skipLink.label

तृतीय काण्ड, प्रपाठक 12

तृतीय काण्ड, प्रपाठक 12

तृतीयकाण्डे द्वादशः प्रपाठकः

तृतीयकाण्डे द्वादशः प्रपाठकः

परो मर्तः परः श्वा

॥३.१२.१॥

अग्नये स्वाहा सोमाय स्वाहापां मोदाय स्वाहा वायवे स्वाहा सवित्रे स्वाहा त्वष्ट्रे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा मित्राय स्वाहा वरुणाय स्वाहा

॥३.१२.२॥

हिङ्काराय स्वाहा हिङ्कृताय स्वाहा क्रन्दते स्वाहा अवक्रन्दाय स्वाहा प्रोथते स्वाहा प्रप्रोथाय स्वाहा गन्धाय स्वाहा घ्राताय स्वाहा निविष्टाय स्वाहोपविष्टाय स्वाहा सन्दिताय स्वाहा वल्गते स्वाहासीनाय स्वाहा शयानाय स्वाहा स्वपते स्वाहा जाग्रते स्वाहा कूजते स्वाहा प्रबुद्धाय स्वाहा विचृत्ताय स्वाहा विजृम्भमाणाय स्वाहा जवाय स्वाहा बलाय स्वाहायनाय स्वाहा प्रायणाय स्वाहा यते स्वाहा धावते स्वाहोद्द्रावाय स्वाहोद्द्रुताय स्वाहा शूकाराय स्वाहा शूकृताय स्वाहोपस्थिताय स्वाहा संहानाय स्वाहा निषण्णाय स्वाहोत्थिताय स्वाहा विष्ठिताय स्वाह विवर्तमानाय स्वाहा विवृत्ताय स्वाहा विधून्वानाय स्वाहा विधूताय स्वाहा शृङ्वते स्वाहा शुश्रूषमाणाय स्वाहेक्षिताय स्वाहा वीक्षिताय स्वाहा वीक्षमाणाय स्वाहा निमेषाय स्वाहा यद् अत्ति तस्मै स्वाहा यत् पिबति तस्मै स्वाहा यन् मेहति तस्मै स्वाहा कुर्वते स्वाहा कृताय स्वाहा

॥३.१२.३॥

विभूर् मात्रा प्रभूः पित्राश्वो ऽसि हयो ऽस्य् अत्यो ऽसि मयो ऽसि नरो ऽस्य् अर्वासि सप्तिर् असि वाज्य् असि वृषासि नृमणा असि ययुर् नामास्य् आदित्यानां पत्वान्विहि देवा आशापाला एतं देवेभ्यो अश्वं मेधाय प्रोक्षितं रक्षतेह धृतिर् इह स्वधृतिर् इह रम इह रमन्ताम्

॥३.१२.४॥

काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा सवित्रे स्वाहा सवित्रे प्रसवित्रे स्वाहा सवित्र आसवित्रे स्वाहादित्यै स्वाहादित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहा सरस्वत्यै स्वाहा सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरन्धिषाय स्वाहा त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे परुरूपाय स्वाहा विष्णवे स्वाहा विष्णवे शिपिविष्टाय स्वाह विष्णवे निभूयपाय स्वाहा

॥३.१२.५॥

आ ब्रह्मन् ब्राह्मणस् तेजस्वी ब्रह्मवर्चसी जायताम् आ राष्ट्रे राजन्यः शूर इषव्यो महारथो जायतां दोग्ध्री धेनुर् वोढानड्वान् आशुः सप्तिः सभेयो युवा पुरन्धिर् योषा जिष्णू रथेष्ठा आस्य यजमानस्य वीरो जायतां निकामेनिकामे नः पर्जन्यो वर्षतु फलवतीर् ना ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम्

॥३.१२.६॥

अग्नये स्वाहा सोमाय स्वाहेन्द्राय स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा दिग्भ्यः स्वाहाशाभ्यः स्वाहोर्व्यै दिशे स्वाहा प्राच्यै दिशे स्वाहा नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा ऋतुभ्यः स्वाहार्तवेभ्यः स्वाहा संवत्सराय स्वाहा द्यावापृथिवीभ्यां स्वाहा चन्द्रमसे स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाहा मरुद्भ्यः स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा मूलेभ्यः स्वाहा शाखाभ्यः स्वाहा वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा

॥३.१२.७॥

प्राच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहार्वाच्यै दिशे स्वाहा प्रतीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोदीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहार्वाच्यै दिशे स्वाहा

॥३.१२.८॥

आयुषे स्वाहा प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा मनसे स्वाहा वाचे स्वाहा

॥३.१२.९॥

पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा चराचरेभ्यः स्वाहा

॥३.१२.१०॥

असवे स्वाहा वसवे स्वाहा विभ्वे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाभिषाहे स्वाहाभिभ्वे स्वाहाधिपतये स्वाहा शूषाय स्वाहा संसर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा

॥३.१२.११॥

धर्णसाय स्वाहा द्रविणाय स्वाहा प्रसवाय स्वाहोपयामाय स्वाहा सिन्धवे स्वाहा समुद्राय स्वाहा काटाय स्वाहार्णवाय स्वाहा सरस्वत्यै स्वाहा विश्वव्यचसे स्वाहा सुभूताय स्वाहान्तरिक्षाय स्वाहा

॥३.१२.१२॥

मधवे स्वाहा माधवाय स्वाहा शुक्राय स्वाहा शुचये स्वाहा नभसे स्वाहा नभस्याय स्वाहेषाय स्वाहोर्जाय स्वाहा सहसे स्वाहा सहस्याय स्वाहा तपसे स्वाहा तपस्याय स्वाहा संसर्पो ऽस्य् अंहस्पत्याय स्वाहा

॥३.१२.१३॥

सवयसे स्वाहाभिवयसे स्वाहोर्ध्ववयसे स्वाहा बृहद्वयसे स्वाहा सहीयसे स्वाहा सहमानाय स्वाहा सासहये स्वाहा सहस्वते स्वाहाभीषाहे स्वाहाभिभ्वे स्वाहाभिमातिषाहे स्वाहाभिमातिघ्ने स्वाहा

॥३.१२.१४॥

एकस्मै स्वाहा द्वाभ्यां स्वाहैकान्नशताय स्वाहा शताय स्वाहैकशताय स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा

॥३.१२.१५॥

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।

स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः सूर्यस् ते महिमा

॥३.१२.१६॥

यः प्राणतो निमिषतश् च राजा पतिर् विश्वस्य जगतो बभूव ।

ईशे यो अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥

उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिश् चन्द्रमास् ते महिमा

॥३.१२.१७॥

युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।

रोचन्ते रोचना दिवि ॥

यद् वातो ऽपो अगनीगन् प्रियाम् इन्द्रस्य तन्वम् ।

एतं स्तोतर् अनेन पथा पुनर् अश्वम् आवर्तयासि नः

॥३.१२.१८॥

वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसादित्यास् त्वाञ्जन्तु जागतेन छन्दसा भूर् भुवः स्वर् लाजी३ शाची३ यव्ये गव्य एतद् अन्नम् अत्त देवा एतद् अन्नम् अद्धि प्रजापते ॥

कः स्विद् एकाकी चरति क उ स्विज् जायते पुनः ।

किं स्विद् धिमस्य भेषजं किम् अवावपनं महत् ॥

सूर्य एकाकी चरति चन्द्रमा जायते पुनः ।

अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥

का स्विद् आसीत् पूर्वचित्तिः किं स्विद् आसीद् बृहद् वयः ।

का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥

द्यौर् आसीत् पूर्वचित्तिर् अश्व आसीद् बृहद् वयः ।

अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला

॥३.१२.१९॥

प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा ॥

अम्ब्य् अम्बिके अम्बालिके न मा नयति कश् चन ।

ससस्त्य् अश्वकः सुभद्रिकां कामपीलवासिनीम् ॥

गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा निधिपतिं हवामहे वसो ममाहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ॥

तौ सह चतुरः पदः सम्प्रसारयावः स्वर्गे लोके प्रोर्णुवातां वृषा वाम् अश्वो रेतोधा रेतो दधातु

॥३.१२.२०॥

गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह ।

बृहत्य् उष्णिहा ककुब् देवानां पत्नयो विशः सूचीभिः शमयन्तु त्वा ॥

द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा ।

विछन्दा या च सछन्दाः सूचीभिः शमयन्तु त्वा ॥

रजताः सीसा हरिणीर् युजो युञ्जन्तु कर्मभिः ।

अश्वस्य वाजिनस् त्वचि स्यूमाः कृण्वन्तु शाम्यन्तीः ॥

महानाम्नी रेवतयो दैव्या आशाः प्रसूवरीः ।

मेघ्या विद्युतो वाचः सूचीभिः शमयन्तु त्वा ॥

योषास् ते पत्नयो लोम विचिन्वन्तु यथायथम् ।

सुपत्नीः पत्नयो वाजिन् प्रजया भुक्षीमहि ॥

कुविद् अङ्ग ॥

इति तृतीयकाण्डे द्वादशः प्रपाठकः

॥३.१२.२१॥