्नम् अविक्षुब्धं मे हव्यं देवता गछद् इति देवानां वै सर्वेषां मनांसि गछति पशा आलभ्यमाने मनो वै मनोता यन् मनोताया अन्वाह मनांस्य् एवैषां सम्भावयति हतो वा एष मृतो ऽमुत्र भूतो मनो वै मनोता यन् मनोताया अन्वाह पुनर् एवैनं सम्भावयति

॥३.१०.२॥

वा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

हृदयस्यावद्यति मनस एव तेनावद्यत्य् अथो यावान् एव पशुस् तस्यावत्तं भवति जिह्वाया अवद्यति वाच एव तेनावद्यत्य् अथो एतया ह्य् अग्रा ओषधीनां रसं प्राश्नाति श्येनस्यावद्यति वक्षस एव तेनावद्यत्य् अथो अत्र हि स रसः प्रतितिष्ठति दोष्णो ऽवदाय पार्श्वयोर् अवद्यति यज्ञस्य परिगृहीत्यै यक्नो ऽवद्यति मध्यस्यैव तेनावद्यति मतस्नयोर् अवद्यति रूपस्यैव तेनावद्यति श्रोण्या अवदाय गुदस्यावद्यति तद् उत्तमस्यावद्यत्य् उत्तमं ह्य् आयुर् यद् अन्यस्योत्तरस्यावद्येत् प्राणम् अस्यापिदध्यात् प्रमायुकः स्यात् तस्मात् तस्योत्तमस्यावद्यत्य् उत्तमं ह्य् आयुर् हृदयस्यावदाय जिह्वाया अवद्यति यथापूर्वं वा एतत् पशुम् उपैत्य् अथो एवम् अस्य सर्वस्य पशोर् अवत्तं भवत्य् एकादश कृत्वो ऽवद्यति दश वै पशोः प्राणा आत्मैकादशस् तथास्य सर्वस्य पशोर् अवत्तं भवत्य् एकादश वा एतान्य् अवदानानि तानि द्विर्द्विर् अवद्यति तद् द्वाविंशतिस् त्रीणि त्र्यङ्गानि तत् पञ्चविंशतिः पञ्चविंशेन वै स्तोमेन मनुः प्रजा असृजत तन् मनुस्तोमो वा एष प्रजननायैतद् वै सर्वस्य पशोर् अवत्तम् अथ वै प्राणस्यापानस्य व्यानस्य तेषाम् अनवत्तं यत् त्र्यङ्गाणाम् अवद्यति तेनैव प्राणस्यापानस्य व्यानस्य तेषाम् अवत्तं भवति विश्वरूपो वै त्वाष्ट्रः पशून् अभ्यवमत् तस्मात् पशवो विश्वरूपो ऽभिवान्तो वै पशुः पूयितस् तस्मात् पृष्टीनां मज्जा नाद्यः स वा अधस्तान् न प्राप्नोद् एतद् वै जीवं तस्माद् अतो ऽवद्यत्य् अक्ष्णयाङ्गानाम् अवद्यति पशुं वा एतद् आश्रोणयति तस्मात् पशवो ऽक्ष्णयाङ्गानि प्रहरन्तो यन्त्य् आग्नेयो वै सर्वः पशुर् अथ वा उतान्यस्यै देवताया आलभ्यते यद् दोष्णः पूर्वार्धाद् अग्नये ऽवद्यति गुदस्य मध्यतः श्रोण्या जघानतस् तथास्य सर्वस्य पशोर् अग्नये ऽवत्तं भवति त्रेधा गुदं करोति त्रेधा ह्य् एतर्हि पशुस् त्र्यङ्गाणि समवत्तम् अवदानानि यावान् एव पशुस् तस्मिन्न् आयुर् दधाति त्रेधा मेदः करोति मेदोरूपा हि पशवः सर्वाणि वै पशोर् मेद्यतो ऽङ्गानि मेद्यन्ति यावान् एव पशुस् तस्मिन् मेदो रूपं दधाति बहुर्मर्या यज्ञकुणपीति ह स्माह यज्ञवचा राजस्तम्बायनः प्र वा इतो मनुष्याः पशुं च्यावयन्ति नामुत्र गछन्तीति यद् धिरण्यम् अवधाय जुहोति हिरण्यज्योतिषम् एवैनं स्वर्गं लोकं गमयति

॥३.१०.३॥

आश्रोणयति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

बहुर्मर्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

वसाहोमं प्रयौति रसं वा एतत् प्रयौति स्वधितिना प्रयौत्य् एतेन हीतरेषाम् अङ्गानाम् अवद्यति तत् स्विद् अवदानम् अकर् अथो वज्रेणैवाहुतिम् अवरुन्द्धे यूष एतयान्वितं शमयत्य् ऊर्ग् वै रसो यूर् ऊर्जा वा एतद् रसेन पशुं समर्धयत्य् अथो यावान् एव पशुस् तस्मिन्त् सन्दधाति पार्श्वेनापिदधात्य् ऊर्जः परिगृहीत्यै हतो वा एष मृतो ऽमुत्र भूतो यत् पशुं सम्मृशति पुनर् एवैनं सम्भावयति हव्यं पूर्वं देवता गमयित्वाथ शरीरम् अन्वारोहयितव्यम् इत्य् आहुर् यद् आहुतीर् हुत्वा पशुं सम्मृशति हव्यं वा एतत् पूर्वं देवता गमयित्वाथ शरीरम् अन्वारोहयत्य् अर्धऋचे जुहोतीयं वा अर्धऋचो ऽसा अर्धऋचो ऽन्तरेमे अन्तरिक्षम् अन्तरिक्षम् इमाः प्रजाः प्रजास्व् एव रसं दधाति वनस्पतिं यजति सोमो वै वनस्पतिः सौमीर् इमाः प्रजाः प्रजास्व् एव रसं दधाति प्राणापानौ वै पृषदाज्यम् आत्मा हविर् यत् पृषदाज्यं जुहोत्य् आत्मन् वा एतत् पशोः प्राणापानौ दधाति दिग्भ्यो जुहोतीमा एव दिशो रसेन व्युनक्ति प्राचीम् उत्तमां जुहोति प्राचीम् एव दिशं पुनर् उपावर्तन्ते ऽध्यूध्नीं होत्रे हरन्ति वैश्वदेवो वै होता वैश्वदेवीर् इमाः प्रजा ऊधः खलु वै प्रजा अनूपजीवन्ति सर्वा एवैनाः पयस्विनीः करोति गुदेनोपयजति प्राणा वै गुदः प्राणाद् अधि प्रजाः प्रजायन्ते प्रजननाय स्थविमत उपयजति स्थविमतो हि प्रजाः प्रजायन्ते यद् अणिमत उपयजेत् प्रजननम् अपिहन्यात् तस्मात् स्थविमत उपयजत्य् असम्भिन्दन्न् उपयजति प्राणानाम् असम्भेदाय यत् सम्भिन्द्यात् प्राणान्त् सम्भिन्द्याद् यं द्विष्यात् तस्य सम्भिन्द्यात् प्राणान् अस्य सम्भिनत्ति नोपयज्यं यद् उपयजेत् प्राणान् उपयजेत् प्रमायुकः स्यात् तद् आहुर् उपयज्यम् एव प्रजननं वा उपयजो ऽपि ह स प्रजायते य उपयजतीत्य् आभारद्वाजेति ह स्माह शुचिवृक्षो गौपालायनः किं तर्हि प्रजा आसन् यर्हि यज्ञो नानोपयड्भिर् आसीन् न प्रजाः प्राजायन्त नौषधयः फलम् अगृह्णन् यदा वाव यज्ञ उपयड्भिः समभवद् अथ प्रजाः प्राजायन्ताथौषधयः फलम् अगृह्णन्न् एकादश प्रयाजा एकादशानुयाजास् एकादशोपयजस् तत् त्रयस्त्रिंशत् त्रयस्त्रिंशद् देवतास् ता एवास्यैताभिर् अभीष्टाः प्रीता भवन्त्य् एतद् वा अस्य पशोर् अनर्वाग् इष्टो ऽनभीष्टो ऽभूद् यास्य मात्रा ताम् एनं गमयति स्वर्ग्यो वै सर्वः पशुर् यद् अन्यत्राहवनीयाज् जुहुयाद् अस्वर्ग्यः स्यात् पशुश्रपणाद् अग्निम् आहरन्ति तेन स्वर्ग्यः सर्वः पशुर् यत एव पूर्वम् अवादात् ततो ऽपरम् अवद्यति तस्मात् समानाद् योनेर् नानारूपाः पशवः प्रजायन्ते यज्ञो वै देवानाम् अत्यनेदत् तं देवा उपयड्भिर् अप्यवपन्न् अनतिनेदाय यद् एता उपयजो भवन्ति यज्ञम् एवैताभिर् अपिवपन्त्य् अनतिनेदाय यदाथा वै पुरुषः प्रत्यङ् छिद्र एवं यज्ञः प्रत्यङ् छिद्रस् तं देवा उपयड्भिर् अप्यदधुर् अछिद्रत्वाय यद् एता उपयजो भवन्ति यज्ञम् एवैताभिर् अपिदधात्य् अछिद्रत्वाय

॥३.१०.४॥

ये केचार्वाचीनम् एकादशिन्याः पशवस् तान् उत्तरम् अर्धं यूपस्य नियुञ्ज्याद् रौद्रा वै पशवो ऽग्निर् विधृतिर् दक्षिणे हविर्धाने सोमम् आसादयन्ति तथास्य रुद्रः पशून् अनभिमानुको भवति पात्रेषु वा अहम् अध्वर्युं चानध्वर्युं च विजानामीति ह स्माहारुण औपवेशिः कति पात्राणीति पृछेद् द्वादश पात्राण्य् उपांशुसवनस् त्रयोदशं यत् तन् मीमांसन्ते पात्रा३ं न पात्रा३म् इति मीमांसन्ते हि त्रयोदशं मासं मासा३ न मासा३ इति पञ्च प्रातःसवने पुरोडाशाश् चत्वारो माध्यन्दिने सवने चत्वारस् तृतीयसवने इतो वा एतां निरमिमीत प्रजापतिर् आत्मन एव यत एवैतां निरमिमीत तद् एतैर् अपिधीयते देवाश् च वा असुराश् चास्पर्धन्तायतनवन्तो ऽसुरा आसन्न् अनयतना देवा इमे लोका असुराणाम् आयतनम् आसंस् ते देवाः संस्तम्भंसंस्तम्भं पराजयन्तानायतना ह्य् आसंस् ते वै सवनान्य् एवायतनम् अचायंस् तानि प्राविशंस् तानि नाध्रियन्त ते वै पुरोडाशान् एव सवनानाम् आयतनम् अचायंस् तान् निरवपंस् तान्य् अध्रियन्त ततो देवा अभवन् परासुरास् तद् य एवं वेदायतनवान् भवति भवत्य् आत्मना परास्य भ्रातृव्यो भवति तस्माद् अनुसवनं पुरोडाशा निरुप्याः सवनानां धृत्यै तस्माद् अनुसवनं पुरोडाशः प्राश्यः सोमपीथस्य धृत्यै घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्न् अभि खलु वा एतं घारयन्ति यत् प्राश्नीयात् सोमपीथं हन्याद् यन् न प्राश्नीयात् सोमपीथेन व्यृध्येत यत्रानभिघृतं तत् प्राश्यः सोमपीथस्य धृत्यै तन् न सूर्क्ष्यं प्राश्य एवेन्द्रो वै वृत्रम् अहंस् तन् न किं चनाधिनोत् तं पुरोडाश एवाधिनोत् तस्मात् पुरोडाशः प्राश्यः सोमपीथस्य धृत्यै पञ्च प्रातःसवने पुरोडाशाः पुरोडाशः परिवापो धानाः करम्भः पयस्या सा पुरोडाशपङ्क्तिर् द्विनाराशंसाः प्रातःसवने द्विनाराशंसा माध्यन्दिने सवन एकनाराशंसास् तृतीयसवने सा नराशंसपङ्क्तिस् त्रीणि सवनान्य् अवभृथो ऽनुबन्ध्या सवनानां पञ्चमी सा सवनपङ्क्तिर् एषा वै सा पङ्क्तिर् याम् आहुर् ब्रह्मवादिनो वेत्थ तां पङ्क्तिं यया न स्तुवते न शंसन्त्य् अथ यज्ञं वहन्त्य् अथ यज्ञं संस्थापयन्ता इति

॥३.१०.५॥

मासा३ : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

देवाश् च वा असुराश् चास्पर्धन्त तेषां वा इन्द्रियाणि वीर्याण्य् अपाक्रामन्न् ऋक्सामे वा एभ्यस् तद् अपाक्रामतां पशवो वाग् इन्द्रियं प्राणापानौ तैर् वा इन्द्रो ऽकामयत सायुज्यं गछेयम् इति ॥

हरिवं इन्द्रो धाना अत्तु ॥ इत्य् ऋक्सामे वा इन्द्रस्य हरी ऋक्सामाभ्याम् एव सायुज्यम् अगछत् ॥

पूषण्वान् करम्भम् ॥ इति पशवो वै पुषा पशुभिर् एव सायुज्यम् अगछत् सरस्वतीवान् भारतीवान् परिवापः ॥ इति वाग् वै सरस्वती वाचैव सायुज्यम् अगछत् ॥

करम्भम् : फ़्न् एद्।: करम्भः। ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। १०९। मित्त्wएदे: करम्भम्।

इन्द्रस्यापूपः ॥ इतीन्द्रियं वा इन्द्र इन्द्रियेणैव सायुज्यम् अगछत् ॥

मित्रावरुणयोः पयस्या ॥ इति प्राणापानौ वै मित्रावरुणौ प्राणापानाभ्याम् एव सायुज्यम् अगछत् ततो देवा अभवन् परासुरास् तद् य एवं वेदैतैर् एवेन्द्रियैर् वीर्यैर् एतैर् महिमभिः सायुज्यं गछति भवत्य् आत्मना परास्य भ्रातृव्यो भवति दीर्घजिह्वी वै देवानां प्रातःसवनम् अवालेट् तद् व्यमाद्यत् सा पयस्याभवत् तस्मात् पयस्या विमदितरूपेव मैत्रावरुणी प्रातःसवने स्यात् प्राणापानौ वै मित्रावरुणौ प्राणापानौ वा एतन् मुखतो यज्ञस्य धीयेते न गुदः पर्याकर्तवै यद् गुदं पर्याकुर्याद् उदावर्तः प्रजा हन्याद् रक्षसाम् अनन्ववजयाय यूपः पुरस्तान् मीयते यद् अग्रेण यूपं पशुं हरेयुस् तद् अनु रक्षांसि यज्ञम् अवजयेयुर् अन्तराग्निं च यूपं च हृत्यो रक्षसाम् अनन्ववजयाय

॥३.१०.६॥

समुद्रं गछ स्वाहेत्य् अपस्थं वा एतद् यजत्य् अन्तरिक्षं गछ स्वाहेति रेत एवैतद् दधाति देवं सवितारं गछ स्वाहेत्य् आह प्रसूत्या एवाहोरात्रे गछ स्वाहेत्य् अहोरात्रे ह्य् अनु प्रजाः प्रजायन्ते मित्रावरुणौ गछ स्वाहेति प्राणापानौ वै मित्रावरुणौ प्राणापाना एवासु दधाति द्यावापृथिवी गछ स्वाहेत्य् आभ्याम् एवैनाः सृष्टाः परिगृह्णाति छन्दांसि गछ स्वाहेति वाग् वै छन्दांसि वाचम् एवासु दधाति सोमं गछ स्वाहेत्य् अन्नं वै सोमो ऽन्नम् एवासु दधाति यज्ञं गछ स्वाहेति यज्ञिया एवैना अकर् दिव्यं नभो गछ स्वाहेति वृष्टिम् एवाभ्यो निनयन्त्य् अग्निं वैश्वानरं गछ स्वेहेति संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनाः प्रतिष्ठापयति संवत्सरायुषम् एनाः करोति मनो हार्दिं यछेत्य् आह प्राणानां गोपीथायौषधीभ्यस् त्वेत्य् ओषधीष्व् एव रसं दधाति यो वै विद्वान् वाविद्वान् वोपयजो मिथुनयोप यजति प्राणान् वा एतन् मिथुनयाकुरुते यद् आह मनो हार्दिं यछेति प्राणान् वा एतद् ऋतुशः कल्पयते पशुर् वा आलब्धः शोचति तस्य मध्यं शुग् अभिसमेति सा हृदयेष्व् आगछति यत् पुरुषम् उपस्पृशेन् मनुष्याञ् शुग् ऋछेद् यद् गाम् उपस्पृशेत् पशूञ् शुग् ऋछेद् यद् दारूपस्पृशेद् वनस्पतीं शुग् ऋछेद् यत् तृणम् उपस्पृशेद् ओषधीः शुग् ऋछेद् यद् उदकम् उपस्पृशेद् अपः शुग् ऋछेद् यद् आर्द्रम् अनूदकं तञ् शान्तं तत्रोपोप्यं तद् देवतां शुचम् अवयजति ॥

इति तृतीयकाण्डे पात्नीवन्ता नाम दशमः प्रपाठकः

॥३.१०.७॥