skipLink.label

तृतीय काण्ड, प्रपाठक 2

तृतीय काण्ड, प्रपाठक 2

तृतीयकाण्डे द्वितीयः प्रपाठकः

तृतीयकाण्डे द्वितीयः प्रपाठकः

दृशानो रुक्म उरुया विभातीति रुक्मं प्रतिमुञ्चते ऽमृतं वै हिरण्यं मृत्योर् एतद् रूपं यद् अग्निर् यत् पाशो ऽमृतेनैव मृत्युम् अन्तर्धत्ते ऽथैते निर्बाधा देवाश् च वा असुराश् चास्पर्धन्त ते देवा एतान् निर्बाधान् अपश्यंस् तैर् असुरान् एभ्यो लोकेभ्यो निरबाधन्त तन् निर्बाधानां निर्बाधत्वं तद् एतैर् एव निर्बाधैर् यजमानो भ्रातृव्यम् एभ्यो लोकेभ्यो निर्बाधत एकविंशतिनिर्बाधो भवति प्रतिष्ठित्यय् उपरिष्टान् निर्बाधं बिभर्त्य् अधस्तान् निर्बाधं सादयति भ्रातृव्यस्य विनुत्त्यै नक्तोषासा समनसा विरूपा इत्य् अहोरात्राभ्याम् एवाग्निम् आधत्ते धापयेते शिशुम् एकं समीची इत्य् एतं ह्य् एते धापयेते शिशुम् एकं समीची द्यावाक्षामा रुक्मो अन्तर् विभातीत्य् एष ह्य् एतयो रुक्मो ऽन्तर् विभाति देवा अग्निं धारयन् द्रविणोदा इति प्राणा वै देवा द्रविणोदाः प्राणैर् एवाग्निम् उद्यछते विश्वा रूपाणि प्रतिमुञ्चते कविर् इति विश्वा हि रूपाण्य् अग्निः प्रासावीद् भद्रं द्विपदे चतुष्पदा इत्य् आह प्रसूत्या एव वि नाकम् अक्शत् सविता वरेण्या इति सवितृप्रसूत एवाग्निं बिभर्त्य् अनु प्रयाणम् उषसो विराजतीति तस्माद् उषसो व्युष्टिम् अन्व् अग्निर् आधीयते सुपर्णो ऽसि गरुत्मांस् त्रिवृत् ते शिरो गायत्रं चक्षुर् इत्य् अग्नेर् वा एषा सम्भृतिर् अग्निम् एतत् सम्भरति तस्मात् सम्भरति तस्मात् सर्वैर् अङ्गैः पशुर् जायते पशुर् ह्य् अग्निर् दिवं गछ स्वः पतेत्य् आह स्वर्गस्य लोकस्य समष्ट्यय् अथैते क्रमा देवाश् च वा असुराश् चास्पर्धन्त ते देवा एतान् क्रमान् अपश्यंस् तैर् असुरान् एभ्यो लोकेभ्यः प्राणुदन्त तान् अनपजय्यम् अजयंस् तद् एतैर् एव क्रमैर् यजमानो भ्रातृव्यम् एभ्यो लोकेभ्यः प्रणुदते ऽनपजय्यं ह जयति षडुद्यावं शिक्यं भवति षड् वा ऋतव ऋतुभिर् एवाग्निं परिगृह्णात्य् उपरिनाभि बिभर्त्य् उपरिनाभि ह्य् आत्मनः सदेवं सदेव एव देवता आत्मन् बिभर्ति यद् अधोनाभि बिभृयाद् योनिं निर्दहेद् अथो ऽवधैनं घातुकं स्यात् प्रक्रामति तस्माद् ग्राम्याः पशवः प्रेरते ऽथ यत् पुनर् अभ्यावर्तते तस्मात् पुनः समावर्तन्त ऊर्जा वा एष पशुभिर् उत्क्रामन्त् सहोत्क्रामति पुनर् ऊर्जा निवर्तस्वेति तद् ऊर्जम् एव पशून् पुनर् अवरुन्द्धे पुनर्वतीर् भवन्ति समृद्ध्यै चतसृभिर् अभ्यावर्तते चतुष्पादो वै पशवः पशून् एवावरुन्द्ध इत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तत आ त्वाहार्षम् अन्तर् अभूर् इत्य् अन्तर् ह्य् एष एतर्ह्य् उद् उत्तमं वरुण पाशम् अस्मद् इति वरुणपाशम् एवोन्मुञ्चत आत्मनो ऽहिंसायय् अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थाद् इति ज्योतिषैवैनं समर्धयति हंसः शुचिषद् वसुर् अन्तरिक्षसद् इति सादयति सप्त एवैनं होत्रासु प्रतिष्ठापयत्य् अथो सप्त वा एतेन साप्तान्य् अग्नेर् ऋध्नोत्य् आ सप्तमात् पुरुषाद् अन्नादो भवति रेतो वा अग्निर् अन्तरिक्षं वै रेतो ऽनुषिच्यते यद् अधो निदध्याद् अधृताः पशूनां गर्भाः प्रपादुकाः स्युर् अथ यद् उपरि सादयत्य् अन्तरिक्षसदम् एवैनम् अकर् गर्भाणां धृत्यै सूयते वा एषो ऽग्नीनां यश् चीयते तस्माद् एष आसन्दीसत् सीद त्वं मातुर् अस्या उपस्था इतीयं वा अग्नेर् योनिः स्व एवैनं योनौ संवेशयति तिसृभिर् उपतिष्ठते त्रिवृद् ध्य् अग्निः

॥३.२.१॥

अग्रे : फ़्न् एमेन्देद्। एद्।: अग्ने। च्फ़्। २।७।८:८५।१४

अथैतद् वात्सप्रम् एतेन वै वत्सप्रीर् भालन्दनो ऽग्नेः प्रियं धामाराध्नोत् तद् अग्नेर् एवैतेन प्रियं धाम राध्नोत्य् आगामुकम् एनं प्रियं भवति वत्सप्रियं वै भालन्दनम् आशयो ऽध्यवदन् स्तेना इति स एतत् सूक्तम् अपश्यत् ते नाधिवादम् अपाजयत् तेनापचितिम् अगछत् तद् अधिवादम् एवैतेनापजयत्य् अपचितिम् एव गछति द्वादशभिर् उपतिष्ठते द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे त्रिष्टुभो भवन्तीन्द्रियस्यावरुद्ध्यय् अन्येद्युः प्रक्रामयत्य् अन्येद्युर् उपतिष्ठते योगक्षेमं वा एतत् प्रजानां दाधार तस्माद् यायावरा अन्याः प्रजाः क्षेम्या अन्या अथ यत् प्रक्रम्योपतिष्ठते तस्माद् यायावरः क्षेम्यम् अभिप्रयाति तस्माद् यायावरस्य क्षेम्यो ऽन्नं बभूव यद् अहश् चेष्यमाणः स्यात् तद् अहर् उभयं समस्येत् प्र च क्रामेद् उप च तिष्ठेत योगक्षेमं वा एतद् अन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्त उद् उ त्वा विश्वे देवा इति विश्वे हीदं देवाः स्मो यन् मनुष्या अग्ने भरन्तु चित्तिभिर् इति यस्मा एव चित्तायाग्निर् आधीयते तेनैनं चित्तेन समर्धयति प्रेद् अग्ने ज्योतिष्मान् याहीति ज्योतिषैवैनं समर्धयित्वा प्रवापयत्य् अक्रन्दद् अग्निः स्तनयन्न् इव द्यौर् इत्य् अनुब्रूयाद् यद्य् अक्ष उत्क्ष्वेदेद् ईश्वरो वा एष उत्क्ष्वेदन् यजमानस्य प्रजां पशून् निक्ष्वदस् तत् क्रदितम् एवास्याकर् अथो शमयित्वैवाशिषम् आशास्ते समिधाग्निं दुवस्यतेति गायत्र्या ब्राह्मणस्यादध्याद् गायत्रो हि ब्राह्मणस् त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यो द्वाभ्यां गायत्रीभ्यां वैश्यस्य ये हि द्वे गायत्र्यौ सा जगत्य् अथो ब्रह्मणे वा एतद् विशम् अन्नं करोति यदि भस्म प्रतिपूर्येताप्सु प्रवेशयेद् आपो वा अग्नेर् योनिः स्व एवैनद् योनौ दधाति पुरीषं कुर्यात् पशुकामस्य पशवो वै पुरीषं पशुमान् भवतीष्टका वा संयुयात् तेनास्य सर्वा आग्नेयीर् इष्टका भवन्त्य् ऊर्जा वा एष पशुभिर् उत्सीदन्त् सहोत्सीदति पुनर् ऊर्जा निवर्तस्वेति तद् ऊर्जम् एव पशून् पुनर् अवरुन्द्धे बोधा मे अस्य वचसो यविष्ठेति बोधद्वतीभ्याम् उपतिष्ठते तस्मात् प्रजाः सुप्त्वा पुनः प्रबुध्यन्ते द्वाभ्याम् उपतिष्ठते द्विपाद् यजमानः प्रतिष्ठित्यै

॥३.२.२॥

भरन्तु : फ़्न् एमेन्देद्। एद्।: भरन्त। च्फ़्। २।७।१०:८७।९, ३।३।८:४०।१४

यद्य् : फ़्न् एमेन्देद्। एद्।: यद् ध्य्। च्फ़्। क्स्।१९।१२:१४।१८

अपेत वीत वि च सर्पताता इत्य् आह यमदेवत्यो वा अयं लोको यमो ऽमुष्य लोकस्याधिपत्यम् आनश यद् यमाद् देवयजनम् अनिर्याच्याग्निं चिन्वीतायमदेवत्यो ऽस्याग्निः स्याद् अस्वर्ग्यो यद् आहादाद् इदं यमो ऽवसानं पृथिव्या अक्रन्न् इमं पितरो लोकम् असा इति यमाद् वा एतेनास्या देवयजनं निरयाचिष्ट स्मृते देवयजने ऽग्निं चिनुते यमदेवत्यो ऽस्याग्निर् भवति स्वर्ग उद् उ घ्नन्ति यद् एवास्या अयज्ञियम् अमेध्यं तद् उद्घ्नन्ति व्याममात्रम् उद्घ्नन्त्य् एतावद् वै पुरुषे वीर्यं वीर्यसम्मिते चीयते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्ध्यय् अवोक्षति यद् एवास्या उद्घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तञ् शमयत्य् अथो आपो वा अग्नेर् योनिः स्व एव योनौ चीयते ऽग्नेर् भस्मास्य् अग्नेः पुरीषम् असीति सिकता निवपत्य् अग्नेर् वा एतद् वैश्वानरस्य भस्म यत् सिकता स्व एव भस्मंश् चीयते योनिर् वै सिकता रेता ऊषा यत् सिकता न्युप्योषान् निवपति योनौ वा एतद् रेतो दधाति तस्माद् योनौ रेतो हितं तस्माद् योने रेतः प्रजायते प्रजापतिः प्रजा असृजत ता वा ऊषेभ्य एव योनेर् असृजत प्रजननं वा ऊषाः प्रजनने वा एतद् अग्निश् चीयत इमे वै सहास्तां ते वियती अब्रूताम् अस्तु नौ प्रियं धाम सहेत्य् आपो वा अस्या यज्ञिया मेध्यास् ता अमूर् ऊषा अमुष्या यज्ञिया मेध्यास् त इमे यद् आपश् चोषाश् च भवन्ति यद् एवैनयोर् यज्ञियं मेध्यं तद् अवरुन्द्धे ऽथो अनयोर् एवैनं प्रिये धामन् निधत्ते सञ्ज्ञानं वा ऊषा उभये वा एतान् पशवो ऽभिसञ्जानते ये ग्राम्याः पशवो ये चारण्या उभये हैनं पशवो ऽभिसञ्जानते चतस्रः प्राचीः सादयति चत्वारि वै छन्दांसि छन्दोभिर् वै देवाः स्वर्गं लोकम् आयंस् ते दिशा आक्रमन्त ता अव्लीयन्त ता एताभिर् अदृंहन् यद् एता उपधीयन्ते दिशां धृत्यै पशवो वा इष्टका गार्हपत्यं वै पशवो ऽनूपतिष्ठन्ते द्वे समीची पुरस्ताद् उपदधाति द्वे समीची पश्चाद् उभयत एवास्मै समीचः पशून् उपदधाति पशूनां परिगृहीत्यय् अष्टोपदधात्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तं चिनुत एकविंशतिः कार्या प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविंशो ऽथो एकविंशतिविधो हि गार्हपत्यस् त्रिचितिकः कार्यस् त्रयो वा इमे लोका इमान् एव लोकान् आप्नोति पञ्चचितिकः कार्यः पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध चतुर्भिः सन्निवपति चत्वारि वै छन्दांसि छन्दोभिर् एव सन्निवपत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैव सन्निवपति क्षत्रं वा एषो ऽग्नीनां यश् चीयते क्षत्रं य उख्यो ब्रह्म यजुर् यद् यजुषा सन्निवपति ब्रह्मणा वा एतत् क्षत्रं सन्नयति तस्माद् ब्रह्मणा क्षत्रं सं चैति वि च द्वौ वा एतौ व्याघ्रौ सं पद्येते ता ईश्वरा अशान्तौ यजमानं हिंसितोर् यद् आह भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति शमयत्य् एव शान्त एव न्युप्यते यजमानस्याहिंसायय् ऋतुभिर् वै पृथिव्या वीर्यम् उद्यतं तद् ऋतुभिः पुनर् विमुच्यते यद् आह प्रजापतिर् विश्वकर्मा विमुञ्चत्व् इति प्रजापतिर् एवैनां विश्वकर्मा विमुञ्चति

॥३.२.३॥

अथैता नैरृतीस् तिस्रस् तुषपक्वा भवन्त्य् एतद् वै नैरृतम् अन्नस्य यत् तुषाः कृष्णा भवन्त्य् एतद् धि निरृत्या रूपम् एतां दिशं हरन्त्य् एषा हि निरृत्या दिक् ताः स्वकृता इरिणे पराचीर् निदधात्य् एतद् वै निरृतिगृहीतं पृथिव्या निरृतिगृहीत एव निरृतिं निरवदयते प्राणम् एवास्य प्रथमया मुञ्चत्य् अपानं द्वितीयया व्यानं तृतीययाथो त्र्यक्षरो वै पुरुषो यावान् एव पुरुषस् तं निरृत्याः पाप्मनो मुञ्चति निरृतिर् वै कर्मण उपद्रष्ट्रिका तां वा एतत् स्वेन भागधेयेन शमयित्वाथ सवितृप्रसूतो ऽग्निं चिनुते यं ते देवी निरृतिर् आबबन्धेति जालम् इष्टकास्व् अध्यस्यति निरृतिपाशम् एवोन्मुञ्चत आत्मनो ऽहिंसायै ॥

यद् अस्य पारे रजसो महश् चित्रं ज्योतिर् अजातय ।

तन् नः पर्षद् अति द्विषो ऽग्ने वैश्वानरः ॥ स्वाहेत्य् अपः परिषिञ्चन् पर्येति निरृत्या अनन्ववायाय भूत्यै नमा इत्य् उक्त्वावर्तते भूतिर् एव भूत्वावर्तत आत्मनो ऽहिंसायय् अनपेक्षमाणा आयन्ति निरृत्या अनन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव निरृतिं निरवदयन्त इन्द्रियेन वा एष वीर्येण व्यृध्यते यो नैरृतीर् उपधत्ते निवेशनः सङ्गमनो वसूनाम् इत्य् ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इन्द्रियेणैवात्मानं समर्धयति त्रिष्टुभोपतिष्ठत ओजो वै वीर्यं त्रिष्टुब् ओजस्य् एव वीर्ये प्रतितिष्ठति गार्हपत्यो ऽग्रे चीयते प्रतिष्ठित्यै गार्हपत्ये वै देवाः प्रतिष्ठाय प्राञ्चः स्वर्गं लोकम् अभिजयन्त आयन् यावान् पुरुष ऊर्ध्वबाहुस् तावता वेणुना विमिमीत एतावद् वै पुरुषे वीर्यं वीर्येणैव विमिमीते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्ध्यै यो वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो वेनुर् वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो ऽन्नं वै फलम् अन्नम् अर्को ऽर्को ऽग्निर् अर्केण वा एतद् अन्नम् अर्कम् अग्निं विमिमीते सप्त पुरुषान् प्रमिमीते सप्तभ्य एव पुरुषेभ्यो लोकं विन्दत्य् आ सप्तमात् पुरुषाद् अन्नादो भवत्य् अरत्निमात्रं पक्षयोर् अत्युपदधाति पक्षम्बृहद् धि वयः षड्भिः कृषति षाड् वा ऋतव ऋतुभिर् एव कृषतीत्थम् अभ्यावर्तन्त कृषत्य् एषा हि देवानाम् आवृद् अथो अमुष्य वा एतद् आदित्यस्यावृतम् अनुपर्यावर्तन्ते तिस्रस्तिस्रः सीताः सम्पादयति त्रिवृद् ध्य् अग्निर् द्वादश सीता भवन्ति द्वादश मासाः संवत्सरः संवत्सरस्य वा एष विधाम् अनुविधीयत इयं वा अबिभेद् अग्निर् मातिधक्ष्यतीति यत् कृषत्य् अस्या वा एतद् द्विगुणं क्रियते ऽनतिदाहायाथो पृथिव्या वा एतद् द्विगुणेनाग्नेर् वीर्यम् उद्यछन्त एतां दिशम् उत्सृजन्त्य् एषा हि देवानां दिग् अथो स्वर्गम् एवैनां लोकम् अनूत्सृजन्ति

॥३.२.४॥

पर्षद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

कृष्टे वपति कृष्टे ह्य् ओषधयः क्षेपिष्ठं प्रतितिष्ठन्त्य् अन्नस्यान्नस्य वपत्य् ओषधीनाम् ऋग्भिर् ब्रह्म वा ऋग् ब्रह्मणैवास्मा अन्नाद्यम् अवरुन्द्धे चतुर्दशभिर् वपति द्वादश मासाः संवत्सरो ऽथ य एते चतुर्दशे अहोरात्रे एवैते तत् संवत्सरेण च वावास्मा एतद् अहोरात्राभ्यां चान्नाद्यम् अवरुन्द्धे ऽन्नं वै फलम् अन्नम् अर्को ऽर्को ऽग्निर् अर्केण वा एतद् अन्नम् अर्कम् अग्निं वपति यस्यान्नस्य निवपति यत् तस्याश्नीयाद् यान्य् अवरुद्धानि तैर् व्यध्येतेध्मे तस्यापिकुर्याद् अथो तन् मनसा ध्यायेत् तेनैव तद् अवरुन्द्धे यदि सर्वं न संविन्देद् यवान् मधूद्युतान् वपेद् यद् यवा ग्राम्यं तेनान्नाद्यम् अवरुन्द्धे यन् मध्व् आरण्यं तेन तेनैव तद् उभयम् अवरुन्द्धे ऽथैते सम्भारा दिग्भ्यो वा एतत् पृथिव्या ऊर्जं सम्भरत्य् ऊर्ज्य् अग्निश् चीयते यां जनतां कामयेत क्षोधुका स्याद् इतीषम् ऊर्जम् अहम् इत आदीति तस्या अर्धाद् आददीत क्षोधुका ह सा जनता भवति कामं कामदुघे धुक्ष्वेत्य् अभिमृशति तेनास्य सर्वा इष्टकाः कामदुघा भवन्त्य् उत्तरवेदिं निवपत्य् उत्तरवेदिम् इत्य् एवास्याग्निश् चीयते ऽथो यज्ञपरुषो ऽनन्तर्हित्यय् अग्निर् वा एष न्युप्यते यद् उत्तरवेदिर् यद् उत्तरवेदिं न्युप्याग्निं चिनोत्य् अग्नौ वा एतद् अग्निश् चीयते ऽग्ने तव श्रवो वपा इति सिकता निवपत्य् एता वै वैश्वानरीर् इष्टका अपरिमिता एतद् अग्नेर् अपरिमितं चीयते ऽग्नेर् वा एतद् वैश्वानरस्य सूक्तम् एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रियायां वा एतत् तन्वाम् अग्निश् चीयते सतनूर् अर्को निधीयते लोमशं वा एतच् छन्दः पशव्यम् ऊनातिरिक्तं प्रजननायाशीत्यक्षरम् एतेन वै देवाः स्वर्गं लोकम् आयंस् तद् अस्याशीत्यक्षरत्वं समुद्रं वा एतच् छन्दो योनिः समुद्रः सोमो रेतोधा यत् सौमीभ्यां व्यूहति योनौ वा एतद् रेतो दधाति तस्माद् योनौ रेतो हितम् आप्यानवती भवतस् तस्माद् योनौ रेता आप्यायते छन्दोभिर् वा अग्निर् उत्तरवेदिम् अभिप्रह्रियते या अग्नौ प्रह्रियमाणे ऽन्वाहुस् तां तर्हि मनसा ध्यायेच् छन्दोभिर् एवैनम् उत्तरवेदिम् अभिप्रहरति मनसान्वाहानिरुक्तम् इव ह्य् एतद् अव्यावृत्तं व्यावृतं पाप्मना भ्रातृव्येण गछत्य् अश्वं पुरस्तान् नयन्ति रक्षसाम् अपहत्यय् आक्रमयन्ति य एवैनेन भ्रातृव्यः सदृङ् तं वज्रेणावबाधन्ते प्राञ्चं प्रक्रमयन्ति य एवैनं भ्रातृव्यो ऽति तं वज्रेण प्रणुदते प्रत्यञ्चम् अभ्यावर्तयन्ति य एवैनं भ्रातृव्यो ऽनु तं वज्रेण प्रतिनुदते तद् भ्रातृव्यस्य वा एष विनोदः कृष्णो वै भूत्वाग्निर् अश्वं प्राविशत् स एतद् अगछद् यत्र मृगशफो यद् अश्वम् आक्रमयन्ति यद् एवात्राग्नेर् न्यक्तं तस्यावरुद्ध्यै

॥३.२.५॥

तपो योनिर् असीति पुष्करपर्णम् उपदधाति योनिर् वा एषो ऽग्नेर् यत् पुष्करपर्णं नाभिर् वधकः सयोनिर् एव सनाभिश् चीयत इयं वा अबिभेद् अग्निर् मातिधक्ष्यतीति यत् पुष्करपर्णम् उपदधात्य् अस्या अनतिदाहायाधस्तान्नाभि सादयत्य् ओषधीनां प्रतिष्ठित्यय् अथो ये ऽप्स्व् अग्नयस् तान् एवावरुन्द्धे प्रजापतिः प्रजा असृजत याः पुरा ब्रह्मणो ऽसृजत ताभिर् नाराध्नोद् अथ या ब्रह्ममुखा असृजत ताभिर् अराध्नोद् यद् ब्रह्म जज्ञानं प्रथमं पुरस्ताद् इति रुक्मम् उपदधात्य् ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय न पृथिव्याम् अग्निश् चेतव्यो नान्तरिक्षे न दिवीत्य् आहुर् अमृतं वै हिरण्यम् अमृते वा एतद् अग्निश् चीयते श्मशानचितो वा एते चीयन्ते चित्याञ्चित्यां हिरण्यशकलम् उपास्यति तेन वा एषो ऽश्मशानचित् तेन स्वर्गो ऽथैष पुरुषो हिरण्ययो यजमानलोकम् एवैष दाधारैष ह त्व् एव यजमानो ऽग्निनामुष्मिंल् लोके सम्यङ् यस्यैष उपधीयते ऽथो मध्ये ज्योतिर् एव चीयते द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इत्य् अभिमृशति होत्रास्व् एवैनं प्रतिष्ठापयत्य् अथैतानि सर्पनामानि मृत्युर् वै सर्पनामानि यद् उपदध्यात् प्रमायुकः स्यात् तस्माद् अनुदिशति सोमे वा एका त्विषिर् व्याघ्र एका सर्प एका ता एवावरुन्द्धे वामदेवस्य राक्षोघ्नेन व्याघारयत्य् एतेन वै वामदेवः कुसिताय्याः शिरा आदीपयद् रक्षसाम् अपहत्यै पञ्चभिर् व्याघारयति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धाथो यावान् एव यज्ञस् तस्माद् रक्षांस्य् अपहन्त्य् अथैते स्रुचौ कार्ष्मर्यमयीं दक्षिणतः सादयति रक्षसाम् अपहत्यै दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसंस् तानि कार्ष्मर्येणैवापाघ्नत यत् कार्ष्मर्यमयीं दक्षिणतः सादयति रक्षसामपहत्यै घृतस्य पूर्णा भवत्य् एषा वा अग्नेः प्रिया तनूर् यद् घृतं प्रिययैवैनं तन्वा समर्धयति गायत्र्या सादयति तेजो वै गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्द्ध औदुम्बरीम् उत्तरतः सादयति दध्नः पूर्णाम् ऊर्ग् वा उदुम्बरो ऽन्नं दध्य् ऊर्ज्य् एवास्यान्नं दधाति त्रिष्टुभा सादयत्य् ओजो वै वीर्यं त्रिष्टुब् ओज एव वीर्यम् अवरुन्द्धे पूर्णे सादयत्य् अक्षिते यजमानलोकम् उपतिष्ठेते मूर्धन्वतीभ्यां सादयति मूर्धन्यो ऽसानीति विराज्य् अग्निश् चेतव्या इत्य् आहुः स्रुचौ वै विराजौ यत् स्रुचा उपदधाति विराजि वा एतद् अग्निश् चीयते ऽथैषा स्वयमातृण्णेयं वै प्रथमा स्वयमातृण्णान्तरिक्षं द्वितीयासौ तृतीयेमान् एव लोकान् उपधत्ते ऽश्वम् उपघ्राय्य सादयति प्रजापतिचित एवास्य भवत्य् अथो प्राणानाम् उत्सृष्ट्यै भूर् असीति प्राचीम् उदूहेद् यद्य् एनं भ्रातृव्यो ऽतीव स्याद् भूमिर् असीति प्रतीचीं यद्य् अन्व् अदितिर् असि भूमिर् असीति तिरश्चीं यदि सदृङ्ङ् इयं वा अदितिर् अनया वा एतद् यजमानो भ्रातृव्यं प्रभूतं प्रणुदते ऽनया प्रतिनुदते ऽनया विनुदते तद् भ्रातृव्यस्य वा एष विनोदः काण्डात्काण्डात् प्ररोहन्तीति दूर्वेष्टकाम् उपदधात्य् ओषधीनां प्रतिष्ठित्यै काण्डात्काण्डाद् ध्य् एषा प्रतितिष्ठति पशवो वा इष्टका न वै पशवा आयवसे रमन्ते यद् दूर्वेष्टकाम् उपदधात्य् आयतनम् इव वा एतत् क्रियते पशूनां यत्यय् अथैषा वामभृद् द्विर्यजुर् यजमानलोकम् अन्येन दाधार भ्रातृव्यलोकम् अन्येन वृङ्क्त एतया वै देवा असुराणां वामं पशून् अवृञ्जत तद् वामभृतो वामभृत्त्वं छन्दांसि वै देवानां वामं पशवश् छन्दांस्य् एवैतया वामं पशून् यजमानो भ्रातृव्यस्य वृङ्क्ते ऽथैते रेतःसिचव् इयं विराड् असु स्वराड् असा एव रेतः सिञ्चतीयं प्रजनयत्य् अग्निर् अत्यन्नादो भवति यस्यैते उपधीयेते यदि पुत्री चिन्वीत प्रथमायां चित्याम् अन्याम् उपदध्याद् उत्तमायाम् अन्यां रेतसः सिक्तस्य परिगृहीत्यै यद्य् अपुत्रः प्रथमायां चित्याम् उभे उपधेये सम्यञ्चौ हि भूत्वा रेतः सिञ्चतः

॥३.२.६॥

प्रतितिष्ठति : फ़्न् एमेन्देद्। एद्।: प्रतितिष्ठतीति

अथैता विश्वज्योतिष एषु वा एतल् लोकेषु ज्योतिष्मन्तम् अग्निं निधत्ते ऽथो प्राणानां विधृत्यय् अथैषा त्र्यालिखितेमे वै लोकास् त्र्यालिखितेमान् एव लोकान् उपाधत्त उभये वा एताम् उपादधत देवाश् च वा असुराश् चोपरिष्टाल्लक्ष्माणं देवा उपादधताधस्ताल्लक्ष्माणम् असुरास् ततो देवा अभवन् परासुरा उपरिष्टाल्लक्ष्माणम् उपदधीत भ्रातृव्यवान् यो वास्य प्रियः स्यात् तस्य भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एष वा असपत्नेष्टकासपत्नो भवति य एताम् उपधत्ते ऽथो देवलक्ष्मं वा एषा देवलक्ष्मम् एवोपधत्ते या सोखाया अधि मृद् उञ्शिष्यते तस्या एतां कुर्यात् तेनास्य सर्वा आग्नेयीर् इष्टका भवन्त्य् अथैष कूर्मः श्मशानचितो वा एते चीयन्ते जीवः कूर्म उपधेयस् तेन वा एषो ऽश्मशानचित् तेनोत्पाती पशूनां वा एष मेध एतं वै मेधं पश्यन्त एनं पशवो ऽमुष्मिंल् लोक उपतिष्ठन्ते प्रत्यञ्चं सादयति प्रत्यञ्चो हि पशवो मेधम् उपतिष्ठते द्यावापृथिवीयया सादयति द्यावापृथिवी हि पशवो ऽनूपतिष्ठन्ते पशुभिर् एवैनं सम्यञ्चं दधाति विष्णोर् नाभ्याम् अग्निश् चेतव्या इत्य् आहुः प्रादेशमात्रम् उलूखलं कार्यम् एतावान् वै विष्णुर् विष्णोर् वा एतन् नाभ्याम् अग्निस् चीयत ऊर्ज्य् अग्निश् चेतव्या इत्य् आहुर् ऊर्ग् वा उदुम्बरो यद् औदुम्बरम् उलूखलं भवत्य् ऊर्जि वा एतद् अग्निश् चीयते वैष्णव्या सादयति वैष्णवं ह्य् उलूखलं स्वयैव देवतयाथैषोखा पृथिव्या वा एतद् ओजो वीर्यं सम्भ्रियत ओजो वा एतद् वीर्यं मध्यतो ऽग्नेर् धीयते ऽथो मध्ये ज्योतिर् एव चीयते यद् रिक्ताम् अवेक्षेत क्षोधुको यजमानः स्याद् अथ यत् पूर्णाम् अवेक्षते तथा हाक्षोधुको भवति सिकताभिः पूरयितव्याग्नेर् वा एतद् वैश्वानरस्य भस्म यत् सिकताः स्वेनैवैनां भस्मना प्रीणाति दध्नः पूरयितव्योर्ग् वै दध्य् ऊर्जम् एवावरुन्द्धे हृतस्य पूरयितव्यैषा वा अग्नेः प्रिया तनूर् यद् घृतं प्रिययैवैनं तन्वा समर्धयति मधोः पूरयितव्या हास्य प्रजायां मधव्यो जायते व्यृध्यैन्द्रियाणि वै पशुशीर्षाण्य् अयज्ञियान्य् अमेध्यानि यच् छिद्रेषु हिरण्यशकलान्य् अप्य् अस्यतीन्द्रियेणैवैनानि वीर्येण समर्धयति मेध्यान्य् एनानि यज्ञियानि करोत्य् अर्धं वै पुरुषः सहस्रस्य यछन्त्य् अर्धम् इतरे पशवस् तस्माद् एतन् मध्यत उपदधात्य् अभिता इतराणि पशोः सवीर्यत्वायाथो सायतनत्वाय यं कामयेत पशुमान्त् स्याद् इति तस्य समीचीनानि पशुशीर्षाण्य् उपदध्यात् समीच एवास्मै पशून् उपदधाति पशुमान् भवत्य् अथ यं कामयेतापशुः स्याद् इति तस्य विषूचीनानि पशुशीर्षाण्य् उपदध्याद् विषूच एवास्मै पशून् उपदधात्य् अपशुर् भवत्य् एता वै साहस्रीर् इष्टकाः पश्विष्टकास् ताः सोमदक्षः कौश्रेयो विदाञ्चकार ताः श्यापर्णायोपदधौ स सहस्रं पशून् प्राप प्र सहस्रं पशून् आप्नोति यस्यैता उपधीयन्ते यविष्ठो वै नामैषो ऽग्निस् तस्माच् चिन्वीतान्तरा न व्येतवै यद् वीयात् प्राणान् अस्य युवेतोत्सर्गैर् उपतिष्ठत आरण्यान् एव पशूञ् शुचम् अनूत्सृजति

॥३.२.७॥

एतल् : फ़्न् एमेन्देद्। एद्।: एतंल्

चिन्वीत : फ़्न् एमेन्देद्। एद्।: चिन्वत

पुरुषशीर्षम् उपदधात्य् एष हि पशूनां वीर्यवत्तमो वीर्यम् अस्मिन् दधात्य् एकम् उपदधात्य् एकधास्मिन् वीर्यं दधाति सौर्या पुरुषशीर्षम् अभिजुहोति स्वर्गस्य लोकस्य समष्ट्यै सौरी वा एषा सती मैत्रावरुण्य् अहर् वै मित्रो रात्रिर् वरुणो ऽहोरात्रयोर् एव प्रतितिष्ठत्य् अर्धऋचाभ्यां जुहोतीयं वा अर्धऋचो ऽसा अर्धऋचो ऽनयोर् एव प्रतितिष्ठत्य् अथ यद् एकय ऋचा द्विर् जुहोति तस्माद् एकः सन् पुरुषो द्विपाद् यद् वा एतत् किञ्चाकर् योनिं वा एतद् व्यकर् यद् एता अपस्याः सादयति तस्मिन्न् एव योनौ रेतो दधातीयं वा अबिभेद् अग्निर् मातिधक्ष्यतीति सैता इष्टका अपश्यद् अथो आहुः प्रजापतिर् अपश्यद् इति ता उपाधत्ते यद् एता उपधीयन्ते ऽस्या अनतिदाहाय यद् इद् अन्नम् इति होवाचेयं य एता उपदधाता इत्य् अन्नादो भवति यस्यैता उपधीयन्ते तस्माद् रेतसः सिक्ताद् एष पशुः सम्भवति यद् एताश् छन्दस्याः पशवो वै छन्दांसि यद् दक्षिणत उपदध्याद् अभीपतः प्रजा वरुणो गृह्णीयाद् अथ यद् उत्तरत उपदधात्य् अपवाहत एवाथैताः प्राणभृतस् तस्मिन् पशौ सम्भूते प्राणं चक्षुः श्रोत्रं वाचं तानि दधात्य् अक्ष्णया सादयति पशुं वा एतद् आक्रमयति तस्मात् पशवो ऽक्ष्णयाङ्गानि प्रहरन्तो यन्ति दशभिर्दशभिर् वा अता इष्टकाभिर् ऋषय आर्ध्नुवंस् ता ऋद्धीर् ऋध्नोति यस्यैता उपधीयन्ते ऽथैताः संयतो रेतो वा एतत् सिच्यते यद् अग्निश् चीयते यद् एता उपधीयन्ते रेतसः सिक्तस्य संयत्यै लोकं पृण छिद्रं पृणेत्य् एषा वा अछिद्रेष्टका अछिद्रा वा एतया चितयश् चीयन्त इन्द्राग्नी त्वा बृहस्पतिर् इत्य् ओजो वै वीर्यम् इन्द्राग्नी ओजसा वा एतद् वीर्येणाग्निश् चीयते ता अस्य सूददोहसा इति परुषिपरुष्य् एव रसं दधाति सोमं श्रीणन्ति पृश्नया इत्य् अन्नं वै पृश्न्य् अन्नम् एवावरुन्द्धे जन्मन् देवानां विशा इत्य् आह प्रजात्या एव त्रिष्व् आ रोचने दिव इति सवनानि वै तृणि रोचनानि सवनचितम् एवैनम् अकर् अनुष्टुब् वा एषा वाग् वा अनुष्टुप् प्राणो वै वाग् यद् एषा सर्वा इष्टका अनुसञ्चरति तस्मात् प्राणः सर्वाण्य् अङ्गान्य् अनुसञ्चरत्य् आग्नेयी वा एषा वर्णेन स्वेन वा एतच् छन्दसाग्निश् चीयते नाध्वर्युः सन् नार्त्तिम् आर्छति य एवं वेद

॥३.२.८॥

उत्सन्नयज्ञो वा एष यद् अग्निश् चित्यः को ह तद् वेद यद् एतस्य क्रियते यन् नाश्विनौ वै देवानां भिषजा अकॢप्तस्य कल्पयितारौ यद् एता आश्विनीर् उपधीयन्ते ऽकॢप्तस्य कॢप्त्यै पञ्चोपदधाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धाथो यावान् एव यज्ञस् तम् अचीकॢपद् अथैता आश्विनीर् ऋतव्या अनूपधीयन्ते रेतसे वा एतत् सिक्ताय ऋतून् उपाधात् तस्मात् सर्वेष्व् ऋतुषु रेतो हितं तस्मात् सर्वान् ऋतून् रेतो ऽनुप्रजायते ऽथैता ऋतव्या वायव्या अनूपधीयन्ते तस्मात् सर्वान् ऋतून् वायुर् अन्वावरीवर्त्य् अथैता वायव्या अपस्या अनूपधीयन्ते तस्मात् पशवो नानाव्रताः सन्तो ऽप एवाभि सव्रताश् चतस्रः पुरस्ताद् उपदधाति चतुर्विधं हि शिरः प्राणश् चक्षुः श्रोत्रं वाङ् मूर्धन्वतीभिः सादयति मूर्धन्यो ऽसानीति पञ्चपञ्चाभिता उपदधाति पशोः सवीर्यत्वायाथो सायतनत्वाय तस्मात् पशुः पश्चाद् वरीयाञ् श्रोणिमत्तरस् तस्माद् उ प्राङ् संहान इन्द्राग्नी अव्यथमानाम् इष्टकां दृंहतं युवम् इत्य् अन्तरिक्षं वा एषा चितिर् अन्तरिक्षम् इमाः प्रजा इन्द्राग्नी वै देवानाम् ओजोभृतव् ओजो वीर्यम् इन्द्राग्नी ओजो वा एतद् वीर्यं मध्यतः प्रजानां धीयते ऽथैता दिश्या देवा वै स्वर्गं लोकम् आयंस् ते दिशा आक्रमन्त ता अव्लीयन्त ता एताभिर् अदृंहन् यद् एता उपधीयन्ते दिशां धृत्यै पञ्चोपदधाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध दशैताः पुरस्तात् सादयति दशाक्षरा विराड् विराट् खलु वै चक्षुर् ज्योतिश् छन्दसां चक्षुर् वा एतज् ज्योतिः पुरस्तात् पशोर् दधाति तस्माद् इदं पुरस्ताच् चक्षुर् अथो अन्नं वै विराड् अन्नं वा एतन् मुखतो दधाति मा छन्दः प्रमा छन्दः प्रतिमा छन्दा इतीयं वै मान्तरिक्षं प्रमासौ प्रतिमेमान् एव लोकान् उपधत्ते ऽथो देवछन्दसानि वा एतानि देवछन्दसान्य् एवोपधत्ते द्वादशद्वादशाभिता उपदधाति तत् षट्त्रिंशत् षट्त्रिंशदक्षरा बृहती बृहती खलु वै छन्दसां स्वाराज्यम् आनशे गछति स्वाराज्यं यस्यैता उपधीयन्ते पशवो वै बृहती पशवो मध्यमा चितिस् तस्माद् एतस्यां चित्याम् एता उपधीयन्त आदित्यधामानो वा उत्तरे प्राणा अङ्गिरोधामानो ऽधरे मूर्धासि राड् इति य उत्तरे प्राणास् तान् एताभिर् दाधार यन्त्री राड् इति ये ऽधरे प्राणास् तान् एताभिर् दाधार तद् एषां वावैताः प्राणानां विधृत्यै समावद्भाजः सादयति समावद्भाजो हीमे प्राणाः प्राणानां विधृत्यै यं द्विष्यात् तस्याक्ष्णया सादयेत् प्राणान् अस्य मोहयति प्रमायुको भवति मूर्धन्वतीभिः सादयति मूर्धन्यो ऽसानीति

॥३.२.९॥

त्रिवृद्वतीं पुरस्तात् सादयति त्रिवृद् वै यज्ञमुखं मुखतो वा एतद् यज्ञमुखं ददाति सप्तदशवतीं दक्षिणतो ऽन्नं वै सप्तदशो ऽन्नं वा एतद् दक्षिणतो दधाति तस्माद् दक्षिणेन हस्तेनान्नम् अद्यते तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यवत्तरस् तस्माद् दक्षिणम् अर्धं वयांस्य् अनुपर्यावर्तन्ते पञ्चदशवतीम् उत्तरत ओजो वै पञ्चदश ओजो वा एतद् उत्तरतो दधात्य् एकविंशवतीं पश्चात् प्रतिष्ठित्यै त्रिवृद्वतीं पुरस्तात् सादयति त्रिवृद् वै यज्ञमुखं मुखतो वा एतद् यज्ञमुखं दधाति पञ्चदशवतीं दक्षिणतः सादयति सप्तदशवतीम् उत्तरतः पक्षयोः सवीर्यत्वायाथो सायतनत्वाय तस्माद् उभाभ्यां हस्ताभ्याम् अन्नम् अद्यते ऽथो वज्रो वै पञ्चदशो वज्रेण वा एतद् यजमानो भ्रातृव्यम् उभयतो निर्भजत्य् एकविंशवतीं पश्चात् प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविंशो ऽर्कस्य वा एष विधाम् अनुविधीयते ऽन्नम् अक्रो ऽन्नादो भवति यस्यैता उपधीयन्ते ऽग्नेर् भागो ऽसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमा इति स्पृतो वै नामैता इष्टका एताभिर् वै प्रजापतिर् यद्यद् अकामयत तत्तद् अस्पृणोद् यद्यद् एवैताभिर् यजमानः कामयते तत्तत् स्पृणोत्य् एकयास्तुवत प्रजा अधीयन्तेति सृष्टयो वै नामैता इष्टका एताभिर् वै प्रजापतिर् यद्यद् अकामयत तत्तद् असृजत यद्यद् एवैताभिर् यजमानः कामयते तत्तत् सृजते अग्ने जातान् प्रणुदा नः सपत्नान् इति पुरस्तात् सादयति य एव जाताः सपत्नास् तान् एतया प्रणुदते प्रत्य् अजातान् जातवेदो नुदस्वेति पश्चाद् य एव जाताः सपत्नास् तान् एतया प्रतिनुदते तद् भ्रातृव्यस्य वा एष विनोदश् चतुश्चत्वारिंशी स्तोमो वर्चो द्रविणम् इति दक्षिणतः सादयति षोडशी स्तोमा ओजो द्रविणम् इत्य् उत्तरतश् चतुश्चत्वारिंशदक्षरा वै त्रिष्टुब् वज्रस् त्रिष्टुब् वज्रः षोडशी सव्यापग्रहणो वै वज्रो दक्षिणाप्रहरणः सव्यापग्रहणं वा एतद् वज्रं दक्षिणाप्रहरणं यजमानो भ्रातृव्याय प्रहरति पुरीषवतीं मध्यतः सादयति पुरीषम् इव हीदं मध्यतः पशोः पुरीषं मध्यम् आत्मनः सात्मानम् एवाग्निं चिनुते ऽथैता विराजो वाग् वै विराट् पशवो वा एता इष्टकाः पशुषु वा एतद् उत्तमां वाचं दधाति तस्मात् पशुमान् उत्तमां वाचं वदति ॥

इत्य् उपरिकाण्डे दृषानो नाम द्वितीयः प्रपाठकः

॥३.२.१०॥