skipLink.label

तृतीय काण्ड, प्रपाठक 13

तृतीय काण्ड, प्रपाठक 13

तृतीयकाण्डे त्रयोदशः प्रपाठकः

तृतीयकाण्डे त्रयोदशः प्रपाठकः

दधिक्राव्णो अकारिषम्

॥३.१३.१॥

अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव आग्नेयो ललाटे पुरस्तात् सारस्वती मेष्य् अधस्ताद् धन्वोः श्यामः पौष्णो नाभ्याम् आश्विना अधोरामौ बाह्वोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोर् वायव्यः श्वेतः पुछ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः

॥३.१३.२॥

लोमशसक्थौ : फ़्न् एमेन्देद्। एद्।: लोमसक्थौ

बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणा रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्याः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः

॥३.१३.३॥

शुद्धवालः सर्वशुद्धावालो मणिवालस् त आश्विनाः श्येतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः

॥३.१३.४॥

पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी बलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽधिरूढाकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिषक्थस् त ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त उषस्याः

॥३.१३.५॥

शिल्पा वैश्वदेवी रोहिणीस् त्र्यवयो वाचे ऽविज्ञाता अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः

॥३.१३.६॥

कृष्णग्रीवा आग्नेयाः शितिभ्रुवो वसूनां रोहिता रुद्राणां श्वेता अवरोकिण आदित्यानां नभोरूपाः पार्जन्याः

॥३.१३.७॥

उन्नतः शितिबाहुः शितिपृष्ठस् त ऐन्द्राबार्हस्पत्या उन्नत ऋषभो वामनस् त ऐन्द्रावैष्णवाः शुकरूपा वाजिनाः कल्माषा आग्निमारुताः श्यामाः पौष्णाः

॥३.१३.८॥

एता ऐन्द्राग्ना द्विरूपा अग्नीषोमीया वामना अनड्वाह आग्नावैष्णवा अन्यतएनीर् मैत्रीर् वशा मैत्रावरुण्यः

॥३.१३.९॥

कृष्णग्रीवा आग्नेया बभ्रवः सौम्याः श्वेता वायव्या अविज्ञाता अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः

॥३.१३.१०॥

कृष्णा भौमा धूम्रा आन्तरिक्षा बृहन्तो दैवाः शबला वैद्युताः सिध्मास् तारकाः

॥३.१३.११॥

कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुताः पिशङ्गा वैश्वदेवा वशा द्यावापृथिवीयाः

॥३.१३.१२॥

कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णा एता ऐन्द्राग्नाः पृश्नयो मारुताः कृष्णा वारुणाः कायास् तूपराः

॥३.१३.१३॥

अग्नये ऽनीकवते प्रथमजान् आलभते मरुद्भ्यः सान्तपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधेभ्यो वष्किहान् मरुद्भ्यः क्रीडिभ्यः संसृष्टान् मरुद्भ्यः स्वतवद्भ्यो ऽनुसृष्टान्

॥३.१३.१४॥

कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णा एता ऐन्द्राग्नाः प्राशृङ्गा ऐन्द्रा बहुरूपा वैश्वकर्मणाः

॥३.१३.१५॥

कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः श्वेता वायव्याः प्राशृङ्गा ऐन्द्राः सौर्याः श्वेताः

॥३.१३.१६॥

त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा अनुष्टुभे तुर्यवाह उष्णिहे

॥३.१३.१७॥

पष्ठवाहो विराज उक्षाणो बृहत्यय् ऋषभाः ककुभे धेनवो जगत्यय् अनड्वाहः पङ्क्त्यै

॥३.१३.१८॥

धूम्रा वसन्ताय श्वेता ग्रीष्माय कृष्णा वर्षाभ्यः

॥३.१३.१९॥

अरुणाः शरदे पृषन्तो हेमन्ताय पिशङ्गाः शिशिराय ॥

इति तृतीयकाण्डे त्रयोदशमः प्रपाठकः

॥३.१३.२०॥