८ कुशिकः सौभरः, रात्रिर्वा भारद्वाजी। रात्रिः। गायत्री।
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१क्षभि॑: । विश्वा॒ अधि॒ श्रियो॑ऽधित
॥१॥ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१द्वत॑: । ज्योति॑षा बाधते॒ तम॑:
॥२॥निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती । अपेदु॑ हासते॒ तम॑:
॥३॥सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं वय॑:
॥४॥नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिण॑: । नि श्ये॒नास॑श्चिद॒र्थिन॑:
॥५॥या॒वया॑ वृ॒क्यं१ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये । अथा॑ नः सु॒तरा॑ भव
॥६॥उप॑ मा॒ पेपि॑श॒त्तम॑: कृ॒ष्णं व्य॑क्तमस्थित । उष॑ ऋ॒णेव॑ यातय
॥७॥उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑
॥८॥