skipLink.label

तृतीय काण्ड, प्रपाठक 11

तृतीय काण्ड, प्रपाठक 11

तृतीयकाण्डे एकादशः प्रपाठकः

तृतीयकाण्डे एकादशः प्रपाठकः

घृतप्रुषा मनसा हव्यम् उन्दन्त् स्वाहाकृतं जुषतां हव्यम् इन्द्रः

॥३.११.१॥

होता यक्षत् समिधाग्निम् इडस्पदे ऽश्विनेन्द्रं सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधुशष्पैर् न तेज इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् तनूनपात् सरस्वतीम् अविर् मेषो न भेषजं पथा मधुमद् आभरन्न् अश्विनेन्द्राय वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर् यज होता यक्षन् नराशंसं न नग्नहुं पतिं सुराया भेषजं मेषः सरस्वती भिषग् रथो न चन्द्र्य् अश्विनोर् वपा इन्द्रस्य वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर् यज होता यक्षद् इडेडित आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैः कर्कन्धुभिर् मधु लाजैर् न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् णासत्या भिषजाश्विनाश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् इन्द्राय दुह इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशा इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वती शुक्रं न ज्योतिर् इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना सञ्जानाने सुपेशसा समञ्जाते सरस्वत्या त्विषिम् इन्द्रेण भेषजं श्येनो न रजसा हृदा पयः सोमः परिस्रुता घृतं मधु वीताम् आज्यस्य होतर् यज होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषं सरस्वती भिषक् सीसेन दुह इन्द्रियं पयः सोमः परिस्रुता घृतं मधु वीताम् आज्यस्य होतर् यज होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपसो रूपम् इन्द्रो हिरण्ययम् अश्विनेडा न भारती वाचा सरस्वती महा इन्द्राय दुह इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् त्वष्टारं रूपकृतं सुपेशसं वृषभं नर्यापसं त्वष्टारम् इन्द्रम् अश्विना भिषजं नः सरस्वतीम् ओजो न जूतिर् इन्द्रियं वृको न रभसो भिषग् यशः सुराया भेषजं श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर् यज होता यक्षद् वनस्पतिं शमितारं शतक्रतुं भीमं न मन्युं राजानं व्याघ्रं नमसाश्विना भामं सरस्वती भिषग् इन्द्राय दुह इन्द्रियं पयः सोमः परिस्रुता घृतम् मधु वेत्व् आज्यस्य होतर् यज होता यक्षद् अग्निं स्वाहाज्यस्य स्तोकानां स्वाहा मेदसां पृथक् स्वाहा छागम् अश्विभ्यां स्वाहा मेषं सरस्वत्यै स्वाहा ऋषभम् इन्द्राय सिंहाय सहस इन्द्रियं स्वाहाग्निं न भेषजै स्वाहा सोमम् इन्द्रियैः स्वाहेन्द्रं सुत्रामाणं सवितारं वरुणं भिषजां पतिं स्वाहा वनस्पतिं प्रियं पाथो न भेषजैः स्वाहा देवा आज्यपा जुषाणो अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज

॥३.११.२॥

भेषजै : फ़्न् ⟨ भेषजैः

समिद्धो अग्निर् अश्विना तप्तो घर्मो विराट् सुतः ।

दुहे धेनुः सरस्वती सोमं सुक्रम् इहेन्द्रियम् ।

तनूपा भिषजा सुते ऽश्विनोभा सरस्वती ।

मध्वा रजांसीन्द्रियम् इन्द्राय पथिभिर् वह ॥

इन्द्रायेन्दुं सरस्वती नराशंसेन नग्नहुम् ।

अधाताम् अश्विना मधु भेषजं भिषजा सुते ॥

आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।

इडाभिर् अश्विना इषं सम् ऊर्जं सं रयिं दधुः ॥

अश्विना नमुचेः सुतं सोमं शुक्रं परिस्रुता ।

सरस्वती तम् आभरद् बर्हिषेन्द्राय पातवे ॥

कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः ।

इन्द्रो न रोदसी उभे दुहे कामान्त् सरस्वती ॥

उषासा नक्तम् अश्विना दिवेन्द्रं सायम् इन्द्रियैः ।

सञ्जानाने सुपेशसा समञ्जाते सरस्वत्या ॥

पातं नो अश्विना दिवा पाहि नक्तं सरस्वति ।

दैव्या होतारा भिषजा पातम् इन्द्रं सचा सुते ॥

तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा ।

तीव्रं परिस्रुता सोमम् इन्द्रायासुषुवुर् मदम् ॥

अश्विना भेषजं मधु भेषजं नः सरस्वती ।

इन्द्रे त्वष्टा यशः श्रियं रूपंरूपम् अधुः सुते ॥

ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता ।

कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥

गोभिर् न सोमम् अश्विना मासरेण परिस्रुता ।

समधातां सरस्वत्या स्वाहेन्द्रे सुतं मधु

॥३.११.३॥

अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती ।

आ शुक्रम् आसुराद् वसु मद्यम् इन्द्राय जभ्रिरे ॥

यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् ।

स बिभेद बलं मद्यं नमुचा आसुरे सचा ॥

तम् इन्द्रं पशवः सचाश्विनोभा सरस्वती ।

दधाना अभ्यनूषत हविषा यज्ञ इन्द्रियम् ॥

य इन्द्र इन्द्रियं दधुः सविता वरुणो भगः ।

स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥

सविता वरुणो दधद् यजमानाय दाशुषे ।

आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम् ॥

वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् ।

सुत्रामा यशसा बलं दधाना यज्ञम् आशत ॥

युवं सुरामम् अश्विना नमुचा आसुरे सचा ।

विपिपाना सरस्वतीन्द्रं कर्मस्व् आवत ॥

होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रम् इमे सोमाः सुरामाणश् छागैर् न मेषैर् ऋषभैः सुताः शष्पैर् न तोक्मभिर् लाजैर् महस्वन्तो मदा मासरेण परिस्रुता शुक्राः पयस्वन्तो ऽमृताः प्रस्थिता वो मधुश्च्युतस् तान् अश्विना सरस्वतीन्द्रो जुषन्तां सोम्यं मधु पिबन्तु मदन्तां व्यन्तु होतर् यज पुत्रम् इव पितरा अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः ।

यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥

अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् ।

हविषेन्द्रं सरस्वती यजमानम् अवर्धयन् ॥

ता नासत्या सुपेशसा हिरण्यवर्त्तनी नरा ।

सरस्वती हविष्मतीन्द्रं कर्मस्व् अवतु ॥

ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।

स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम् ॥

अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।

वाजसनिं रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥

यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टासा आहुताः ।

कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये

॥३.११.४॥

देवं बर्हिः सरस्वती सुदेवम् इन्द्रायाश्विना तेजो न चक्षुर् अक्षोर् बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य वेतु यज देवीर् द्वारो अश्विना भिषजेन्द्रं सरस्वती प्राणान् न वीर्यं नसि द्वारो दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज देवी उषासा अश्विना सुत्रामेन्द्रं सरस्वती बलं न वाचम् आस्ये उषाभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवी जोष्ट्री सरस्वत्य् अश्विनेन्द्रम् अवधयन् श्रोत्रं न कर्णयोर् यशो जोष्ट्रीभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवी ऊर्जाहुती दुघे सुदुघेन्द्रं सरस्वत्य् अश्विना भिषजावतं शुक्रं न ज्योतिः स्तनयोर् आहुती धत्त इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवा देवानां भिषजा होतारा इन्द्रम् अश्विना वषट्कारैः सरस्वती त्विषिं न हृदये मतिं होतृभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवीस् तिस्रस् तिस्रो देवीर् अश्विनेडा सरस्वती शूषं न मध्ये नाभ्या इन्द्राय दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज देव इन्द्रो नराशंसस् त्रिवरूथः सरस्वत्याश्विभ्याम् ईयते रथो रेतो न रूपम् अमृतं जनित्रम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वसुवने वसुधेयस्य वेतु यज देवो देवैर् वनस्पतिर् हिरण्यपर्णो अश्विभ्यां सरस्वत्या सुपिप्पल इन्द्राय पच्यते मध्व् ओजो न जूतिर् वृषभो न भामं वनस्पतिर् नो दधद् इन्द्रियाणि वसुवने वसुधेयस्य वेतु यज देवं बर्हिर् वारितीनाम् अध्वरे स्तीर्णम् अश्विभ्याम् ऊर्णम्रदाः सरस्वत्या स्योनम् इन्द्र ते सद ईशाया मन्युं राजानं बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य वेतु यज देवो अग्निः स्विष्टकृद् देवान् यक्षद् यथायथं होतारा इन्द्रम् अश्विना वाचा वाचं सरस्वतीम् अग्निं सोमं स्विष्टकृत् स्विष्टा इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवो वनस्पतिः स्विष्टा देवा आज्यपाः स्विष्टो अग्निर् अग्निना होता होत्रे स्विष्टकृत् सहो न दधद् इन्द्रियम् ऊर्जम् अपचितिं स्वधां वसुवने वसुधेयस्य वेतु यज

॥३.११.५॥

जोष्ट्री : फ़्न् एमेन्देद्। एद्।: ज्ञोष्ट्री।

शुक्रं : फ़्न् एमेन्देद्। एद्।: शक्रं

सोमो राजामृतं सुत ओषधीनाम् अपां रसः ।

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।

इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।

इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

अद्भ्यः सोमं व्यपिबच् छन्दोभिर् हंसः शुचिषत् ।

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।

इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

अन्नात् परिस्रुतो रसं ब्रह्मणा क्षत्रं व्यपिबत् ।

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।

इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

रेतो मूत्रं विजहाति योनिं प्रविशद् इन्द्रियम् ।

गर्भो जरायुणावृता उल्बं जहाति जन्मना ॥

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।

इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ।

अश्रद्धाम् अनृते ऽदधाञ् श्रद्धां सत्ये प्रजापतिः ॥

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।

इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।

इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

दृष्ट्वा परिस्रुतो रसं शुक्रेण शुक्रं व्यपिबत् पयः सोमं प्रजापतिः ।

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।

इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु

॥३.११.६॥

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।

दधन्वान् यो नर्यो अप्स्व् अन्तरा सुषाव सोमम् अद्रिभिः ॥

सोमो ऽस्य् अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व ॥

पुनातु ते परिस्रुतं सोमं सूर्यस्य दुहिता ।

वारेण शश्वता तना ॥

वायुः पूतः पवित्रेण प्राक् सोमो अतिद्रुतः ।

इन्द्रस्य युज्यः सखा ॥

वायोः पूतः पवित्रेण प्रत्यक् सोमो अतिस्रुतः ।

इन्द्रस्य युज्यः सखा ॥

ब्रह्म क्षत्रं पवते तेज इन्द्रियं सुरायाः सोमः सुत आसुतो मदाय ।

शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥

कुविद् अङ्ग नाना हि वाम् ॥

या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।

श्येनं पतत्रिणं सिंहं सेमं पात्व् अंहसः ॥

सुरावन्तं बर्हिषदं सुवीरं यज्ञं हिन्वन्ति महिषा नमोभिः ।

दधानाः सोमं दिवि देवतासु मदेनेन्द्रं यजमानाः स्वर्काः ॥

यस् ते रसः सम्भृता ओषधीषु सोमस्य शुष्मः सुरायां सुतस्य ।

तेन जिन्व यजमानं मदेन सरस्वतीम् अश्विना इन्द्रम् अग्निम् ॥

यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय ।

इमं तं शुक्रं मधुमन्तम् इन्दुं सोमं राजानम् इह भक्षयामि ॥

यद् अत्र शिष्टं रसिनः सुतस्य यम् अस्येन्दो अपिबञ् शचीभिः ।

अहं तम् अस्य मनसा शिवेन सोमं राजानम् इह भक्षयामि

॥३.११.७॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ॥

त्रया देवा एकादश त्रयस्त्रिंशाः सुराधसः ।

बृहस्पतिपुरोहिता देवस्य सवितुः सवे देवा देवैर् अवन्तु त्वा ॥

प्रथमास् त्वा द्वितीयैर् अभिषिञ्चन्तु द्वितीयास् त्वा तृतीयैस् तृतीयास् त्वा सत्येन सत्यं त्वा ब्रह्मणा ब्रह्म त्वा यजुर्भिर् यजूंषि त्वा सामभिः सामानि त्वा ऋग्भिर् ऋचस् त्वा पुरोनुवाक्याभिः पुरोनुवाक्यास् त्वा याज्याभिर् याज्यास् त्वा वषट्कारैर् वषट्कारास् त्वाहुतिभिर् अभिषिञ्चन्त्व् आहुतयस् ते कामान्त् समर्धयन्त्व् असव् अश्विनोस् त्वा तेजसा ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यास् त्वा वीर्येण यशसे ऽन्नाद्यायाभिषिञ्चामीन्द्रस्य त्वेन्द्रियेणौजसे बलायाभिषिञ्चामि भूः स्वाहा ॥

शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि ।

राजा मे प्राणो अमृतं सम्राट् चक्षुर् विराट् श्रोत्रम् ॥

जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।

मोदाः प्रमोदा अङ्गुलीर् अङ्गानि मित्रं मे सहः ॥

बाहू मे बलम् इन्द्रियं हस्तौ मे कर्म वीर्यम् ।

आत्मा क्षत्रम् उरो मम ॥

पृष्टीर् मे राष्ट्रम् उदरम् अंसौ ग्रीवाश् च श्रोण्यौ ।

ऊरू अरत्नी जानुनी विशो मे ऽङ्गानि सर्वतः ॥

नाभिर् मे चित्तं विज्ञानं पायुर् मे ऽपचितिर् भसत् ।

आनन्दनन्दा आण्डौ मे भगः सौभाग्यं पसः ॥

लोमानि प्रयतिर् मम त्वङ् मा आनतिर् आगतिः ।

मांसं मा उपनतिर् वस्व् अस्थि मज्जा मा आनतिः ॥

जङ्घाभ्यां पद्भ्यां धीरो ऽस्मि विशि राजा प्रतिष्ठितः ।

प्रति ब्रह्मन् प्रतितिष्ठामि क्षत्रे प्रत्य् अश्वेषु प्रतितिष्ठामि गोषु ॥

प्रति प्रजायां प्रतितिष्ठामि पृष्ठे प्रति प्राणेषु प्रतितिष्ठाम्य् आत्मन् द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे

॥३.११.८॥

सीसेन तन्त्रं मनसा मनीषिण ऊर्णासूत्रेण कवयो वयन्ति ।

अश्विना यज्ञं सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥

तद् अस्य रूपम् अमृतं शचीभिस् तिस्रो दधुर् देवताः संरराणाः ।

लोमानि शष्पैर् बहुधा न तोक्मभिस् त्वग् अस्य मांसम् अभवन् न लाजाः ॥

तद् अश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो अन्तरम् ।

अस्थि मज्जानं मासरं कारोतरेण दधतो गवां त्वचि ॥

सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।

रसं परिस्रुतो न रोहितं नग्नहुर् धीरस् तसरं न वेम ॥

पयसः शुक्रम् अमृतं जनित्रं सुराया मूत्राज् जनयन्त रेतः ।

अपामतिं दुर्मतिं बाधमाना ऊवध्यं वातात् सब्वं तद् आरात् ॥

इन्द्रः सुत्रामा हृदयेन सत्यं पुरोडाशेन सविता जजान ।

यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर् न मिनाति पित्तम् ॥

आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।

श्येनस्य पत्त्रं न प्लीहा शचीभिर् आसन्दी नाभिर् उदरं न माता ॥

कुम्भो वनिष्ठुर् जनिता शचीभिर् यस्मिन्न् अग्रे योन्यां गर्भो अन्तः ।

प्लाशिर् व्यक्तः शतधारा उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥

मुखं सदस्य शिरा इत् सतेन जिह्वा पवित्रम् अश्विनासन्त् सरस्वती ।

चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥

अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्यां छागेन तेजो हविषा घृतेन ।

पक्ष्माणि गोधृमैः कुवलैर् उतानि पेशो न शुक्रम् असितं वसाते ॥

अविर् न मेषो नसि वीर्याय प्राणस्य पन्था अमृतं ग्रहाभ्याम् ।

सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर् जजान ॥

इन्द्रस्य रूपम् ऋषभो बलाय कर्णाभ्यां श्रोत्रम् अमृतं ग्रहाभ्याम् ।

यवैर् न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखे ॥

आत्मन्न् उपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।

केशा न शीर्षन् यशसे श्रियै शिखा सिंहस्य लोम त्विषिर् इन्द्रियाणि ॥

अङ्गैर् आत्मानं भिषजा तद् अश्विनात्मानम् अङ्गैः समधात् सरस्वती ।

इन्द्रस्य रूपं शतमानम् आयुः शुक्रं न ज्योतिर् अमृतं दधाना ॥

सरस्वती योन्यां गर्भम् अन्तर् अश्विभ्यां पत्नी सुकृतं बिभर्ति ।

अपां रसेन वरुणो न साम्नेन्द्रं श्रियै जनयन्न् अप्सु राजा ॥

तेजः पशूनां हविर् इन्द्रियावत् परिस्रुता पयसा सारघं मधु ।

अश्विभ्यां दुग्धं भिषजा सरस्वती सुतासुताभ्याम् अमृतः सोमा इन्दुः

॥३.११.९॥

पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।

पवित्रेण शतायुषा विश्वम् आयुर् व्यश्नवै ॥

पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।

पवित्रेण शतायुषा सर्वम् आयुर् व्यश्नवै ॥

अग्ना आयूंषि पवसे ॥

पवमानः स्वर् जनः पवित्रेण विचर्षणिः ।

यः पोता स पुनातु मा ॥

पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।

पुनन्तु विश्वा भूता मा जातवेदः पुनाहि मा ॥

पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।

ज्योक् च सूर्यं दृशे ॥

उभाभ्यां देव सवितः पवित्रेण सवेन च ।

मां पुनाहि विश्वतः ॥

पवित्रेण पुनाहि मा शुक्रेण देव दीद्यत् ।

अग्ने क्रत्वा क्रतूंर् अनु ॥

यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तरा ।

ब्रह्म तेन पुनीमहे ॥

वैश्वदेवी पुनती देव्य् आगाद् यस्या बह्व्यस् तन्वो वीतपृष्ठाः ।

तया मदन्तः सधमाद्येषु वयं स्याम पतयो रयीणाम् ॥

वैश्वानरो रश्मिभिर् मा पुनातु वातः प्राणेनेषिरो मयोभूः ।

द्यावापृथिवी पयसा पयोभिर् ऋतावरी यज्ञिये मा पुनीताम् ॥

बृहद्भिः सवितस् त्रिभिर् वर्षिष्ठैर् देव मन्मभिः ।

अग्ने दक्षैः पुनीमहे ॥

ये समानाः समनसः पितरो यमराज्ये ।

तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥

ये समानाः समनसो जीवा जीवेषु मामकाः ।

तेषां श्रीर् मयि कल्पताम् अस्मिंल् लोके शतं समाः ॥

द्वे स्रुती ॥

इदं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये ।

आत्मसनि प्रजासनि क्षेत्रसनि पशुसनि लोकसन्य् अभयसनि ॥

अग्निः प्रजां बहुलां मे कृणोत्व् अन्नं पयो रेतो अस्मासु धेहि ॥

यद् देवा देवहेडनं देवासश् चकृमा वयम् ।

अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ॥

यदि स्वपन् यदि जाग्रद् एनांसि चकृमा वयम् ।

वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ॥

यदि दिवा यदि नक्तम् एनांसि चकृमा वयम् ।

सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ॥

धाम्नोधाम्नो ॥

यद् ग्रामे ॥

पवित्रम् असि यज्ञस्य पवित्रं यजमानस्य ।

तन् मा पुनातु सर्वतो विश्वस्माद् देवकिल्बिषात् सर्वस्माद् देवकिल्बिषात् ॥

द्रुपदाद् इवेन् मुमुचानः स्विन्नः स्नात्वी मलाद् इव ।

पूतं पवित्रेणेवाज्यं विश्वे मुञ्चन्तु मैनसः ॥

समावृतत् पृथिवी सम् उषाः सम् उ सूर्यः ।

वैश्वानरज्योतिर् भूयासं विभुं कामं व्यशीय भूः स्वाहा

॥३.११.१०॥

समिद्धो अग्निः समिधा सुसमिद्धो वरेण्यः ।

गायत्री छन्द इन्द्रियं त्रियविर् गौर् वयो दधुः ॥

तनूनपाञ् शुचिव्रतस् तनूपाश् च सरस्वती उष्णिक् छन्द इन्द्रियं दित्यवाड् गौर् वयो दधुः ॥

सरस्वती : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

इडाभिर् अग्निर् ईड्यः सोमो देवो अमर्त्यः ।

अनुष्टुप् छन्द इन्द्रियं पञ्चाविर् गौर् वयो दधुः ॥

सुबर्हिर् अग्निः पूषण्वान्त् स्तीर्णबर्हिर् अमर्त्यः ।

बृहती छन्द इन्द्रियं त्रिवत्सो गौर् वयो दधुः ॥

दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः ।

पङ्क्तिश् छन्द इन्द्रियं तुर्यवाड् गौर् वयो दधुः ॥

उषे यह्वी सुपेशसा विश्वे देवा अमर्त्याः ।

त्रिष्टुप् छन्द इन्द्रियं पृष्ठवाड् गौर् वयो दधुः ॥

दैव्या होतारा भिषजेन्द्रेण सयुजा युजा ।

जगती छन्द इन्द्रियम् अनड्वान् गौर् वयो दधुः ॥

तिस्रो देवीर् इडा मही भारती मरुतो विशः ।

विराट् छन्द इन्द्रियं धेनुर् गौर् न वयो दधुः ॥

त्वष्टा तुरीपो अद्भुत इन्द्राग्नी पुष्टिवर्धना ।

द्विपदा छन्द इन्द्रियम् उक्षा गौर् न वयो दधुः ॥

शमिता नो वनस्पतिः सविता प्रसुवन् भगम् ।

ककुप् छन्द इहेन्द्रियम् ऋषभो गौर् वयो दधुः ॥

स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् ।

अतिछन्दा इन्द्रियं बृहद् वशा वेहद् वयो दधुः

॥३.११.११॥

वसन्तेन ऋतुना देवा वसवस् त्रिवृता स्तुतम् ।

रथन्तरेण तेजसा हविर् इन्द्रे वयो दधुः ॥

ग्रीष्मेण ऋतुना देवा रुद्राः पञ्चदशे स्तुतम् ।

बृहता यशसा बलं हविर् इन्द्रे वयो दधुः ॥

वर्षाभिर् ऋतुनादित्याः स्तोमे सप्तदशे स्तुतम् ।

वैरूपेण विशौजसा हविर् इन्द्रे वयो दधुः ॥

शारदेन ऋतुना देवा एकविम्श ऋभवः स्तुतम् ।

वैराजेन श्रिया श्रियं हविर् इन्द्रे वयो दधुः ॥

हेमन्तेन ऋतुना देवास् त्रिणवे मरुतः स्तुतम् ।

बलेन शक्वरीः सहो हविर् इन्द्रे वयो दधुः ॥

शैशिरेण ऋतुना देवास् त्रयस्त्रिंशे ऽमृतं स्तुतम् ।

सत्येन रेवतीः क्षत्रं हविर् इन्द्रे वयो दधुः ॥

इति तृतीयकाण्डे सौत्रामणीयो नाम एकादशः प्रपाठकः

॥३.११.१२॥