skipLink.label

तृतीय काण्ड, प्रपाठक 3

तृतीय काण्ड, प्रपाठक 3

तृतीयकाण्डे तृतीयः प्रपाठकः

तृतीयकाण्डे तृतीयः प्रपाठकः

अथैताः स्तोमभागा एतां वै बृहस्पतिर् असुरेभ्यो ऽधि यज्ञस्य प्रतिष्ठाम् आहरद् यद् एता उपधीयन्ते यज्ञस्य प्रतिष्ठित्यै यज्ञो वै देवानाम् अपद्यत तं देवाः स्तोमभागाभिः प्रत्युदस्तभ्नुवन् यद् एता उपधीयन्ते यज्ञस्योत्तब्ध्यै प्रजापतिर् वा एतत् पृथिव्या अग्नेस् तेजः समभरत् तद् अग्नेर् एवैतत् तेजः सम्भ्रियते ऽथैता नाकसदो नाकं ह वा अस्मा अग्निं चिक्यानाय भवति न वै तत्र किं चन जग्मुषे कं तस्मान् नाकसदो नाकसत्सु पञ्चचूडा अध्युपदधाति स्वर्गस्य लोकस्य समष्ट्यय् एष ह त्व् एव यजमानः पत्नीभिर् अग्निनामुष्मिंल् लोके सम्यङ् यस्यैता उपधीयन्ते ऽथो मध्ये ज्योतिर् एव चीयत एता वा अमुष्मिंल् लोके यजमानस्य पत्नीस् तस्माद् अग्निचिता स्त्री नोपेत्येर्ष्या हि सा पश्चात् प्राचीम् उत्तमाम् उपदधाति पश्चाद् ध्य् एतं प्राची पत्न्य् अन्वास्ते ऽथैताः कॢप्तयः प्रजापतिः प्रजा असृजत ता एनं सृष्टा अत्यमन्यन्त स प्रजापतिर् एता इष्टका अपश्यत् ता उपाधत्त ततो वा अकल्पत यद् एता उपधीयन्ते प्रजानां कॢप्त्यय् अथैता वृष्टिसनयो वृष्टिर् वै देवेभ्यो ऽन्नाद्यम् अपाक्रामत् तत इदं सर्वम् अशुष्यत् ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् एता इष्टका अपश्यत् ता उपाधत्त तेभ्यो वृष्टिम् अन्नाद्यम् अवारुन्द्ध यद् एता उपधीयन्ते वृष्ट्या अन्नाद्यस्यावरुद्ध्यय् आवपनं वा उत्तमा चितिर् अन्याअन्या इष्टका उपदधात्य् अन्यानन्यान् एवास्मै पशून् प्रजनयति प्राणो वै स्वयमातृण्णायुर् वायव्या समीची उपदधात्य् आयुश् चैव प्राणं च सयुजा अकर् अथो समीचीनाभ्यां ह्य् आयुषा च प्राणेन च भुञ्जते प्राणो वै स्वयमातृण्णा ताम् उत्तमाम् उपदधात्य् उत्तमं ह्य् आयुर् यद् अन्याम् उत्तराम् उपदध्यात् प्राणम् अस्यापिदध्यात् प्रमायुकः स्यात् तस्मात् ताम् उत्तमाम् उपदधात्य् उत्तमं ह्य् आयुः

॥३.३.१॥

अथैषा छन्दश्चितिश् छन्दांसि वै देवानां वामं पशवश् छन्दांस्य् एवैतया वामं पशून् यजमानो ऽवरुन्द्ध एतां वै यज्ञसेनश् चैत्र उपदधे स आनर्ध ऋध्नोति य एताम् उपधत्ते गायत्रीभिः पुरस्तात् सादयति तेजो वै गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्द्धे तिस्र उपदधाति त्रिवृद् ध्य् अग्निर् मूर्धन्वतीभिः सादयति मूर्धन्यो ऽसानीति त्रिष्टुब्भिर् दक्षिणत ओजो वै वीर्यं त्रिष्टुब् ओज एव वीर्यम् अवरुन्द्धे जगतीभिः पश्चाद् जागताः पशवः पशून् एवावरुन्द्धे ऽनुष्टुब्भिर् उत्तरतो ऽनुष्टुब् वै सर्वाणि छन्दांसि सर्वाण्य् एवास्य छन्दांस्य् उपहितानि भवन्त्य् अथ पङ्क्तीर् अथ बृहतीर् अथोष्णिहो ऽथ ककुभो ऽथ विराज एवम् अस्य यथापूर्वं छन्दांस्य् उपहितानि भवन्ति द्विपदा उत्तमाः सादयति द्विपाद् यजमानः प्रतिष्ठित्यै छन्दांसि वै देवानां वामं पशवो यजमानायतनं वा आहवनीयो भ्रातृव्यायतनं धिष्ण्या यत् पश्चोपदध्याद् भ्रातृव्यायतने वामं पशून् दध्याद् अथ यत् पुर उपदधाति यजमानायतने वा एतद् वामं पशून् दधात्य् अष्टोपदधात्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तं चिनुते ऽष्टौ गायत्रीभिः पुरस्ताद् बहिःपवमानस्योपदध्याद् यद्य् एनं भ्रातृव्यो ऽतीव स्याद् एकादश त्रिष्टुब्भिः पुरस्तान् माध्यन्दिनस्य पवमानस्य द्वादश जगतीभिः पुरस्ताद् आर्भवस्य पवमानस्यैता एव पश्चात् पवामनानाम् उपदध्याद् यद्य् एनं भ्रातृव्यो ऽतीव स्यात् प्राणो वै पवामानो ऽग्नेस् तेजः पवमानस् तेजसा वा एतद् यजमानो भ्रातृव्यं प्रभूतं प्रणुदते तेजसा प्रतिनुदते तेजसा विनुदते तद् भ्रातृव्यस्य वा एष विनोदो जानुदघ्नं प्रथमं चिन्वानश् चिन्वीत गायत्रीचितं नाभिदघ्नं द्वितीयं चिन्वानश् चिन्वीत त्रिष्टुप्चितं चुबुकदघ्नं तृतीयं चिन्वानश् चिन्वीत जगच्चितं यज् ज्यायांसं चित्वा कनीयांसं चिन्वीत कनीयांसं यज्ञक्रतुम् उपेयात् कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान्त् स्याद् अथ यत् कनीयांसं चित्वा ज्यायांसं चिनुते ज्यायांसम् एव यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् एषा वा अग्नेर् उत्तरवती नाम चितिर् उत्तरमुत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद

॥३.३.२॥

पञ्चचितिकः कार्यः पाङ्क्तो यज्ञः पाङ्क्ताः पशवस् तस्मात् पञ्चचितिकः पञ्च चितयः पञ्च पुरीषाणि तद् विराजं सम्पद्यते तद् यद् विराजं सम्पद्यते तद् अग्नेः स्तोत्रं कार्यं यत् पञ्चचितिकः स्याद् इयाद् विराजो यद् दशचितिक इयाद् यज्ञाच् च पशुभ्यश् च यत् पञ्चचितिकस् तेन यज्ञाच् च पशुभ्यश् च नैत्य् अथ यत् पञ्च चितयः पञ्च पुरीषाणि तेन विराजो नैति तद् उभाभ्यां वावास्मा एतद् वर्णाभ्यां पशून् अवरुन्द्धे यद् एषां पाङ्क्तं यच् च वैराजं द्व्यक्षरं लोम द्व्यक्षरा त्वग् द्व्यक्षरं मांसं द्व्यक्षरम् अस्थि द्व्यक्षरो मज्जा तद् दश दशाक्षरा विराड् वैराजाः पशवः पशून् एवावरुन्द्धे पञ्चचितिकः कार्य इमे वै लोकास् तिस्रश् चितयो यजमानो द्वे यजमानं वा एतद् एषु लोकेषु प्रतिष्ठापयाम् अकः का प्रथमा चितिः किं पुरीषम् इत्य् आहुर् इयं वाव प्रथमा चितिर् ओषधयः पुरीषं का द्वितीया चितिः किं पुरीषम् इत्य् आहुर् अन्तरिक्षं वाव द्वितीया चितिर् वयांसि पुरीषं का तृतीया चितिः किं पुरीषम् इत्य् आहुर् असौ वाव तृतीया चितिर् नक्षत्राणि पुरीषं का चतुर्थी चितिः किं पुरीषम् इत्य् आहुर् यज्ञो वाव चतुर्थी चितिर् दक्षिणा पुरीषं का पञ्चमी चितिः किं पुरीषम् इत्य् आहुर् यजमानो वाव पञ्चमी चितिः प्रजा पुरीषम् एतावद् वा अस्ति यावद् एवास्ति तत् स्पृणोति तद् अवरुन्द्धे ऽथैता ऋतव्याः संवत्सरो वा अग्निर् वैश्वानर एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरस् तस्य वा अहोरात्राण्य् एवेष्टका उपधीयन्ते द्वेद्वे उपदधाति प्रतिष्ठित्यय् अवकाम् उपास्य सादयति शान्त्या अनिर्दाहाय चतस्रो मध्यमायां चित्याम् उपदधात्य् अप्रतिष्ठितम् इव ह्य् अन्तरिक्षं प्रतिष्ठित्यै द्वादशोपदधाति द्वादश मासाः संवत्सरः संवत्सरो वा अग्निर् वैश्वानर एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रियायां वा एतत् तन्वाम् अग्निश् चीयते सतनूर् अर्को निधीयते ऽग्नेर् अन्तःश्लेषो ऽसीत्य् एतस्य ह त्व् एवाग्निः संश्लिष्टो यस्यैता उपधीयन्ते संश्लिष्टो वा एतस्याग्निर् यस्यैता उपधीयन्ते कल्पेतां द्यावापृथिवी इति कल्पते ह वा अस्मा अग्निं चिक्यानाय प्र समानानां ज्यैष्ठ्यम् आप्नोति य एवं वेद सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एव ऋतव्याभिः

॥३.३.३॥

तमो वै स्वर्गं लोकम् अन्तरा तिष्ठत्य् एता वै ज्योतिष्मतीर् इष्टका यद् धिरण्यशकलैः प्रोक्षति विवासयति वा एतद् यजमानाय ज्योतिर् अस्मिन् दधाति सहस्रं भवन्ति साहस्रो वै प्रजापतिः प्रजापतिम् एवाप्नोति यावद् वै सहस्रं तावद् इतो ऽसौ लोकः स्वर्गस्य लोकस्य समष्ट्यईमा मे अग्ना इष्टका धेनवः सन्त्व् इति धेनवो वै नामैता इष्टका एताभिर् वै प्रजापतिर् यद्यद् अकामयत ततद् अदुह यद्यद् एवैताभिर् यजमानः कामयते तत्तद् दुह ऋतुष्ठाः स्थ ऋतावृधा इत्य् ऋतुष्ठा एवैना अकृत ऋतावृधो घृतश्च्युतो मधुश्च्युता इति घृतश्च्युत एवैना अकृत मधुश्च्युत ऊर्जस्वतीः पयस्वतीर् इत्य् ऊर्जस्वतीर् एवैना अकृत पयस्वतीः स्वधायिनीः कुलायिनीर् इति कुलायिनीर् ह्य् एता विराजो नाम कामदुघा इति यत्र वा अदो देवेभ्यः कामदुघाः कामम् अदुह्र तद् एता अपि दुदुह्रे तत् पुष्टिम् एवैताभिर् अवरुन्द्धे ऽमुत्रामुष्मिंल् लोक इत्य् अमुष्मै हि लोकायाग्निश् चीयते रुद्रं वै देवा यज्ञाद् अन्तरायंस् तान् आयतयाभिपर्यावर्तत तस्माद् वा अबिभयुस् ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् एतञ् शतरुद्रियम् अपश्यत् तेनैनम् अशमयत् तद् य एवं वेद वेदाह वा एनं प्रजापतिर् नैनम् एष देवो हिनस्ति यत्र रुद्रः प्रजाः शमायेत तद् उदङ् परेत्येतद् एव वदंश् चक्रम्येत स्वायां वा एतद् दिशि स्वेन भागधेयेन रुद्रं शमयति जानुदघ्ने प्रथमं जुहोत्य् अस्या एवैनं तेन शमयति नाभिदघ्ने द्वितीयम् अन्तरिक्षात् तेन छुबुकदघ्ने तृतीयं दिवस् तेन त्रिर् जुहोति त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो रुद्रं शमयति त्रिर् अमुतः पुनः प्रत्यवहारं जुहोति यान् एवेतो रुद्रान् यजति तान् अमुतो ऽवयजति त्रिर् इतो जुहोति त्रिर् अमुतस् तत् षट् षड् वा ऋतवस् ऋतुभ्यो वा एतद् रुद्रम् अवयजति समावञ्शो विभाजं जुहोति समावद्भाजो हि रुद्राणां भागा द्वासाहानि जुहोति द्वासाहैर् वै स तम् अशमयद् द्वासाहैर् एवैनं शमयत्य् अर्कपर्णेन जुहोति द्वासाहैर् वै स तम् अशमयद् द्वासाहैर् एवैनं शमयत्य् अर्कपर्णेन जुहोत्य् अर्केण वा एतद् अर्कम् अवयजति यत् पात्रेण जुहुयाद् रुद्रं प्रजास्व् अन्ववनयेत् तस्माद् आरण्येन जुहोति पशुर् वा अग्निः स वै तर्ह्य् एव जायते यर्हि चीयते स भागधेयम् इछति यथा वत्सो जातः स्तनम् इछति सो ऽध्वर्युं च यजमानं च प्रेक्षते यञ् शतरुद्रियं जुहोति स्वेनैवैनं भागधेयेन शमयति यासा उत्तरार्धे जघनार्धे श्रोणिस् तस्यां होतव्यं स्वायां वा एतद् दिशि स्वेन भागधेयेन प्रतिहृत्य रुद्रं शमयति अङ्गिरसो वै स्वर्यन्तो ऽजायां घर्मं प्रासिञ्चन् सा शोचन्ती पर्णं परामृशत् सो ऽर्को ऽभवद् यद् अर्कपर्णेन जुहोत्य् अर्केण वा एतद् अर्कम् अवयजति यं द्विष्यात् तस्य पशूनां सञ्चरे न्यस्येद् यः प्रथम आक्रमति स आर्तिम् आर्छति

॥३.३.४॥

एतल् : फ़्न् एमेन्देद्। एद्।: एतं

जुहोति : फ़्न् एमेन्देद्। एद्।: जुहोति

शमयति : फ़्न् व पत्तेर्न् (प्) गेरुन्दिवे, (र्) वा एतत्

ऽर्को : फ़्न् एमेन्देद्। एद्।: ऽर्को।

अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् इत्य् अपः परिषिञ्चन् पर्येति प्रजापतेर् वा एष रसः प्रजापतेर् एव रसेन परिषिञ्चत्य् अश्मंस् ते क्षुद् इत्य् अश्मानम् एव क्षुधार्पयति मयि ता ऊर्ग् इत्य् आत्मन्न् एवोर्जं धत्ते यं द्विष्मस् तं ते शुग् ऋछत्व् इति यम् एव द्वेष्टि तम् अग्नेः शुचार्पयति त्रिः परिषिञ्चन् पर्येति त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो ऽग्नेः शुचं शमयति त्रिः परिषिञ्चन् पर्येति त्रिर् अपरिषिञ्चंस् तत् षट् षड् वा ऋतव ऋतुभ्यो वा एतद् अग्नेः शुचं शमयति यद्य् अभिचरेद् एतद् एव यजुर् वदन्न् अपरिषिञ्चन् पुनः परीयाद् यैवाग्नेः शुक् तयैनम् अर्पयति यद्य् अभिचरेत् ॥ इदम् अहम् अमुष्यामुष्यायणम् अमुष्मात् पुत्रम् अमुष्यां दिशि प्रक्षिणामि ॥ इति कुम्भं जघन्यायां श्रोण्यां प्रक्षिणीयाद् यत् प्रक्षिणाति तस्यैवार्तिम् अन्व् आर्तिम् आर्छत्य् अथ यन् नाम गृह्णात्य् आयतनम् एवास्य छिनत्त्य् आग्नेयपावमान्यां गायत्रं गायते प्राणो वै पवमानः शिरो गायत्री यद् आग्नेयपावमान्यां गायत्रं गायते शीर्षन् वा एतत् प्राणान् दधातीयं वै रथन्तरम् अन्तरिक्षं वामदेव्यम् असौ बृहत् त्रिधातुर् वा एतद् अर्को निधीयत आत्मा वै वामदेव्यं प्रतिष्ठा यज्ञायज्ञियं बृहद्रथन्तरे पक्षौ यद् बृहद्रथन्तरे अभितो गायत आत्मन्न् एव पक्षौ धत्ते यज्ञं वै देवानां रक्षांस्य् अजिघांसंस् तानि बृहद्रथन्तराभ्याम् एवापाघ्नत यद् बृहद्रथन्तरे अभितो गायते रक्षसाम् अपहत्यै प्रजापतेर् हृदयम् अपिपक्षे गायते तस्माद् इदम् अपिपक्ष आत्मनो हृदयम् अनृचं गायते तस्माद् अनस्थकं हृदयम् अर्क्यैः सामभिर् अर्कं परिष्टुवन्ति सतनूर् अर्को निधीयते

॥३.३.५॥

एतल् : फ़्न् एमेन्देद्। एद्।: एतं

वरुणमेनिर् वा एष एतर्ह्य् आभीद्धस् तिष्ठति स एनं तर्ह्य् अधीयात् तस्य प्राणेन वीयान् मण्डूकेनाध्येति तस्यैव प्राणेन व्येति न ग्राम्यान् पशून् हिनस्ति नारण्यान् अवकया विकर्षत्य् अपां वा एषा योनिर् यद् अवकापां वा एतद् योनिनाग्नेः शुचं शमयत्य् अपां वा एतद् रूपं यद् अवकापां वा एतद् रूपेणाग्नेः शुचं शमयति वेतसेनाध्येत्य् अपां वा एतत् पुष्पं यद् वेतसो ऽपां वा एतत् पुष्पेणाग्नेः शुचं शमयति सप्तभिर् विकर्षति सप्त वै छन्दांसि छन्दोभिर् वा एतद् अग्नेः शुचं शमयत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणा वा एतद् अग्नेः शुचं शमयत्य् अग्निर् वै सृष्टो भागधेयम् ऐछत् स प्रजापतिम् एवोपाधावत् तस्मा अन्नं प्रायछत् कन्त्वाय तद् अस्मै कम् अभवद् अन्नं वै कम् अन्नेन वा एतद् अग्निम् उपचरति कन्त्वाय कं हास्मा अग्निं चिक्यानाय भवति पराञ्चम् अध्येति पराङ् हि पशुः शान्तो रथे पराङ् हि पशुः रेतो दधात्य् अन्यांस् ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेत्य् अन्नं वै पावकम् अन्नेन वा एतद् अग्नेः शुचम् अन्तर्धत्ते हिरण्यशकलैर् व्याघारयत्य् अमृतं वै हिरण्यं तेजो ऽग्निर् अमृतेन वा एतत् तेजो व्याघारयति पञ्चभिर् व्याघारयति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध द्वया वै देवा यजमानस्य गृहम् आगछन्ति यद् दध्ना मधुसंश्लिष्टेन व्यवोक्षति तान् एव प्रीणाति सर्वम् अनु व्यवोक्षति सर्वान् एवैनान् प्रीणाति तिसृभिर् व्यवोक्षति त्रिवृद् ध्य् अग्निस् त्रिष्टुब्भिर् व्यवोक्षतीन्द्रियस्यावरुद्ध्यय् अन्नवतीभिर् व्यवोक्षत्य् अन्नाद्यस्यावरुद्ध्यै दर्भगुरुमुष्टिना व्यवोक्षति सं हि प्राजापत्यः प्राणैर् वा एष व्यृध्यते ऽग्निम् अध्येति यद् आह प्राणदा अपानदा इति प्राणान् एवात्मन् धत्ते प्रजया च वा एष पशुभिश् च व्यृध्यते यो ऽग्निम् अध्येति प्रजा वै वर्चः पशवो वरिवो यद् आह वर्चोधा वरिवोधा इति प्रजां चैव पशूंश् चात्मन् धित्वावरोहति

॥३.३.६॥

शमयति : फ़्न् एमेन्देद्। एद्।: शममति।

रथे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

इन्द्रो वै वृत्रम् अहन् स प्राङ् अपद्यत स पद्यमाना इन्द्रं षोडशभिर् भोगैः पर्यगृह्णात् स वा अग्निनैव वृत्रस्य भोगान् अपिदह्य वैश्वकर्मणाभ्यां पाप्मनस् तमसो निरमुच्यताग्निस् तिग्मेन शोचिषेति यज् जुहोत्य् अग्निना वा एतत् पाप्मनो भोगान् अपिदह्य वैश्वकर्मणाभ्यां पाप्मनस् तमसो निर्मुच्यते नाना जुहोति सूक्तयोर् नानावीर्यत्वाय षोडशगृहीतेन जुहोति षोडशभिर् हि स तं भोगैः पर्यगृह्णाद् एतेन वै स वृत्रस्य भोगेभ्यो निरमुच्यत तत् पाप्मन एवैतेन भोगेभ्यो निर्मुच्यते ऽथैतद् अप्रतिरथम् एतेन वै देवा असुरान् प्रत्यजयंस् तद् अप्रतिरथस्याप्रतिरथत्वं तद् अप्रत्य् एवैतेन यजमानो भ्रातृव्यं जयत्य् एतेनैव याजयेत् सङ्ग्रामे जयति सङ्ग्रामम् एतेनैव याजयेद् भ्रातृव्यवन्तं यो वास्य प्रियः स्यात् तं भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एतेन वै भरद्वाजः प्रतर्दनं दैवोदासिं समनह्यत् स राष्ट्रम् अभवद् यं कामयेत राष्ट्रियम् अयं राष्ट्रं स्याद् इति तम् एतेन सन्नह्येद् राष्ट्रं ह भवत्य् एतेन वै देवा विराजम् अभ्यजयन् दशान्वाह दशाक्षरा विराड् विराजम् एवैतेनाभिजयति दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसंस् तानि वा अप्रतिरथेनैवापाघ्नत यद् ब्रह्माप्रतिरथं दक्षिणतो वदन्न् एति रक्षसाम् अपहत्यै

॥३.३.७॥

जयति : फ़्न् एमेन्देद्। एद्।: जयति। च्फ़्। ४।३।४:४३।३

उद् एनम् उत्तरं नयेति समिधा आदधाति प्रह्रियमाणायैवास्मै भागम् अकस् तिस्र आदधाति त्रिवृद् ध्य् अग्निर् उद् उ त्वा विश्वे देवा इति विश्वे हीदं देवाः स्मो यन् मनुष्या अग्ने भरन्तु चित्तिभिर् इति यस्मा एव चित्तायाग्निर् आधीयते तेनैनं चित्तेन समर्धयति पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् इतीमा एवैनं पञ्च दिशो ऽनु तेजस्विनं करोत्य् उक्थपत्रा ईड्यो गृभीत इत्य् उत्थपत्रो ह्य् एष परिगृह्य यज्ञम् आयन्न् इति परिगृह्य ह्य् एतं यन्ति हरिकेशः सूर्यरश्मिः पुरस्ताद् इत्य् असौ वा आदित्यो हरिकेशः सूर्यरश्मिः पुरस्तात् सविता ज्योतिर् उदयं अजस्रम् इत्य् आह प्रसूत्या एव तस्य पूषा प्रसवे याति विद्वान् इति पशवो वै पूषा पशून् एवावरुन्द्धे ततो वाका आशिषो नो जुषन्ताम् इत्य् आशिषां वा एष दोह आशिष एव दुह इन्द्रं विश्वा अवीवृधन्न् इति वृधद्वत्या यन्ति वृद्धिम् एवोपयन्त्य् अनुष्टुभा यन्ति वाग् वा अनुष्टुब् वैश्वदेवी वाग् वैश्वदेवो ऽग्निस् तस्माद् अनुष्टुभा यन्ति षड्भिर् आग्नीध्राद् यन्ति षड् वा ऋतव ऋतुभिर् एव यन्ति विमान एष दिवो मध्य आस्ता इत्य् अश्मानं सादयति विमानो ह्य् असा आदित्यः स्वर्गस्य लोकस्य सुम्नहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षद् इत्य् आशीर् एवैष देवहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षद् इत्य् आशिष एवैष परिग्रहो वाजस्य मा प्रसवेनोद्ग्राभेणोदजिग्रभद् इत्य् असौ वा आदित्य उद्ग्राभ एष निग्राभ उद्यन् वा एतद् यजमानम् उद्गृह्णाति निम्रोचन्न् अस्य भ्रातृव्यं निगृह्णात्य् उद्ग्राभश् च निग्राभश् चेति ब्रह्म वा उद्ग्राभो ब्रह्म निग्राभो ब्रह्मणा वा एतद् यजमानम् उद्गृह्णाति ब्रह्मणास्य भ्रातृव्यं निगृह्णात्य् अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् इत्य् ओजो वै वीर्यम् इन्द्राग्नी ओजसा वा एतद् वीर्येण यजमानो भ्रातृव्यं विष्वञ्चं विनुदते चतुर्भिर् आहवनीयाद् यन्ति चत्वारि वै छन्दांसि छन्दोभिर् एव यन्त्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैव यन्ति

॥३.३.८॥

स्मो : फ़्न् चोर्रिगेन्द। एद्।: स्मो।

भरन्तु : फ़्न् एमेन्देद्। एद्।: भरन्त। ह्, ब्ब्: भरन्त। ब्: भरन्तु। च्फ़्। २।७।१०:८७।९

उक्थपत्रा : फ़्न् एमेन्देद्। एद्।: उत्थपत्रा। २।१०।५:१३६।१७: उक्थपत्रा

क्रमध्वम् अग्निना नाकम् इत्य् आह स्वर्गस्य लोकस्य समष्ट्यै दिवः पृष्ठं स्वर् गत्वेति पृष्ठेन हि यन्त्य् ऊर्जं नो धेहि द्विपदे चतुष्पदा इति द्विपात्सु चैव चतुष्पात्सु च पशुषूर्जं दधातीयक्षमाणा भृगुभिः सहेति भृगवो ह्य् अग्रे यज्ञेनार्ध्नुवन्न् ऋद्ध्यै पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् इत्य् एषां वा एष लोकानां समारोहः पञ्चभिर् आक्रमते पाङ्क्तो यज्ञो यज्ञेन वा एतद् यज्ञम् अभ्यारोहत्य् अप्रतिनोदाय कृष्णायाः श्वेतवत्सायाः पयसा जुहोत्य् अहर् वै वत्सो रात्रिर् माताह्ने वा एतद् रात्रीं प्रदापयति प्रत्ते ह वा अहोरात्रे दुहे य एवं वेद सर्वे वै पशवो नानारूपाः सन्तः पय एव प्रत्य् एकरूपा यद् एव प्रत्येकरूपास् तद् एनान् प्रत्य् अवरुन्द्धे नक्तोषासाग्ने सहस्राक्ष सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीदेत्य् एष वा एतल् लोकेषु ज्योतिष्मन्तम् अग्निं निधत्ते ऽथो प्राणानां विधृत्यै द्वाभ्यां सादयति द्विपाद् यजमानः प्रतिष्ठित्यय् आजुह्वानः सुप्रतीकः पुरस्ताद् इत्य् आह स्वर्गस्य लोकस्य समष्ट्यै तां सवितुर् वरेण्यस्य चित्राम् इत्य् एतं वै कण्वः श्रावयसो ऽग्नेर् दोहं विदाञ्चकाराग्नेर् वा एष दोहो ऽग्निं वा एतेनाग्निचिद् दुहे सर्वान् ह वा अस्मा अग्निर् दोहान्त् सर्वान् कामान् दुहे य एवं वेद विधेम ते परमे जन्मन्न् अग्ना इत्य् आह ऋद्ध्या एव प्रेद्धो अग्ने दीदिहि पुरो ना इत्य् एषा वै कर्णकवती सूर्म्य् अजस्रं ज्योतिर् अजस्रं वावास्मा एतज् ज्योतिर् अप्यधाद् एतां वै वासिष्ठः सात्यहव्यः सत्त्रिणा आसीनान् पप्रछ विद कर्णकवतीं सूर्मीम् इति विद्मेति होचुर् या वनेषु तां विद्मेति पशवो वा एतस्याः कर्णाः पशुमान् भवत्य् एतां वै वज्रं शतघ्नीं विघ्नीं देवा असुरेभ्य उपप्रावर्तयंस् तेषां शततर्हम् अतृंहंस् तद् एताम् एव वज्रं शतघ्नीं विघ्नीं यजमानो भ्रातृव्यायोपप्रावर्तयति शततर्हं ह तृंहत्य् अग्ने तम् अद्येति पङ्क्त्या जुहोति यजमानो वै पङ्क्तिर् यजमानं वा एतद् विराजि प्रतिष्ठापयाम् अकर् अथो पङ्क्त्यैवाहुत्या यज्ञम् आलभते सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् एतावतीर् वा अग्नेस् तन्वः षोढा सप्तसप्त यो वा अस्यैता अग्निं चिक्यानो वितर्षयति वि ह तृष्यति ता एवास्य तर्पयति चितिं जुहोमि मनसेत्य् एषा वा अग्नेर् अदाभ्याहुतिर् वैश्वकर्मणी नैनं भ्रातृव्यो दभ्नोत्य् अग्निं चिक्यानं प्र समानाना ज्यैष्ठ्यम् आप्नोति य एवं वेदाग्निर् वा अमन्यत न वा अहम् इदम् अभागधेयस् तेजो यंस्यामीति तद् एतेन भागधेयेनायछद् एतद् वा अग्निर् अग्निहोत्रम् अग्निं वा एतेनाग्निचिद् यछति सर्वान् ह वा अस्मा अग्निर् दोहान्त् सर्वान् कामान् दुहे य एवं वेद सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एवाग्निर् अग्निहोत्रेण

॥३.३.९॥

एकरूपा : फ़्न् ⟨ एकरूपास्

एकरूपा : फ़्न् चोर्रिगेन्द। एद्।: एकरूपा।

एतल् : फ़्न् एमेन्देद्। एद्।: एतं

होचुर् : फ़्न् चोर्रिगेन्द। एद्।: होतुर्।

अतृंहन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

तृंहति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अथैषो ऽग्नये वैश्वानराय द्वादशकपालः संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव प्रीणात्य् अथो प्राहृतायैवास्मै भागम् अकर् आहुतीनां वै प्रतिष्ठित्या यजमानः प्रतितिष्ठत्य् आहुतीनाम् अप्रतिष्ठित्या न प्रतितिष्ठति यद् एतं जुहोत्य् आहुतीनां प्रतिष्ठित्यै ताः प्रतितिष्ठन्तीर् यज्ञो ऽनुप्रतितिष्ठति यज्ञं यजमानो ऽथो कामो वै वैश्वानरो यत्कामो भवति सं हास्मै स कामो नमति यत् प्राङ् पर्यावर्तेत दैवीर् विशो मुह्येयुर् यद् दक्षिणा यमदेवत्या स्याद् यत् प्रत्यङ् सौर्यो यद् उदङ् रौद्र ऋजु होतव्यः प्रतिष्ठित्यै सर्वहुतं करोति प्रतिष्ठित्यै क्षत्रं वै वैश्वानरो विण् मारुता यद् एतं हुत्वा मारुतान् जुहोति विशं वा एतत् क्षत्राय नियुनक्त्य् अथो विशम् एव क्षत्रायानुकां करोत्य् अग्निमुखान् वै प्रजापतिः पशून् असृजत पशवो मारुता यद् एतं हुत्वा मारुतान् जुहोत्य् अग्निमुखान् एवास्मै प्रजापतिः पशून् प्रजनयति सप्तकपाला भवन्ति सप्तसप्त मारुता गणास् तस्मात् सप्तकपाला गणेनगणेन जुहोति गणश एव मरुतः प्रीणाति यो ऽरण्ये ऽनुवाक्यो गणस् तन् मध्यतो जुहुयात् क्षत्रं वा एष मरुतां विड् इतरे विशो वा एतत् क्षत्रं मध्यमेष्ठं करोति यदि कामयेत विशा क्षत्रं हन्याम् इति यो ऽरण्ये ऽनुवाक्यो गणस् तम् इतरैर् गणैर् मोहयेद् विशा वा एतत् क्षत्रं हन्ति यदि कामयेत क्षत्रेण विशं हन्याम् इति यो ऽरण्ये ऽनुवाक्यो गणस् तेनेतरान् गणान् मोहयेत् क्षत्रेण वा एतद् विशं हन्ति तस्य त्रिष्टुभौ याज्यानुवाक्ये स्याताम् ओजो वै वीर्यं त्रिष्टुब् ओजो वा एतद् वीर्यं विश आदाय क्षत्रायापिदधाति यदि कामयेत क्षत्रेणास्य क्षत्रं हन्यां प्र स्वाद् आयतनाच् च्यवेतेति यो ऽरण्ये ऽनुवाक्यो गणस् तेनाग्निष्ठं रथवाहनं व्यङ्गयेत् क्षत्रं वा एष मरुताम् अग्निष्ठं रथवाहनं क्षत्रियस्य क्षत्रं बिभर्ति क्षत्रेणैवास्य क्षत्रं हन्ति प्र स्वाद् आयतनाच् च्यवत इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्माना इत्य् एतद् वै देवानाम् अनुवर्त्म दैवीं च वावास्मा एतद् विशं मानुषीं चानुवर्त्मानौ करोति सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एव मारुतैः ॥

इत्य् उपरिकाण्डे स्तोमभागो नाम तृतीयः प्रपाठकः

॥३.३.१०॥