तृतीयकाण्डे प्रथमः प्रपाठकः
तृतीयकाण्डे प्रथमः प्रपाठकः
जुहूम् अग्रे सम्मार्ष्टि जुहूर् वै यज्ञमुखं मुखतो वा एतद् यज्ञम् आलब्ध जुह्वा वै देवा विराजम् अह्वयन्त तज् जुह्वा जुहूत्वम् अन्नं वै विराड् अन्नं जुहूर् अर्को ऽग्निर् यज् जुह्वा जुहोत्य् अन्नस्य चार्कस्य चावरुद्ध्यय् अष्टौ कृत्वो जुह्वां गृह्णात्य् अष्टाक्षरा गायत्री गायत्री यज्ञमुखं यज्ञमुखम् एवालब्ध यत् सावित्राणि हूयन्ते प्रसूत्यय् अथो यजुषाम् एव नानावीर्यत्वायाग्निर् वै यत्रयत्रागछत् तं सवितान्वपश्यद् यत् सावित्राणि हूयन्ते ऽग्नेर् एवानुक्शात्यय् अग्निं ज्योतिर् निचाय्य पृथिव्या अध्याभरद् इति सविता वा एतद् अग्रे ज्योतिः पृथिव्याः समभरत् तस्माद् एवम् आह युक्तिमन्ति च जुहोति मनस्वती च युक्तेन हि मनसा यज्ञस् तायते षड् ऋग्माणि भवन्ति षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठय् एति वा एष यज्ञमुखाद् यो ऽन्याम् आग्नेय्या अग्रे देवताम् उपैति यत् सावित्राणि न स्युर् इयात् सावित्रात् प्रसवाद् अष्टौ वा एतानि यजूंष्य् अष्टाक्षरा गायत्री गायत्री यज्ञमुखं तेन यज्ञमुखान् नैति यद् उ सावित्राणि तेन सावित्रात् प्रसवान् नैति छन्दोभिर् जुहोति छन्दोभिर् वा एतद् अग्नये बलिं हारयति बहवो हास्य बलिहृतो भवन्त्य् ऋग् वै यज्ञस्य नेदीयो यजुर् यजमानस्य यदि कामयेत यज्ञं यज्ञयशसेनार्पयेयम् इत्य् ऋगुत्तमानि कुर्याद् यज्ञं वा एतद् यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयम् इति यजुरुत्तमानि कुर्याद् यजमानं वा एतद् यज्ञयशसेनार्पयत्य् आहुतीनां वा अभिक्रान्त्या यजमान ऋध्नोति यं कामयेत ऋध्नुयाद् इति तस्य सकृत् सर्वाण्य् अनुद्रुत्य जुहुयाद् ऋध्नोत्य् अथ यं कामयेत पापीयान्त् स्याद् इति तस्य नाना जुहुयात् पापीयान् भवत्य् ऋचा स्तोमं समर्धयेत्य् आह समृद्ध्या एव गायत्रेण रथन्तरम् इतीयं वै गायत्रीयं रथन्तरम् असौ बृहद् अनयोर् वा एष लोकयोर् व्याप्त्या अन्ततः क्रियते ऽष्टौ वा एतानि यजूंष्य् अष्टाक्षरा गायत्र्य् अक्षरशो वा एतद् गायत्रीं प्रीणात्य् अथ यद् आहुतिर् नवमी तेन त्रिवृतो यज्ञमुखान् नैत्य् अथ यद् एकाम् आहुतिम् अष्टाभिर् यजुर्भिर् जुहोति तस्माद् एकस्मै सते बहवो बलिं हरन्ति बहवो हास्य बलिहृतो भवन्ति यजुरुत्तमानि भवन्ति ब्रह्म वै यजुर् ब्रह्मणि वा एतद् अन्ततो यज्ञस्य यजमानः प्रतितिष्ठति
॥३.१.१॥सावित्रैर् अभ्रिम् आदत्ते प्रसूत्यै चतुर्भिर् आदत्ते चत्वारि वै छन्दांसि छन्दोभिर् एवादत्ते ऽथो ब्रह्म वै छन्दांसि ब्रह्मणैवादत्त इयं वै गायत्र्य् अन्तरिक्षं त्रिष्टुब् द्यौर् जगती दिशो ऽनुष्टुप् सवितृप्रसूतो वा एतद् एभ्यो लोकेभ्यश् छन्दोभिर् दिग्भ्यश् चाग्निं सम्भरति यत्र वा अदो ऽग्निर् होत्राद् भीषापाक्रामत् स सर्वेषु भुतेष्व् अवसद् यां वनस्पतिष्व् अवसत् तां वेणा अवसत् स यत्र निरदहत् तानि कल्माषाण्य् अभवन् येन समचरत् तत् सुषिरं यत्रावसत् तत् पर्व यद् वैणव्य् अभ्रिर् भवति स्वेनैवैनं योनिना सम्भरति यो वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो वेणुर् वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो ऽन्नं वै फलम् अन्नम् अर्को ऽर्को ऽग्निर् अर्केण वा एतद् अन्नम् अर्कम् अग्निं सम्भरति व्याममात्री कार्यैतावद् वै पुरुषे वीर्यं वीर्यसम्मिता क्रियते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्ध्यय् अरत्निमात्री कार्या यज्ञपुरुषासम्मिता प्रादेशमात्री कार्या विष्णुना यज्ञेन सम्मितोभ्यतःक्ष्णुत् कार्योभयस्यान्नाद्यस्यावरुद्ध्यय् अन्यतःक्ष्णुत् कार्या अन्यतःक्ष्णुद् धि फालस् तावन्तम् अर्कं करोत्य् अन्नं वा अर्को ऽन्नाद्यस्यावरुद्ध्यय् औदुम्बरी कार्योर्ग् वा उदुम्बर ऊर्जो ऽवरुद्ध्यय् अपरिमिता कार्यापरिमितस्यावरुद्ध्यै य एव कश्च वृक्षः फलग्रहिस् तस्य कार्यान्नाद्यस्यावरुद्ध्यै
॥३.१.२॥अश्वेन वै देवा अग्रे विजितिम्ं व्यजयन्त यद् अश्वेन यन्ति विजित्यय् अग्निर् वै यत्रयत्रागछत् तं प्रजापतिर् अन्वपश्यत् प्राजापत्यो ऽश्वो यद् अश्वेन यन्त्य् अग्नेर् एवानुक्शात्यै प्रजाप्तिर् वा अग्निं सम्भरिष्यन्त् स एभ्यो लोकेभ्यो ऽश्वं निर्माय दिग्भ्यश् चाग्निं समभरद् यद् आह दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इद् इति यथादेवतं वा एतद् एभ्यो लोकेभ्यो ऽश्वं निर्माय दिग्भ्यश् चाग्निं सम्भरति युञ्जाथां रासभं युवम् इत्य् आह युक्त्या एव गर्दभेन सम्भरत्य् एष हि पशूनाम् अनुपजीवनीततमो ऽग्निर् वा एतस्याग्रे सृष्टस्य योने रेतो निरदहत् तस्माद् एष समावद् अन्यैः पशुभी रेतो धत्ते ऽथ कनिष्ठो ऽश्वं पूर्वं नयन्ति गर्दभम् अपरं पापवसीयसस्य व्यावृत्त्यै तस्माञ् श्रेयांसं पूर्वं यन्तं पापीयान् पश्चाद् अन्वेति यदि कामयेत पापवसीयसं स्याद् इति गर्दभं पूर्वं नयेयुर् अपरम् अश्वम् एतेन वै विपूजनः सौराकिः पापवसीयसं चकार तत् पापवसीयसम् एवैतेन करोति योगेयोगे तवस्तरम् इत्य् ऊतिमत्या वाजवत्या यन्त्य् अन्नं वै वाजो गातुर् ऊतिर् अन्नाय च खलु वै गातवे चाग्निश् चीयते यद् ऊतिमत्या वाजवत्या यन्ति अन्नस्य च गातोश् चावरुद्ध्यै भवति वा एष यो ऽग्निं चिनुते सर्वो वै भवत इरस्यति वज्री वा एष प्राजापत्यो यद् अश्वो यद् आह प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तीर् इति वज्रेण वा एतद् अशस्तीर् अरातीयन्तम् अवक्रामति रौद्रा वै पशवो ऽग्नी रुद्रो यद् रुद्रात् पशून् अनिर्याच्याग्निं चिन्वीत रुद्रो ऽस्य पशून् अभिमानुकः स्याद् यद् आह रुद्रस्य गाणपत्यान् मयोभूर् एहीति रुद्राद् वा एतत् पशून् निर्याच्याग्निं चिनुते ऽघातुको ऽस्य पशुपतिः पशून् भवत्य् उर्व् अन्तरिक्षं वीहीत्य् आहैषां लोकानां विधृत्यै रक्षांसि वा एतौ जिघांसन्त्य् अग्निं सम्भरिष्यन्तौ यद् आह स्वस्तिगव्यूतिर् अभयानि कृण्वन्न् इति स्वस्तिम् एवाभ्यामकः पुरीषं वा अग्नेर् आयतनम् अङ्गिरस एतम् अग्रे समभरद् यद् आहाग्निं पुरीष्यम् अङ्गिरस्वद् आभरेति सायतनम् एवैनं देवताभिः सम्भरति येन पुरुषेण सङ्गछेत तम् अभिमन्त्रयेताग्निं पुरीष्यम् अङ्गिरस्वद् अछेमा इति वाजम् एव तेन तस्माद् वृङ्क्ते प्रजापतये प्रोच्याग्निश् चेतव्या इत्य् आहुर् यतः सूर्यस्योदयनं ततो वल्मीकवपाम् अपघ्नन् ब्रूयाद् अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामा इतीयं वै प्रजापतिस् तस्या एष कर्णो यद् वल्मीकस् तस्मा एव प्रोच्याग्निं चिनुते शृण्वन्ति हैनम् अग्निं चिक्यानम् असा अग्निम् अचेष्टेति तस्मात् पापीयाञ् श्रेयसः कर्ण आह कर्णः कर्णायाह
॥३.१.३॥वीहीत्य् : फ़्न् एमेन्देद्। एद्।: वीहीत्य्। च्फ़्। २।७।२:७५।८
अन्व् अग्निर् उषसाम् अग्रम् अक्शद् इत्य् आहानुक्शात्या एवागत्य वाज्य् अध्वानं सर्वा मृधो विधूनुता इति मृध एव व्यास्थतैछद् वा एतं प्रजापतिः पूर्वयर्चाविन्दद् उत्तरयैषीद् एवैनं पूर्वयर्चाविदद् उत्तरया द्यौस् ते पृष्ठं पृथिवी सधस्थम् इति द्यौर् ह्य् एतस्य पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षं समुद्रो योनिर् इत्य् आत्मा ह्य् एतस्यान्तरिक्षं समुद्रो योनिर् विक्शाय चक्षुषा त्वम् अभितिष्ठ पृतन्यत इति पृतन्यन्तम् एवाभितिष्ठति यं द्विष्यात् तं ब्रूयात् ॥ अमुम् अभितिष्ठ ॥ इति तम् एवाभितिष्ठत्य् उत्क्रामेत्य् आहोत्क्रान्त्या एव यत्र वै यज्ञस्यानुरूपं क्रियते तद् यजमान ऋध्नोत्य् उत्क्रामोदक्रमीद् इत्य् अनुरूपं वा एतत् क्रियते यज्ञस्यावरुद्ध्यै कृष्णो वै भूत्वाग्निर् अश्वं प्राविशत् स एतद् अगछद् यत्र मृगशफो यद् अश्वस्य पदे जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाद् एतद् वै तद् यद् आहुर् मृगशफम् अरेन्वराड् इति मनस्वतीभ्यां जुहोति मनसा ह्य् आहुतीर् आप्यन्ते त्रिष्टुब्भ्यां जुहोतीन्द्रियस्यावरुद्ध्यय् अन्नवतीभ्यां जुहोत्य् अन्नाद्यस्यावरुद्ध्यै गायत्र्या परिलिखत्य् अस्या एवैनं तेन परिगृह्णाति त्रिष्टुभान्तरिक्षात् तेनानुष्टुभा परिलिखत्य् अनुष्टुब् वै सर्वाणि छन्दांसि परिभूस् तस्माद् अनुष्टुभा परिलिखति सावित्रैर् अभ्रिम् आदत्ते प्रसूत्यै द्वाभ्यां खनति द्विपाद् यजमानः प्रतिष्ठित्यै शुग् वा अत्र प्रजा ऋछति यत्राग्निः खायते चीयते वा यद् आह शिवं प्रजाभ्यो ऽहिंसन्तम् इति प्रजाभ्य एवैनं शिवम् अकः
॥३.१.४॥अविदद् : फ़्न् चोर्रिगेन्द। एद्।: अविन्दद्।
अपां पृष्ठम् असीत्य् आहापां ह्य् एतत् पृष्ठं पृष्ठेनैवैनत् पृष्ठम् अकर् योनिर् अग्नेर् इति योनिर् वा एषो ऽग्नेर् यत् पुष्करपर्णं नाभिर् वधकः सयोनिर् एव सनाभिः सम्भ्रियते दिवो मात्रया वरिणा प्रथस्वेत्य् अनयोर् एवैनम् मात्रया वरिणा प्रथयति शर्म च स्थो वर्म च स्था इति कृष्णाजिनं च पुष्करपर्णं च संस्तृणातीमे एवास्मा एतद् द्यावापृथिवी संस्तृणाति व्यचस्वती संवसेथाम् इति न वा एतन् मनुष्या यन्तुम् अर्हन्त्य् आभ्याम् एवैनं परिगृह्णाति कृष्णाजिनेन सम्भरत्य् एष हि पशूनाम् अनुपजीवनीयतमो ऽथो आरण्यान् एव पशूञ् शुचार्पयति लोमतः सम्भरत्य् अतो वै कृष्णाजिनस्य सदेवं यज्ञेनैव यज्ञं सम्भरति पुष्करपर्णेन सम्भरति योनिर् वा एषो ऽग्नेर् यत् पुष्करपर्णं स्वेनैवैनं योनिना सम्भरति गायत्रीभिर् ब्राह्मणस्य सम्भरति गायत्रो हि ब्राह्मणस् त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यो जगतीभिर् वैश्यस्य जागतो हि वैश्यस् यं कामयेत ऋध्नुयाद् इति तस्य गायत्रीभिश् च त्रिष्टुब्भिश् च सम्भरेद् ऋध्नोति पुरीष्यो ऽसि विश्वम्भरा अथर्वा त्वा प्रथमो निरमन्थद् अग्ना इति प्रजापतिर् वा अथर्वा स एतम् अग्रे ऽमन्थत् सो ऽजनयत् स्व एवैनं मन्थति स जनयति तिसृभिः सम्भरति त्रयो वा इमे लोका एभ्य एवैनं लोकेभ्यः सम्भरति यजुस् तुरीयं दिग्भ्य एवैनं तेन सम्भरति पुरोवातं वै वातं वर्षम् अनुप्रतितिष्ठति वर्षम् अन्व् ओषधया ओषधीर् अनु पशवः पशून् अनु मनुष्या एता वै प्रतिष्ठास् ता यजमानो ऽवरुन्द्धे ऽपो देवीर् उपसृजा मधुमतीर् इत्य् आहौषधीनां प्रतिष्ठित्यै तासाम् आस्थानाद् उज्जिहताम् ओषधयः सुपिप्पला इति तस्माद् एतासाम् आस्थानाद् उज्जिहताम् ओषधयः सुपिप्पलाः सं ते वायुर् मातरिश्वा दधात्व् इति तस्माद् एतस्या यत् कृष्यते यत् खायते तत् सन्धीयते यद् घृतेन जुहुयाञ् शुचेमाम् अर्पयेद् अथ यद् अप उपसृजति शमयत्य् एव यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् इति षड् वा ऋतव ऋतुषु वा एतद् वृष्टिं प्रतिष्ठापयति तस्मात् सर्व ऋतवो वृष्टिमन्तः सुजातो ज्योतिषेति स्वर्ग्यम् एवैनम् अकर् वासो अग्ने विश्वरूपं संव्ययस्व विभावसा इति छन्दांसि वा अग्नेर् वासश् छन्दांस्य् एष वस्ते छन्दोभिर् एवैनं परिददात्य् आगामुकम् एनम् अस्मिंल् लोके वासो भवत्य् अनग्नो ऽमुष्मिंल् लोके भवति य एवं वेद वरुणमेनिर् वा एष एतर्ह्य् उद् उ तिष्ठ स्वध्वरेत्य् ऊर्ध्वाम् एव वरुणमेनिम् उत्सृजति द्वाभ्याम् उत्सृजति द्विपाद् यजमानः प्रतिष्ठित्यै स जातो गर्भो असि रोदस्योर् इत्य् अनयोर् वा एष गर्भ आभ्याम् एषो ऽधिजायत आभ्याम् एवैनम् अधिजनयत्य् अग्ने चारुर् विभृता ओषधीष्व् इति तस्मात् सर्वास्व् ओषधीष्व् अग्निः प्र मातृभ्यो अधि कनिक्रदद् गा इत्य् ओषधयो वा एतस्य मातरस् ताभ्या एवैनम् अधि प्रच्यावयतैछद् वा एतं प्रजापतिः पूर्वेणार्धऋचेनानूत्तरेणातिष्ठतैषीद् एवैनं पूर्वेणार्धऋचेनानूत्तरेणास्थित
॥३.१.५॥स्थिरो भव वीड्वङ्गा इति गर्दभ आदधाति वीर्यम् अस्मिन् दधाति तस्मात् सर्वेषां पशूनां गर्दभो वीर्यवत्तमो वीर्यं ह्य् अस्मिन् दधातीश्वरो वा एषो ऽन्तरिक्षसद् भूत्वा प्रजा हिंसितोर् यद् आह शिवो भव प्रजाभ्या इति प्रजाभ्य एवैनं शिवम् अकर् मा पाद्य् आयुषः पुरेत्य् आयुर् एवास्मिन्दधाति समष्ट्यै वृषाग्निं वृषणं भरन्न् इति वृषा ह्य् एष वृषणं भरन्न् अपां गर्भं समुद्रियम् इत्य् अपां ह्य् एष गर्भः समुद्रियो ऽग्ना आयाहि वीतया इत्य् अग्निना वै मुखेन देवा इमांल् लोकान् अभ्यजयन्न् अग्निना वा एतन् मुखेन यजमान इमांल् लोकान् अभिजयत्य् ऋतं सत्यम् ऋतं सत्यम् ऋते चैव सत्ये च प्रतितिष्ठतीयं वा ऋतम् असौ सत्यम् अनयोर् एव प्रतितिष्ठत्य् अहर् वा ऋतं रात्रिः सत्यम् अहोरात्रयोर् एव प्रतितिष्ठत्य् ओषधयः प्रतिगृभ्णीताग्निम् एतम् इत्य् ओषधीर् एवैनं सम्यञ्चं दधाति पुष्पवतीः सुपिप्पला इत्य् ओषधीर् एव फलं ग्राहयति तस्माद् ओषधयः शीर्षन् फलं गृह्णन्ति वरुणमेनिर् वा एष एतर्ह्य् उपनद्धो वि पाजसा पृथुना शोशुचाना इत्य् अनुरूपेणैव वरुणमेनिं विष्यति द्वाभ्यां विष्यति द्विपाद् यजमानः प्रतिष्ठित्यय् आपो हि ष्ठा मयोभुवा इत्य् अप उपसृजत्य् आपो वा अशान्तस्य शमयित्रिकास् तस्माद् अप उपसृजति शान्त्यै तिसृभिर् उपसृजति त्रिवृद् ध्य् अग्निर् वरुणमेनिर् वा एष एतर्हि मित्रः संसृज्या पृथिवीम् इति मित्रेणैव वरुणमेनिं संसृजति रुद्राः संसृज्या पृथिवीम् इत्य् एता वा एताम् अग्रे देवताः प्रजापतये समसृजंस् ताभिर् एवैनां संसृजति पञ्चभिः संसृजति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध
॥३.१.६॥सत्यम् : फ़्न् प्रोबब्ल्य् सत्यम् इति
गृह्णन्ति : फ़्न् चोर्रिगेन्द। एद्।: गृह्णाति।
मखस्य शिरो ऽसीत्य् आह यज्ञो वै मखस् तस्य वा एतञ् शिरो यद् उखा मुखतो वा एतद् यज्ञम् आलब्ध वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसेति छन्दोभिश् च वा एषा देवताभिश् च क्रियते छन्दोभिश् चैवैनां देवताभिश् च करोति ध्रुवासि पृथिव्य् असीति छन्दसाम् एवैषाशीर् अदित्या रास्नास्य् अदितिष् टे बिलं गृभ्णात्व् इति यजुषा करोत्य् अयजुषा हि मनुष्याः कुर्वन्ति व्यावृत्त्यै तां पुत्रेभ्यः प्रायछद् अदितिः श्रपयान् इत्य् आदित्या वा इदं स्मो यन् मनुष्यांस् तेभ्य एवैनां सम्प्रादात् त्र्युद्धिः कार्या त्रयो वा इमे लोका एषां वा एषा लोकानाम् उखा प्रतिमा क्रियते ऽष्टस्तना कार्या गायत्र्या रूपं चतुस्तना कार्यादित्या दोहाय द्विस्तना कार्यान्तरिक्षं वा उखेमौ लोकौ स्तनौ प्रत्तौ ह वा इमौ लोकौ दुहे य एवं वेद व्याममात्री कार्यैतावद् वै पुरुषे वीर्यं वीर्यसम्मिता क्रियते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्धयय् अरत्निमात्री कार्या यज्ञपुरुषासम्मिता प्रादेशमात्री कार्या विष्णुना यज्ञेन सम्मिताथो प्रजापतेर् एवानतिवादाय सप्तभिर् धूपयति सप्त वै शीर्षन् प्राणाः शिर एतद् यज्ञस्य यजुषा शीर्षन् वा एतत् प्राणान् दधाति सप्तभिर् धूपयति सप्त वै छन्दसांसि छन्दोभिर् एवैनां धूपयत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैवैनां धूपयति वैष्णवं वा एतत् पात्रं तत् स्वया देवतया व्यर्धयति यद् अन्याभिर् देवताभिर् धूपयति यद् आह विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् इति स्वयैवैनं देवतया समर्धयत्य् अस्वशकेन धूपयति वृषा ह्य् अश्वो वृषाग्निः समृद्ध्यय् अथो प्राजापत्यो वा अश्वः प्राजापत्यो ऽग्निस् तस्माद् अश्वशकेन धूपयति सयोनित्वाय
॥३.१.७॥प्रजापतिर् वा अमन्यत यो वा अस्या अग्रे विखनिष्यत्य् आर्तिं स आरिष्यतीति स एतद् यजुर् अपश्यद् अदितिष् ट्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्व् अवटेतीयं वा अदितिर् देवी विश्वदेव्यवत्य् अनया वै स तद् अस्याम् अखनद् अहिंसायै न हि स्वः स्वं हिनस्ति देवानां त्वा पत्नीर् देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतूखा इत्य् ओषधयो वै देवानां पत्नीर् देवीर् विश्वदेव्यवतीर् ओषधीष्व् एवैनां प्रतिष्ठापयति धिषणा त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वद् अभीन्धाताम् उखा इति वाग् वै धिषणा देवी विश्वदेव्यवती वाचैवैनाम् अभीन्द्धे ग्नास् त्वा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वञ् श्रपयन्तूखा इति छन्दांसि वै ग्ना देवीर् विश्वदेव्यवतीश् छन्दोभिरेवैनां श्रपयति वरूत्री त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् पचताम् उखा इत्य् अहोरात्रे वै वरूत्री देवी विश्वदेव्यवती अहोरात्राभ्याम् एवैनां पचति जनयस् त्वाछिन्नपत्रा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वत् पचन्तूखा इति नक्षत्राणि वै जनयो ऽछिन्नपत्रा देवीर् विश्वदेव्यवतीर् नक्षत्रैर् एवैनां पचत्य् एता वा एताम् अग्रे देवताः प्रजापतये ऽपचंस् तस्माद् एतानि पङ्क्तिमन्ति यजूंषि तैर् एवैनां पचति द्वाभ्यां पचति द्विपाद् यजमानः प्रतिष्ठित्यै वरुणमेनिर् वा एष एतर्ह्य् अभीद्धो मित्रस्य चर्षणीधृता इति मित्रेणैव वरुणमेनिम् उपैति देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिर् इति सवितृप्रसूत एवैनाम् उद्वपत्य् आत्मनो ऽहिंसायय् उत्तिष्ठ बृहती भवेत्य् आह धृत्या एवाव्यथमाना पृथिव्याम् आशा दिशा आपृणेति तस्माद् अग्निः सर्वा दिशा आभाति ॥
मित्रैतां त उखां परिददाम्य् अभित्त्यय् एषा मा भेदि ॥ इति मित्रायैवैनां परिददात्य् अभित्त्यै यद् धि मित्रायापरित्ता भिद्येत पुनः कार्या स्याद् वसवस् त्वाछृन्दन्तु गायत्रेण छन्दसेति छन्दोभिश् च वा एषा देवताभिश् च क्रियते छन्दोभिश् चैवैनां देवताभिश् चाछृणत्ति स्वेनायतनेनाजक्षीरेणाछृणत्त्य् आग्नेयं वा एतत् पयो यद् अजक्षीरम् आग्नेयम् एतत् पात्रं यद् उखा स्वेन वा एतत् पयसा स्वं पात्रम् आछृणत्ति परमं वा एतत् पयो यद् अजक्षीरं परमम् एतत् पात्रं यद् उखा परमेण वा एतत् पयसा परमं पात्रम् आछृणत्ति
॥३.१.८॥षड् एतान्य् आधीतयजूंषि जुहोति षड् वा ऋतव ऋतुभिर् वा एतत् पृथिव्या वीर्यम् उद्यछते नाना जुहोति नानावीर्या हीमे प्राणाः प्राणानां विधृत्यै यं कामयेत बधिरः स्याद् इति तस्य सकृत् सर्वाण्य् अनुद्रुत्य जुहुयात् प्राणान् अस्य सम्भिनत्ति बधिरो भवति तस्माद् बधिरो वाचा वदति न शृणोति वाचं ह्य् अस्येन्द्रियम् अनुपद्यते प्राणा वा एतानीतराणि छन्दांसि वाग् अनुष्टुब् यद् अनुष्टुभा सप्तमं जुहोति वाचं वा एतत् प्राणेषूपसन्दधाति तस्माद् इयं वाक् सप्तमी प्राणानां मा सु भित्था मा सु रिषा इति प्रवृणक्त्य् असुरमाया वा एषासीत् तां देवा एतेन यजुषावृञ्जतासुरी माया स्वधया कृतासीति तन् मायाम् एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते द्वाभ्यां प्रवृणक्ति द्विपाद् यजमानः प्रतिष्ठित्यै प्रवृञ्ज्याद् भूतिकामस्य भविष्यद् वा इदम् उपजीवामो भविष्यद् एवोपैति श्वःश्वः श्रेयान् भवति जातम् अवदध्याद् गतश्रीर् जातो वा एष यो गतश्रीर् जातेनैवैनं जनयति भ्रष्ट्राद् आहरेद् यं कामयेतान्नादः स्याद् इत्य् एष वा अग्नीनाम् अन्नादो ऽन्नकरणं भ्रष्ट्रम् अन्नाद्यम् अस्मा अवरुन्द्धे प्रदावाद् आहरेद् यं कामयेत प्रसेनेनास्य राष्ट्रं जायुकं स्याद् इति प्रसेनेनास्य राष्ट्रं जायुकं भवति यतः कुतश्चाहृत्यावदध्याद् यं कामयेतास्य पाप्मा भ्रातृव्यो द्वितीयो जायेतेत्य् एतद् वै यजमानस्यायतनं स्वे वावास्मा एतद् आयतने पाप्मानं भ्रातृव्यं द्वितीयं जनयति द्र्वन्नः सर्पिरासुतिर् इति क्रुमुकं घृतान्वक्तम् आदधात्य् एषा वा अग्नेः प्रिया तनूर् यत् क्रुमुकस् तेजो घृतं प्रिययैवैनं तन्वा तेजसा च समर्धयति परस्या अधि संवता इत्य् औदुम्बरीं देवा यत्रोर्जं व्यभजन्त तत उदुम्बरा उदतिष्ठद् यद् औदुम्बर्य् ऊर्जम् एवावरुन्द्धे परमस्याः परावता इति वैकङ्कतीम् अग्नेर् वै सृष्टस्य भा अपाक्रामत् तद् विकङ्कतं प्राविशद् यद् वैकङ्कती भा एवावरुन्द्धे यद् अग्ने यानि कानि चेति शमीमयीं शान्त्यय् अग्नये वै न किञ्चनापरशुवृक्णम् अस्वदन्त तस्मै वा एतयासङ्गः प्रायोगिः सर्वम् अस्वदयद् यद् अग्ने यानि कानि चेति तद् अग्नय एवैतया सर्वं स्वदयति सर्वम् अस्मै स्वदितं भवति रात्रींरात्रीम् अप्रयावं भरन्ता इत्य् आशिषम् एवाशास्ते नाभा पृथिव्याः समिधानो अग्निम् इति पृतनाजितम् एवैनम् अकर् अग्निं वै सृष्टं रक्षांस्य् अजिघांसंस् तानि वा एताभिर् एवापाहत याः सेना अभीत्वरीर् इति तद् अग्नेर् एवैताभी रक्षांस्य् अपहन्त्य् एता एव समिधा आदध्याद् यत्र रक्षोभ्यो बिभीयाद् रक्षसाम् अपहत्यय् अथो ग्राहुका ह तां समां स्तेनान् भवन्ति तैल्वकीम् अभिचरन्न् आदध्याद् एष वै वनस्पतीनां वज्रस् ताजग् घ प्रमीयते यं द्विष्यात् तं तर्हि मनसा ध्यायेन् मनो वा आशीर् यो वाच आहुतिम् एवैनं भूतम् अग्नये ऽपिदधाति यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जना इति तस्माद् अग्निचितो ऽश्लीलं न कीर्तयितव्यं नो अग्निविदः संशितं मे ब्रह्म संशितं वीर्यं बलम् इति ब्रह्मणा वा एतत् क्षत्रं संश्यति क्षत्रेण ब्रह्माथो ब्रह्म चैव क्षत्रं च सयुजा अकर् एतद् वा एषाभ्यनूक्ता ॥
प्रायोगिः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
ब्रह्म क्षत्रं सयुजा न व्यथेते इति ब्रह्माह क्षत्रं जिन्वति क्षत्रियस्य ।
क्षत्रं ब्रह्म जिन्वति ब्राह्मणस्य यत् समीची कृणुतो वीर्याणि
॥३.१.९॥अग्निभ्यः ॥ इति कामायालभ्यन्ते यत्कामो भवति सं हास्मै स कामो नमत्य् आप्रीणन्ति यज्ञियान् एवैनान् मेध्यान् कुर्वन्ति पर्यग्निकृतान् उत्सृजन्त्य् अयातयामत्वायैकेन संस्थापयन्ति यज्ञस्य सन्तत्या अविछेदाय पुष्करा भवन्ति सेन्द्रियत्वाय त्रिष्टुभो याज्यानुवाक्या भवन्तीन्द्रियस्यावरुद्ध्यय् अथैषो ऽग्नये वैश्वानराय द्वादशकपालः संवत्सरो वा अग्निर् वैश्वानर एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रिययैवैनं तन्वा समर्धयत्य् अथो अयातयामत्वायैवायातयामा हि वैश्वानरः श्वेतं वायवे नियुत्वता आलभेत तेजस्कामो वायुर् वा अग्नेस् तेजस् तस्माद् वायुम् अग्निर् अन्वेति यद् वायवे ऽग्नेः सतेजस्त्वाय यद् वायव एकधा स्याद् उन्मादुको यजमानः स्याद् यन् नियुत्वते द्वितीयत्वायाथो धृत्या अनुन्मादाय सर्वेषां वा एष पशूनां रूपाणि प्रति यद् वायव एकधा स्याद् उन्मादुको यजमानः स्याद् यद् एष प्राजापत्यो द्वादशकपालो द्वितीयत्वायाथो धृत्या अनुन्मादायाथैष आग्नावैष्णव एकादशकपालो ऽग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धाथैष आदित्यो घृते चरुर् आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् तेभ्य एव प्रोच्य स्वर्गं लोकम् एत्य् आदित्या वा अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन् पुरोडाशेन वै देवा अस्मिंल् लोक आर्ध्नुवंश् चरुणामुष्मिन्न् अस्मिन्न् एव लोके पुरोडाशेन ऋध्नोति चरुणामुष्मिन्न् अथैषो ऽग्नये वैश्वानराय द्वादशकपालो देवायतनं वा अग्निर् वैश्वानरो देवायतन एव प्रतिष्ठाप्याग्निं बिभर्त्य् अथो कामो वै वैश्वानरो यत्कामो भवति सं हास्मै स कामो नमति ॥
इत्य् उपरिकाण्डे जुहूमग्रीयः प्रथमः प्रपाठकः
॥३.१.१०॥